अष्टाङ्गहृदयसूत्र · अध्याय 115
उत्तरस्थान
मथ्यमाने जल-निधाव् अमृतार्थं सुरासुरैः ।
जातः प्राग् अमृतोत्पत्तेः पुरुषो घोर-दर्शनः
दीप्त-तेजाश् चतुर्-दंष्ट्रो हरि-केशो ऽनलेक्षणः ।
जगद् विषण्णं तं दृष्ट्वा तेनासौ विष-संज्ञितः
35.2ब्व् हरित्-केशो ऽनलेक्षणः 35.2द्व् तेनासौ विष-संज्ञकः
हुङ्-कृतो ब्रह्मणा मूर्ती ततः स्थावर-जङ्गमे ।
सो ऽध्यतिष्ठन् निजं रूपम् उज्झित्वा वञ्चनात्मकम्
35.3अव् हुङ्-कृतो ब्रह्मणा मूर्तस् 35.3अव् हुङ्-कृतो ब्रह्मणा मूर्तीस् 35.3ब्व्
ततः स्थावर-जङ्गमम्
35.3ब्व् ततः स्थावर-जङ्गमम् 35.3ब्व् ततः स्थावर-जङ्गमात् 35.3ब्व् ततः
स्थावर-जङ्गमाः
35.3द्व् उज्झित्वा वञ्चनात्मकः
स्थिरम् इत्य् उल्बणं वीर्ये यत् कन्देषु प्रतिष्ठितम् ।
कालकूटेन्द्रवत्साख्य-शृङ्गी-हालाहलादिकम्
सर्प-लूतादि-दंष्ट्रासु दारुणं जङ्गमं विषम् ।
स्थावरं जङ्गमं चेति विषं प्रोक्तम् अ-कृत्रिमम्
कृत्रिमं गर-संज्ञं तु क्रियते विविधौषधैः ।
हन्ति योग-वशेनाशु चिराच् चिर-तराच् च तत्
शोफ-पाण्डूदरोन्माद-दुर्-नामादीन् करोति वा ।
तीक्ष्णोष्ण-रूक्ष-विशदं व्यवाय्य् आशु-करं लघु
35.7ब्व् -दुर्-नामादीन् करोति च
विकाषि सूक्ष्मम् अ-व्यक्त-रसं विषम-पाकि च ।
ओजसो विपरीतं तत् तीक्ष्णाद्यैर् अन्वितं गुणैः
35.8अव् विकाशि सूक्ष्मम् अ-व्यक्त- 35.8अव् विकासि सूक्ष्मम् अ-व्यक्त- 35.8ब्व्
-रसैर् युक्तम् अ-पाकि च
35.8च्व् ओजसो विपरीतं तु
वात-पित्तोत्तरं नॄणां सद्यो हरति जीवितम् ।
विषं हि देहं संप्राप्य प्राग् दूषयति शोणितम्
कफ-पित्तानिलांश् चानु समं दोषान् सहाशयान् ।
ततो हृदयम् आस्थाय देहोच्छेदाय कल्पते
35.10ब्व् सम-दोषं सहाशयान् 35.10ब्व् समं दोषान् सहाय-वत् 35.10ब्व्
सम-दोषं सहाय-वत्
35.10ब्व् सम-दोषं सहाश्रयम् 35.10द्व् देह-च्छेदाय कल्पते
स्थावरस्योपयुक्तस्य वेगे पूर्वे प्रजायते ।
जिह्वायाः श्याव-ता स्तम्भो मूर्छा त्रासः क्लमो वमिः
35.11ब्व् वेगः पूर्वं प्रजायते 35.11ब्व् वेगे पूर्वे च जायते
द्वितीये वेपथुः स्वेदो दाहः कण्ठे च वेदना ।
विषं चामाशयं प्राप्तं कुरुते हृदि वेदनाम्
तालु-शोषस् तृतीये तु शूलं चामाशये भृशम् ।
दुर्-बले हरिते शूने जायेते चास्य लोचने
35.13च्व् दुर्-वर्णे हरिते शूने 35.13च्व् दुर्-वर्णे हरिते शून्ये
पक्वाशय-गते तोद-हिध्मा-कासान्त्र-कूजनम् ।
चतुर्थे जायते वेगे शिरसश् चाति-गौरवम्
35.14अव् पक्वाशय-गते तोदो 35.14ब्व् हिध्मा कासान्त्र-कूजनम्
कफ-प्रसेको वैवर्ण्यं पर्व-भेदश् च पञ्चमे ।
सर्व-दोष-प्रकोपश् च पक्वाधाने च वेदना
षष्ठे संज्ञा-प्रणाशश् च सु-भृशं चातिसार्यते ।
स्कन्ध-पृष्ठ-कटी-भङ्गो भवेन् मृत्युश् च सप्तमे
प्रथमे विष-वेगे तु वान्तं शीताम्बु-सेचिनम् ।
सर्पिर्-मधुभ्यां संयुक्तम् अ-गदं पाययेद् द्रुतम्
35.17अव् प्रथमे विष-वेगे ऽथ
द्वितीये पूर्व-वद् वान्तं विरिक्तं चानुपाययेत् ।
तृतीये ऽ-गद-पानं तु हितं नस्यं तथाञ्जनम्
चतुर्थे स्नेह-संयुक्तम् अ-गदं प्रतियोजयेत् ।
पञ्चमे मधुक-क्वाथ-माक्षिकाभ्यां युतं हितम्
षष्ठे ऽतीसार-वद् सिद्धिर् अवपीडश् तु सप्तमे ।
मूर्ध्नि काक-पदं कृत्वा सासृग् वा पिशितं क्षिपेत्
35.20ब्व् अवपीडश् च सप्तमे
कोशातक्य् अग्निकः पाठा सूर्यवल्ल्य्-अमृताभयाः ।
शेलुः शिरीषः किणिही हरिद्रे क्षौद्र-साह्वया
35.21ब्व् सूर्यवल्ल्य् अमृताभया 35.21द्व् हरिद्रे क्षौद्र-साह्वयम्
पुनर्नवे त्रि-कटुकं बृहत्यौ शारिवे बला ।
एषां यवागूं निर्यूहे शीतां स-घृत-माक्षिकाम्
35.22अव् पुनर्नवा त्रि-कटुकं 35.22ब्व् बृहत्यौ शारिवे बले
युञ्ज्याद् वेगान्तरे सर्व-विष-घ्नीं कृत-कर्मणः ।
तद्-वन् मधूक-मधुक-पद्म-केसर-चन्दनैः
अञ्जनं तगरं कुष्ठं हरितालं मनःशिला ।
फलिनी त्रि-कटु स्पृक्का नागपुष्पं स-केसरम्
हरेणुर् मधुकं मांसी रोचना काकमालिका ।
श्रीवेष्टकं सर्ज-रसः शताह्वा कुङ्कुमं बला
35.25ब्व् रोचना कालमालिका 35.25ब्व् रोचना कालमञ्जिका
तमाल-पत्त्र-तालीश-भूर्जोशीर-निशा-द्वयम् ।
कन्योपवासिनी स्नाता शुक्ल-वासा मधु-द्रुतैः
35.26अव् तमाल-पत्त्रं तालीशं 35.26ब्व् भूर्जोशीरं निशा-द्वयम् 35.26द्व्
शुक्ल-वासा मधु-प्लुतैः
द्वि-जान् अभ्यर्च्य तैः पुष्ये कल्पयेद् अ-गदोत्तमम् ।
वैद्यश् चात्र तदा मन्त्रं प्रयतात्मा पठेद् इमम्
35.27अव् द्वि-जान् अभ्यर्च्य पुष्यर्क्षे 35.27च्व् वैद्यश् चाशु तदा मन्त्रं
नमः पुरुष-सिंहाय नमो नारायणाय च ।
यथासौ नाभिजानाति रणे कृष्ण-पराजयम्
35.28द्व् रणे कृष्णः पराजयम्
एतेन सत्य-वाक्येन अ-गदो मे प्रसिध्यतु ।
नमो वैडूर्यमाते हुलु हुलु रक्ष मां सर्व-विषेभ्यः
35.29द्व् हुलु कुलु रक्ष मां सर्व-विषेभ्यः
गौरि गान्धारि चाण्डालि मातङ्गि स्वाहा पिष्टे च द्वितीयो मन्त्रः ॥ 30अब् ॥
35.30अव् गौरि गान्धारि चण्डालि मातङ्गि स्वाहा
हरिमायि स्वाहा ॥ 30च् ॥
35.30च्व् हारितमायि स्वाहा
अ-शेष-विष-वेताल-ग्रह-कार्मण-पाप्मसु ।
मरक-व्याधि-दुर्-भिक्ष-युद्धाशनि-भयेषु च
पान-नस्याञ्जनालेप-मणि-बन्धादि-योजितः ।
एष चन्द्रोदयो नाम शान्ति-स्वस्त्य्-अयनं परम्
35.32द्व् शान्तिः स्वस्त्य्-अयनं परम्
वासवो वृत्रम् अवधीत् समालिप्तः किलामुना ॥ 32+(1)अब् ॥
35.32+(1)ब्व् समालिप्तो ऽमुना किल
जीर्णं विष-घ्नौषधिभिर् हतं वा दावाग्नि-वातातप-शोषितं वा ।
स्व-भावतो वा न गुणैः सु-युक्तं दूषी-विषाख्यां विषम् अभ्युपैति
35.33च्व् स्व-भावतो वा सु-गुणैर् न युक्तं 35.33च्व् स्व-भावतो वा स्व-गुणैर्
न युक्तं
35.33द्व् दूषी-विषाख्यं विषम् अभ्युपैति
वीर्याल्प-भावाद् अ-विभाव्यम् एतत् कफावृतं वर्ष-गणानुबन्धि ।
तेनार्दितो भिन्न-पुरीष-वर्णो दुष्टास्र-रोगी तृड्-अ-रोचकार्तः
मूर्छन् वमन् गद्गद-वाग् विमुह्यन् भवेच् च दूष्योदर-लिङ्ग-जुष्टः ।
आमाशय-स्थे कफ-वात-रोगी पक्वाशय-स्थे ऽनिल-पित्त-रोगी
भवेन् नरो ध्वस्त-शिरो-रुहाङ्गो विलून-पक्षः स यथा विहङ्गः ।
स्थितं रसादिष्व् अथ-वा विचित्रान् करोति धातु-प्रभवान् विकारान्
प्राग्-वाता-जीर्ण-शीताभ्र-दिवा-स्वप्ना-हिताशनैः ।
दुष्टं दूषयते धातून् अतो दूषी-विषं स्मृतम्
35.37च्व् दुष्टं दूषयते धातुं 35.37द्व् ततो दूषी-विषं स्मृतम्
दूषी-विषार्तं सु-स्विन्नम् ऊर्ध्वं चाधश् च शोधितम् ।
दूषी-विषारिम् अ-गदं लेहयेन् मधुनाप्लुतम्
पिप्पल्यो ध्यामकं मांसी लोध्रम् एला सुवर्चिका ।
कुटन्नटं नतं कुष्ठं यष्टी चन्दन-गैरिकम्
दूषी-विषारिर् नाम्नायं न चान्य-त्रापि वार्यते ।
विष-दिग्धेन विद्धस् तु प्रताम्यति मुहुर् मुहुः
वि-वर्ण-भावं भजते विषादं चाशु गच्छति ।
कीटैर् इवावृतं चास्य गात्रं चिमिचिमायते
श्रोणि-पृष्ठ-शिरः-स्कन्ध-संधयः स्युः स-वेदनाः ।
कृष्ण-दुष्टास्र-विस्रावी तृण्-मूर्छा-ज्वर-दाह-वान्
दृष्टि-कालुष्य-वमथु-श्वास-कास-करः क्षणात् ।
आ-रक्त-पीत-पर्य्-अन्तः श्याव-मध्यो ऽति-रुग् व्रणः
शूयते पच्यते सद्यो गत्वा मांसं च कृष्ण-ताम् ।
प्रक्लिन्नं शीर्यते ऽभीक्ष्णं स-पिच्छिल-परिस्रवम्
कुर्याद् अ-मर्म-विद्धस्य हृदयावरणं द्रुतम् ।
शल्यम् आकृष्य तप्तेन लोहेनानु दहेद् व्रणम्
अथ-वा मुष्कक-श्वेता-सोम-त्वक्-ताम्रवल्लितः ।
शिरीषाद् गृध्रनख्याश् च क्षारेण प्रतिसारयेत्
शुकनासा-प्रतिविषा-व्याघ्री-मूलैश् च लेपयेत् ।
कीट-दष्ट-चिकित्सां च कुर्यात् तस्य यथार्हतः
व्रणे तु पूति-पिशिते क्रिया पित्त-विसर्प-वत् ।
सौभाग्यार्थं स्त्रियो भर्त्रे राज्ञे वा-रति-चोदिताः
35.48द्व् राज्ञे चा-रति-चोदिताः
गरम् आहार-संपृक्तं यच्छन्त्य् आसन्न-वर्तिनः ।
नाना-प्राण्य्-अङ्ग-शमल-विरुद्धौषधि-भस्मनाम्
35.49च्व् नाना-प्राण्य्-अङ्ग-स-मल-
विषाणां चाल्प-वीर्याणां योगो गर इति स्मृतः ।
तेन पाण्दुः कृशो ऽल्पाग्निः कास-श्वास-ज्वरार्दितः
35.50अव् विषाणां मन्द-वीर्याणां
वायुना प्रतिलोमेन स्वप्न-चिन्ता-परायणः ।
महोदर-यकृत्-प्लीही दीन-वाग् दुर्-बलो ऽलसः
35.51च्व् मेहोदर-यकृत्-प्लीही 35.51द्व् हीन-वाग् दुर्-बलो ऽलसः
शोफ-वान् सतताध्मातः शुष्क-पाद-करः क्षयी ।
स्वप्ने गोमायु-मार्जार-नकुल-व्याल-वानरान्
प्रायः पश्यति शुष्कांश् च वनस्पति-जलाशयान् ।
मन्यते कृष्णम् आत्मानं गौरो गौरं च कालकः
वि-कर्ण-नासा-नयनं पश्येत् तद्-विहतेन्द्रियः ।
एतैर् अन्यैश् च बहुभिः क्लिष्टो घोरैर् उपद्रवैः
35.54ब्व् पश्येत् तु विहतेन्द्रियः
गरार्तो नाशम् आप्नोति कश्-चित् सद्यो ऽ-चिकित्सितः ।
गरार्तो वान्त-वान् भुक्त्वा तत् पथ्यं पान-भोजनम्
शुद्ध-हृच् छीलयेद् धेम सूत्र-स्थान-विधेः स्मरन् ।
शर्करा-क्षौद्र-संयुक्तं चूर्णं ताप्य-सुवर्णयोः
35.56ब्व् सूत्र-स्थान-विधिं स्मरन्
लेहः प्रशमयन्त्य् उग्रं सर्व-योग-कृतं विषम् ।
मूर्वामृता-नत-कणा-पटोली-चव्य-चित्रकान्
वचा-मुस्त-विडङ्गानि तक्र-कोष्णाम्बु-मस्तुभिः ।
पिबेद् रसेन वाम्लेन गरोपहत-पावकः
35.58च्व् पिबेद् रसेन चाम्लेन
पारावतामिष-शठी-पुष्कराह्व-शृतं हिमम् ।
गर-तृष्णा-रुजा-कास-श्वास-हिध्मा-ज्वरापहम्
35.59ब्व् -पुष्कराह्वं शृतं हिमम्
त्र्य्-ऊषणं पञ्च-लवणं मञ्जिष्ठां रजनी-द्वयम् ।
सूक्ष्मैलां त्रिवृतां पत्त्रं विडङ्गानीन्द्रवारुणीम् ॥ 59+1 ॥
मधुकं चेति स-क्षौद्रं गो-विषाणे निधापयेत् ।
तस्माद् उष्णाम्बुना मात्रां प्राग्-भक्तं योजयेत् तथा ॥ 59+2 ॥
विषं भुक्तं जरां याति निर्-विषे ऽपि न दोष-कृत् ।
लाक्षा-प्रियङ्गु-मञ्जिष्ठाः स-मृणाल-हरेणुकाः ॥ 59+3 ॥
स-यष्ट्य्-आह्वा मधु-युता बस्त-पित्तेन कल्पिताः ।
निखनेद् गो-विषाण-स्थाः सप्त-रात्रं मही-तले ॥ 59+4 ॥
तत्र कृत्वा मणिं हेम्ना बद्धं हस्तेन धारयेत् ।
संस्पृष्टं स-विषं तेन सद्यो भवति निर्-विषम् ॥ 59+5 ॥
विष-प्रकृति-कालान्न-दोष-दूष्यादि-संगमे ।
विष-संकटम् उद्दिष्टं शतस्यैको ऽत्र जीवति
क्षुत्-तृष्णा-घर्म-दौर्बल्य-क्रोध-शोक-भय-श्रमैः ।
अ-जीर्ण-वर्चो-द्रव-ता-पित्त-मारुत-वृद्धिभिः
तिल-पुष्प-फलाघ्राण-भू-बाष्प-घन-गर्जितैः ।
हस्ति-मूषिक-वादित्र-निःस्वनैर् विष-संकटैः
35.62ब्व् -भू-बाष्प-घन-गर्जनैः
पुरो-वातोत्पलामोद-मदनैर् वर्धते विषम् ।
वर्षासु चाम्बु-योनि-त्वात् संक्लेदं गुड-वद् गतम्
35.63च्व् वर्षासु वाम्बु-योनि-त्वात्
विसर्पति घनापाये तद् अगस्त्यो हिनस्ति च ।
प्रयाति मन्द-वीर्य-त्वं विषं तस्माद् घनात्यये
इति प्रकृति-सात्म्यर्तु-स्थान-वेग-बला-बलम् ।
आलोच्य निपुणं बुद्ध्या कर्मान्-अन्तरम् आचरेत्
श्लैष्मिकं वमनैर् उष्ण-रूक्ष-तीक्ष्णैः प्रलेपनैः ।
कषाय-कटु-तिक्तैश् च भोजनैः शमयेद् विषम्
पैत्तिकं स्रंसनैः सेक-प्रदेहैर् भृश-शीतलैः ।
कषाय-तिक्त-मधुरैर् घृत-युक्तैश् च भोजनैः
वातात्मकं जयेत् स्वादु-स्निग्धाम्ल-लवणान्वितैः ।
स-घृतैर् भोजनैर् लेपैस् तथैव पिशिताशनैः
35.68ब्व् -स्निग्धाम्ल-लवणायुतैः
ना-घृतं स्रंसनं शस्तं प्रलेपो भोज्यम् औषधम् ।
सर्वेषु सर्वावस्थासु विषेषु न घृतोपमम्
विद्यते भेषजं किञ्-चिद् विशेषात् प्रबले ऽनिले ।
अ-यत्नाच् छ्लेष्म-गं साध्यं यत्नात् पित्ताशयाश्रयम्
मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0