भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गहृदयसूत्र · अध्याय 120

120.1

उत्तरस्थान
वाजी-करणम् अन्विच्छेत् सततं विषयी पुमान् ।
तुष्टिः पुष्टिर् अपत्यं च गुण-वत् तत्र संश्रितम्

120.2

अपत्य-संतान-करं यत् सद्यः संप्रहर्षणम् ।
वाजीवाति-बलो येन यात्य् अ-प्रतिहतो ऽङ्गनाः

120.3

भवत्य् अति-प्रियः स्त्रीणां येन येनोपचीयते ।
तद् वाजी-करणं तद् धि देहस्योर्जस्-करं परम्

120.4

40.3द्व् देहस्यौजस्-करं परम्
धर्म्यं यशस्यम् आयुष्यं लोक-द्वय-रसायनम् ।
अनुमोदामहे ब्रह्म-चर्यम् एकान्त-निर्मलम्

120.5

40.4अव् धन्यं यशस्यम् आयुष्यं 40.4ब्व् लोक-द्वय-सुखावहम् 40.4ब्व्
लोक-द्वय-हितावहम्
अल्प-सत्-त्वस्य तु क्लेशैर् बाध्यमानस्य रागिणः ।
शरीर-क्षय-रक्षार्थं वाजी-करणम् उच्यते

120.6

40.5अव् अल्प-सत्-त्वस्य च क्लेशैर् 40.5अव् अल्प-सत्-त्वस्य चोत्क्लेशैर् 40.5ब्व्
बाध्यमानस्य रोगिणः
कल्यस्योदग्र-वयसो वाजी-करण-सेविनः ।
सर्वेष्व् ऋतुष्व् अहर् अहर् व्यवायो न निवार्यते

120.7

40.6अव् कल्पस्योदग्र-वयसो
अथ स्निग्ध-विशुद्धानां निरूहान् सानुवासनान् ।
घृत-तैल-रस-क्षीर-शर्करा-क्षौद्र-संयुतान्

120.8

योग-विद् योजयेत् पूर्वं क्षीर-मांस-रसाशिनाम् ।
ततो वाजी-करान् योगान् शुक्रापत्य-बल-प्रदान्

120.9

40.8द्व् शुक्रापत्य-विवर्धनान्
अ-च्छायः पूति-कुसुमः फलेन रहितो द्रुमः ।
यथैकश् चैक-शाखश् च निर्-अपत्यस् तथा नरः

120.10

स्खलद्-गमनम् अ-व्यक्त-वचनं धूलि-धूसरम् ।
अपि लालाविल-मुखं हृदयाह्लाद-कारकम्

120.11

40.10द्व् हृदयाह्लाद-कारिणम्
अपत्यं तुल्य-तां केन दर्शन-स्पर्शनादिषु ।
किं पुनर् यद् यशो-धर्म-मान-श्री-कुल-वर्धनम्

120.12

40.11अव् अपत्यं तुल्य-ता केन 40.11च्व् किं पुनर् यो यशो-धर्म- 40.11द्व्
-मान-श्री-कुल-वर्धनः
40.11द्व् -मान-श्री-कुल-वर्धनात्
शुद्ध-काये यथा-शक्ति वृष्य-योगान् प्रयोजयेत् ।
शरेक्षु-कुश-काशानां विदार्या वीरणस्य च

120.13

40.12अव् शुद्धे काये यथा-शक्ति
मूलानि कण्टकार्याश् च जीवकर्षभकौ बलाम् ।
मेदे द्वे द्वे च काकोल्यौ शूर्पपर्ण्यौ शतावरीम्

120.14

अश्वगन्धाम् अतिबलां आत्मगुप्तां पुनर्नवाम् ।
वीरां पयस्यां जीवन्तीम् ऋद्धिं रास्नां त्रिकण्टकम्

120.15

मधुकं शालिपर्णीं च भागांस् त्रि-पलिकान् पृथक् ।
माषाणाम् आढकं चैतद् द्वि-द्रोणे साधयेद् अपाम्

120.16

रसेनाढक-शेषेण पचेत् तेन घृताढकम् ।
दत्त्वा विदारी-धात्रीक्षु-रसानाम् आढकाढकम्

120.17

घृताच् चतुर्-गुणं क्षीरं पेष्याणीमानि चावपेत् ।
वीरां स्वगुप्तां काकोल्यौ यष्टीं फल्गूनि पिप्पलीम्

120.18

40.17द्व् यष्टिकं गज-पिप्पलीम्
द्राक्षां विदारीं खर्जूरं मधुकानि शतावरीम् ।
तत् सिद्ध-पूतं चूर्णस्य पृथक् प्रस्थेन योजयेत्

120.19

शर्करायास् तुगायाश् च पिप्पल्याः कुडवेन च ।
मरिचस्य प्रकुञ्चेन पृथग् अर्ध-पलोन्मितैः

120.20

त्वग्-एला-केसरैः श्लक्ष्णैः क्षौद्र-द्वि-कुडवेन च ।
पल-मात्रं ततः खादेत् प्रत्य्-अहं रस-दुग्ध-भुक्

120.21

40.20ब्व् क्षौद्राद् द्वि-कुडवेन च 40.20द्व् प्रत्य्-अहं मधु-दुग्ध-भुक्
तेनारोहति वाजीव कुलिङ्ग इव हृष्यति ।
विदारी-पिप्पली-शालि-प्रियालेक्षुरकाद् रजः

120.22

पृथक् स्वगुप्ता-मूलाच् च कुडवांशं तथा मधु ।
तुलार्धं शर्करा-चूर्णात् प्रस्थार्धं नव-सर्पिषः

120.23

सो ऽक्ष-मात्रम् अतः खादेत् यस्य रामा-शतं गृहे ।
सात्मगुप्ता-फलान् क्षीरे गोधूमान् साधितान् हिमान्

120.24

40.23ब्व् यस्य कान्ता-शतं गृहे
माषान् वा स-घृत-क्षौद्रान् खादन् गृष्टि-पयो-ऽनुपः ।
जागर्ति रात्रिं सकलाम् अ-खिन्नः खेदयन् स्त्रियः

120.25

बस्ताण्ड-सिद्धे पयसि भावितान् अ-सकृत् तिलान् ।
यः खादेत् स-सितान् गच्छेत् स स्त्री-शतम् अ-पूर्व-वत्

120.26

40.25ब्व् भावितान् बहु-शस् तिलान्
चूर्णं विदार्या बहु-शः स्व-रसेनैव भावितम् ।
क्षौद्र-सर्पिर्-युतं लीढ्वा प्रमदा-शतम् ऋच्छति

120.27

40.26द्व् प्रमदा दश गच्छति
कृष्णा-धात्री-फल-रजः स्व-रसेन सु-भावितम् ।
शर्करा-मधु-सर्पिर्भिर् लीढ्वा यो ऽनु पयः पिबेत्

120.28

40.27अव् कृष्ण-धात्री-फल-रजः
स नरो ऽशीति-वर्षो ऽपि युवेव परिहृष्यति ।
कर्षं मधुक-चूर्णस्य घृत-क्षौद्र-समन्वितम्

120.29

40.28द्व् घृत-क्षौद्र-समांशकम्
पयो-ऽनु-पानं यो लिह्यान् नित्य-वेगः स ना भवेत् ।
कुलीरशृङ्ग्या यः कल्कम् आलोड्य पयसा पिबेत्

120.30

सिता-घृत-पयो-ऽन्नाशी स नारीषु वृषायते ।
यः पयस्यां पयः-सिद्धां खादेन् मधु-घृतान्विताम्

120.31

पिबेद् बाष्कयणं चानु क्षीरं न क्षयम् एति सः ।
स्वयङ्गुप्तेक्षुरकयोर् बीज-चूर्णं स-शर्करम्

120.32

40.31अव् पिबेद् बाष्कयिणं चानु
धारोष्णेन नरः पीत्वा पयसा रासभायते ।
उच्चटा-चूर्णम् अप्य् एवं शतावर्याश् च योजयेत्

120.33

चन्द्र-शुभ्रं दधि-सरं स-सिता-षष्टिकौदनम् ।
पटे सु-मार्जितं भुक्त्वा वृद्धो ऽपि तरुणायते

120.34

40.33च्च् पटे सु-भावितं भुक्त्वा
श्वदंष्ट्रेक्षुर-माषात्मगुप्ता-बीज-शतावरीः ।
पिबन् क्षीरेण जीर्णो ऽपि गच्छति प्रमदा-शतम्

120.35

40.34च्व् पिबेत् क्षीरेण जीर्णो ऽपि
यत् किञ्-चिन् मधुरं स्निग्धं बृंहणं बल-वर्धनम् ।
मनसो हर्षणं यच् च तत् सर्वं वृष्यम् उच्यते

120.36

द्रव्यैर् एवं-विधैस् तस्माद् दर्पितः प्रमदां व्रजेत् ।
आत्म-वेगेन चोदीर्णः स्त्री-गुणैश् च प्रहर्षितः

120.37

40.36ब्व् भावितः प्रमदां व्रजेत्
सेव्याः सर्वेन्द्रिय-सुखा धर्म-कल्प-द्रुमाङ्कुराः ।
विषयातिशयाः पञ्च शराः कुसुम-धन्वनः

120.38

40.37द्व् शराः कुसुम-धन्विनः
इष्टा ह्य् एकैक-शो ऽप्य् अर्था हर्ष-प्रीति-कराः परम् ।
किं पुनः स्त्री-शरीरे ये संघातेन प्रतिष्ठिताः

120.39

40.38च्व् किं पुनः स्त्री-शरीरेषु
नामापि यस्या हृदयोत्सवाय यां पश्यतां तृप्तिर् अन्-आप्त-पूर्वा ।
सर्वेन्द्रियाकर्षण-पाश-भूता कान्तानुवृत्ति-व्रत-दीक्षिता या

120.40

40.39ब्व् यां पश्यतस् तृप्तिर् अन्-आप्त-पूर्वा
कला-विलासाङ्ग-वयो-विभूषा शुचिः स-लज्जा रहसि प्रगल्भा ।
प्रियं-वदा तुल्य-मनः-शया या सा स्त्री वृष्य-त्वाय परं नरस्य

120.41

40.40च्व् प्रियं-वदा तुल्य-मनः-स्व-भावा
आचरेच् च सकलां रति-चर्यां काम-सूत्र-विहिताम् अन्-अ-वद्याम् ।
देश-काल-बल-शक्त्य्-अनुरोधाद् वैद्य-तन्त्र-समयोक्त्य्-अ-विरुद्धाम्

120.42

40.41ब्व् काम-शास्त्र-विहिताम् अन्-अ-वद्याम्
अभ्यञ्जनोद्वर्तन-सेक-गन्ध-स्रक्-चित्र-वस्त्राभरण-प्रकाराः ।
गान्धर्व-काव्यादि-कथा-प्रवीणाः सम-स्व-भावा वश-गा वयस्याः

120.43

40.42ब्व् -स्रग्-अन्न-वस्त्राभरण-प्रकाराः 40.42च्व्
गन्धर्व-कन्यादि-कथा-प्रवीणाः
दीर्घिका स्व-भवनान्त-निविष्टा पद्म-रेणु-मधु-मत्त-विहङ्गा ।
नील-सानु-गिरि-कूट-नितम्बे काननानि पुर-कण्ठ-गतानि

120.44

40.43अव् दीर्घिकाः स्व-भवनान्त-निविष्टाः 40.43ब्व्
पद्म-रेणु-मधु-मत्त-विहङ्गाः
40.43च्व् नील-सानु-गिरि-कूट-नितम्बाः
दृष्टि-सुखा विविधा तरु-जातिः श्रोत्र-सुखः कल-कोकिल-नादः ।
अङ्ग-सुखर्तु-वशेन विभूषा चित्त-सुखः सकलः परिवारः

120.45

40.44ब्व् श्रोत्र-सुखाः कल-कोकिल-नादाः 40.44च्व् अङ्ग-सुखर्तु विशेष-विभूषा
ताम्बूलम् अच्छ-मदिरा कान्ता कान्ता निशा शशाङ्काङ्का ।
यद् यच् च किञ्-चिद् इष्टं मनसो वाजी-करं तत् तत्

120.46

40.45ब्व् कान्ताः कान्ता निशाः शशाङ्काङ्काः 40.45द्व् मनसो वाजी-करं हि तत्
मधु मुखम् इव सोत्पलं प्रियायाः कल-रणना परिवादिनी प्रियेव ।
कुसुम-चय-मनो-रमा च शय्या किसलयिनी लतिकेव पुष्पिताग्रा

120.47

40.46ब्व् कल-रणना प्रिय-वादिनी प्रियेव 40.46च्व् कुसुम-चय-मनो-हरा च
शय्या
देशे शरीरे च न का-चिद् अर्तिर् अर्थेषु नाल्पो ऽपि मनो-विधानः ।
वाजी-कराः संनिहिताश् च योगाः कामस्य कामं परिपूरयन्ति

120.49

40.47अव् देशे शरीरे न कदा-चिद् अर्तिर् 40.47ब्व् अर्थेषु नाल्पो ऽपि मनो-ऽभिघातः
मुस्ता पर्पटकं ज्वरे तृषि जलं मृद्-भृष्ट-लोष्टोद्भवं ॥ 48अ ॥
लाजाश् छर्दिषु वस्ति-जेषु गिरिजं मेहेषु धात्री-निशे ॥ 48ब् ॥
पाण्डौ श्रेष्ठम् अयो ऽभयानिल-कफे प्लीहामये पिप्पली ॥ 48च् ॥
संधाने कृमिजा विषे शुकतरुर् मेदो-ऽनिले गुग्गुलुः ॥ 48द् ॥
वृषो ऽस्र-पित्ते कुटजो ऽतिसारे भल्लातको ऽर्शःसु गरेषु हेम ।
स्थूलेषु तार्क्ष्यं कृमिषु कृमिघ्नं शोषे सुरा छाग-पयो ऽथ मांसम्

120.50

40.49ब्व् भल्लातम् अर्शःसु गरेषु हेम
अक्ष्य्-आमयेषु त्रि-फला गुडूची वातास्र-रोगे मथितं ग्रहण्याम् ।
कुष्ठेषु सेव्यः खदिरस्य सारः सर्वेषु रोगेषु शिलाह्वयं च

120.51

उन्मादं घृतम् अ-नवं शोकं मद्यं व्यपस्मृतिं ब्राह्मी ।
निद्रा-नाशं क्षीरं जयति रसाला प्रतिश्यायम्

120.52

40.51ब्व् शोकं मद्यं विसंस्मृतिं ब्राह्मी
मांसं कार्श्यं लशुनः प्रभञ्जनं स्तब्ध-गात्र-तां स्वेदः ।
गुडमञ्जर्याः खपुरो नस्यात् स्कन्धांस-बाहु-रुजम्

120.53

40.52द्व् नस्यं स्कन्धांस-बाहु-रुजम्
नव-नीत-खण्ड-मर्दितम् औष्ट्रं मूत्रं पयश् च हन्त्य् उदरम् ।
नस्यं मूर्ध-विकारान् विद्रधिम् अ-चिरोत्थितम् अस्र-विस्रावः

120.54

40.53ब्व् औष्ट्री-मूत्रं पयश् च हन्त्य् उदरम् 40.53च्व् नस्यं चोर्ध्व-विकारान्
40.53च्व् नस्यं मूर्ध्नि विकारान्
नस्यं कवडो मुख-जान् नस्याञ्जन-तर्पणानि नेत्र-रुजः ।
वृद्धस्य क्षीर-घृते मूर्छां शीताम्बु-मारुत-च्छायाः

120.55

40.54अव् नस्यं कवडं मुख-गदान् 40.54अव् नस्यं केवलं मुख-गदान्
40.54अव् नस्यं कवडं मुख-जान्
सम-शुक्तार्द्रक-मात्रा मन्दे वह्नौ श्रमे सुरा स्नानम् ।
दुःख-सह-त्वे स्थैर्ये व्यायामो गोक्षुरुर् हितः कृच्छ्रे

120.56

40.55अव् सम-शुष्कार्द्रक-मात्रा 40.55ब्व् मन्दे वह्नौ श्रमे सुरा-पानम्
40.55च्व् दुःख-सह-त्वं स्थैर्ये 40.55च्व् दुःख-सह-त्वं स्थौल्ये
कासे निदिग्धिका पार्श्व-शूले पुष्कर-जा जटा ।
वयसः स्थापने धात्री त्रि-फला गुग्गुलुर् व्रणे

120.57

40.56अव् कासे निदिग्धिका-पानं 40.56ब्व् पार्श्व-शूले च पौष्करम् 40.56च्व्
वयः-संस्थापने धात्री
वस्तिर् वात-विकारान् पैत्तान् रेकः कफोद्भवान् वमनम् ।
क्षौद्रं जयति बलासं सर्पिः पित्तं समीरणं तैलम्

120.58

इत्य् अग्र्यं यत् प्रोक्तं रोगाणाम् औषधं शमायालम् ।
तद् देश-काल-बलतो विकल्पनीयं यथा-योगम्

120.59

इत्य् आत्रेयाद् आगमय्यार्थ-सूत्रं तत्-सूक्तानां पेशलानाम् अ-तृप्तः ।
भेडादीनां संमतो भक्ति-नम्रः पप्रच्छेदं संशयानो ऽग्निवेशः

120.60

40.59अव् इत्य् आत्रेयाद् आगमाद् आर्थ-सूक्ष्मं 40.59अव् इत्य् आत्रेयाद्
आगमय्यार्थ-सूक्ष्मं
40.59ब्व् तत्-सूक्तीनां पेशलानाम् अ-तृप्तः
दृश्यन्ते भग-वन् के-चिद् आत्म-वन्तो ऽपि रोगिणः ।
द्रव्योपस्थातृ-संपन्ना वृद्ध-वैद्य-मतानुगाः

120.61

क्षीयमाणामय-प्राणा विपरीतास् तथा ऽपरे ।
हिता-हित-विभागस्य फलं तस्माद् अ-निश्चितम्

120.62

किं शास्ति शास्त्रम् अस्मिन् इति कल्पयतो ऽग्निवेश-मुख्यस्य ।
शिष्य-गणस्य पुनर्वसुर् आचख्यौ कार्त्स्न्यतस् तत्-त्वम्

120.63

40.62द्व् आचक्षे कार्त्स्न्यतस् तत्-त्वम्
न चिकित्सा-चिकित्सा च तुल्या भवितुम् अर्हति ।
विनापि क्रियया स्वास्थ्यं गच्छतां षो-डशांशया

120.64

आतङ्क-पङ्क-मग्नानां हस्तालम्बो भिषग्-जितम् ।
जीवितं म्रियमाणानां सर्वेषाम् एव नौषधात्

120.65

40.64द्व् सर्वेषाम् एव नौषधम्
न ह्य् उपायम् अपेक्षन्ते सर्वे रोगा न चान्य-था ।
उपाय-साध्याः सिध्यन्ति ना-हेतुर् हेतु-मान् यतः

120.66

40.65द्व् नो ऽ-हेतुर् हेतु-मांस् ततः
यद् उक्तं सर्व-संपत्ति-युक्तयापि चिकित्सया ।
मृत्युर् भवति तन् नैवं नोपाये ऽस्त्य् अन्-उपाय-ता

120.67

40.66द्व् नोपायेष्व् अन्-उपाय-ता
अपि चोपाय-युक्तस्य धी-मतो जातु चित् क्रिया ।
न सिध्येद् दैव-वैगुण्यान् न त्व् इयं षो-डशात्मिका

120.68

40.67अव् अप्य् एवोपाय-युक्तस्य 40.67च्व् न सिद्धिर् दैव-वैगुण्यान् 40.67द्व्
न न्व् इयं षो-डशात्मिका
कस्या-सिद्धो ऽग्नि-तोयादिः स्वेद-स्तम्भादि-कर्मणि ।
न प्रीणनं कर्षणं वा कस्य क्षीरं गवेधुकम्

120.69

40.68च्व् न प्रीणनं कर्शनं वा 40.68द्व् कस्य क्षीर-गवेधुकम्
कस्य माषात्मगुप्तादौ वृष्य-त्वे नास्ति निश्चयः ।
विण्-मूत्र-करणाक्षेपौ कस्य संशयितौ यवे

120.70

40.69अव् कस्य माषात्मगुप्ताद्यैर् 40.69ब्व् वृष-त्वे नास्ति निश्चयः
विषं कस्य जरां याति मन्त्र-तन्त्र-विवर्जितम् ।
कः प्राप्तः कल्य-तां पथ्याद् ऋते रोहिणिकादिषु

120.71

40.70च्व् कः प्राप्तः कल्प-तां पथ्याद्
अपि चा-काल-मरणं सर्व-सिद्धान्त-निश्चितम् ।
महतापि प्रयत्नेन वार्यतां कथम् अन्य-था

120.72

चन्दनाद्य् अपि दाहादौ रूढम् आगम-पूर्वकम् ।
शास्त्राद् एव गतं सिद्धिं ज्वरे लङ्घन-बृंहणम्

120.73

चतुष्-पाद्-गुण-संपन्ने सम्यग् आलोच्य योजिते ।
मा कृथा व्याधि-निर्घातं विचिकित्सां चिकित्सिते

120.74

40.73अव् चतुष्-पाद्-गुण-संपूर्णे 40.73च्व् मा कृथा व्याधि-निर्घाते
एतद् धि मृत्यु-पाशानाम् अ-काण्डे छेदनं दृढम् ।
रोगोत्त्रासित-भीतानां रक्षा-सूत्रम् अ-सूत्रकम्

120.75

एतत् तद् अमृतं साक्षाज् जगद्-आयास-वर्जितम् ।
याति हालाहल-त्वं तु सद्यो दुर्-भाजन-स्थितम्

120.76

40.75अव् एतद् वेदामृतं साक्षाज् 40.75ब्व् जगत्य् आयास-वर्जितम् 40.75च्व् याति
हालाहल-त्वं च
अ-ज्ञात-शास्त्र-सद्-भावाञ् छास्त्र-मात्र-परायणान् ।
त्यजेद् दूराद् भिषक्-पाशान् पाशान् वैवस्वतान् इव

120.77

40.76च्व् विवर्जयेद् भिषक्-पाशान्
भिषजां साधु-वृत्तानां भद्रम् आगम-शालिनाम् ।
अभ्यस्त-कर्मणां भद्रं भद्रं भद्राभिलाषिणाम्

120.78

40.77ब्व् बहु-धागम-शालिनाम् 40.77ब्व् भद्रम् आगम-शीलिनाम् 40.77च्व्
अभ्यस्त-कर्मणां सिद्धिर्
इति तन्त्र-गुणैर् युक्तं तन्त्र-दोषैर् विवर्जितम् ।
चिकित्सा-शास्त्रम् अ-खिलं व्याप्य यत् परितः स्थितम्

120.79

40.78ब्व् तन्त्र-दोष-विवर्जितम् 40.78द्व् व्यापठ्य परितः स्थितम्
विपुला-मल-विज्ञान-महा-मुनि-मतानुगम् ।
महा-सागर-गम्भीर-संग्रहार्थोपलक्षणम्

120.80

40.79अव् विपुला-मल-विज्ञानं 40.79च्व् महा-सागर-गम्भीरं 40.79च्व्
महा-मुनि-मतानुगम्
40.79द्व् संग्रहार्थोपलक्षणम् 40.79द्व् संग्रहार्थोपलक्षकम्
अष्टाङ्ग-वैद्यक-महोदधि-मन्थनेन यो ऽष्टाङ्ग-संग्रह-महामृत-राशिर् आप्तः ।
तस्माद् अन्-अल्प-फलम् अल्प-समुद्यमानां प्रीत्य्-अर्थम् एतद् उदितं पृथग् एव तन्त्रम्

120.81

40.80ब्व् यो ऽष्टाङ्ग-संग्रह-महामृत-सार-तुल्यः 40.80द्व् प्रीत्य्-अर्थम् एवम्
उदितं पृथग् एव तन्त्रम्
इदम् आगम-सिद्ध-त्वात् प्रत्यक्ष-फल-दर्शनात् ।
मन्त्र-वत् संप्रयोक्तव्यं न मीमांस्यं कथञ्-च-न

120.82

40.81अव् इदम् आगम-शुद्ध-त्वात् 40.81द्व् न मीमांस्यं कदा-च-न
दीर्घ-जीवितम् आरोग्यं धर्मम् अर्थं सुखं यशः ।
पाठावबोधानुष्ठानैर् अधिगच्छत्य् अतो ध्रुवम्

120.83

40.82अव् दीर्घं जीवितम् आरोग्यं
एतत् पठन् संग्रह-बोध-शक्तः स्व्-अभ्यस्त-कर्मा भिषग् अ-प्रकम्प्यः ।
आकम्पयत्य् अन्य-विशाल-तन्त्र-कृताभियोगान् यदि तन् न चित्रम्

120.84

40.83च्व् यः कम्पयत्य् अन्य-विशाल-तन्त्र-
यदि चरकम् अधीते तद् ध्रुवं सुश्रुतादि-प्रणिगदित-गदानां नाम-मात्रे ऽपि बाह्यः ।
अथ चरक-विहीनः प्रक्रियायाम् अ-क्लिन्नः किम् इव खलु करोतु व्याधितानां वराकः

120.85

40.84ब्व् -प्रणिगदित-गदानां नाम-मात्रेण बाह्यः 40.84ब्व्
-प्रतिगदित-गदानां नाम-मात्रे ऽपि बाह्यः
40.84द्व् किम् इह खलु करोतु व्याधितानां वराकः
अभिनिवेश-वशाद् अभियुज्यते सु-भणिते ऽपि न यो दृढ-मूढकः ।
पठतु यत्न-परः पुरुषायुषं स खलु वैद्यकम् आद्यम् अ-निर्विदः

120.86

वाते पित्ते श्लेष्म-शान्तौ च पथ्यं तैलं सर्पिर् माक्षिकं च क्रमेण ।
एतद् ब्रह्मा भाषतां ब्रह्म-जो वा का निर्-मन्त्रे वक्तृ-भेदोक्ति-शक्तिः

120.87

40.86च्व् एतद् ब्रह्मा भाषते ब्रह्म-जो वा
अभिधातृ-वशात् किं वा द्रव्य-शक्तिर् विशिष्यते ।
अतो मत्सरम् उत्सृज्य माध्यस्थ्यम् अवलम्ब्यताम्

120.88

40.87अव् अभिधातुर् वशात् किञ्-चिद्
ऋषि-प्रणीते प्रीतिश् चेन् मुक्त्वा चरक-सुश्रुतौ ।
भेडाद्याः किं न पठ्यन्ते तस्माद् ग्राह्यं सु-भाषितम्

120.89

हृदयम् इव हृदयम् एतत् सर्वायुर्-वेद-वाङ्-मय-पयो-धेः ।
कृत्वा यच् छुभम् आप्तं शुभम् अस्तु परं ततो जगतः

मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc