अष्टाङ्गहृदयसूत्र · अध्याय 107
26.57अव् कुर्याद् वातासृग्-उक्तं हि 26.57ब्व् -मर्दनाभ्यङ्ग-शोधनम् 26.57ब्व्
मर्दनाभ्यङ्ग-शोधनम्
26.57द्व् क्षीणं मर्माहताहतम् 26.57द्व् क्षीणं मर्माहतं च तम्
वासयेत् तैल-पूर्णायां द्रोण्यां मांस-रसाशिनम् ॥ 57ऊअब् ॥
उत्तरस्थान
पात-घातादिभिर् द्वे-धा भङ्गो ऽस्थ्नां संध्य्-अ-संधितः ।
प्रसारणाकुञ्चनयोर् अ-शक्तिः संधि-मुक्त-ता
27.1ब्व् भङ्गो ऽस्थ्नः संध्य्-अ-संधि-गः 27.1ब्व् भङ्गो ऽस्थ्नः
संध्य्-अ-संधितः
इतरस्मिन् भृशं शोफः सर्वावस्थास्व् अति-व्यथा ।
अ-शक्तिश् चेष्टिते ऽल्पे ऽपि पीड्यमाने स-शब्द-ता
27.2ब्व् सर्वावस्थास्व् अति-व्यथः
समासाद् इति भङ्गस्य लक्षणं बहु-धा तु तत् ।
भिद्यते भङ्ग-भेदेन तस्य सर्वस्य साधनम्
यथा स्याद् उपयोगाय तथा तद् उपदेक्ष्यते ।
प्राज्याणु-दारि यत् त्व् अस्थि स्पर्शे शब्दं करोति यत्
27.4च्व् प्राज्याणु-दारि यच् चास्थि
यत्रास्थि-लेशः प्रविशेन् मध्यम् अस्थ्नो विदारितः ।
भग्नं यच् चाभिघातेन किञ्-चिद् एवावशेषितम्
27.5च्व् भग्नं यद् अभिघातेन 27.5च्व् भग्नं यद् वाभिघातेन
उन्नम्यमानं क्षत-वद् यच् च मज्जनि मज्जति ।
तद् दुः-साध्यं कृशा-शक्त-वातलाल्पाशिनाम् अपि
भिन्नं कपालं यत् कट्यां संधि-मुक्तं च्युतं च यत् ।
जघनं प्रति पिष्टं च भग्नं यत् तद् विवर्जयेत्
27.7अव् भिन्नं कपालं यत् कट्याः
अ-संश्लिष्ट-कपालं च ललाटं चूर्णितं तथा ।
यच् च भग्नं भवेच् छङ्ख-शिरः-पृष्ठ-स्तनान्तरे
सम्यग्-यमितम् अप्य् अस्थि दुर्-न्यासाद् दुर्-निबन्धनात् ।
संक्षोभाद् अपि यद् गच्छेद् वि-क्रियां तद् विवर्जयेत्
27.9द्व् वि-क्रियां तच् च वर्जयेत्
आदितो यच् च दुर्-जातम् अस्थि संधिर् अथापि वा ।
तरुणास्थीनि भुज्यन्ते भज्यन्ते नलकानि तु
27.10च्व् तरुणास्थीनि नम्यन्ते 27.10द्व् भज्यन्ते नलकानि च
कपालानि विभिद्यन्ते स्फुटन्त्य् अन्यानि भूयसा ।
अथावनतम् उन्नम्यम् उन्नतं चावपीडयेत्
27.11अव् कपालास्थीनि भिद्यन्ते
आञ्छेद् अतिक्षिप्तम् अधो-गतं चोपरि वर्तयेत् ।
आञ्छनोत्पीडनोन्नाम-चर्म-संक्षेप-बन्धनैः
27.12अव् आञ्छेद् अ-विक्षिप्तम् अधो-
संधीञ् छरीर-गान् सर्वांश् चलान् अप्य् अ-चलान् अपि ।
इत्य् एतैः स्थापनोपायैः सम्यक् संस्थाप्य निश्-चलम्
27.13द्व् सम्यक् संस्थाप्य निश्-चलान्
पट्टैः प्रभूत-सर्पिर्भिः वेष्टयित्वा सुखैस् ततः ।
कदम्बोदुम्बराश्वत्थ-सर्जार्जुन-पलाश-जैः
वंशोद्भवैर् वा पृथुभिस् तनुभिः सु-निवेशितैः ।
सु-श्लक्ष्णैः स-प्रतिस्तम्भैर् वल्कलैः शकलैर् अपि
27.15च्व् सु-श्लक्ष्णैः स-प्रतिस्तम्भैर्
कुशाह्वयैः समं बन्धं पट्टस्योपरि योजयेत् ।
शिथिलेन हि बन्धेन संधि-स्थैर्यं न जायते
27.16द्व् संधेः स्थैर्यं न जायते
गाढेनाति रुजा-दाह-पाक-श्वयथु-संभवः ।
त्र्य्-अहात् त्र्य्-अहाद् ऋतौ घर्मे सप्ताहान् मोक्षयेद् धिमे
27.17अव् गाढेनापि रुजा-दाह-
साधारणे तु पञ्चाहाद् भङ्ग-दोष-वशेन वा ।
न्यग्रोधादि-कषायेण ततः शीतेन सेचयेत्
27.18ब्व् भग्न-दोष-वशेन वा 27.18ब्व् भङ्गे दोष-वशेन वा
तं पञ्च-मूल-पक्वेन पयसा तु स-वेदनम् ।
सुखोष्णं वावचार्यं स्याच् चक्र-तैलं विजानता
27.19अव् पञ्च-मूल-विपक्वेन 27.19च्च् सुखोष्णम् अवचार्यं स्याच्
विभज्य देशं कालं च वात-घ्नौषध-संयुतम् ।
प्रततं सेक-लेपांश् च विदध्याद् भृश-शीतलान्
27.20अव् विभज्य देश-कालौ च 27.20ब्व् वात-घ्नौषध-साधितम्
गृष्टि-क्षीरं स-सर्पिष्कं मधुरौषध-साधितम् ।
प्रातः प्रातः पिबेद् भग्नः शीतलं लाक्षया युतम्
स-व्रणस्य तु भग्नस्य व्रणो मधु-घृतोत्तरैः ।
कषायैः प्रतिसार्यो ऽथ शेषो भङ्गोदितः क्रमः
27.22च्व् कषायैः प्रतिसार्यो वा
लम्बानि व्रण-मांसानि प्रलिप्य मधु-सर्पिषा ।
संदधीत व्रणान् वैद्यो बन्धनैश् चोपपादयेत्
तान् समान् सु-स्थिताञ् ज्ञात्वा फलिनी-लोध्र-कट्फलैः ।
समङ्गा-धातकी-युक्तैश् चूर्णितैर् अवचूर्णयेत्
धातकी-लोध्र-चूर्णैर् वा रोहन्त्य् आशु तथा व्रणाः ।
इति भङ्ग उपक्रान्तः स्थिर-धातोर् ऋतौ हिमे
मांसलस्याल्प-दोषस्य सु-साध्यो दारुणो ऽन्य-था ।
पूर्व-मध्यान्त-वयसाम् एक-द्वि-त्रि-गुणैः क्रमात्
27.26ब्व् सु-साधो दारुणो ऽन्य-था
मासैः स्थैर्यं भवेत् संधेर् यथोक्तं भजतां विधिम् ।
कटी-जङ्घोरु-भग्नानां कपाट-शयनं हितम्
27.27ब्व् यथोक्तं भजतो विधिम्
यन्त्रणार्थं तथा कीलाः पञ्च कार्या निबन्धनाः ।
जङ्घोर्वोः पार्श्वयोर् द्वौ द्वौ तल एकश् च कीलकः
श्रोण्यां वा पृष्ठ-वंशे वा वक्षस्य् अक्षकयोस् तथा ।
विमोक्षे भग्न-संधीनां विधिम् एवं समाचरेत्
27.29ब्व् वक्षस्य् अंशकयोस् तथा 27.29ब्व् वक्त्रस्याक्षकयोस् तथा 27.29द्व्
विधिम् एनं समाचरेत्
संधींश् चिर-विमुक्तांस् तु स्निग्ध-स्विन्नान् मृदू-कृतान् ।
उक्तैर् विधानैर् बुद्ध्या च यथा-स्वं स्थानम् आनयेत्
27.30अव् संधींश् चिर-विमुक्तांश् च 27.30च्व् उक्तैर् विधानैर् युक्त्या च
27.30च्व् उक्तैर् विधानैर् युक्त्या वा
अ-संधि-भग्ने रूढे तु विषमोल्बण-साधिते ।
आपोथ्य भङ्गं यमयेत् ततो भग्न-वद् आचरेत्
27.31अव् अ-संधि-भग्ने रूढे च 27.31ब्व् विषमोल्बण-साधनैः
भग्नं नैति यथा पाकं प्रयतेत तथा भिषक् ।
पक्व-मांस-सिरा-स्नायुः संधिः श्लेषं न गच्छति
27.32अव् भङ्गो नैति यथा पाकं
वात-व्याधि-विनिर्दिष्टान् स्नेहान् भग्नस्य योजयेत् ।
चतुष्-प्रयोगान् बल्यांश् च वस्ति-कर्म च शीलयेत्
शाल्य्-आज्य-रस-दुग्धाद्यैः पौष्टिकैर् अ-विदाहिभिः ।
मात्रयोपचरेद् भग्नं संधि-संश्लेष-कारिभिः
ग्लानिर् न शस्यते तस्य संधि-विश्लेष-कृद् धि सा ॥ 35अब् ॥
लवणं कटुकं क्षारम् अम्लं मैथुनम् आतपम् ॥ 35च्द् ॥
व्यायामं च न सेवेत भग्नो रूक्षं च भोजनम् ॥ 35एf ॥
कृष्णांस् तिलान् वि-रजसो दृढ-वस्त्र-बद्धान् सप्त क्षपा वहति वारिणि वासयेत् ।
संशोषयेद् अनु-दिनं प्रविसार्य चैतान् क्षीरे तथैव मधुक-क्वथिते च तोये
27.36च्व् संशोषयेद् अनु-दिनं प्रतिसार्य चैतान् 27.36च्व् संशोषयेद् अनु-दिनं
प्रविभाव्य चैतान्
पुनर् अपि पीत-पयस्कांस् तान् पूर्व-वद् एव शोषितान् बाढम् ।
विगत-तुषान् अ-रजस्कान् संचूर्ण्य सु-चूर्णितैर् युञ्ज्यात्
27.37द्व् संचूर्ण्य विचूर्णितैर् युञ्ज्यात्
नलद-वालक-लोहितयष्टिका-नख-मिशि-प्लव-कुष्ठ-बला-त्रयैः ।
अगुरु-कुङ्कुम-चन्दन-शारिवा-सरल-सर्ज-रसामरदारुभिः
पद्मकादि-गणोपेतैस् तिल-पिष्टं ततश् च तत् ।
समस्त-गन्ध-भैषज्य-सिद्ध-दुग्धेन पीडयेत्
27.39ब्व् तिल-पिष्टं ततश् च तम्
शैलेय-रास्नांशुमती-कसेरु-कालानुसारी-नत-पत्त्र-लोध्रैः ।
स-क्षीरशुक्लैः स-पयः स-दूर्वैस् तैलं पचेत् तन् नलदादिभिश् च
27.40च्व् त्वक्-क्षीर-युक्तैः पयसा स-दूर्वैस् 27.40च्व् स-क्षीर-युक्तैस् पयसा
स-दूर्वैस्
27.40च्व् स-क्षीर-युक्तैस् स-पयः स-दूर्वैस्
गन्ध-तैलम् इदम् उत्तमम् अस्थि-स्थैर्य-कृज् जयति चाशु विकारान् ।
वात-पित्त-जनितान् अति-वीर्यान् व्यापिनो ऽपि विविधैर् उपयोगैः
मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0