अष्टाङ्गहृदयसूत्र · अध्याय 118
उत्तरस्थान
लालनश् चपलः पुत्रो हसिरश् चिक्किरो ऽजिरः ।
कषाय-दन्तः कुलकः कोकिलः कपिलो ऽसितः
38.1ब्व् हसिरश् चिक्रिरो ऽजनः 38.1ब्व् हसिरश् चिक्किरो ऽजरः 38.1ब्व् हसिरश् चिकिलो
ऽजिरः
अरुणः शबरः श्वेतः कपोतः पलितोन्दुरः ।
छुच्छुन्दरो रसालाख्यो दशाष्टौ चेति मूषिकाः
38.2ब्व् कपोतः पलितोन्दुरुः 38.2च्व् छुच्छुन्दरो बलासाख्यो 38.2च्व्
छुच्छुन्दरो रसालाक्षो
38.2द्व् दश चाष्टौ च मूषिकाः
शुक्रं पतति यत्रैषां शुक्र-दिग्धैः स्पृशन्ति वा ।
यद् अङ्गम् अङ्गैस् तत्रास्रे दूषिते पाण्डु-तां गते
ग्रन्थयः श्वयथुः कोठो मण्डलानि भ्रमो ऽ-रुचिः ।
शीत-ज्वरो ऽति-रुक् सादो वेपथुः पर्व-भेदनम्
38.4अव् ग्रन्थयः श्वयथुः कोथो
रोम-हर्षः स्रुतिर् मूर्छा दीर्घ-कालानुबन्धनम् ।
श्लेष्मानुबद्ध-बह्व्-आखु-पोतक-च्छर्दनं स-तृट्
38.5च्व् श्लेष्मानुबन्ध-बह्व्-आखु- 38.5च्व् श्लेष्मानुविद्ध-बह्व्-आखु-
38.5द्व् -पोतक-च्छर्दनं सकृत्
व्यवाय्य् आखु-विषं कृच्छ्रं भूयो भूयश् च कुप्यति ।
मूर्छाङ्ग-शोफ-वैवर्ण्य-क्लेद-शब्दा-श्रुति-ज्वराः
शिरो-गुरु-त्वं लालासृक्-छर्दिश् चा-साध्य-लक्षणम् ।
शून-वस्तिं वि-वर्णौष्ठम् आख्व्-आभैर् ग्रन्थिभिश् चितम्
छुच्छुन्दर-स-गन्धं च वर्जयेद् आखु-दूषितम् ।
शुनः श्लेष्मोल्बणा दोषाः संज्ञां संज्ञा-वहाश्रिताः
मुष्णन्तः कुर्वते क्षोभं धातूनाम् अति-दारुणम् ।
लाला-वान् अन्ध-बधिरः सर्वतः सो ऽभिधावति
स्रस्त-पुच्छ-हनु-स्कन्धः शिरो-दुःखी नताननः ।
दंशस् तेन विदष्टस्य सुप्तं कृष्णं क्षरत्य् असृक्
हृच्-छिरो-रुग्-ज्वर-स्तम्भ-तृष्णा-मूर्छोद्भवो ऽनु च ।
अनेनान्ये ऽपि बोद्धव्या व्याला दंष्ट्रा-प्रहारिणः
38.11अव् हृच्-छिरो-रुग्-ज्वर-स्तम्भस् 38.11अव् हृच्-छिरो-रुग् ज्वरः स्तम्भस्
38.11ब्व् तृष्णा-मूर्छोद्भवो ऽनु च 38.11ब्व् तृष्णा मूर्छोद्भवो ऽनु च
38.11च्व् व्याल-दंष्ट्रा-प्रहारिणः
शृगालाश्वतराश्वर्क्ष-द्वीपि-व्याघ्र-वृकादयः ।
कण्डू-निस्तोद-वैवर्ण्य-सुप्ति-क्लेद-ज्वर-भ्रमाः
विदाह-राग-रुक्-पाक-शोफ-ग्रन्थि-विकुञ्चनम् ।
दंशावदरणं स्फोटाः कर्णिका मण्डलानि च
सर्व-त्र स-विषे लिङ्गं विपरीतं तु निर्-विषे ।
दष्टो येन तु तच्-चेष्टा-रुतं कुर्वन् विनश्यति
पश्यंस् तम् एव चा-कस्माद् आदर्श-सलिलादिषु ।
यो ऽद्भ्यस् त्रस्येद् अ-दष्टो ऽपि शब्द-संस्पर्श-दर्शनैः
38.15द्व् शब्द-स्पर्श-निदर्शनैः
जल-संत्रास-नामानं दष्टं तम् अपि वर्जयेत् ।
आखुना दष्ट-मात्रस्य दंशं काण्डेन दाहयेत्
दर्पणेनाथ-वा तीव्र-रुजा स्यात् कर्णिकान्य-था ।
दग्धं विस्रावयेद् दंशं प्रच्छितं च प्रलेपयेत्
38.17च्व् दग्ध्वा विस्रावयेद् दंशं 38.17द्व् प्रच्छिन्नं च प्रलेपयेत्
शिरीष-रजनी-वक्र-कुङ्कुमामृतवल्लिभिः ।
अगार-धूम-मञ्जिष्ठा-रजनी-लवणोत्तमैः
लेपो जयत्य् आखु-विषं कर्णिकायाश् च पातनः ।
ततो ऽम्लैः क्षालयित्वानु तोयैर् अनु च लेपयेत्
38.19द्व् पिष्टैर् अनु च लेपयेत्
पालिन्दी-श्वेत-कटभी-बिल्व-मूल-गुडूचिभिः ।
अन्यैश् च विष-शोफ-घ्नैः सिरां वा मोक्षयेद् द्रुतम्
38.20द्व् सिरां वा मोचयेद् द्रुतम्
छर्दनं नीलिनी-क्वाथैः शुकाख्याङ्कोल्लयोर् अपि ।
कोशातक्याः शुकाख्यायाः फलं जीमूतकस्य च
38.21च्व् कोशवत्याः शुकाख्यायाः
मदनस्य च संचूर्ण्य दध्ना पीत्वा विषं वमेत् ।
वचा-मदन-जीमूत-कुष्ठं वा मूत्र-पेषितम्
पूर्व-कल्पेन पातव्यं सर्वोन्दुर-विषापहम् ।
विरेचनं त्रिवृन्-नीली-त्रि-फला-कल्क इष्यते
38.23च्व् विरेचने त्रिवृन्-नीली-
शिरो-विरेचने सारः शिरीषस्य फलानि च ।
अञ्जनं गो-मय-रसो व्योष-सूक्ष्म-रजो-ऽन्वितः
38.24च्व् अञ्जने गो-मय-रसो 38.24द्व् व्योष-सूक्ष्म-रजो-ऽन्वितः
कपित्थ-गो-मय-रसो मधु-मान् अवलेहनम् ।
तण्डुलीयक-मूलेन सिद्धं पाने हितं घृतम्
38.25ब्व् मधु-मान् अवलेहने
द्वि-निशा-कटभी-रक्ता-यष्ट्य्-आह्वैर् वामृतान्वितैः ।
आस्फोत-मूल-सिद्धं वा पञ्च-कापित्थम् एव वा
सिन्धुवारं नतं शिग्रु-बिल्व-मूलं पुनर्नवा ।
वचा-श्वदंष्ट्रा-जीमूतम् एषां क्वाथं स-माक्षिकम्
38.27अव् सिन्धुवार-नतं शिग्रु- 38.27ब्व् -बिल्व-मूलं पुनर्नवम्
पिबेच् छाल्य्-ओदनं दध्ना भुञ्जानो मूषिकार्दितः ।
तक्रेण शरपुङ्खाया बीजं संचूर्ण्य वा पिबेत्
अङ्कोल्ल-मूल-कल्को वा बस्त-मूत्रेण कल्कितः ।
पानालेपनयोर् युक्तः सर्वाखु-विष-नाशनः
38.29च्व् पान-लेपनयोर् युक्तः
कपित्थ-मध्य-तिलक-तिलाङ्कोल्ल-जटाः पिबेत् ।
गवां मूत्रेण पयसा मञ्जरीं तिलकस्य वा
38.30अव् कपित्थ-मध्य-तिलकं 38.30अव् कपित्थ-मध्यं तिलकं 38.30ब्व्
-तिलाङ्कोल्ल-जटां पिबेत्
38.30ब्व् तिलाङ्कोल्ल-जटाः पिबेत् 38.30द्व् मञ्जरीस् तिलकस्य वा
अथ-वा सैर्यकान् मूलं स-क्षौद्रं तण्डुलाम्बुना ।
कटुकालाबु-विन्यस्तं पीतं वाम्बु निशोषितम्
38.31द्व् पिबेद् वाम्बु निशोषितम् 38.31द्व् पिबेच् चाम्बु निशोषितम्
सिन्धुवारस्य मूलानि बिडालास्थि विषं नतम् ।
जल-पिष्टो ऽ-गदो हन्ति नस्याद्यैर् आखु-जं विषम्
स-शेषं मूषिक-विषं प्रकुप्यत्य् अभ्र-दर्शने ।
यथा-यथं वा कालेषु दोषाणां वृद्धि-हेतुषु
38.33अच् स-शेषं मूषक-विषं
तत्र सर्वे यथावस्थं प्रयोज्याः स्युर् उपक्रमाः ।
यथा-स्वं ये च निर्दिष्टास् तथा दूषी-विषापहाः
दंशं त्व् अलर्क-दष्टस्य दग्धम् उष्णेन सर्पिषा ।
प्रदिह्याद् अ-गदैस् तैस् तैः पुराणं च घृतं पिबेत्
अर्क-क्षीर-युतं चास्य योज्यम् आशु विरेचनम् ।
अङ्कोल्लोत्तर-मूलाम्बु त्रि-पलं स-हविः-पलम्
38.36अच् अर्क-क्षीर-युतं वास्य
पिबेत् स-धत्तूर-फलां श्वेतां वापि पुनर्नवाम् ।
ऐकध्यं पललं तैलं रूपिकायाः पयो गुडः
38.37ब्व् श्वेतां चापि पुनर्नवाम् 38.37द्व् रूयिकायाः पयो गुडः 38.37द्व्
रूषिकायाः पयो गुडः
भिनत्ति विषम् आलर्कं घन-वृन्दम् इवानिलः ।
स-मन्त्रं सौषधी-रत्नं स्नपनं च प्रयोजयेत्
चतुष्-पाद्भिर् द्वि-पाद्भिर् वा नख-दन्त-परिक्षतम् ।
शूयते पच्यते राग-ज्वर-स्राव-रुजान्वितम्
38.39द्व् -ज्वरास्राव-रुजान्वितम्
सोमवल्को ऽश्वकर्णश् च गोजिह्वा हंसपादिका ।
रजन्यौ गैरिकं लेपो नख-दन्त-विषापहः
मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0