भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गहृदयसूत्र · अध्याय 109

109.1

28.44द्व् वत्सरं परिहरेद् अधिकं च
उत्तरस्थान
कफ-प्रधानाः कुर्वन्ति मेदो-मांसास्र-गा मलाः ।
वृत्तोन्नतं यं श्वयथुं स ग्रन्थिर् ग्रथनात् स्मृतः

109.2

29.1द्व् स ग्रन्थिर् ग्रन्थनात् स्मृतः
दोषास्र-मांस-मेदो-ऽस्थि-सिरा-व्रण-भवा नव ।
ते तत्र वाताद् आयाम-तोद-भेदान्वितो ऽसितः

109.3

स्थानात् स्थानान्तर-गतिर् अ-कस्माद् धानि-वृद्धि-मान् ।
मृदुर् वस्तिर् इवानद्धो विभिन्नो ऽच्छं स्रवत्य् असृक्

109.4

पित्तात् स-दाहः पीताभो रक्तो वा पच्यते द्रुतम् ।
भिन्नो ऽस्रम् उष्णं स्रवति श्लेष्मणा नी-रुजो घनः

109.5

शीतः स-वर्णः कण्डू-मान् पक्वः पूयं स्रवेद् घनम् ।
दोषैर् दुष्टे ऽसृजि ग्रन्थिर् भवेन् मूर्छत्सु जन्तुषु

109.6

सिरा-मांसं च संश्रित्य स-स्वापः पित्त-लक्षणः ।
मांसलैर् दूषितं मांसम् आहारैर् ग्रन्थिम् आवहेत्

109.7

स्निग्धं महान्तं कठिनं सिरा-नद्धं कफाकृतिम् ।
प्रवृद्धं मेदुरैर् मेदो नीतं मांसे ऽथ-वा त्वचि

109.8

वायुना कुरुते ग्रन्थिं भृशं स्निग्धं मृदुं चलम् ।
श्लेष्म-तुल्याकृतिं देह-क्षय-वृद्धि-क्षयोदयम्

109.9

स विभिन्नो घनं मेदस् ताम्रासित-सितं स्रवेत् ।
अस्थि-भङ्गाभिघाताभ्याम् उन्नतावनतं तु यत्

109.10

29.9अव् स विभिन्नो घनं मेदः 29.9ब्व् पूयं ताम्रासितं स्रवेत् 29.9च्व्
अस्थि-भग्नाभिघाताभ्याम्
सो ऽस्थि-ग्रन्थिः पदातेस् तु सहसाम्भो-ऽवगाहनात् ।
व्यायामाद् वा प्रतान्तस्य सिरा-जालं स-शोणितम्

109.11

वायुः संपीड्य संकोच्य वक्री-कृत्य विशोष्य च ।
निः-स्फुरं नी-रुजं ग्रन्थिं कुरुते स सिराह्वयः

109.12

29.11अव् वायुः प्रपीड्य संकोच्य
अ-रूढे रूढ-मात्रे वा व्रणे सर्व-रसाशिनः ।
सार्द्रे वा बन्ध-रहिते गात्रे ऽश्माभिहते ऽथ-वा

109.13

वातो ऽस्रम् अ-स्रुतं दुष्टं संशोष्य ग्रथितं व्रणम् ।
कुर्यात् स-दाहः कण्डू-मान् व्रण-ग्रन्थिर् अयं स्मृतः

109.14

29.13अव् वायुः प्रकुपितः क्षिप्रं 29.13ब्व् प्राप्य मर्माश्रितं व्रणम्
साध्या दोषास्र-मेदो-जा न तु स्थूल-खराश् चलाः ।
मर्म-कण्ठोदर-स्थाश् च महत् तु ग्रन्थितो ऽर्बुदम्

109.15

29.14ब्व् न तु स्थूलाः खराश् चलाः 29.14द्व् महांस् तु ग्रन्थितो ऽर्बुदम्
तल्-लक्षणं च मेदो-ऽन्तैः षो-ढा दोषादिभिस् तु तत् ।
प्रायो मेदः-कफाढ्य-त्वात् स्थिर-त्वाच् च न पच्यते

109.16

सिरा-स्थं शोणितं दोषः संकोच्यान्तः प्रपीड्य च ।
पाचयेत तद् आनद्धं सास्रावं मांस-पिण्डितम्

109.17

29.16ब्व् संकोच्यानु प्रपीड्य च 29.16ब्व् संकोच्यानु प्रपीड्य वा 29.16ब्व्
संकोच्यान्तः प्रपीड्य वा
29.16द्व् स-स्रावं मांस-पिण्ड-ताम्
मांसाङ्कुरैश् चितं याति वृद्धिं चाशु स्रवेत् ततः ।
अजस्रं दुष्ट-रुधिरं भूरि तच् छोणितार्बुदम्

109.18

29.17ब्व् वृद्धं चाशु स्रवेत् ततः
तेष्व् असृङ्-मांस-जे वर्ज्ये चत्वार्य् अन्यानि साधयेत् ।
प्रस्थिता वङ्क्षणोर्व्-आदिम् अधः-कायं कफोल्बणाः

109.19

दोषा मांसास्र-गाः पादौ कालेनाश्रित्य कुर्वते ।
शनैः शनैर् घनं शोफं श्लीपदं तत् प्रचक्षते

109.20

29.19द्व् श्लीपदं तत् प्रचक्ष्यते
परिपोट-युतं कृष्णम् अ-निमित्त-रुजं खरम् ।
रूक्षं च वातात् पित्तात् तु पीतं दाह-ज्वरान्वितम्

109.21

29.20च्व् रूक्षं च वातात् पित्ताच् च 29.20च्व् रूक्षं च श्लीपदं वातात् 29.20द्व्
पित्ताद् दाह-ज्वरान्वितम्
कफाद् गुरु स्निग्धम् अ-रुक् चितं मांसाङ्कुरैर् बृहत् ।
तत् त्यजेद् वत्सरातीतं सु-महत् सु-परिस्रुति

109.22

29.21ब्व् चितं मांसाङ्कुरैर् महत्
पाणि-नासौष्ठ-कर्णेषु वदन्त्य् एके तु पाद-वत् ।
श्लीपदं जायते तच् च देशे ऽनूपे भृशं भृशम्

109.23

29.22ब्व् वदन्त्य् अन्ये तु पाद-वत्
मेद-स्थाः कण्ठ-मन्याक्ष-कक्षा-वङ्क्षण-गा मलाः ।
स-वर्णान् कठिनान् स्निग्धान् वार्ताकामलकाकृतीन्

109.24

29.23अव् मेद-स्थाः कण्ठ-मन्याक्षि-
अवगाढान् बहून् गण्डांश् चिर-पाकांश् च कुर्वते ।
पच्यन्ते ऽल्प-रुजस् ते ऽन्ये स्रवन्त्य् अन्ये ऽति-कण्डुराः

109.25

29.24च्व् पच्यन्ते ऽल्प-रुजस् त्व् अन्ये 29.24द्व् स्रवन्त्य् अन्ये ऽति-कण्डुलाः
नश्यन्त्य् अन्ये भवन्त्य् अन्ये दीर्घ-कालानुबन्धिनः ।
गण्ड-मालापची चेयं दूर्वेव क्षय-वृद्धि-भाक्

109.26

तां त्यजेत् स-ज्वर-च्छर्दि-पार्श्व-रुक्-कास-पीनसाम् ।
अ-भेदात् पक्व-शोफस्य व्रणे चा-पथ्य-सेविनः

109.27

29.26ब्व् -पार्श्व-रुक्-श्वास-पीनसाम् 29.26द्व् व्रणे वा-पथ्य-सेविनः
अनुप्रविश्य मांसादीन् दूरं पूयो ऽभिधावति ।
गतिः सा दूर-गमनान् नाडी नाडीव संस्रुतेः

109.28

नाड्य् एकान्-ऋजुर् अन्येषां सैवानेक-गतिर् गतिः ।
सा दोषैः पृथग् एक-स्थैः शल्य-हेतुश् च पञ्चमी

109.29

29.28च्व् दोषैः पृथक् समस्तैश् च
वातात् स-रुक् सूक्ष्म-मुखी वि-वर्णा फेनिलोद्वमा ।
स्रवत्य् अभ्यधिकं रात्रौ पित्तात् तृड्-ज्वर-दाह-कृत्

109.30

पीतोष्ण-पूति-पूय-स्रुद् दिवा चाति निषिञ्चति ।
घन-पिच्छिल-संस्रावा कण्डूला कठिना कफात्

मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc