भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गहृदयसूत्र · अध्याय 110

110.1

29.30अव् पीतोष्ण-पूति-पूयं तु 29.30अव् पीतोष्ण-पूति-पूयाश्रु 29.30अव्
पीतोष्ण-पूति-पूयास्रुर्
निशि चाभ्यधिक-क्लेदा सर्वैः सर्वाकृतिं त्यजेत् ॥ 31अब् ॥
29.31ब्व् सर्वैः सर्वाकृतिस् त्यजेत्
अन्तः-स्थितं शल्यम् अन्-आहृतं तु करोति नाडीं वहते च सास्य ॥ 31च्द् ॥
29.31द्व् करोति नाडीं वहते च सास्यात्
फेनानुविद्धं तनुम् अल्पम् उष्णं सास्रं च पूयं स-रुजं च नित्यम् ॥ 31एf ॥
29.31एव् फेनानुविद्धं तनुम् अच्छम् उष्णं
उत्तरस्थान
ग्रन्थिष्व् आमेषु कर्तव्या यथा-स्वं शोफ-वत् क्रिया ।
बृहती-चित्रक-व्याघ्री-कणा-सिद्धेन सर्पिषा

110.2

स्नेहयेच् छुद्धि-कामं च तीक्ष्णैः शुद्धस्य लेपनम् ।
संस्वेद्य बहु-शो ग्रन्थिं विमृद्नीयात् पुनः पुनः

110.3

एष वाते विशेषेण क्रमः पित्तास्र-जे पुनः ।
जलौकसो हिमं सर्वं कफ-जे वातिको विधिः

110.4

तथाप्य् अ-पक्वं छित्त्वैनं स्थिते रक्ते ऽग्निना दहेत् ।
साध्व् अ-शेषं स-शेषो हि पुनर् आप्यायते ध्रुवम्

110.5

30.4द्व् पुनर् आनह्यते द्रुतम्
मांस-व्रणोद्भवौ ग्रन्थी यापयेद् एवम् एव च ।
कार्यं मेदो-भवे ऽप्य् एतत् तप्तैः फलादिभिश् च तम्

110.6

30.5ब्व् पाटयेद् एवम् एव च
प्रमृद्यात् तिल-दिग्धेन च्छन्नं द्वि-गुण-वाससा ।
शस्त्रेण पाटयित्वा वा दहेन् मेदसि सूद्धृते

110.7

30.6अव् प्रमृज्यात् तिल-दिग्धेन 30.6द्व् दहेन् मेदसि तूद्धृते
सिरा-ग्रन्थौ नवे पेयं तैलं साहचरं तथा ।
उपनाहो ऽनिल-हरैर् वस्ति-कर्म सिरा-व्यधः

110.8

अर्बुदे ग्रन्थि-वत् कुर्यात् यथा-स्वं सु-तरां हितम् ।
श्लीपदे ऽनिल-जे विध्येत् स्निग्ध-स्विन्नोपनाहिते

110.9

अजा-शकृच्-छिग्रु-मूल-लाक्षा-सुरस-काञ्जिकैः ॥ 8.1+(1)अब् ॥
30.8.1+(1)ब्व् -लाक्षा-रस-स-काञ्जिकैः 30.8.1+(1)ब्व् -लवण-क्षार-काञ्जिकैः
उपोदका-पत्त्र-पिण्ड्या छदैर् आच्छादितं घनम् ।
निवेश्य पट्टं बध्नीयाच् छाम्यत्य् एवं नवार्बुदम् ॥ 8.1+(2) ॥
30.8.1+(2)अव् उपोदकार्क-पिण्याक- 30.8.1+(2)ब्व् -च्छदैर् आच्छादितं घनम्
जीर्णे चार्क-च्छद-सुधा-सामुद्र-गुड-काञ्जिकैः ।
प्रच्छाने पिण्डिका बद्धा ग्रन्थ्य्-अर्बुद-विलायनी ॥ 8.1+(3) ॥
30.8.1+(3)अव् जीर्णार्द्रार्क-च्छद-सुधा- 30.8.1+(3)ब्व् -सामुद्रं तुल्यकाम्बुभिः
30.8.1+(3)च्व् प्रच्छन्ने पिटिकां बद्ध्वा 30.8.1+(3)च्व् प्रच्छानैर् पिण्डिकां
बद्ध्वा
30.8.1+(3)द्व् ग्रन्थ्य्-अर्बुद-विलायनम्
सिराम् उपरि गुल्फस्य द्व्य्-अङ्गुले पाययेच् च तम् ।
मासम् एरण्ड-जं तैलं गो-मूत्रेण समन्वितम्

110.10

जीर्णे जीर्णान्नम् अश्नीयाच् छुण्ठी-शृत-पयो-ऽन्वितम् ।
त्रैवृतं वा पिबेद् एवम् अ-शान्ताव् अग्निना दहेत्

110.11

गुल्फस्याधः सिरा-मोक्षः पैत्ते सर्वं च पित्त-जित् ।
सिराम् अङ्गुष्ठके विद्ध्वा कफ-जे शीलयेद् यवान्

110.12

स-क्षौद्राणि कषायाणि वर्धमानास् तथाभयाः ।
लिम्पेत् सर्षप-वार्ताकी-मूलाभ्यां धन्वयाथ-वा

110.13

30.12द्व् -मूलाभ्यां धान्ययाथ-वा
ऊर्ध्वाधः-शोधनं पेयम् अपच्यां साधितं घृतम् ।
दन्ती-द्रवन्ती-त्रिवृता-जालिनी-देवदालिभिः

110.14

शीलयेत् कफ-मेदो-घ्नं धूम-गण्डूष-नावनम् ।
सिरयापहरेद् रक्तं पिबेन् मूत्रेण तार्क्ष्य-जम्

110.15

पलम् अर्ध-पलं वापि कर्षं वाप्य् उष्ण-वारिणा ।
काञ्चनार-त्वचं पीत्वा गण्ड-मालां व्यपोहति ॥ 14+(1) ॥
30.14+(1)ब्व् कर्षं वोष्णेन वारिणा
ग्रन्थीन् अ-पक्वान् आलिम्पेन् नाकुली-पटु-नागरैः ।
स्विन्नान् लवण-पोटल्या कठिनान् अनु मर्दयेत्

110.16

शमी-मूलक-शिग्रूणां बीजैः स-यव-सर्षपैः ।
लेपः पिष्टो ण्म्ल-तक्रेण ग्रन्थि-गण्ड-विलायनः

110.17

30.16अव् शमी-मूलक-शिग्रूत्थ- 30.16अव् शमी-मूलक-शिग्रूमा- 30.16ब्व् -बीजः
स-यव-सर्षपैः
30.16ब्व् -बीजैः स-यव-सर्षपैः
क्षुण्णानि निम्ब-पत्त्राणि कॢप्तैर् भल्लातकैः सह ।
शराव-संपुटे दग्ध्वा सार्धं सिद्धार्थकैः समैः ॥ 16+(1) ॥
30.16+(1)अव् जीर्णानि निम्ब-पत्त्राणि 30.16+(1)ब्व् क्लिन्नैर् भल्लातकैः सह
30.16+(1)ब्व् क्षिप्रैर् भल्लातकैः सह
एतच् छागाम्बुना पिष्टं गण्ड-माला-प्रलेपनम् ॥ 16+(2)अब् ॥
30.16+(2)ब्व् गण्ड-माला-विलेपनम्
पाकोन्-मुखान् स्रुतास्रस्य पित्त-श्लेष्म-हरैर् जयेत् ।
अ-पक्वान् एवो वोद्धृत्य क्षाराग्निभ्याम् उपाचरेत्

110.18

काकादनी-लाङ्गलिका-नहिकोत्तुण्डिकी-फलैः ।
जीमूत-बीज-कर्कोटी-विशाला-कृतवेधनैः

110.19

30.18ब्व् -नलिकोत्तुण्डिकी-फलैः 30.18ब्व् -नलिकोत्तुण्डकी-फलैः 30.18ब्व्
-नहिकोत्तैण्डुकी-फलैः
पाठान्वितैः पलार्धांशैर् विष-कर्ष-युतैः पचेत् ।
प्रस्थं करञ्ज-तैलस्य निर्गुण्डी-स्व-रसाढके

110.20

30.19अव् पथ्यान्वितैः पलार्धांशैर्
अनेन माला गण्डानां चिर-जा पूय-वाहिनी ।
सिध्यत्य् अ-साध्य-कल्पापि पानाभ्यञ्जन-नावनैः

110.21

तैलं लाङ्गलिकी-कन्द-कल्क-पादं चतुर्-गुणे ।
निर्गुण्डी-स्व-रसे पक्वं नस्याद्यैर् अपची-प्रणुत्

110.22

30.21ब्व् -कल्क-पादे चतुर्-गुणे
भद्रश्री-दारु-मरिच-द्वि-हरिद्रा-त्रिवृद्-घनैः ।
मनःशिलाल-नलद-विशाला-करवीरकैः

110.23

30.22अच् भद्र-श्रीदारु-मरिच- 30.22च्व् मनःशिलाल-मदन-
गो-मूत्र-पिष्टैः पलिकैर् विषस्यार्ध-पलेन च ।
ब्राह्मी-रसार्क-ज-क्षीर-गो-शकृद्-रस-संयुतम्

110.24

प्रस्थं सर्षप-तैलस्य सिद्धम् आशु व्यपोहति ।
पानाद्यैः शीलितं कुष्ठ-दुष्ट-नाडी-व्रणापचीः

110.25

30.24च्व् पानाद्यैः शीलितं कुष्ठं 30.24द्व् दुष्ट-नाडी-व्रणापचीः
वचा-हरीतकी-लाक्षा-कटु-रोहिणि-चन्दनैः ।
तैलं प्रसाधितं पीतं स-मूलाम् अपचीं जयेत्

110.26

शरपुङ्खोद्भवं मूलं पिष्टं तण्डुल-वारिणा ।
नस्याल् लेपाच् च दुष्टारुर्-अपची-विष-जन्तु-जित्

110.27

मूलैर् उत्तमकारण्याः पीलुपर्ण्याः सहाचरात् ।
स-लोध्राभय-यष्ट्य्-आह्व-शताह्वा-द्वीपि-दारुभिः

110.28

30.27अव् मूलैर् उत्तमवारुण्याः 30.27अव् मूलैर् उत्तरवारुण्याः 30.27अव्
मूलैर् उत्तरवारिण्याः
तैलं क्षीर-समं सिद्धं नस्ये ऽभ्यङ्गे च पूजितम् ।
गो-ऽव्य्-अजाश्व-खुरा दग्धाः कटु-तैलेन लेपनम्

110.29

30.28च्व् गो-गजाश्व-खुरा दग्धाः
ऐङ्गुदेन तु कृष्णाहिर् वायसो वा स्वयं मृतः ।
इत्य् अ-शान्तौ गदस्यान्य-पार्श्व-जङ्घा-समाश्रितम्

110.30

30.29च्व् इत्य् अ-शान्तौ गदे चान्य- 30.29द्व् -पार्श्वे जङ्घा-समाश्रितम्
वस्तेर् ऊर्ध्वम् अधस्-ताद् वा मेदो हृत्वाग्निना दहेत् ।
स्थितस्योर्ध्वं पदं मित्वा तन्-मानेन च पार्ष्णितः

110.32

तत ऊर्ध्वं हरेद् ग्रन्थीन् इत्य् आह भग-वान् निमिः ॥ 31अब् ॥
पार्ष्णिं प्रति द्वा-दश चाङ्गुलानि मुक्त्वेन्द्र-वस्तिं च गदान्य-पार्श्वे ॥ 31च्द् ॥
विदार्य मत्स्याण्ड-निभानि मध्याज् जालानि कर्षेद् इति सुश्रुतोक्तिः ॥ 31एf ॥
आ-गुल्फ-कर्णात् सु-मितस्य जन्तोस् तस्याष्ट-भागं खुडकाद् विभज्य ।
घ्राणार्जवे ऽधः सुर-राज-वस्तेर् भित्त्वाक्ष-मात्रं त्व् अपरे वदन्ति

110.33

30.32च्व् घोणार्जवे ऽधः सुर-राज-वस्तेर् 30.32द्व् भित्त्वाक्ष-मात्राम् अपरे
वदन्ति
उपनाह्यानिलान् नाडीं पाटितां साधु लेपयेत् ।
प्रत्यक्पुष्पी-फल-युतैस् तैलैः पिष्टैः स-सैन्धवैः

110.34

पैत्तीं तु तिल-मञ्जिष्ठा-नागदन्ती-निशा-द्वयैः ।
श्लैष्मिकीं तिल-सौराष्ट्री-निकुम्भारिष्ट-सैन्धवैः

110.35

शल्य-जां तिल-मध्व्-आज्यैर् लेपयेच् छिन्न-शोधिताम् ।
अ-शस्त्र-कृत्याम् एषिण्या भित्त्वान्ते सम्यग्-एषिताम्

110.36

क्षार-पीतेन सूत्रेण बहु-शो दारयेद् गतिम् ।
व्रणेषु दुष्ट-सूक्ष्मास्य-गम्भीरादिषु साधनम्

110.37

30.36ब्व् बहु-शो पूरयेद् गतिम्
या वर्त्यो यानि तैलानि तन् नाडीष्व् अपि शस्यते ।
पिष्टं चञ्चु-फलं लेपान् नाडी-व्रण-हरं परम्

110.38

घोण्टा-फल-त्वक् लवणं स-लाक्षं बूकस्य पत्त्रं वनिता-पयश् च ।
स्नुग्-अर्क-दुग्धान्वित एष कल्को वर्ती-कृतो हन्त्य् अ-चिरेण नाडीम्

110.39

30.38ब्व् चुक्रस्य पत्त्रं वनिता-पयश् च 30.38ब्व् वृषस्य पत्त्रं वनिता-पयश्
च
सामुद्र-सौवर्चल-सिन्धु-जन्म-सु-पक्व-घोण्टा-फल-वेश्म-धूमाः ।
आम्रात-गायत्रि-ज-पल्लवाश् च कटङ्कटेर्याव् अथ चेतकी च

110.40

30.39द्व् कटङ्कटेर्याव् अथ केतकी च 30.39द्व् कटङ्कटेर्याव् अथ दीनिका च
कल्के ऽभ्यङ्गे चूर्णे वर्त्यां चैतेषु शील्यमानेषु ।
अ-गतिर् इव नश्यति गतिश् चपला चपलेषु भूतिर् इव

मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc