अष्टाङ्गहृदयसूत्र · अध्याय 116
35.70अव् अ-यत्नाच् छ्लैष्मिकं साध्यं 35.70च्व् अ-यत्नाच् छ्लेष्मकं साध्यं
35.70द्व् यत्नात् पित्ताशयाश्रितम्
सु-दुः-साध्यम् अ-साध्यं वा वाताशय-गतं विषम् ॥ 70ऊअब् ॥
जतु-सर्ज-रसोशीर-सर्षपा-पत्त्र-वालकैः ।
स-वैल्लारुष्कर-पुरैः कुसुमैर् अर्जुनस्य च ॥ 70ऊ+1 ॥
35.70ऊ+1च्व् स-वैल्ल-पुष्कर-पुरैः
धूपो वास-गृहे हन्ति विषं स्थावर-जङ्गमम् ।
न तत्र कीटाः स-विषा नोन्दुरा न सरीसृपाः ॥ 70ऊ+2 ॥
न कृत्याः कार्मणाद्याश् च धूपो ऽयं यत्र दह्यते ॥ 70ऊ+3अब् ॥
उत्तरस्थान
दर्वी-करा मण्डलिनो राजी-मन्तश् च पन्नगाः ।
त्रि-धा समासतो भौमा भिद्यन्ते ते त्व् अनेक-धा
व्यासतो योनि-भेदेन नोच्यन्ते ऽन्-उपयोगिनः ।
विशेषाद् रूक्ष-कटुकम् अम्लोष्णं स्वादु-शीतलम्
36.2ब्व् नोच्यन्ते ऽन्-उपयोगतः
विषं दर्वी-करादीनां क्रमाद् वातादि-कोपनम् ।
तारुण्य-मध्य-वृद्ध-त्वे वृष्टि-शीतातपेषु च
विषोल्बणा भवन्त्य् एते व्यन्तरा ऋतु-संधिषु ।
रथाङ्ग-लाङ्गल-च्छत्त्र-स्वस्तिकाङ्कुश-धारिणः
फणिनः शीघ्र-गतयः सर्पा दर्वी-कराः स्मृताः ।
ज्ञेया मण्डलिनो ऽ-भोगा मण्डलैर् विविधैश् चिताः
36.5ब्व् सर्पा दर्वी-करा मताः
प्रांशवो मन्द-गमना राजी-मन्तस् तु राजिभिः ।
स्निग्धा विचित्र-वर्णाभिस् तिर्यग् ऊर्ध्वं च चित्रिताः
36.6ब्व् राजी-मन्तश् च राजिभिः 36.6च्व् स्निग्धाभिर् बहु-वर्णाभिस्
गोधा-सुतस् तु गौधेरो विषे दर्वी-करैः समः ।
चतुष्-पाद् व्यन्तरान् विद्याद् एतेषाम् एव संकरात्
36.7अव् गोधा-सुतस् तु गौधेयो
व्यामिश्र-लक्षणास् ते हि संनिपात-प्रकोपणाः ।
आहारार्थं भयात् पाद-स्पर्शाद् अति-विषात् क्रुधः
पाप-वृत्ति-तया वैराद् देवर्षि-यम-चोदनात् ।
दशन्ति सर्पास् तेषूक्तं विषाधिक्यं यथोत्तरम्
36.9अव् पाप-वृत्त-तया वैराद् 36.9ब्व् देवर्षि-यम-नोदनात्
आदिष्टात् कारणं ज्ञात्वा प्रतिकुर्याद् यथा-यथम् ।
व्यन्तरः पाप-शील-त्वान् मार्गम् आश्रित्य तिष्ठति
36.10अव् आविष्टात् कारणं ज्ञात्वा 36.10द्व् मार्गम् आवृत्य तिष्ठति
यत्र लाला-परिक्लेद-मात्रं गात्रे प्रदृश्यते ।
न तु दंष्ट्रा-कृतं दंशं तत् तुण्डाहतम् आदिशेत्
36.11ब्व् -मात्रं गात्रेषु दृश्यते 36.11च्व् न तु दंष्ट्रा-क्षतं दंशं
36.11च्व् न तु दंष्ट्रा-क्षतं दंशे
36.11द्व् तं तुण्डाहतं आदिशेत्
एकं दंष्ट्रा-पदं द्वे वा व्यालीढाख्यम् अ-शोणितम् ।
दंष्ट्रा-पदे स-रक्ते द्वे व्यालुप्तं त्रीणि तानि तु
36.12द्व् व्यालुप्तं त्रीणि तानि च
मांस-च्छेदाद् अ-विच्छिन्न-रक्त-वाहीनि दष्टकम् ।
दंष्ट्रा-पदानि चत्वारि तद्-वद् दष्ट-निपीडितम्
निर्-विषं द्वयम् अत्राद्यम् अ-साध्यं पश्चिमं वदेत् ।
विषं नाहेयम् अ-प्राप्य रक्तं दूषयते वपुः
रक्तम् अण्व् अपि तु प्राप्तं वर्धते तैलम् अम्बु-वत् ।
भीरोस् तु सर्प-संस्पर्शाद् भयेन कुपितो ऽनिलः
36.15अव् रक्तम् अण्व् अपि तत् प्राप्तं 36.15ब्व् वर्धते तैल-बिन्दु-वत्
कदा-चित् कुरुते शोफं सर्पाङ्गाभिहतं तु तत् ।
दुर्-गान्ध-कारे विद्धस्य केन-चिद् दष्ट-शङ्कया
36.16च्व् दुर्-गे ऽन्धकारे विद्धस्य
विषोद्वेगो ज्वरश् छर्दिर् मूर्छा दाहो ऽपि वा भवेत् ।
ग्लानिर् मोहो ऽतिसारो वा तच् छङ्का-विषम् उच्यते
36.17अव् विष-वेगाज् ज्वरश् छर्दिर् 36.17अव् विषोद्रेको ज्वरश् छर्दिर् 36.17अव्
विषोद्वेगाज् ज्वरश् छर्दिर्
तुद्यते स-विषो दंशः कण्डू-शोफ-रुजान्वितः ।
दह्यते ग्रथितः किञ्-चिद् विपरीतस् तु निर्-विषः
36.18अव् तुद्यते विष-जो दंशः
पूर्वे दर्वी-कृतां वेगे दुष्टं श्यावी-भवत्य् असृक् ।
श्याव-ता तेन वक्त्रादौ सर्पन्तीव च कीटकाः
36.19ब्व् दुष्टं श्यावं भवत्य् असृक् 36.19च्व् श्याव-ता नेत्र-वक्त्रादौ
द्वितीये ग्रन्थयो वेगे तृतीये मूर्ध्नि गौरवम् ।
दृग्-रोधो दंश-विक्लेदश् चतुर्थे ष्ठीवनं वमिः
36.20ब्व् तृतीये मूर्ध-गौरवम् 36.20च्व् दृग्-बाधा दंश-विक्लेदश् 36.20द्व्
चतुर्थे ष्ठेवनं वमिः
संधि-विश्लेषणं तन्द्रा पञ्चमे पर्व-भेदनम् ।
दाहो हिध्मा च षष्ठे तु हृत्-पीडा गात्र-गौरवम्
36.21च्व् दाहो हिध्मा च षष्ठे च
मूर्छा-विपाको ऽतीसारः प्राप्य शुक्रं तु सप्तमे ।
स्कन्ध-पृष्ठ-कटी-भङ्गः सर्व-चेष्टा-निवर्तनम्
36.22ब्व् प्राप्य शुक्रं च सप्तमे
अथ मण्डलि-दष्टस्य दुष्टं पीती-भवत्य् असृक् ।
तेन पीताङ्ग-ता दाहो द्वितीये श्वयथूद्भवः
36.23ब्व् दुष्टं पीतं भवत्य् असृक्
तृतीये दंश-विक्लेदः स्वेदस् तृष्णा च जायते ।
चतुर्थे ज्वर्यते दाहः पञ्चमे सर्व-गात्र-गः
36.24ब्व् स्वेदस् तृष्णा प्रजायते
दष्टस्य राजिलैर् दुष्टं पाण्डु-तां याति शोणितम् ।
पाण्डु-ता तेन गात्राणां द्वितीये गुरु-ताति च
तृतीये दंश-विक्लेदो नासिकाक्षि-मुख-स्रवाः ।
चतुर्थे गरिमा मूर्ध्नो मन्या-स्तम्भश् च पञ्चमे
गात्र-भङ्गो ज्वरः शीतः शेषयोः पूर्व-वद् वदेत् ।
कुर्यात् पञ्चसु वेगेषु चिकित्सां न ततः परम्
36.27ब्व् शेषयोः पूर्व-वद् भवेत्
जलाप्लुता रति-क्षीणा भीता नकुल-निर्जिताः ।
शीत-वातातप-व्याधि-क्षुत्-तृष्णा-श्रम-पीडिताः
तूर्णं देशान्तरायाता विमुक्त-विष-कञ्चुकाः ।
कुशौषधि-कण्टक-वद् ये चरन्ति च काननम्
देशं च दिव्याध्युषितं सर्पास् ते ऽल्प-विषा मताः ।
श्मशान-चिति-चैत्यादौ पञ्चमी-पक्ष-संधिषु
36.30अव् देशं च विद्याध्युषितं
अष्टमी-नवमी-संध्या-मध्य-रात्रि-दिनेषु च ।
याम्याग्नेय-मघाश्लेषा-विशाखा-पूर्व-नैरृते
नैरृताख्ये मुहूर्ते च दष्टं मर्मसु च त्यजेत् ।
दष्ट-मात्रः सितास्याक्षः शीर्यमाण-शिरो-रुहः
36.32च्व् दष्ट-मात्रस् तु ताम्राक्षः
स्तब्ध-जिह्वो मुहुर् मूर्छन् शीतोच्छ्वासो न जीवति ।
हिध्मा श्वासो वमिः कासो दष्ट-मात्रस्य देहिनः
36.33ब्व् शीतोच्छ्वासी न जीवति
जायन्ते युग-पद् यस्य स हृच्-छूली न जीवति ।
फेनं वमति निः-संज्ञः श्याव-पाद-कराननः
नासावसादो भङ्गो ऽङ्गे विड्-भेदः श्लथ-संधि-ता ।
विष-पीतस्य दष्टस्य दिग्धेनाभिहतस्य च
36.35अव् नासावसादो रुक् वाङ्गे
भवन्त्य् एतानि रूपाणि संप्राप्ते जीवित-क्षये ।
न नस्यैश् चेतना तीक्ष्णैर् न क्षतात् क्षत-जागमः
36.36ब्व् प्राप्ते जीवित-संक्षये
दण्डाहतस्य नो राजी प्रयातस्य यमान्तिकम् ।
अतो ऽन्य-था तु त्वरया प्रदीप्तागार-वद् भिषक्
36.37ब्व् प्रयाति स यमान्तिकम्
रक्षन् कण्ठ-गतान् प्राणान् विषम् आशु शमं नयेत् ।
मात्रा-शतं विषं स्थित्वा दंशे दष्टस्य देहिनः
देहं प्रक्रमते धातून् रुधिरादीन् प्रदूषयन् ।
एतस्मिन्न् अन्तरे कर्म दंशस्योत्कर्तनादिकम्
36.39ब्व् रुधिरादीन् प्रदूषयेत्
कुर्यच् छीघ्रं यथा देहे विष-वल्ली न रोहति ।
दष्ट-मात्रो दशेद् आशु तम् एव पवनाशिनम्
36.40द्व् तम् एव पवनाशनम्
लोष्टं महीं वा दशनैश् छित्त्वा चानु स-संभ्रमम् ।
निष्ठीवेन समालिम्पेद् दंशं कर्ण-मलेन वा
36.41ब्व् छित्त्वा चाशु स-संभ्रमम्
दंशस्योपरि बध्नीयाद् अरिष्टां चतुर्-अङ्गुले ।
क्षौमादिभिर् वेणिकया सिद्धैर् मन्त्रैश् च मन्त्र-वित्
अम्बु-वत् सेतु-बन्धेन बन्धेन स्तभ्यते विषम् ।
न वहन्ति सिराश् चास्य विषं बन्धाभिपीडिताः
36.43च्व् न वहन्ति सिरास् तस्य 36.43द्व् विषं बन्धन-पीडिताः
निष्पीड्यानूद्धरेद् दंशं मर्म-संध्य्-अ-गतं तथा ।
न जायते विषाद् वेगो बीज-नाशाद् इवाङ्कुरः
36.44अव् निष्पीड्य चोद्धरेद् दंशं 36.44च्व् न जायते विषावेगो
दंशं मण्डलिनां मुक्त्वा पित्तल-त्वाद् अथापरम् ।
प्रतप्तैर् हेम-लोहाद्यैर् दहेद् आशूल्मुकेन वा
करोति भस्म-सात् सद्यो वह्निः किं नाम तु क्षतम् ।
आचूषेत् पूर्ण-वक्त्रो वा मृद्-भस्मा-गद-गो-मयैः
36.46ब्व् वह्निः किं नाम न क्षणात् 36.46ब्व् वह्निः किं नाम न क्षणम्
प्रच्छायान्तर् अरिष्टायां मांसलं तु विशेषतः ।
अङ्गं सहैव दंशेन लेपयेद् अ-गदैर् मुहुः
चन्दनोशीर-युक्तेन सलिलेन च सेचयेत् ।
विषे प्रविसृते विध्येत् सिरां सा परमा क्रिया
रक्ते निर्ह्रियमाणे हि कृत्स्नं निर्ह्रियते विषम् ।
दुर्-गन्धं स-विषं रक्तम् अग्नौ चटचटायते
36.49च्व् दुर्-गन्धि स-विषं रक्तम्
यथा-दोषं विशुद्धं च पूर्व-वल् लक्षयेद् असृक् ।
सिरास्व् अ-दृश्यमानासु योज्याः शृङ्ग-जलौकसः
शोणितं स्रुत-शेषं च प्रविलीनं विषोष्मणा ।
लेप-सेकैः सु-बहु-शः स्तम्भयेद् भृश-शीतलैः
अ-स्कन्ने विष-वेगाद् धि मूर्छाय-मद-हृद्-द्रवाः ।
भवन्ति तान् जयेच् छीतैर् वीजेच् चा-रोम-हर्षतः
36.52द्व् वीजयेद् रोम-हर्षतः
स्कन्ने तु रुधिरे सद्यो विष-वेगः प्रशाम्यति ।
विषं कर्षति तीक्ष्ण-त्वाद् धृदयं तस्य गुप्तये
पिबेद् घृतं घृत-क्षौद्रम् अ-गदं वा घृताप्लुतम् ।
हृदयावरणे चास्य श्लेष्मा हृद्य् उपचीयते
36.54च्व् हृदयावरणेनास्य
प्रवृत्त-गौरवोत्क्लेश-हृल्-लासं वामयेत् ततः ।
द्रवैः काञ्जिक-कौलत्थ-तैल-मद्यादि-वर्जितैः
वमनैर् विष-हृद्भिश् च नैवं व्याप्नोति तद् वपुः ।
भुजङ्ग-दोष-प्रकृति-स्थान-वेग-विशेषतः
सु-सूक्ष्मं सम्यग् आलोच्य विशिष्टां चाचरेत् क्रियाम् ।
सिन्धुवारित-मूलानि श्वेता च गिरिकर्णिका
36.57ब्व् विशिष्टां वाचरेत् क्रियाम्
पानं दर्वी-करैर् दष्टे नस्यं मधु स-पाकलम् ।
कृष्ण-सर्पेण दष्टस्य लिम्पेद् दंशं हृते ऽसृजि
36.58ब्व् नस्यं स-मधु पाकलम् 36.58ब्व् नस्यं स-मधु वालकम्
36.58ब्व् नस्यं मधु स-वालकम्
चारटी-नाकुलीभ्यां वा तीक्ष्ण-मूल-विषेण वा ।
पानं च क्षौद्र-मञ्जिष्ठा-गृह-धूम-युतं घृतम्
36.59च्व् पाने च क्षौद्र-मञ्जिष्ठा-
तण्डुलीयक-काश्मर्य-किणिही-गिरिकर्णिकाः ।
मातुलुङ्गी सिता शेलुः पान-नस्याञ्जनैर् हितः
36.60च्व् मातुलुङ्गैः शिफा शेलुः
अ-गदः फणिनां घोरे विषे राजी-मताम् अपि ।
समाः सुगन्धा-मृद्वीका-श्वेताख्या-गजदन्तिकाः
36.61च्व् समाः सुगन्धा मृद्वीका 36.61द्व् श्वेताख्या गजमृत्तिका 36.61द्व्
श्वेताख्या गजवृत्तिका
अर्धांशं सौरसं पत्त्रं कपित्थं बिल्व-दाडिमम् ।
स-क्षौद्रो मण्डलि-विषे विशेषाद् अ-गदो हितः
पञ्च-वल्क-वरा-यष्टी-नागपुष्पैलवालुकम् ।
जीवकर्षभकौ शीतं सिता पद्मकम् उत्पलम्
36.63अव् पञ्च-वल्क-बला-यष्टी- 36.63अव् पञ्च-वल्क-वचा-यष्टी- 36.63च्व्
जीवकर्षभकोशीरं
स-क्षौद्रो हिमवान् नाम हन्ति मण्डलिनां विषम् ।
लेपाच् छ्वयथु-वीसर्प-विस्फोट-ज्वर-दाह-हा
काश्मर्यं वट-शुङ्गानि जीवकर्षभकौ सिता ।
मञ्जिष्ठा मधुकं चेति दष्टो मण्डलिना पिबेत्
36.65अव् काश्मर्यं वट-शृङ्गानि
वंश-त्वग्-बीज-कटुका-पाटली-बीज-नागरम् ।
शिरीष-बीजातिविषे मूलं गावेधुकं वचा
36.66ब्व् -पाटला-बीज-नागरम् 36.66द्व् मूलं गावेधुकं वचाम् 36.66द्व्
मूलं श्रीवेष्टकं वचाम्
पिष्टो गो-वारिणाष्टाङ्गो हन्ति गोनस-जं विषम् ।
कटुकातिविषा-कुष्ठ-गृह-धूम-हरेणुकाः
स-क्षौद्र-व्योष-तगरा घ्नन्ति राजी-मतां विषम् ।
निखनेत् काण्ड-चित्राया दंशं याम-द्वयं भुवि
उद्धृत्य प्रच्छितं सर्पिर्-धान्य-मृद्भ्यां प्रलेपयेत् ।
पिबेत् पुराणं च घृतं वरा-चूर्णावचूर्णितम्
36.69अव् उद्धृत्य प्रस्थितं सर्पिर्- 36.69द्व् वरा-चूर्ण-विचूर्णितम्
जीर्णे विरिक्तो भुञ्जीत यवान्नं सूप-संस्कृतम् ।
करवीरार्क-कुसुम-मूल-लाङ्गलिका-कणाः
36.70अव् जीर्णे विरिक्ते भुञ्जीत 36.70द्व् -मूलं लाङ्गलिका कणा
कल्कयेद् आरनालेन पाठा-मरिच-संयुताः ।
एष व्यन्तर-दष्टानाम् अ-गदः सार्वकार्मिकः
शिरीष-पुष्प-स्व-रसे सप्ताह्वं मरिचं सितम् ।
भावितं सर्प-दष्टानां पान-नस्याञ्जने हितम्
36.72द्व् पान-नस्याञ्जनैर् हितम् 36.72द्व् पाने नस्ये ऽञ्जने हितम्
द्वि-पलं नत-कुष्ठाभ्यां घृत-क्षौद्रं चतुः-पलम् ।
अपि तक्षक-दष्टानां पानम् एतत् सुख-प्रदम्
36.73ब्व् घृत-क्षौद्र-चतुः-पलम् 36.73च्व् अपि तार्क्षक-दष्टानां
अथ दर्वी-कृतां वेगे पूर्वे विस्राव्य शोणितम् ।
अ-गदं मधु-सर्पिर्भ्यां संयुक्तं त्वरितं पिबेत्
द्वितीये वमनं कृत्वा तद्-वद् एवा-गदं पिबेत् ।
विषापहे प्रयुञ्जीत तृतीये ऽञ्जन-नावने
36.75च्व् विषापहैः प्रयुञ्जीत
पिबेच् चतुर्थे पूर्वोक्तां यवागूं वमने कृते ।
षष्ठ-पञ्चमयोः शीतैर् दिग्धं सिक्तम् अभीक्ष्ण-शः
पाययेद् वमनं तीक्ष्णं यवागूं च विषापहैः ।
अ-गदं सप्तमे तीक्ष्णं युञ्ज्याद् अञ्जन-नस्ययोः
कृत्वावगाढं शस्त्रेण मूर्ध्नि काक-पदं ततः ।
मांसं स-रुधिरं तस्य चर्म वा तत्र निक्षिपेत्
तृतीये वमितः पेयां वेगे मण्डलिनां पिबेत् ।
अ-तीक्ष्णम् अ-गदं षष्ठे गणं वा पद्मकादिकम्
36.79अव् तृतीये वामितः पेयां
आद्ये ऽवगाढं प्रच्छाय वेगे दष्टस्य राजिलैः ।
अलाबुना हरेद् रक्तं पूर्व-वच् चा-गदं पिबेत्
षष्ठे ऽञ्जनं तीक्ष्ण-तमम् अवपीडं च योजयेत् ।
अन्-उक्तेषु च वेगेषु क्रियां दर्वी-करोदिताम्
गर्भिणी-बाल-वृद्धेषु मृदुं विध्येत् सिरां न च ।
त्वङ् मनोह्वा निशे वक्रं रसः शार्दूल-जो नखः
36.82अव् गुर्विणी-बाल-वृद्धेषु 36.82ब्व् मृदु विध्येत् सिरां न च 36.82च्व्
त्वङ् मनोह्वा निशे वक्त्रं
तमालः केसरं शीतं पीतं तण्डुल-वारिणा ।
हन्ति सर्व-विषाण्य् एतद् वज्रं वज्रम् इवासुरान्
36.83च्व् हन्ति सर्व-विषाण्य् एतच् 36.83द्व् छक्र-वज्रम् इवासुरान् 36.83द्व्
वज्रि-वज्रम् इवासुरान्
बिल्वस्य मूलं सुरसस्य पुष्पं फलं करञ्जस्य नतं सुराह्वम् ।
फल-त्रिकं व्योष-निशा-द्वयं च बस्तस्य मूत्रेण सु-सूक्ष्म-पिष्टम्
36.84च्व् फल-त्रयं व्योष-निशा-द्वयं च
भुजङ्ग-लूतोन्दुर-वृश्चिकाद्यैर् विषूचिका-जीर्ण-गर-ज्वरैश् च ।
आर्तान् नरान् भूत-विधर्षितांश् च स्वस्थी-करोत्य् अञ्जन-पान-नस्यैः
36.85च्व् आर्तान् नरान् भूत-विमर्दितांश् च
प्रलेपाद्यैश् च निःशेषं दंशाद् अप्य् उद्धरेद् विषम् ।
भूयो वेगाय जायेत शेषं दूषी-विषाय वा
36.86द्व् शेषं दूषी-विषं यथा 36.86द्व् शेषं दूषी-विषाय च
विषापाये ऽनिलं क्रुद्धं स्नेहादिभिर् उपाचरेत् ।
तैल-मद्य-कुलत्थाम्ल-वर्ज्यैः पवन-नाशनैः
पित्तं पित्त-ज्वर-हरैः कषाय-स्नेह-वस्तिभिः ।
स-माक्षिकेण वर्गेण कफम् आरग्वधादिना
सिता वैगन्धिको द्राक्षा पयस्या मधुकं मधु ।
पानं स-मन्त्र-पूताम्बु प्रोक्षणं सान्त्व-हर्षणम्
36.89अव् सिता वैगन्धको द्राक्षा
सर्पाङ्गाभिहते युञ्ज्यात् तथा शङ्का-विषार्दिते ।
कर्केतनं मरकतं वज्रं वारण-मौक्तिकम्
वैडूर्यं गर्दभ-मणिं पिचुकं विष-मूषिकाम् ।
हिमवद्-गिरि-संभूतां सोमराजीं पुनर्नवाम्
36.91अव् वैडूर्य-गर्दभ-मणिं 36.91ब्व् पिचुकं विष-दूषिकाम्
तथा द्रोणां महा-द्रोणां मानसीं सर्प-जं मणिम् ।
विषाणि विष-शान्त्य्-अर्थं वीर्य-वन्ति च धारयेत्
36.92अव् तथा द्रोणं महा-द्रोणं
छत्त्री झर्झर-पाणिश् च चरेद् रात्रौ विशेषतः ।
तच्-छाया-शब्द-वित्रस्ताः प्रणश्यन्ति भुजङ्गमाः
मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0