भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गहृदयसूत्र · अध्याय 114

114.1

असृग्-दरार्शो-गुल्मादीन् आबाधांश् चानिलादिभिः ॥ 52ऊअब् ॥
33.52ऊब्व् आबाधाश् चानिलादिभिः
उत्तरस्थान
मेढ्र-मध्ये सिरां विध्येद् उपदंशे नवोत्थिते ।
शीतां कुर्यात् क्रियां शुद्धिं विरेकेण विशेषतः

114.2

34.1ब्व् अवदंशे नवोत्थिते
तिल-कल्क-घृत-क्षौद्रैर् लेपः पक्वे तु पाटिते ।
जम्ब्व्-आम्र-सुमनो-नीप-श्वेत-काम्बोजिकाङ्कुरान्

114.3

शल्लकी-बदरी-बिल्व-पलाश-तिनिशोद्भवाः ।
त्वचः क्षीरि-द्रुमाणां च त्रि-फलां च पचेज् जले

114.4

स क्वाथः क्षालनं तेन पक्वं तैलं च रोपणम् ।
तुत्थ-गैरिक-लोध्रैला-मनोह्वाल-रसाञ्जनैः

114.5

34.4अव् स क्वाथः क्षालने तेन
हरेणु-पुष्प-कासीस-सौराष्ट्री-लवणोत्तमैः ।
लेपः क्षौद्र-द्रुतैः सूक्ष्मैर् उपदंश-व्रणापहः

114.6

34.5द्व् अवदंश-व्रणापहः
कपाले त्रि-फला दग्धा स-घृता रोपणं परम् ।
सामान्यं साधनम् इदं प्रति-दोषं तु शोफ-वत्

114.7

न च याति यथा पाकं प्रयतेत तथा भृशम् ।
पक्वैः स्नायु-सिरा-मांसैः प्रायो नश्यति हि ध्वजः

114.8

अर्शसां छिन्न-दग्धानां क्रिया कार्योपदंश-वत् ।
सर्षपा लिखिताः सूक्ष्मैः कषायैर् अवचूर्णयेत्

114.9

34.8ब्व् क्रिया कार्यावदंश-वत् 34.8च्व् सर्षपां लिखितां सूक्ष्मैः
तैर् एवाभ्यञ्जनं तैलं साधयेद् व्रण-रोपणम् ।
क्रियेयम् अवमन्थे ऽपि रक्तं स्राव्यं तथोभयोः

114.10

कुम्भीकायां हरेद् रक्तं पक्वायां शोधिते व्रणे ।
तिन्दुक-त्रि-फला-लोध्रैर् लेपस् तैलं च रोपणम्

114.11

अलज्यां स्रुत-रक्तायाम् अयम् एव क्रिया-क्रमः ।
उत्तमाख्यां तु पिटिकां संछिद्य बडिशोद्धृताम्

114.12

कल्कैश् चूर्णैः कषायाणां क्षौद्र-युक्तैर् उपाचरेत् ।
क्रमः पित्त-विसर्पोक्तः पुष्कर-व्यूढयोर् हितः

114.13

त्वक्-पाके स्पर्श-हान्यां च सेचयेद् मृदितं पुनः ।
बला-तैलेन कोष्णेन मधुरैश् चोपनाहयेत्

114.14

34.13अव् त्वक्-पाके स्पर्श-हान्यौ वा
अष्ठीलिकां हृते रक्ते श्लेष्म-ग्रन्थि-वद् आचरेत् ।
निवृत्तं सर्पिषाभ्यज्य स्वेदयित्वोपनाहयेत्

114.15

त्रि-रात्रं पञ्च-रात्रं वा सु-स्निग्धैः शाल्वणादिभिः ।
स्वेदयित्वा ततो भूयः स्निग्धं चर्म समानयेत्

114.16

34.15द्व् स्निग्धं चर्म समाहरेत्
मणिं प्रपीड्य शनकैः प्रविष्टे चोपनाहनम् ।
मणौ पुनः पुनः स्निग्धं भोजनं चात्र शस्यते

114.17

अयम् एव प्रयोज्यः स्याद् अवपाट्याम् अपि क्रमः ।
नाडीम् उभयतो-द्वारां निरुद्धे जतुना सृताम्

114.18

34.17द्व् निरुद्धे जतुना शृताम् 34.17द्व् निरुद्धे जतुना कृताम्
स्नेहाक्तां स्रोतसि न्यस्य सिञ्चेत् स्नेहैश् चलापहैः ।
त्र्य्-अहात् त्र्य्-अहात् स्थूल-तरां न्यस्य नाडीं विवर्धयेत्

114.19

स्रोतो-द्वारम् अ-सिद्धौ तु विद्वान् शस्त्रेण पाटयेत् ।
सेवनीं वर्जयन् युञ्ज्यात् सद्यः-क्षत-विधिं ततः

114.20

34.19अव् स्रोतो-द्वारम् अ-सिद्धौ वा
ग्रन्थितं स्वेदितं नाड्या स्निग्धोष्णैर् उपनाहयेत् ।
लिम्पेत् कषायैः स-क्षौद्रैर् लिखित्वा शत-पोनकम्

114.21

रक्त-विद्रधि-वत् कार्या चिकित्सा शोणितार्बुदे ।
व्रणोपचारं सर्वेषु यथावस्थं प्रयोजयेत्

114.22

योनि-व्यापत्सु भूयिष्ठं शस्यते कर्म वात-जित् ।
स्नेहन-स्वेद-वस्त्य्-आदि वात-जासु विशेषतः

114.23

न हि वाताद् ऋते योनिर् वनितानां प्रदुष्यति ।
अतो जित्वा तम् अन्यस्य कुर्याद् दोषस्य भेषजम्

114.24

34.23च्व् अतो ऽ-जित्वा तम् अन्यच् च 34.23च्व् अतो ऽ-जित्वा तम् अन्यस्य 34.23द्व् न
कुर्याद् दोष-भेषजम्
पाययेत बला-तैलं मिश्रकं सु-कुमारकम् ।
स्निग्ध-स्विन्नां तथा योनिं दुः-स्थितां स्थापयेत् समाम्

114.25

34.24अव् पाययेच् च बला-तैलं 34.24अव् पाययेत् तां बला-तैलं 34.24अव्
पाययेद् वा बला-तैलं
पाणिना नमयेज् जिह्मां संवृतां व्यधयेत् पुनः ।
प्रवेशयेन् निःसृतां च विवृतां परिवर्तयेत्

114.26

34.25अव् पाणिना नामयेज् जिह्मां 34.25अव् पाणिनोन्नमयेज् जिह्मां 34.25ब्व्
संवृतां व्यासयेत् पुनः
स्थानापवृत्ता योनिर् हि शल्य-भूता स्त्रियो मता ।
कर्मभिर् वमनाद्यैश् च मृदुभिर् योजयेत् स्त्रियम्

114.27

34.26अव् स्थानापवर्ता योनिर् हि
सर्वतः सु-विशुद्धायाः शेषं कर्म विधीयते ।
वस्त्य्-अभ्यङ्ग-परीषेक-प्रलेप-पिचु-धारणम्

114.28

34.27अव् सर्वतस् तु विशुद्धायाः
काश्मर्य-त्रि-फला-द्राक्षा-कासमर्द-निशा-द्वयैः ।
गुडूची-सैर्यकाभीरु-शुकनासा-पुनर्नवैः

114.29

34.28च्व् गुडूची-गैरिकाभीरु-
परूषकैश् च विपचेत् प्रस्थम् अक्ष-समैर् घृतात् ।
योनि-वात-विकार-घ्नं तत् पीतं गर्भ-दं परम्

114.30

34.29अव् परूषकैश् च विपचेद् 34.29ब्व् प्रस्थम् अक्ष-समैर् घृतम् 34.29ब्व्
अक्षैः प्रस्थ-समं घृतम्
वचोपकुञ्चिकाजाजी-कृष्णा-वृषक-सैन्धवम् ।
अजमोदा-यव-क्षार-शर्करा-चित्रकान्वितम्

114.31

पिष्ट्वा प्रसन्नयालोड्य खादेत् तद् घृत-भर्जितम् ।
योनि-पार्श्वार्ति-हृद्-रोग-गुल्मार्शो-विनिवृत्तये

114.32

34.31द्व् -गुल्मार्शो-ऽर्ति-निवृत्तये
वृषकं मातुलुङ्गस्य मूलानि मदयन्तिकाम् ।
पिबेन् मद्यैः स-लवणैस् तथा कृष्णोपकुञ्चिके

114.33

34.32अव् वृषस्य मातुलुङ्गस्य 34.32द्व् तथा कृष्णोपकुञ्चिका
रास्ना-श्वदंष्ट्रा-वृषकैः शृतं शूल-हरं पयः ।
गुडूची-त्रि-फला-दन्ती-क्वाथैश् च परिषेचनम्

114.34

नत-वार्ताकिनी-कुष्ठ-सैन्धवामरदारुभिः ।
तैलात् प्रसाधिताद् धार्यः पिचुर् योनौ रुजापहः

114.35

पित्तलानां तु योनीनां सेकाभ्यङ्ग-पिचु-क्रियाः ।
शीताः पित्त-जितः कार्याः स्नेहनार्थं घृतानि च

114.36

34.35अव् पित्तलानां च योनीनां
शतावरी-मूल-तुला-चतुष्कात् क्षुण्ण-पीडितात् ।
रसेन क्षीर-तुल्येन पाचयेत घृताढकम्

114.37

जीवनीयैः शतावर्या मृद्वीकाभिः परूषकैः ।
पिष्टैः प्रियालैश् चाक्षांशैर् द्वि-बला-मधुकान्वितैः

114.38

34.37द्व् मधुकर्द्धि-बलान्वितैः
सिद्ध-शीते तु मधुनः पिप्पल्याश् च पलाष्टकम् ।
शर्कराया दश-पलं क्षिपेल् लिह्यात् पिचुं ततः

114.39

योन्य्-असृक्-शुक्र-दोष-घ्नं वृष्यं पुं-सवनं परम् ।
क्षतं क्षयम् असृक्-पित्तं कासं श्वासं हलीमकम्

114.40

34.39च्व् क्षत-क्षयम् असृक्-पित्तं
कामलां वात-रुधिरं विसर्पं हृच्-छिरो-ग्रहम् ।
अपस्मारार्दितायाम-मदोन्मादांश् च नाशयेत्

114.41

34.40च्व् अपस्मारार्दितायामान् 34.40द्व् मदोन्मादांश् च नाशयेत्
एवम् एव पयः-सर्पिर् जीवनीयोपसाधितम् ।
गर्भ-दं पित्त-जानां च रोगाणां परमं हितम्

114.42

बला-द्रोण-द्वय-क्वाथे घृत-तैलाढकं पचेत् ।
क्षीरे चतुर्-गुणे कृष्णा-काकनासा-सितान्वितैः

114.43

जीवन्ती-क्षीर-काकोली-स्थिरा-वीरर्द्धि-जीवकैः ।
पयस्या-श्रावणी-मुद्ग-पीलु-माषाख्य-पर्णिभिः

114.44

34.43ब्व् -स्थिरा-वीरर्द्धि-जीरकैः 34.43ब्व् -स्थिरा-वीरा-द्वि-जीवकैः 34.43द्व्
-पीलु-माषाखुकर्णिभिः
वात-पित्तामयान् हत्वा पानाद् गर्भं दधाति तत् ।
रक्त-योन्याम् असृग्-वर्णैर् अनुबन्धम् अवेक्ष्य च

114.45

34.44ब्व् पानाद् गर्भं ददाति तत्
यथा-दोषोदयं युञ्ज्याद् रक्त-स्थापनम् औषधम् ।
पाठां जम्ब्व्-आम्रयोर् अस्थि शिलोद्भेदं रसाञ्जनम्

114.46

मञ्जिष्ठागुरु-कट्फल-मुस्त-प्रियङ्गु-मिशि-कुष्ठैः ।
कट्वङ्ग-कुटज-शाबर-ककुभ-त्वङ्-मधुक-पद्मक-मधूकैः ॥ 45.1+1 ॥
34.45.1+1अव् मञ्जिष्ठा-मधु-कट्फल-
कुङ्कुम-बिल्वातिविषा-माक्षीक-रसाञ्जनैः स-किञ्जल्कैः ।
पिष्टैर् घृतं विपक्वं द्वि-गुणाज-क्षीर-संयुक्तम् ॥ 45.1+2 ॥
स्त्रीणाम् अपत्य-जननं योनि-रुजा-दोष-जित् सदा युञ्ज्यात् ।
उत्तर-वस्तिषु सर्पिर् योज्यं कल्याणकं नाम ॥ 45.1+3 ॥
अम्बष्ठां शाल्मली-पिच्छां समङ्गां वत्सक-त्वचम् ।
बाह्लीक-बिल्वातिविषा-लोध्र-तोयद-गैरिकम्

114.47

34.46ब्व् समङ्गां वत्सक-त्वचाम्
शुण्ठी-मधूक-माचीक-रक्त-चन्दन-कट्फलम् ।
कट्वङ्ग-वत्सकानन्ता-धातकी-मधुकार्जुनम्

114.48

34.47अव् शुण्ठी-मधुक-माचीक- 34.47अव् शुण्ठी-मधुक-माध्वीक-
34.47अव् शुण्ठी-मधुक-मार्द्वीक-
34.47अव् शुण्ठी-मधुक-मार्द्वीका- 34.47अव् शुण्ठी-मधूक-मृद्वीका-
34.47द्व् -धातकी-मधुकाञ्जनम्
पुष्ये गृहीत्वा संचूर्ण्य स-क्षौद्रं तण्डुलाम्भसा ।
पिबेद् अर्शःस्व् अतीसारे रक्तं यश् चोपवेश्यते

114.49

34.48ब्व् स-क्षौद्रं तण्डुलाम्बुना
दोषा जन्तु-कृता ये च बालानां तांश् च नाशयेत् ।
योनि-दोषं रजो-दोषं श्याव-श्वेतारुणासितम्

114.50

34.49अव् दोषा दन्त-कृता ये च
चूर्णं पुष्यानुगं नाम हितम् आत्रेय-पूजितम् ।
योन्यां बलास-दुष्टायां सर्वं रूक्षोष्णम् औषधम्

114.51

धातक्य्-आमलकी-पत्त्र-स्रोतो-ज-मधुकोत्पलैः ।
जम्ब्व्-आम्र-सार-कासीस-लोध्र-कट्फल-तिन्दुकैः

114.52

सौराष्ट्रिका-दाडिम-त्वग्-उदुम्बर-शलाटुभिः ।
अक्ष-मात्रैर् अजा-मूत्रे क्षीरे च द्वि-गुणे पचेत्

114.53

तैल-प्रस्थं तद् अभ्यङ्ग-पिचु-वस्तिषु योजयेत् ।
तेन शूनोन्नता स्तब्धा पिच्छिला स्राविणी तथा

114.54

34.53च्व् शूनोत्तानोन्नता स्तब्धा
विप्लुतोपप्लुता योनिः सिध्येत् स-स्फोट-शूलिनी ।
यवान्नम् अभयारिष्टं सीधु तैलं च शीलयेत्

114.55

34.54ब्व् सिध्येत स्फोट-शूलिनी
पिप्पल्य्-अयो-रजः-पथ्या-प्रयोगांश् च स-माक्षिकान् ।
कासीसं त्रि-फला काङ्क्षी साम्र-जम्ब्व्-अस्थि धातकी

114.56

34.55च्व् कासीसं त्रि-फला काच्छी
पैच्छिल्ये क्षौद्र-संयुक्तश् चूर्णो वैशद्य-कारकः ।
पलाश-धातकी-जम्बू-समङ्गा-मोच-सर्ज-जः

114.57

दुर्-गन्धे पिच्छिले क्लेदे स्तम्भनश् चूर्ण इष्यते ।
आरग्वधादि-वर्गस्य कषायः परिषेचनम्

114.58

34.57द्व् कषायः परिषेचने
स्तब्धानां कर्कशानां च कार्यं मार्दव-कारकम् ।
धारणं वेसवारस्य कृशरा-पायसस्य च

114.59

दुर्-गन्धानां कषायः स्यात् तैलं वा कल्क एव वा ।
चूर्णो वा सर्व-गन्धानां पूति-गन्धापकर्षणः

114.60

34.59द्व् पूति-गन्ध्य्-अपकर्षणः
श्लेष्मलानां कटु-प्रायाः स-मूत्रा वस्तयो हिताः ।
पित्ते स-मधुक-क्षीरा वाते तैलाम्ल-संयुताः

114.61

संनिपात-समुत्थायाः कर्म साधारणं हितम् ।
एवं योनिषु शुद्धासु गर्भं विन्दन्ति योषितः

114.62

34.61अव् संनिपात-समुत्थायां 34.61द्व् गर्भो भवति योषिताम्
चन्दनो नतयोशीर-तिक्ता-पद्मेभ-केसरैः ।
कुटज-त्वक्-फलं मुस्तं जम्ब्व्-आम्रास्थि रसाञ्जनम् ॥ 61.1+1 ॥
34.61.1+1ब्व् -तिक्ता-पद्मेभ-केसरम्
पद्मकोत्पल-बिल्वाब्द-कट्फलैः साधिता निशा ।
धातक्य्-अतिविषा-मांसी-पाठा-मोच-रसोदकम् ॥ 61.1+2 ॥
मधूकं मधुकानन्ता-शारिवा-दाडिम-[त्व]चम् ।
मृल्-लोध्रार्जुन-शैलेय-समङ्गा नागराः समाः ॥ 61.1+3 ॥
चूर्णं श्रेष्ठाम्बुना पीतं हन्ति लोहित-मेहिनम् ।
मूर्छा-तृष्णा-ज्वरार्ताय रक्तातीसार-मेहिनाम् ॥ 61.1+4 ॥
स्त्रीणाम् असृग्-दरं याति गर्भ-संस्थापनं परम् ॥ 61.1+5अब् ॥
अ-दुष्टे प्राकृते बीजे जीवोपक्रमणे सति ।
पञ्च-कर्म-विशुद्धस्य पुरुषस्यापि चेन्द्रियम्

114.63

परीक्ष्य वर्णैर् दोषाणां दुष्टं तद्-घ्नैर् उपाचरेत् ।
मञ्जिष्ठा-कुष्ठ-तगर-त्रि-फला-शर्करा-वचाः

114.64

रसं शिरीष-पत्त्राणां कल्कं च षड्-अहः पिबेत् ।
क्षीरोपनाशिना योषिद् ऋतु-स्नाता सुतार्थिनी ॥ 63.1+1 ॥
द्वे निशे मधुकं मेदां दीप्यकं कटु-रोहिणीम् ।
पयस्या-हिङ्गु-काकोली-वाजिगन्धा-शतावरीः

114.65

34.64अव् द्वे निशे मधुकं मेदा 34.64ब्व् दीप्यकः कटु-रोहिणी 34.64च्व्
पयस्या हिङ्गु काकोली
34.64द्व् वाजिगन्धा शतावरी
पिष्ट्वाक्षांशा घृत-प्रस्थं पचेत् क्षीर-चतुर्-गुणम् ।
योनि-शुक्र-प्रदोषेषु तत् सर्वेषु प्रशस्यते

114.66

34.65अव् पिष्ट्वाक्षांशैर् घृत-प्रस्थं 34.65ब्व् पचेत् क्षीरं चतुर्-गुणम्
34.65ब्व् पचेत् क्षीरे चतुर्-गुणे
34.65द्व् तत् सर्वेषु च शस्यते
आयुष्यं पौष्टिकं मेध्यं धन्यं पुं-सवनं परम् ।
फल-सर्पिर् इति ख्यातं पुष्पे पीतं फलाय यत्

114.67

म्रियमाण-प्रजानां च गर्भिणीनां च पूजितम् ।
एतत् परं च बालानां ग्रह-घ्नं देह-वर्धनम्

मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc