भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गहृदयसूत्र · अध्याय 117

117.1

36.93अव् छत्त्री जर्जर-पाणिश् च 36.93अव् छत्त्री जर्झर-पाणिश् च 36.93अव्
छत्त्री झर्जर-पाणिश् च
36.93ब्व् चरेद् रात्रौ च सर्व-दा 36.93द्व् विद्रवन्ति भुजङ्गमाः
वारि-गुञ्जा-फलोशीरं नेत्रयोर् विष-दुष्टयोः ।
अञ्जनं वारिणा पिष्टं गारुडं गरुडोपमम् ॥ 93+1 ॥
उत्तरस्थान
सर्पाणाम् एव विण्-मूत्र-शुक्राण्ड-शव-कोथ-जाः ।
दोषैर् व्यस्तैः समस्तैश् च युक्ताः कीटाश् चतुर्-विधाः

117.2

दष्टस्य कीटैर् वायव्यैर् दंशस् तोद-रुजोल्बणः ।
आग्नेयैर् अल्प-संस्रावो दाह-राग-विसर्प-वान्

117.3

पक्व-पीलु-फल-प्रख्यः खर्जूर-सदृशो ऽथ-वा ।
कफाधिकैर् मन्द-रुजः पक्वोदुम्बर-संनिभः

117.4

स्रावाढ्यः सर्व-लिङ्गस् तु विवर्ज्यः सांनिपातिकैः ।
वेगाश् च सर्प-वच् छोफो वर्धिष्णुर् विस्र-रक्त-ता

117.5

37.4ब्व् विवर्ज्यः सांनिपातिकः
शिरो-ऽक्षि-गौरवं मूर्छा भ्रमः श्वासो ऽति-वेदना ।
सर्वेषां कर्णिका शोफो ज्वरः कण्डूर् अ-रोचकः

117.6

37.5ब्व् भ्रमः श्वासो ऽति-वेदनाः
वृश्चिकस्य विषं तीक्ष्णम् आदौ दहति वह्नि-वत् ।
ऊर्ध्वम् आरोहति क्षिप्रं दंशे पश्चात् तु तिष्ठति

117.7

37.6द्च् दंशे पश्चाच् च तिष्ठति
दंशः सद्यो ऽति-रुक् श्यावस् तुद्यते स्फुटतीव च ।
ते गवादि-शकृत्-कोथाद् दिग्ध-दष्टादि-कोथतः

117.8

सर्प-कोथाच् च संभूता मन्द-मध्य-महा-विषाः ।
मन्दाः पीताः सिताः श्यावा रूक्षाः कर्बुर-मेचकाः

117.9

37.8द्व् रूक्ष-कर्बुर-मेचकाः
रोमशा बहु-पर्वाणो लोहिताः पाण्डुरोदराः ।
धूम्रोदरास् त्रि-पर्वाणो मध्यास् तु कपिलारुणाः

117.10

पिशङ्गाः शबराश् चित्राः शोणिताभा महा-विषाः ।
अग्न्य्-आभा द्व्य्-एक-पर्वाणो रक्तासित-सितोदराः

117.11

तैर् दष्टः शून-रसनः स्तब्ध-गात्रो ज्वरार्दितः ।
खैर् वमञ् छोणितं कृष्णम् इन्द्रियार्थान् अ-संविदन्

117.12

स्विद्यन् मूर्छन् विशुष्कास्यो विह्वलो वेदनातुरः ।
विशीर्यमाण-मांसश् च प्राय-शो विजहात्य् असून्

117.13

उच्चिटिङ्गस् तु वक्त्रेण दशत्य् अभ्यधिक-व्यथः ।
साध्यतो वृश्चिकात् स्तम्भं शेफसो हृष्ट-रोम-ताम्

117.14

37.13अव् उच्चिटङ्गस् तु वक्त्रेण 37.13च्व् सो ऽधमो वृश्चिकात् स्तम्भं
करोति सेकम् अङ्गानां दंशः शीताम्बुनेव च ।
उष्ट्र-धूमः स एवोक्तो रात्रि-चाराच् च रात्रिकः

117.15

37.14ब्व् दंशे शीताम्बुनेव च
वात-पित्तोत्तराः कीटाः श्लैष्मिकाः कणभोन्दुराः ।
प्रायो वातोल्बण-विषा वृश्चिकाः सोष्ट्र-धूमकाः

117.16

यस्य यस्यैव दोषस्य लिङ्गाधिक्यं प्रतर्कयेत् ।
तस्य तस्यौषधैः कुर्याद् विपरीत-गुणैः क्रियाम्

117.17

37.16ब्व् लिङ्गाधिक्यं प्रवर्तयेत्
हृत्-पीडोर्ध्वानिल-स्तम्भः सिरायामो ऽस्थि-पर्व-रुक् ।
घूर्णनोद्वेष्टनं गात्र-श्याव-ता वातिके विषे

117.18

संज्ञा-नाशोष्ण-निश्वासौ हृद्-दाहः कटुकास्य-ता ।
मांसावदरणं शोफो रक्त-पीतश् च पैत्तिके

117.19

37.18द्व् रक्तः पीतश् च पैत्तिके
छर्द्य्-अ-रोचक-हृल्-लास-प्रसेकोत्क्लेश-पीनसैः ।
स-शैत्य-मुख-माधुर्यैर् विद्याच् छ्लेष्माधिकं विषम्

117.20

पिण्याकेन व्रणालेपस् तैलाभ्यङ्गश् च वातिके ।
स्वेदो नाडी-पुलाकाद्यैर् बृंहणश् च विधिर् हितः

117.21

पैत्तिकं स्तम्भयेत् सेकैः प्रदेहैश् चाति-शीतलैः ।
लेखन-च्छेदन-स्वेद-वमनैः श्लैष्मिकं जयेत्

117.22

कीटानां त्रि-प्रकाराणां त्रैविध्येन क्रिया हिता ।
स्वेदालेपन-सेकांस् तु कोष्णान् प्रायो ऽवचारयेत्

117.23

37.22ब्व् त्रैविध्येन क्रिया हिताः 37.22द्व् कवोष्णान् प्रविचारयेत्
अन्य-त्र मूर्छिताद् दंश-पाकतः कोथतो ऽथ-वा ।
नृ-केशाः सर्षपाः पीता गुडो जीर्णश् च धूपनम्

117.24

विष-दंशस्य सर्वस्य काश्यपः परम् अब्रवीत् ।
विष-घ्नं च विधिं सर्वं कुर्यात् संशोधनानि च

117.25

37.24ब्व् कश्यपः परम् अब्रवीत्
साधयेत् सर्प-वद् दष्टान् विषोग्रैः कीट-वृश्चिकैः ।
तण्डुलीयक-तुल्यांशां त्रिवृतां सर्पिषा पिबेत्

117.26

याति कीट-विषैः कम्पं न कैलास इवानिलैः ।
क्षीरि-वृक्ष-त्वग्-आलेपः शुद्धे कीट-विषापहः

117.27

मुक्ता-लेपो वरः शोफ-तोद-दाह-ज्वर-प्रणुत् ।
वचा-हिङ्गु-विडङ्गानि सैन्धवं गज-पिप्पली

117.28

पाठा प्रतिविषा व्योषं काश्यपेन विनिर्मितम् ।
दशाङ्गम् अ-गदं पीत्वा सर्व-कीट-विषं जयेत्

117.29

सद्यो वृश्चिक-जं दंशं चक्र-तैलेन सेचयेत् ।
विदारिगन्धा-सिद्धेन कवोष्णेनेतरेण वा

117.30

लवणोत्तम-युक्तेन सर्पिषा वा पुनः पुनः ।
सिञ्चेत् कोष्णारनालेन स-क्षीर-लवणेन वा

117.31

37.30द्व् स-क्षार-लवणेन वा
उपनाहो घृते भृष्टः कल्को ऽजाज्याः स-सैन्धवः ।
आदंशं स्वेदितं चूर्णैः प्रच्छाय प्रतिसारयेत्

117.32

37.31अव् उपनाहे घृत-भृष्टः 37.31अव् उपनाहो घृत-भृष्टः
रजनी-सैन्धव-व्योष-शिरीष-फल-पुष्प-जैः ।
मातुलुङ्गाम्ल-गो-मूत्र-पिष्टं च सुरसाग्र-जम्

117.33

37.32च्व् मातुलुङ्गं तु गो-मूत्र- 37.32द्व् -पिष्टः स-सुरसार्जकः
लेपः सुखोष्णश् च हितः पिण्याको गो-मयो ऽपि वा ।
पाने सर्पिर् मधु-युतं क्षीरं वा भूरि-शर्करम्

117.34

37.33ब्व् पिण्याको गो-मयेन वा
पारावत-शकृत् पथ्या तगरं विश्व-भेषजम् ।
बीजपूर-रसोन्मिश्रः परमो वृश्चिका-गदः

117.35

37.34द्व् परमो वृश्चिके ऽ-गदः 37.34द्व् परमो वृश्चिको ऽ-गदः
स-शैवलोष्ट्र-दंष्ट्रा च हन्ति वृश्चिक-जं विषम् ।
हिङ्गुना हरितालेन मातुलुङ्ग-रसेन च

117.36

37.35अव् स-सैन्धवोष्ट्र-दंष्ट्रा च 37.35द्व् मातुलुङ्ग-रसेन वा
लेपाञ्जनाभ्यां गुटिका परमं वृश्चिकापहा ।
करञ्जार्जुन-शेलूनां कटभ्यां कुटजस्य च

117.37

शिरीषस्य च पुष्पाणि मस्तुना दंश-लेपनम् ।
यो मुह्यति प्रश्वसिति प्रलपत्य् उग्र-वेदनः

117.38

तस्य पथ्या-निशा-कृष्णा-मञ्जिष्ठातिविषोषणम् ।
सालाबु-वृन्तं वार्ताक-रस-पिष्टं प्रलेपनम्

117.40

37.38च्व् शलाटु-वृन्तं वार्ताक-
सर्व-त्र चोग्रालि-विषे पाययेद् दधि-सर्पिषी ॥ 39अब् ॥
विध्येत् सिरां विदध्याच् च वमनाञ्जन-नावनम् ॥ 39च्द् ॥
उष्ण-स्निग्धाम्ल-मधुरं भोजनं चानिलापहम् ॥ 39एf ॥
नागरं गृह-कपोत-पुरीषं बीजपूरक-रसो हरितालम् ।
सैन्धवं च विनिहन्त्य् अ-गदो ऽयं लेपतो ऽलि-कुल-जं विषम् आशु

117.41

अन्ते वृश्चिक-दष्टानां समुदीर्णे भृशं विषे ।
विषेणालेपयेद् दंशम् उच्चिटिङ्गे ऽप्य् अयं विधिः

117.42

नाग-पुरीष-च्छत्त्रं रोहिष-मूलं च शेलु-तोयेन ।
कुर्याद् गुटिकां लेपाद् इयम् अलि-विष-नाशनी श्रेष्ठा

117.43

अर्कस्य दुग्धेन शिरीष-बीजं त्रिर् भावितं पिप्पलि-चूर्ण-मिश्रम् ।
एषो ऽ-गदो हन्ति विषाणि कीट-भुजङ्ग-लूतोन्दुर-वृश्चिकानाम्

117.44

शिरीष-पुष्पं स-करञ्ज-बीजं काश्मीर-जं कुष्ठ-मनःशिले च ।
एषो ऽ-गदो रात्रिक-वृश्चिकानां संक्रान्ति-कारी कथितो जिनेन

117.45

37.44अव् शिरीष-बीजं स-करञ्ज-बीजं
कीटेभ्यो दारुण-तरा लूटाः षो-डश ता जगुः ।
अष्टा-विंशतिर् इत्य् एके ततो ऽप्य् अन्ये तु भूयसीः

117.46

सहस्र-रश्म्य्-अनुचरा वदन्त्य् अन्ये सहस्र-शः ।
बहूपद्रव-रूपा तु लूतैकैव विषात्मिका

117.47

रूपाणि नामतस् तस्या दुर्-ज्ञेयान्य् अति-संकरात् ।
नास्ति स्थान-व्यवस्था च दोषतो ऽतः प्रचक्षते

117.48

कृच्छ्र-साध्या पृथग्-दोषैर् अ-साध्या निचयेन सा ।
तद्-दंशः पैत्तिको दाह-तृट्-स्फोट-ज्वर-मोह-वान्

117.49

भृशोष्ंआ रक्त-पीताभः क्लेदी द्राक्षा-फलोपमः ।
श्लैष्मिकः कठिनः पाण्डुः परूषक-फलाकृतिः

117.50

37.49अव् भृशोष्ंअ-रक्त-पीताभः
निद्रां शीत-ज्वरं कासं कण्डूं च कुरुते भृशम् ।
वातिकः परुषः श्यावः पर्व-भेद-ज्वर-प्रदः

117.51

तद्-विभागं यथा-स्वं च दोष-लिङ्गैर् विभावयेत् ।
अ-साध्यायां तु हृन्-मोह-श्वास-हिध्मा-शिरो-ग्रहाः

117.52

37.51द्व् -श्वास-हिध्मा-शिरो-रुजाः
श्वेत-पीतासिता-रक्ताः पिटिकाः श्वयथूद्भवः ।
वेपथुर् वमथुर् दाहस् तृड् आन्ध्यं वक्र-नास-ता

117.53

37.52अव् श्वेत-पीतासिता-रक्त- 37.52ब्व् -पिटिका-श्वयथूद्भवः 37.52द्व् तृड्
आन्ध्यं वक्र-नासिका
श्यावौष्ठ-वक्त्र-दन्त-त्वं पृष्ठ-ग्रीवावभञ्जनम् ।
पक्व-जम्बू-स-वर्णं च दंशात् स्रवति शोणितम्

117.54

सर्वापि सर्व-जा प्रायो व्यपदेशस् तु भूयसा ।
तीक्ष्ण-मध्यावर-त्वेन सा त्रि-धा हन्त्य् उपेक्षिता

117.55

37.54द्व् सा त्रि-धा हन्त्य् उपेक्षया
सप्ताहेन दशाहेन पक्षेण च परं क्रमात् ।
लूता-दंशश् च सर्वो ऽपि दद्रू-मण्डल-संनिभः

117.56

37.55च्व् लूता-दंशस् तु सर्वो ऽपि
सितो ऽसितो ऽरुणः पीतः श्यावो वा मृदुर् उन्नतः ।
मध्ये कृष्णो ऽथ-वा श्यावः पर्य्-अन्ते जालकावृतः

117.57

37.56अव् सितासितो ऽरुणः पीतः
विसर्प-वांश् छोफ-युतस् तप्यते बहु-वेदनः ।
ज्वराशु-पाक-विक्लेद-कोथावदरणान्वितः

117.58

क्लेदेन यत् स्पृशत्य् अङ्गं तत्रापि कुरुते व्रणम् ।
श्वास-दंष्ट्रा-शकृन्-मूत्र-शुक्र-लाला-नखार्तवैः

117.59

अष्टाभिर् उद्वमत्य् एषा विषं वक्त्राद् विशेषतः ।
लूता नाभेर् दशत्य् ऊर्ध्वम् ऊर्ध्वं चाधश् च कीटकाः

117.60

37.59अव् अष्टाभिर् उद्वमन्त्य् एता 37.59ब्व् विषं वक्त्रैर् विशेषतः 37.59च्व्
लूता नाभेर् दशन्त्य् ऊर्ध्वम्
37.59द्व् ऊर्ध्वं वाधश् च कीटकाः 37.59द्व् ऊर्ध्वं चाधश् च कीटकः
37.59द्व् अधश् च विष-कीटकाः
तद्-दूषितं च वस्त्रादि देहे पृक्तं विकार-कृत् ।
दिनार्धं लक्ष्यते नैव दंशो लूता-विषोद्भवः

117.61

सूची-व्यध-वद् आभाति ततो ऽसौ प्रथमे ऽहनि ।
अ-व्यक्त-वर्णः प्रचलः किञ्-चित्-कण्डू-रुजान्वितः

117.62

37.61अव् सूची-विद्ध-वद् आभाति
द्वितीये ऽभ्युन्नतो ऽन्तेषु पिटिकैर् इव वाचितः ।
व्यक्त-वर्णो नतो मध्ये कण्डू-मान् ग्रन्थि-संनिभः

117.63

37.62अव् द्वितीये ऽत्य्-उन्नतो ऽन्तेषु 37.62ब्व् पिटिकैर् इव चाचितः
तृतीये स-ज्वरो रोम-हर्ष-कृद् रक्त-मण्डलः ।
शराव-रूपस् तोदाढ्यो रोम-कूपेषु सास्रवः

117.64

37.63द्व् रोम-कूपेषु स-स्रवः
महांश् चतुर्थे श्वयथुस् ताप-श्वास-भ्रम-प्रदः ।
विकारान् कुरुते तांस् तान् पञ्चमे विष-कोप-जान्

117.65

षष्ठे व्याप्नोति मर्माणि सप्तमे हन्ति जीवितम् ।
इति तीक्ष्णं विषं मध्यं हीनं च विभजेद् अतः

117.66

37.65अव् षष्ठे प्राप्नोति मर्माणि
एक-विंशति-रात्रेण विषं शाम्यति सर्व-था ।
अथाशु लूता-दष्टस्य शस्त्रेणादंशम् उद्धरेत्

117.67

37.66द्व् दंशं शस्त्रेण चोद्धरेत्
दहेच् च जाम्बवौष्ठाद्यैर् न तु पित्तोत्तरं दहेत् ।
कर्कशं भिन्न-रोमाणं मर्म-संध्य्-आदि-संश्रितम्

117.68

प्रसृतं सर्वतो दंशं न च्छिन्दीत दहेन् न च ।
लेपयेद् दग्धम् अ-गदैर् मधु-सैन्धव-संयुतैः

117.69

37.68ब्व् न च्छिन्दीत दहेन् न वा
सु-शीतैः सेचयेच् चानु कषायैः क्षीरि-वृक्ष-जैः ।
सर्वतो ऽपहरेद् रक्तं शृङ्गाद्यैः सिरयापि वा

117.70

सेक-लेपास् ततः शीता बोधि-श्लेष्मातकाक्षकैः ।
फलिनी-द्वि-निशा-क्षौद्र-सर्पिर्भिः पद्मकाह्वयः

117.71

37.70अव् सेकालेपास् ततः शीता 37.70ब्व् बोधि-श्लेष्मातकाक्षिकैः 37.70ब्व्
बोधि-श्लेष्मातकाक्ष-जैः
37.70च्व् फलिनी-द्वि-निशा-श्रेष्ठा-
अ-शेष-लूता-कीटानाम् अ-गदः सार्वकार्मिकः ।
हरिद्रा-द्वय-पत्तङ्ग-मञ्जिष्ठा-नत-केसरैः

117.72

स-क्षौद्र-सर्पिः पूर्वस्माद् अधिकश् चम्पकाह्वयः ।
तद्-वद् गो-मय-निष्पीड-शर्करा-घृत-माक्षिकैः

117.73

37.72च्व् तद्-वद् गो-मय-निष्पीडा-
अपामार्ग-मनोऽह्वाल-दार्वी-ध्यामक-गैरिकैः ।
नतैला-कुष्ठ-मरिच-यष्ट्य्-आह्व-घृत-माक्षिकैः

117.74

अ-गदो मन्दरो नाम तथान्यो गन्ध-मादनः ।
नत-लोध्र-वचा-कट्वी-पाठैला-पत्त्र-कुङ्कुमैः

117.75

मञ्जिष्ठा-श्लेष्मातक-रजनी-सुवहा-शिरीष-पालिन्द्यः ।
स-सिन्धुवारा विषं घ्नन्ति सैला-चन्दन-कनकाः ॥ 74+1 ॥
विष-घ्नं बहु-दोषेषु प्रयुञ्जीत विशोधनम् ।
यष्ट्य्-आह्व-मदनाङ्कोल्ल-जालिनी-सिन्धुवारिकाः

117.76

37.75अव् विष-घ्नैर् बहु-दोषेषु 37.75द्व् -जालिनी-सिन्धुवारितान् 37.75द्व्
-जालिनी-सिन्धुवारितम्
कफे ज्येष्ठाम्बुना पीत्वा विषम् आशु समुद्वमेत् ।
शिरीष-पत्त्र-त्वङ्-मूल-फलं वाङ्कोल्ल-मूल-वत्

117.77

37.76द्व् -फलं चाङ्कोल्ल-मूल-वत्
विरेचयेच् च त्रि-फला-नीलिनी-त्रिवृतादिभिः ।
निवृत्ते दाह-शोफादौ कर्णिकां पातयेद् व्रणात्

117.78

37.77ब्व् -फलिनी-त्रिवृतादिभिः
कुसुम्भ-पुष्पं गो-दन्तः स्वर्णक्षीरी कपोत-विट् ।
त्रिवृता सैन्धवं दन्ती कर्णिका-पातनं तथा

117.79

37.78अव् कुसुम्भ-पुष्प-गो-दन्त- 37.78ब्व् -स्वर्णक्षीरी-कपोत-विट् 37.78द्व्
कर्णिका-पातनं परम्
मूलम् उत्तरवारुण्या वंश-निर्लेख-संयुतम् ।
तद्-वच् च सैन्धवं कुष्ठं दन्ती कटुक-दौग्धिकम्

117.80

राज-कोशातकी-मूलं किण्वो वा मथितोद्भवः ।
कर्णिका-पात-समये बृंहयेच् च विषापहैः

117.81

37.80ब्व् किट्टो वा मथितोद्भवः 37.80ब्व् किणो वा मथितोद्भवः 37.80द्व्
बृंहयेत विषापहैः
स्नेह-कार्यम् अ-शेषं च सर्पिषैव समाचरेत् ।
विषस्य वृद्धये तैलम् अग्नेर् इव तृणोलुपम्

117.82

37.81च्व् विषम् आवर्धयेत् तैलम् 37.81द्व् अग्नेर् इव तृणोलपम्
ह्रीवेर-वैकङ्कत-गोपकन्या-मुस्ता-शमी-चन्दन-टुण्टुकानि ।
शैवाल-नीलोत्पल-वक्र-यष्टी-त्वङ्-नाकुली-पद्मक-राठ-मध्यम्

117.83

37.82ब्व् -मुस्ता-शमी-चन्दन-तिन्दुकानि
रजनी-घन-सर्पलोचना-कण-शुण्ठी-कण-मूल-चित्रकाः ।
वरुणागुरु-बिल्व-पाटली-पिचुमन्दामय-शेलु-केसरम्

117.84

37.83च्व् वरुणागुरु-बिल्व-पाटला-
बिल्व-चन्दन-नतोत्पल-शुण्ठी-पिप्पली-निचुल-वेतस-कुष्ठम् ।
शुक्ति-शाक-वर-पाटलि-भार्गी-सिन्धुवार-करघाट-वराङ्गम्

117.85

37.84च्व् शुक्ति-शाबरक-पाटलि-भार्गी- 37.84द्व् -सिन्धुवार-करहाट-वराङ्गम्
पित्त-कफानिल-लूताः पानाञ्जन-नस्य-लेप-सेकेन ।
अ-गद-वरा वृत्त-स्थाः कु-गतीर् इव वारयन्त्य् एते

117.86

37.85द्व् कु-गतीर् इव दारयन्त्य् एते 37.85द्व् कु-मतीर् इव दारयन्त्य् एते
37.85द्व् कु-मतीर् इव वारयन्त्य् एते
लोध्रं सेव्यं पद्मकं पद्म-रेणुः कालीयाख्यं चन्दनं यच् च रक्तम् ।
कान्ता-पुष्पं दुग्धिनीका मृणालं लूताः सर्वा घ्नन्ति सर्व-क्रियाभिः

मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc