भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गहृदयसूत्र · अध्याय 108

108.1

27.41च्व् वात-पित्त-जनितान् अति-वीर्यं 27.41च्व् वात-पित्त-जनितान् अति-वीर्य-
27.41द्व् -व्यापिनो ऽपि विविधैर् उपयोगैः
उत्तरस्थान
हस्त्य्-अश्व-पृष्ठ-गमन-कठिनोत्कटकासनैः ।
अर्शो-निदानाभिहितैर् अपरैश् च निषेवितैः

108.2

28.1ब्व् -कठिनोत्कटुकासनैः
अन्-इष्टा-दृष्ट-पाकेन सद्यो वा साधु-गर्हणैः ।
प्रायेण पिटिका-पूर्वो यो ऽङ्गुले द्व्य्-अङ्गुले ऽपि वा

108.3

28.2अव् अन्-इष्ट-दिष्ट-पाकेन
पायोर् व्रणो ऽन्तर् बाह्यो वा दुष्टासृङ्-मांस-गो भवेत् ।
वस्ति-मूत्राशयाभ्यास-गत-त्वात् स्यन्दनात्मकः

108.4

28.3अव् पायौ व्रणो ऽन्तर् बाह्यो वा
भगन्दरः स सर्वांश् च दारयत्य् अ-क्रिया-वतः ।
भग-वस्ति-गुदांस् तेषु दीर्यमाणेषु भूरिभिः

108.5

28.4अव् भगन्दरः स सर्वश् च 28.4अव् भगन्दरः स सर्वस्य
वात-मूत्र-शकृच्-छुक्रं खैः सूक्ष्मैर् वमति क्रमात् ।
दोषैः पृथग् युतैः सर्वैर् आगन्तुः सो ऽष्टमः स्मृतः

108.6

28.5द्व् आगन्तुश् चाष्टमः स्मृतः
अ-पक्वं पिटिकां आहुः पाक-प्राप्तं भगन्दरम् ।
गूढ-मूलां स-संरम्भां रुग्-आढ्यां रूढ-कोपिनीम्

108.7

भगन्दर-करीं विद्यात् पिटिकां न त्व् अतो ऽन्य-था ।
तत्र श्यावारुणा तोद-भेद-स्फुरण-रुक्-करी

108.8

पिटिका मारुतात् पित्ताद् उष्ट्र-ग्रीवा-वद् उच्छ्रिता ।
रागिणी तनुर् ऊष्माढ्या ज्वर-धूमायनान्विता

108.9

28.8च्व् रागिणी तनु-सूक्ष्मा च
स्थिरा स्निग्धा महा-मूला पाण्डुः कण्डू-मती कफात् ।
श्यावा ताम्रा स-दाहोषा घोर-रुग् वात-पित्त-जा

108.10

28.9च्व् श्याव-ताम्रा स-दाहोषा
पाण्डुरा किञ्-चिद्-आ-श्यावा कृच्छ्र-पाका कफानिलात् ।
पादाङ्गुष्ठ-समा सर्वैर् दोषैर् नाना-विध-व्यथा

108.11

शूला-रोचक-तृड्-दाह-ज्वर-च्छर्दिर्-उपद्रुता ।
व्रण-तां यान्ति ताः पक्वाः प्रमादात् तत्र वात-जा

108.12

चीयते ऽणु-मुखैश् छिद्रैः शत-पोनक-वत् क्रमात् ।
अच्छं स्रवद्भिर् आस्रावम् अजस्रं फेन-संयुतम्

108.13

28.12अव् दीर्यते ऽणु-मुखैश् छिद्रैः 28.12ब्व् शत-पोनक-वक्त्र-वत्
शत-पोनक-संज्ञो ऽयम् उष्ट्र-ग्रीवस् तु पित्त-जः ।
बहु-पिच्छा-परिस्रावी परिस्रावी कफोद्भवः

108.14

वात-पित्ताज् परिक्षेपी परिक्षिप्य गुदं गतिः ।
जायते परितस् तत्र प्राकारं परिखेव च

108.15

28.14द्व् प्राकार-परिखेव च
ऋजुर् वात-कफाद् ऋज्व्या गुदो गत्यात्र दीर्यते ।
कफ-पित्ते तु पूर्वोत्थं दुर्-नामाश्रित्य कुप्यतः

108.16

28.15ब्व् गुदो गत्या तु दीर्यते 28.15ब्व् गुदो गत्या नु दीर्यते 28.15च्व्
कफ-पित्ते तु पूर्वोक्तं
अर्शो-मूले ततः शोफः कण्डू-दाहादि-मान् भवेत् ।
स शीघ्रं पक्व-भिन्नो ऽस्य क्लेदयन् मूलम् अर्शसः

108.17

स्रवत्य् अजस्रं गतिभिर् अयम् अर्शो-भगन्दरः ।
सर्व-जः शम्बुकावर्तः शम्बूकावर्त-संनिभः

108.18

गतयो दारयन्त्य् अस्मिन् रुग्-वेगैर् दारुणैर् गुदम् ।
अस्थि-लेशो ऽभ्यवहृतो मांस-गृद्ध्या यदा गुदम्

108.19

क्षिणोति तिर्यङ् निर्गच्छन्न् उन्-मार्गं क्षततो गतिः ।
स्यात् ततः पूय-दीर्णायां मांस-कोथेन तत्र च

108.20

28.19अव् क्षणोति तिर्यङ् निर्गच्छन् 28.19च्व् स्यात् तदा पूय-दीर्णायां
जायन्ते कृमयस् तस्य खादन्तः परितो गुदम् ।
विदारयन्ति न चिराद् उन्-मार्गी क्षत-जश् च सः

108.21

28.20अव् जायन्ते कृमयस् तेभ्यः 28.20द्व् उन्-मार्गी क्षत-जस् तु सः
तेषु रुग्-दाह-कण्ड्व्-आदीन् विद्याद् व्रण-निषेधतः ।
षट् कृच्छ्र-साधनास् तेषां निचय-क्षत-जौ त्यजेत्

108.22

28.21ब्व् विद्याद् व्रण-विभक्तितः
प्रवाहिणीं वलीं प्राप्तं सेवनीं वा समाश्रितम् ।
अथास्य पिटिकाम् एव तथा यत्नाद् उपाचरेत्

108.23

शुद्ध्य्-असृक्-स्रुति-सेकाद्यैर् यथा पाकं न गच्छति ।
पाके पुनर् उपस्निग्धं स्वेदितं चावगाहतः

108.24

यन्त्रयित्वार्शसम् इव पश्येत् सम्यग् भगन्दरम् ।
अर्वाचीनं पराचीनम् अन्तर्-मुख-बहिर्-मुखम्

108.25

28.24च्व् अवाचीनं पराचीनम्
अथान्तर्-मुखम् एषित्वा सम्यक् शस्त्रेण पाटयेत् ।
बहिर्-मुखं च निःशेषं ततः क्षारेण साधयेत्

108.26

अग्निना वा भिषक् साधु क्षारेणैवोष्ट्र-कन्धरम् ।
नाडीर् एकान्तराः कृत्वा पाटयेच् छत-पोनकम्

108.27

28.26च्व् नाडीम् एकान्तरं कृत्वा 28.26द्व् पाटयेच् छत-पोनके
तासु रूढासु शेषाश् च मृत्युर् दीर्णे गुदे ऽन्य-था ।
परिक्षेपिणि चाप्य् एवं नाड्य्-उक्तैः क्षार-सूत्रकैः

108.28

अर्शो-भगन्दरे पूर्वम् अर्शांसि प्रतिसाधयेत् ।
त्यक्त्वोपचर्यः क्षत-जः शल्यं शल्य-वतस् ततः

108.29

28.28ब्व् अर्शांसि प्रतिसारयेत्
आहरेच् च तथा दद्यात् कृमि-घ्नं लेप-भोजनम् ।
पिण्ड-नाड्य्-आदयः स्वेदाः सु-स्निग्धा रुजि पूजिताः

108.30

28.29अव् आहरेत तथा दद्यात् 28.29अव् आहरेत् तत् तथा दद्यात् 28.29अव् आहरेत्
तु तथा दद्यात्
सर्व-त्र च बहु-च्छिद्रे छेदान् आलोच्य योजयेत् ।
गो-तीर्थ-सर्वतो-भद्र-दल-लाङ्गल-लाङ्गलान्

108.31

28.30अव् सर्व-त्रापि बहु-च्छिद्रे
पार्श्वं गतेन शस्त्रेण च्छेदो गो-तीर्थको मतः ।
सर्वतः सर्वतो-भद्रः पार्श्व-च्छेदो ऽर्ध-लाङ्गलः

108.32

28.31अव् पार्श्व-गतेन शस्त्रेण 28.31अव् पार्श्वागतेन शस्त्रेण
पार्श्व-द्वये लाङ्गलकः समस्तांश् चाग्निना दहेत् ।
आस्राव-मार्गान् निःशेषं नैवं विकुरुते पुनः

108.33

28.32च्व् आस्राव-मार्गान् निःशेषान्
यतेत कोष्ठ-शुद्धौ च भिषक् तस्यान्तरान्तरा ।
लेपो व्रणे बिडालास्थि त्रि-फला-रस-कल्कितम्

108.34

28.33अव् यतेत कोष्ठ-शुद्ध्यै च 28.33अव् यतेत कोष्ठ-संशुद्धौ
28.33द्व् त्रि-फला-रस-कल्कितः
ज्योतिष्मती-मलयु-लाङ्गलि-शेलु-पाठा-कुम्भाग्नि-सर्ज-करवीर-वचा-सुधार्कैः ।
अभ्यञ्जनाय विपचेत भगन्दराणां तैलं वदन्ति परमं हितम् एतद् एषाम्

108.35

28.34ब्व् -कुम्भाग्नि-सर्जि-करवीर-वचा-सुधार्कैः
28.34द्व् तैलं वदन्ति परमं हितम् एतद् एव
मधुक-लोध्र-कणा-त्रुटि-रेणुका-द्वि-रजनी-फलिनी-पटु-शारिवाः ।
कमल-केसर-पद्मक-धातकी-मदन-सर्ज-रसामय-रोदिकाः

108.36

28.35द्व् -मदन-सर्ज-रसामय-लोध्रकाः
स-बीजपूर-च्छदनैर् एभिस् तैलं विपाचितम् ।
भगन्दरापची-कुष्ठ-मधु-मेह-व्रणापहम्

108.37

मधु-तैल-युता विडङ्ग-सार-त्रि-फला-मागधिका-कणाश् च लीढाः ।
कृमि-कुष्ठ-भगन्दर-प्रमेह-क्षत-नाडी-व्रण-रोपणा भवन्ति

108.38

28.37ब्व् -त्रि-फला-मागधिकोषणाश् च लीढाः 28.37द्व्
-क्षत-नाडी-व्रण-रोहणा भवन्ति
अमृता-त्रुटि-वेल्ल-वत्सकं कलि-पथ्यामलकानि गुग्गुलुः ।
क्रम-वृद्धम् इदं मधु-द्रुतं पिटिका-स्थौल्य-भगन्दराञ् जयेत्

108.39

28.38च्व् क्रम-वृद्धम् इदं मधु-प्लुतं
मागधिकाग्नि-कलिङ्ग-विडङ्गैर् बिल्व-घृतैः स-वरा-पल-षट्कैः ।
गुग्गुलुना सदृशेन समेतैः क्षौद्र-युतैः सकलामय-नाशः

108.40

28.39अव् मागधिकाग्नि-कलिङ्ग-विडङ्गैस् 28.39ब्व् तुल्य-घृतैः
स-वरा-पल-षट्कैः
गुग्गुलु-पञ्च-पलं पलिकांशा मागधिका त्रि-फला च पृथक् स्यात् ।
त्वक्-त्रुटि-कर्ष-युतं मधु-लीढं कुष्ठ-भगन्दर-गुल्म-गति-घ्नम्

108.41

शृङ्गवेर-रजो-युक्तं तद् एव च सु-भावितम् ।
क्वाथेन दश-मूलस्य विशेषाद् वात-रोग-जित्

108.42

उत्तमा-खदिर-सार-जं रजः शीलयन्न् असन-वारि-भावितम् ।
हन्ति तुल्य-महिषाक्ष-माक्षिकं कुष्ठ-मेह-पिटिका-भगन्दरान्

108.43

28.42ब्व् शीलयेद् अनल-वारि-भावितम् 28.42ब्व् शीलयेद् असन-वारि-भावितम्
28.42च्व् हन्ति तुल्य-महिषाख्य-माक्षिकं
भगन्दरेष्व् एष विशेष उक्तः शेषाणि तु व्यञ्जन-साधनानि ।
व्रणाधिकारात् परिशीलनाच् च सम्यग् विदित्वौपयिकं विदध्यात्

108.44

28.43द्व् सम्यग् विदित्वौषधिकं विदध्यात्
अश्व-पृष्ठ-गमनं चल-रोधं मद्य-मैथुनम् अ-जीर्णम् अ-सात्म्यम् ।
साहसानि विविधानि च रूढे वत्सरं परिहरेद् अधिकं वा

मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc