भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गहृदयसूत्र · अध्याय 106

106.1

25.66अव् एभिः प्रक्षालनालेप- 25.66ब्व् -घृत-तैल-रस-क्रियाः
जाती-निम्ब-पटोल-पत्त्र-कटुका-दार्वी-निशा-शारिवा- ॥ 67अ ॥
-मञ्जिष्ठाभय-सिक्थ-तुत्थ-मधुकैर् नक्ताह्व-बीजान्वितैः ॥ 67ब् ॥
25.67ब्व् -मञ्जिष्ठाभय-सिक्थ-तुत्थ-मधुकैर् नक्ताह्व-बीजैस् तथा
सर्पिः साध्यम् अनेन सूक्ष्म-वदना मर्माश्रिताः क्लेदिनो ॥ 67च् ॥
25.67च्व् सर्पिः साध्यम् अनेन सूक्ष्म-वदना मर्माश्रिताः स्राविणो
25.67च्व् सर्पिः सिद्धम् अनेन सूक्ष्म-वदना मर्माश्रिताः क्लेदिनो
गम्भीराः स-रुजो व्रणाः स-गतयः शुध्यन्ति रोहन्ति च ॥ 67द् ॥
25.67द्व् गम्भीराः स-रुजो व्रणाः स-गतिकाः शुध्यन्ति रोहन्ति च
साधितं स्व-रसे तैलं काकमाच्याश् चतुर्-गुणे ।
गति-भाजाम् अपि हितं व्रणानां रोपणं परम् ॥ 67+1 ॥
25.67+1च्व् गति-भाजाम् अपि वरं
उत्तरस्थान
सद्यो-व्रणा ये सहसा संभवन्त्य् अभिघाततः ।
अन्-अन्तैर् अपि तैर् अङ्गम् उच्यते जुष्टम् अष्ट-धा

106.2

घृष्टावकृत्त-विच्छिन्न-प्रविलम्बित-पातितम् ।
विद्धं भिन्नं विदलितं तत्र घृष्टं लसीकया

106.3

26.2ब्व् -प्रविलम्बि-निपातितम्
रक्त-लेशेन वा युक्तं स-प्लोषं छेदनात् स्रवेत् ।
अवगाढं ततः कृत्तं विच्छिन्नं स्यात् ततो ऽपि च

106.4

प्रविलम्बि स-शेषे ऽस्थ्नि पतितं पातितं तनोः ।
सूक्ष्मास्य-शल्य-विद्धं तु विद्धं कोष्ठ-विवर्जितम्

106.5

26.4अव् प्रविलम्बि स-शेषास्थि
भिन्नम् अन्यद् विदलितं मज्ज-रक्त-परिप्लुतम् ।
प्रहार-पीडनोत्पेषात् सहास्थ्ना पृथु-तां गतम्

106.6

26.5च्व् प्रहार-पीडनोत्पातैः 26.5च्व् प्रहार-पीडनात् तेषां
सद्यः सद्यो-व्रणं सिञ्चेद् अथ यष्ट्य्-आह्व-सर्पिषा ।
तीव्र-व्यथं कवोष्णेन बला-तैलेन वा पुनः

106.7

क्षतोष्मणो निग्रहार्थं तत्-कालं विसृतस्य च ।
कषाय-शीत-मधुर-स्निग्धा लेपादयो हिताः

106.8

सद्यो-व्रणेष्व् आयतेषु संधानार्थं विशेषतः ।
मधु-सर्पिश् च युञ्जीत पित्त-घ्नीश् च हिमाः क्रियाः

106.9

26.8च्व् मधु-सर्पिः प्रयुञ्जीत
स-संरम्भेषु कर्तव्यम् ऊर्ध्वं चाधश् च शोधनम् ।
उपवासो हितं भुक्तं प्रततं रक्त-मोक्षणम्

106.10

26.9च्व् उपवासो हितस् तत्र
घृष्टे विदलिते चैष सु-तराम् इष्यते विधिः ।
तयोर् ह्य् अल्पं स्रवत्य् अस्रं पाकस् तेनाशु जायते

106.11

अत्य्-अर्थम् अस्रं स्रवति प्राय-शो ऽन्य-त्र विक्षते ।
ततो रक्त-क्षयाद् वायौ कुपिते ऽति-रुजा-करे

106.12

26.11अव् अत्य्-अर्थम् अस्रं वमति 26.11ब्व् प्राय-शो ऽन्य-त्र च क्षते
स्नेह-पान-परीषेक-स्वेद-लेपोपनाहनम् ।
स्नेह-वस्तिं च कुर्वीत वात-घ्नौषध-साधितम्

106.13

26.12द्व् स्नेहैर् वस्तिं च कुर्वीत 26.12द्व् वात-घ्नौषध-साधितैः
इति साप्ताहिकः प्रोक्तः सद्यो-व्रण-हितो विधिः ।
सप्ताहाद् गत-वेगे तु पूर्वोक्तं विधिम् आचरेत्

106.14

26.13अव् इति सप्ताहिकः प्रोक्तः
प्रायः सामान्य-कर्मेदं वक्ष्यते तु पृथक् पृथक् ।
घृष्टे रुजं निगृह्याशु व्रणे चूर्णानि योजयेत्

106.15

कल्कादीन्य् अवकृत्ते तु विच्छिन्न-प्रविलम्बिनोः ।
सीवनं विधिनोक्तेन बन्धनं चानु पीडनम्

106.16

26.15द्व् बन्धनं चाशु पीडनम्
अ-साध्यं स्फुटितं नेत्रम् अ-दीर्णं लम्बते तु यत् ।
संनिवेश्य यथा-स्थानम् अ-व्याविद्ध-सिरं भिषक्

106.17

26.16ब्व् उदीर्णं लम्बते तु यत् 26.16च्व् संनिवेश्य यथा-स्थानं 26.16द्व्
सूच्या विध्येत् सिरां भिषक्
पीडयेत् पाणिना पद्म-पलाशान्तरितेन तत् ।
ततो ऽस्य सेचने नस्ये तर्पणे च हितं हविः

106.18

26.17द्व् तर्पणे कथितं हविः
विपक्वम् आजं यष्ट्य्-आह्व-जीवकर्षभकोत्पलैः ।
स-पयस्कैः परं तद् धि सर्व-नेत्राभिघात-जित्

106.19

गल-पीडावसन्ने ऽक्ष्णि वमनोत्कासन-क्षवाः ।
प्राणायामो ऽथ-वा कार्यः क्रिया च क्षत-नेत्र-वत्

106.20

26.19अव् गल-पीडो ऽवसन्ने ऽक्ष्णि 26.19ब्व् वमनोत्क्लेशन-क्षवाः
कर्णे स्थानाच् च्युते स्यूते श्रोतस् तैलेन पूरयेत् ।
कृकाटिकायां छिन्नायां निर्गच्छत्य् अपि मारुते

106.21

26.20अव् कर्णे स्थान-च्युते स्यूते 26.20ब्व् स्रोतस् तैलेन पूरयेत्
समं निवेश्य बध्नीयात् स्यूत्वा शीघ्रं निर्-अन्तरम् ।
आजेन सर्पिषा चात्र परिषेकः प्रशस्यते

106.22

26.21अव् समां निवेश्य बध्नीयात् 26.21च्व् आजेन सर्पिषा तत्र
उत्तानो ऽन्नानि भुञ्जीत शयीत च सु-यन्त्रितः ।
घातं शाखासु तिर्यक्-स्थं गात्रे सम्यङ्-निवेशिते

106.23

स्यूत्वा वेल्लित-बन्धेन बध्नीयाद् घन-वाससा ।
चर्मणा गोष्-फणा-बन्धः कार्यश् चा-संगते व्रणे

106.24

26.23द्व् कार्यश् चांस-गते व्रणे 26.23द्व् कार्यश् चांश-गते व्रणे
पादौ विलम्बि-मुष्कस्य प्रोक्ष्य नेत्रे च वारिणा ।
प्रवेश्य वृषणौ सीव्येत् सेवन्या तुन्न-संज्ञया

106.25

26.24द्व् सेवन्या पिचु-युक्तया 26.24द्व् सीवन्या पिचु-युक्तया
कार्यश् च गोष्-फणा-बन्धः कट्याम् आवेश्य पट्टकम् ।
स्नेह-सेकं न कुर्वीत तत्र क्लिद्यति हि व्रणः

106.26

26.25द्व् तत्र क्लिद्यन्ति हि व्रणाः 26.25द्व् तेन क्लिद्यन्ति हि व्रणाः
कालानुसार्य्-अगुर्व्-एला-जाती-चन्दन-पर्पटैः ।
शिला-दार्व्य्-अमृता-तुत्थैः सिद्धं तैलं च रोपणम्

106.27

26.26ब्व् -जाती-चन्दन-पद्मकैः
छिन्नां निःशेषतः शाखां दग्ध्वा तैलेन युक्तितः ।
बध्नीयात् कोश-बन्धेन ततो व्रण-वद् आचरेत्

106.28

26.27ब्व् दग्ध्वा तैलेन युक्तिभिः
कार्या शल्याहृते विद्धे भङ्गाद् विदलिते क्रिया ।
शिरसो ऽपहृते शल्ये वाल-वर्तिं प्रवेशयेत्

106.29

मस्तुलुङ्ग-स्रुतेः क्रुद्धो हन्याद् एनं चलो ऽन्य-था ।
व्रणे रोहति चैकैकं शनैर् अपनयेत् कचम्

106.30

26.29अव् मस्तुलुङ्ग-स्रुते क्रुद्धो
मस्तुलुङ्ग-स्रुतौ खादेन् मस्तिष्कान् अन्य-जीव-जान् ।
शल्ये हृते ऽङ्गाद् अन्यस्मात् स्नेह-वर्तिं निधापयेत्

106.31

दूरावगाढाः सूक्ष्मास्या ये व्रणाः स्रुत-शोणिताः ।
सेचयेच् चक्र-तैलेन सूक्ष्म-नेत्रार्पितेन तान्

106.32

भिन्ने कोष्ठे ऽसृजा पूर्णे मूर्छा-हृत्-पार्श्व-वेदनाः ।
ज्वरो दाहस् तृड् आध्मानं भक्तस्यान्-अभिनन्दनम्

106.33

सङ्गो विण्-मूत्र-मरुतां श्वासः स्वेदो ऽक्षि-रक्त-ता ।
लोह-गन्धि-त्वम् आस्यस्य स्याद् गात्रे च वि-गन्ध-ता

106.34

आमाशय-स्थे रुधिरे रुधिरं छर्दयत्य् अपि ।
आध्मानेनाति-मात्रेण शूलेन च विशस्यते

106.35

26.34द्व् शूलेन च विनश्यति 26.34द्व् शूलेन च विशिष्यते
पक्वाशय-स्थे रुधिरे स-शूलं गौरवं भवेत् ।
नाभेर् अधस्-ताच् छीत-त्वं खेभ्यो रक्तस्य चागमः

106.36

अ-भिन्नो ऽप्य् आशयः सूक्ष्मैः स्रोतोभिर् अभिपूर्यते ।
असृजा स्यन्दमानेन पार्श्वे मूत्रेण वस्ति-वत्

106.37

तत्रान्तर्-लोहितं शीत-पादोच्छ्वास-कराननम् ।
रक्ताक्षं पाण्दु-वदनम् आनद्धं च विवर्जयेत्

106.38

आमाशय-स्थे वमनं हितं पक्वाशयाश्रिते ।
विरेचनं निरूहं च निः-स्नेहोष्णैर् विशोधनैः

106.39

26.38ब्व् हितं पक्वाशयाश्रये 26.38ब्व् हितं पक्वाशय-स्थिते 26.38द्व्
निः-स्नेहोष्णैर् विशोधनम्
यव-कोल-कुलत्थानां रसैः स्नेह-विवर्जितैः ।
भुञ्जीतान्नं यवागूं वा पिबेत् सैन्धव-संयुताम्

106.40

26.39द्व् पिबेत् सैन्धव-संयुतम्
अति-निःस्रुत-रक्तस् तु भिन्न-कोष्ठः पिबेद् असृक् ।
क्लिष्ट-च्छिन्नान्त्र-भेदेन कोष्ठ-भेदो द्वि-धा स्मृतः

106.41

26.40अव् अति-निःसृत-रक्तस् तु 26.40च्व् क्लिन्न-भिन्नान्त्र-भेदेन 26.40च्व्
श्लिष्ट-च्छिन्नान्त्र-भेदेन
मूर्छादयो ऽल्पाः प्रथमे द्वितीये त्व् अति-बाधकाः ।
क्लिष्टान्त्रः संशयी देही छिन्नान्त्रो नैव जीवति

106.42

26.41च्व् क्लिन्नान्त्रः संशयी देही 26.41च्व् क्लिष्टान्त्रः संशये देही 26.41च्व्
श्लिष्टान्त्रः संशयी देही
26.41द्व् भिन्नान्त्रो नैव जीवति
यथा-स्वं मार्गम् आपन्ना यस्य विण्-मूत्र-मारुताः ।
व्य्-उपद्रवः स भिन्ने ऽपि कोष्ठे जीवत्य् अ-संशयम्

106.43

अ-भिन्नम् अन्त्रं निष्क्रान्तं प्रवेश्यं न त्व् अतो ऽन्य-था ।
उत्पङ्गिल-शिरो-ग्रस्तं तद् अप्य् एके वदन्ति तु

106.44

26.43च्व् उरोगल-शिरो-ग्रस्तं 26.43च्व् उरोङ्गिल-शिरो-ग्रस्तं 26.43च्व्
पुपुङ्गल-शिरो-ग्रस्तं
26.43च्व् वयङ्गिल-शिरो-ग्रस्तं
प्रक्षाल्य पयसा दिग्धं तृण-शोणित-पांसुभिः ।
प्रवेशयेत् कॢप्त-नखो घृतेनाक्तं शनैः शनैः

106.45

क्षीरेणार्द्री-कृतं शुष्कं भूरि-सर्पिः-परिप्लुतम् ।
अङ्गुल्या प्रमृशेत् कण्ठं जलेनोद्वेजयेद् अपि

106.46

तथान्त्राणि विशन्त्य् अन्तस् तत्-कालं पीडयन्ति च ।
व्रण-सौक्ष्म्याद् बहु-त्वाद् वा कोष्ठम् अन्त्रम् अन्-आविशत्

106.47

26.46ब्व् तत्-कालं पीडयेत च
तत्-प्रमाणेन जठरं पाटयित्वा प्रवेशयेत् ।
यथा-स्थानं स्थिते सम्यक् अन्त्रे सीव्येद् अनु व्रणम्

106.48

26.47च्व् यथा-स्थान-स्थिते सम्यग्
स्थानाद् अपेतम् आदत्ते जीवितं कुपितं च तत् ।
वेष्टयित्वानु पट्टेन घृतेन परिषेचयेत्

106.49

26.48ब्व् जीवितं कुपितं च यत्
चूर्णैर् यथोक्तैः संधानं कृत्वा क्षौद्र-घृत-प्लुतैः ।
ततः कवलिकां दत्त्वा वेष्टयेद् अनु-पूर्व-शः ॥ 48.1+1 ॥
पाययेत ततः कोष्णं चित्रा-तैल-युतं पयः ।
मृदु-क्रियार्थं शकृतो वायोश् चाधः-प्रवृत्तये

106.50

26.49अव् पाययेत् तं ततः कोष्णं 26.49ब्व् चित्र-तैल-युतं पयः
अनुवर्तेत वर्षं च यथोक्तं व्रण-यन्त्रणाम् ।
उदरान् मेदसो वर्तिं निर्गतां भस्मना मृदा

106.51

26.50ब्व् यथोक्तं व्रण-यन्त्रणम्
अवकीर्य कषायैर् वा श्लक्ष्णैर् मूलैस् ततः समम् ।
दृढं बद्ध्वा च सूत्रेण वर्धयेत् कुशलो भिषक्

106.52

26.51ब्व् श्लक्ष्णैर् मूले ततः समम् 26.51ब्व् श्लक्ष्णैश् चूर्णैस् ततः समम्
तीक्ष्णेनाग्नि-प्रतप्तेन शस्त्रेण सकृद् एव तु ।
स्याद् अन्य-था रुग् आटोपो मृत्युर् वा छिद्यमानया

106.53

स-क्षौद्रे च व्रणे बद्धे सु-जीर्णे ऽन्ने घृतं पिबेत् ।
क्षीरं वा शर्करा-चित्रा-लाक्षा-गोक्षुरकैः शृतम्

106.54

26.53अव् स-क्षौद्रे तु व्रणे बद्धे 26.53ब्व् सु-जीर्णान्नो घृतं पिबेत्
रुग्-दाह-जित् स-यष्ट्य्-आह्वैः परं पूर्वोदितो विधिः ।
मेदो-ग्रन्थ्य्-उदितं तत्र तैलम् अभ्यञ्जने हितम्

106.55

26.54च्व् मेदो-ग्रन्थ्य्-उदितं चात्र
तालीशं पद्मकं मांसी हरेण्व्-अगुरु-चन्दनम् ।
हरिद्रे पद्म-बीजानि सोशीरं मधुकं च तैः

106.56

पक्वं सद्यो-व्रणेषूक्तं तैलं रोपणम् उत्तमम् ।
गूढ-प्रहाराभिहते पतिते विषमोच्चकैः

106.57

26.56च्व् मूढ-प्रहाराभिहते
कार्यं वातास्र-जित् तृप्ति-मर्दनाभ्यञ्जनादिकम् ।
विश्लिष्ट-देहं मथितं क्षीणं मर्माहतं हतम्

मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc