भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गहृदयसूत्र · अध्याय 105

105.1

नीलोत्पलं सोत्पल-कुष्ठ-युक्तं स-पिप्पलीकं मधुकं शताह्वम् ।
स-शृङ्गवेरं शिरसः प्रलेपः सद्यः शिरो-रोग-विनाशनाय ॥ 59+1 ॥
उत्तरस्थान
व्रणो द्वि-धा निजागन्तु-दुष्ट-शुद्ध-विभेदतः ।
निजो दोषैः शरीरोत्थैर् आगन्तुर् बाह्य-हेतु-जः

105.2

25.1द्व् आगन्तुर् बाह्य-हेतुभिः
दोषैर् अधिष्ठितो दुष्टः शुद्धस् तैर् अन्-अधिष्ठितः ।
संवृत-त्वं विवृत-ता काठिन्यं मृदु-ताति वा

105.3

25.2द्व् काठिन्यं मृदु-तापि वा 25.2द्व् काठिन्यं मृदु-तापि च
अत्य्-उत्सन्नावसन्न-त्वम् अत्य्-औष्ण्यम् अति-शीत-ता ।
रक्त-त्वं पाण्डु-ता कार्ष्ण्यं पूति-पूय-परिस्रुतिः

105.4

पूति-मांस-सिरा-स्नायु-च्छन्न-तोत्सङ्गि-ताति-रुक् ।
संरम्भ-दाह-श्वयथु-कण्ड्व्-आदिभिर् उपद्रुतः

105.5

दीर्घ-कालानुबन्धश् च विद्याद् दुष्ट-व्रणाकृतिम् ।
स पञ्च-दश-धा दोषैः स-रक्तैस् तत्र मारुतात्

105.6

25.5च्व् स पञ्च-धा पृथग् दोषैः
श्यावः कृष्णो ऽरुणो भस्म-कपोतास्थि-निभो ऽपि वा ।
मस्तु-मांस-पुलाकाम्बु-तुल्य-तन्व्-अल्प-संस्रुतिः

105.7

25.6ब्व् -कपोतास्थि-निभो ऽथ-वा
निर्-मांसस् तोद-भेदाढ्यो रूक्षश् चटचटायते ।
पित्तेन क्षिप्र-जः पीतो नीलः कपिल-पिङ्गलः

105.8

25.7च्व् पित्ताद् वह्नि-प्रभः पीतो
मूत्र-किंशुक-भस्माम्बु-तैलाभोष्ण-बहु-स्रुतिः ।
क्षारोक्षित-क्षत-सम-व्यथो रागोष्म-पाक-वान्

105.9

कफेन पाण्डुः कण्डू-मान् बहु-श्वेत-घन-स्रुतिः ।
स्थूलौष्ठः कठिनः स्नायु-सिरा-जाल-ततो ऽल्प-रुक्

105.10

प्रवाल-रक्तो रक्तेन स-रक्तं पूयम् उद्गिरेत् ।
वाजि-स्थान-समो गन्धे युक्तो लिङ्गैश् च पैत्तिकैः

105.11

25.10ब्व् स-रक्तं पूयम् ईरयेत् 25.10च्व् वाजि-स्थान-समो गन्धैर् 25.10च्व्
वाजि-स्थान-समो गन्धो
द्वाभ्यां त्रिभिश् च सर्वैश् च विद्याल् लक्षण-संकरात् ।
जिह्वा-प्रभो मृदुः श्लक्ष्णः श्यावौष्ठ-पिटिकः समः

105.12

25.11द्व् श्यावौष्ठो ऽ-पिटिकः समः
किञ्-चिद्-उन्नत-मध्यो वा व्रणः शुद्धो ऽन्-उपद्रवः ।
त्वग्-आमिष-सिरा-स्नायु-संध्य्-अस्थीनि व्रणाशयाः

105.13

कोष्ठो मर्म च तान्य् अष्टौ दुः-साध्यान्य् उत्तरोत्तरम् ।
सु-साध्यः सत्-त्व-मांसाग्नि-वयो-बल-वति व्रणः

105.14

25.13द्व् -वयो-बल-वतां व्रणः
वृत्तो दीर्घस् त्रि-पुटकश् चतुर्-अश्राकृतिश् च यः ।
तथा स्फिक्-पायु-मेढ्रौष्ठ-पृष्ठान्तर्-वक्त्र-गण्ड-गः

105.15

25.14द्व् -पृष्ठान्तर्-वक्त्र-गण्ड-जः 25.14द्व् -पृष्ठान्तर्-वक्त्र-गण्डयोः
कृच्छ्र-साध्यो ऽक्षि-दशन-नासिकापाङ्ग-नाभिषु ।
सेवनी-जठर-श्रोत्र-पार्श्व-कक्षा-स्तनेषु च

105.16

फेन-पूयानिल-वहः शल्य-वान् ऊर्ध्व-निर्वमी ।
भगन्दरो ऽन्तर्-वदनस् तथा कट्य्-अस्थि-संश्रितः

105.17

कुष्ठिनां विष-जुष्टानां शोषिणां मधु-मेहिनां ।
व्रणाः कृच्छ्रेण सिध्यन्ति येषां च स्युर् व्रणे व्रणाः

105.18

25.17द्व् येषां चापि व्रणे व्रणाः
नैव सिध्यन्ति वीसर्प-ज्वरातीसार-कासिनाम् ।
पिपासूनाम् अ-निद्राणां श्वासिनाम् अ-विपाकिनाम्

105.19

25.18च्व् पिपासूनां स-निद्राणां
भिन्ने शिरः-कपाले वा मस्तुलुङ्गस्य दर्शने ।
स्नायु-क्लेदात् सिरा-छेदाद् गाम्भीर्यात् कृमि-भक्षणात्

105.20

अस्थि-भेदात् स-शल्य-त्वात् स-विष-त्वाद् अ-तर्कितात् ।
मिथ्या-बन्धाद् अति-स्नेहाद् रौक्ष्याद् रोमादि-घट्टनात्

105.21

क्षोभाद् अ-शुद्ध-कोष्ठ-त्वात् सौहित्याद् अति-कर्शनात् ।
मद्य-पानाद् दिवा-स्वप्नाद् व्यवायाद् रात्रि-जागरात्

105.22

25.21च्व् मद्य-पानाद् दिवा-स्वापाद्
व्रणो मिथ्योपचाराच् च नैव साध्यो ऽपि सिध्यति ।
कपोत-वर्ण-प्रतिमा यस्यान्तः क्लेद-वर्जिताः

105.23

25.22ब्व् नैव साध्यो ऽपि रोहति
स्थिराश् चिपिटिका-वन्तो रोहतीति तम् आदिशेत् ।
अथात्र शोफावस्थायां यथासन्नं विशोधनम्

105.24

25.23अव् स्थिराश् च पिटिका-वन्तो
योज्यं शोफो हि शुद्धानां व्रणश् चाशु प्रशाम्यति ।
कुर्याच् छीतोपचारं च शोफावस्थस्य संततम्

105.25

25.24च्व् कुर्याच् छीतोपचारं तु
दोषाग्निर् अग्नि-वत् तेन प्रयाति सहसा शमम् ।
शोफे व्रणे च कठिने वि-वर्णे वेदनान्विते

105.26

विष-युक्ते विशेषेण जल-जाद्यैर् हरेद् असृक् ।
दुष्टास्रे ऽपगते सद्यः शोफ-राग-रुजां शमः

105.27

25.26ब्व् जलौकाद्यैर् हरेद् असृक्
हृते हृते च रुधिरे सु-शीतैः स्पर्श-वीर्ययोः ।
सु-श्लक्ष्णैस् तद्-अहः-पिष्टैः क्षीरेक्षु-स्व-रस-द्रवैः

105.28

25.27द्व् क्षीरेक्षु-स्व-रस-द्रुतैः
शत-धौत-घृतोपेतैर् मुहुर् अन्यैर् अ-शोषिभिः ।
प्रतिलोमं हितो लेपः सेकाभ्यङ्गाश् च तत्-कृताः

105.29

न्यग्रोधोदुम्बराश्वत्थ-प्लक्ष-वेतस-वल्कलैः ।
प्रदेहो भूरि-सर्पिर्भिः शोफ-निर्वापणः परम्

105.30

25.29च्व् प्रदेहो भूरि-सर्पिश् च
वातोल्बणानां स्तब्धानां कठिनानां महा-रुजाम् ।
स्रुतासृजां च शोफानां व्रणानाम् अपि चेदृशाम्

105.31

आनूप-वेसवाराद्यैः स्वेदः सोमास् तिलाः पुनः ।
भृष्टा निर्वापिताः क्षीरे तत्-पिष्टा दाह-रुग्-हराः

105.32

स्थिरान् मन्द-रुजः शोफान् स्नेहैर् वात-कफापहैः ।
अभ्यज्य स्वेदयित्वा च वेणु-नाड्या शनैः शनैः

105.33

विम्लापनार्थं मृद्नीयात् तलेनाङ्गुष्ठकेन वा ।
यव-गोधूम-मुद्गैश् च सिद्ध-पिष्टैः प्रलेपयेत्

105.34

25.33द्व् सिद्धैः पिष्टैः प्रलेपयेत् 25.33द्व् सिद्धं पिष्टं प्रलेपयेत्
25.33द्व् दुग्ध-पिष्टैः प्रलेपयेत्
विलीयते स चेन् नैवं ततस् तम् उपनाहयेत् ।
अ-विदग्धस् तथा शान्तिं विदग्धः पाकम् अश्नुते

105.35

स-कोल-तिल-वल्लोमा दध्य्-अम्ला सक्तु-पिण्डिका ।
स-किण्व-कुष्ठ-लवणा कोष्णा शस्तोपनाहने

105.36

25.35अव् स-कोल-तिल-वल्लूर- 25.35ब्व् -दध्य्-अम्ला सक्तु-पिण्डिका
सु-पक्वे पिण्डिते शोफे पीडनैर् उपपीडिते ।
दारणं दारणार्हस्य सु-कुमारस्य चेष्यते

105.37

गुग्गुल्व्-अतसि-गो-दन्त-स्वर्णक्षीरी-कपोत-विट् ।
क्षारौषधानि क्षाराश् च पक्व-शोफ-विदारणम्

105.38

25.37च्व् क्षारौषधानि क्षारश् च
पूय-गर्भान् अणु-द्वारान् सोत्सङ्गान् मर्म-गान् अपि ।
निः-स्नेहैः पीडन-द्रव्यैः समन्तात् प्रतिपीडयेत्

105.39

शुष्यन्तं समुपेक्षेत प्रलेपं पीडनं प्रति ।
न मुखे चैनम् आलिम्पेत् तथा दोषः प्रसिच्यते

105.40

कलाय-यव-गोधूम-माष-मुद्ग-हरेणवः ।
द्रव्याणां पिच्छिलानां च त्वङ्-मूलानि प्रपीडनम्

105.41

25.40च्व् द्रव्याणां पिच्छिलानां तु 25.40च्व् द्रव्याणां पिच्छिलानां वा
सप्तसु क्षालनाद्येषु सुरसारग्वधादिकौ ।
भृशं दुष्टे व्रणे योज्यौ मेह-कुष्ठ-व्रणेषु च

105.42

अथ-वा क्षालनं क्वाथः पटोली-निम्ब-पत्त्र-जः ।
अ-विशुद्धे विशुद्धे तु न्यग्रोधादि-त्वग्-उद्भवः

105.43

25.42अव् अथ-वा क्षालने क्वाथः
पटोली-तिल-यष्ट्य्-आह्व-त्रिवृद्-दन्ती-निशा-द्वयम् ।
निम्ब-पत्त्राणि चालेपः स-पटुर् व्रण-शोधनः

105.44

25.43द्व् स-पटुर् व्रण-शोधनम्
व्रणान् विशोधयेद् वर्त्या सूक्ष्मास्यान् संधि-मर्म-गान् ।
कृतया त्रिवृता-दन्ती-लाङ्गली-मधु-सैन्धवैः

105.45

वाताभिभूतान् सास्रावान् धूपयेद् उग्र-वेदनान् ।
यवाज्य-भूर्ज-मदन-श्रीवेष्टक-सुराह्वयैः

105.46

निर्वापयेद् भृशं शीतैः पित्त-रक्त-विषोल्बणान् ।
शुष्काल्प-मांसे गम्भीरे व्रण उत्सादनं हितम्

105.47

न्यग्रोध-पद्मकादिभ्याम् अश्वगन्धा-बला-तिलैः ।
अद्यान् मांसाद-मांसानि विधिनोपहितानि च

105.48

25.47द्व् विहितोपहितानि च 25.47द्व् विधानोपहितानि च
मांसं मांसाद-मांसेन वर्धते शुद्ध-चेतसः ।
उत्सन्न-मृदु-मांसानां व्रणानाम् अवसादनम्

105.49

25.48ब्व् वर्धते शुद्ध-तेजसः
जाती-मुकुल-कासीस-मनोह्वाल-पुराग्निकैः ।
उत्सन्न-मांसान् कठिनान् कण्डू-युक्तांश् चिरोत्थितान्

105.50

व्रणान् सु-दुःख-शोध्यांश् च शोधयेत् क्षार-कर्मणा ।
स्रवन्तो ऽश्मरी-जा मूत्रं ये चान्ये रक्त-वाहिनः

105.51

25.50अव् व्रणान् सु-दुःख-साध्यांश् च 25.50ब्व् योजयेत् क्षार-कर्मणा
25.50द्व् ये चान्ये क्षत-वाहिनः
छिन्नाश् च संधयो येषां यथोक्तैर् ये च शोधनैः ।
शोध्यमाना न शुध्यन्ति शोध्याः स्युस् ते ऽग्नि-कर्मणा

105.52

25.51ब्व् यथोक्तैर् ये च साधनैः 25.51च्व् साध्यमाना न सिध्यन्ति 25.51द्व्
साध्याः स्युस् ते ऽग्नि-कर्मणा
25.51द्व् साध्यास् ते चाग्नि-कर्मणा
शुद्धानां रोपणं योज्यम् उत्सादाय यद् ईरितम् ।
अश्वगन्धा रुहा लोध्रं कट्फलं मधुयष्टिका

105.53

25.52अव् शुद्धानां रोपणे योज्यम्
समङ्गा धातकी-पुष्पं परमं व्रण-रोपणम् ।
अपेत-पूति-मांसानां मांस-स्थानाम् अ-रोहताम्

105.54

कल्कं संरोहणं कुर्यात् तिलानां मधुकान्वितम् ।
स्निग्धोष्ण-तिक्त-मधुर-कषाय-त्वैः स सर्व-जित्

105.55

25.54अव् कल्कं संरोहणे कुर्यात् 25.54अव् कल्कः संरोहणं कुर्यात् 25.54ब्व्
तिलानां मधुकान्वितः
25.54द्व् -कषायैर् एष सर्व-जित्
स क्षौद्र-निम्ब-पत्त्राभ्यां युक्तः संशोधनं परम् ।
पूर्वाभ्यां सर्पिषा चासौ युक्तः स्याद् आशु रोपणः

105.56

25.55ब्व् युक्तः संशोधनः परम् 25.55द्व् युक्तः स्याद् अपि रोपणः
तिल-वद् यव-कल्कं तु के-चिद् इच्छन्ति तद्-विदः ।
सास्र-पित्त-विषागन्तु-गम्भीरान् सोष्मणो व्रणान्

105.57

क्षीर-रोपण-भैषज्य-शृतेनाज्येन रोपयेत् ।
रोपणौषध-सिद्धेन तैलेन कफ-वात-जान्

105.58

काच्छी-लोध्राभया-सर्ज-सिन्दूराञ्जन-तुत्थकम् ।
चूर्णितं तैल-मदनैर् युक्तं रोपणम् उत्तमम्

105.59

25.58अव् काक्षी-लोध्राभया-सर्ज- 25.58अव् काङ्क्षी-लोध्राभया-सर्ज-
समानां स्थिर-मांसानां त्वक्-स्थानां चूर्ण इष्यते ।
ककुभोदुम्बराश्वत्थ-जम्बू-कट्फल-लोध्र-जैः

105.60

25.59ब्व् त्वक्-स्थानां चूर्णम् इष्यते
त्वक्-चूर्णैश् चूर्णिता व्रणाः त्वक्-चूर्णैश् चूर्णिता व्रणाः ।
लाक्षा-मनोह्वा-मञ्जिष्ठा-हरिताल-निशा-द्वयैः

105.61

25.60अव् त्वचम् आशु निगृह्णाति 25.60ब्व् त्वक्-चूर्णैश् चूर्णितो व्रणः
प्रलेपः स-घृत-क्षौद्रस् त्वग्-विशुद्धि-करः परम् ।
कालीयक-लताम्रास्थि-हेम-काला-रसोत्तमैः

105.62

25.61अव् प्रलेपः स-घृत-क्षौद्रैस्
लेपः स-गो-मय-रसः स-वर्ण-करणः परम् ।
दग्धो वारण-दन्तो ऽन्तर्-धूमं तैलं रसाञ्जनम्

105.63

25.62ब्व् स-वर्ण-करणो भवेत् 25.62द्व् -धूमस् तैलं रसाञ्जनम्
रोम-संजननो लेपस् तद्-वत् तैल-परिप्लुता ।
चतुष्-पान्-नख-रोमास्थि-त्वक्-शृङ्ग-खुर-जा मषी

105.64

व्रणिनः शस्त्र-कर्मोक्तं पथ्या-पथ्यान्नम् आदिशेत् ।
द्वे पञ्च-मूले वर्गश् च वात-घ्नो वातिके हितः

105.65

25.64अव् व्रणिनां शस्त्र-कर्मोक्तं 25.64ब्व् यत् पथ्या-पथ्यम् आदिशेत्
न्यग्रोध-पद्मकाद्यौ तु तद्-वत् पित्त-प्रदूषिते ।
आरग्वधादिः श्लेष्म-घ्नः कफे मिश्रास् तु मिश्र-जे

105.66

25.65द्व् कफे मिश्रस् तु मिश्र-जे 25.65द्व् कफे मिश्रास् तु मिश्रके
एभिः प्रक्षालनं लेपो घृतं तैलं रस-क्रिया ।
चूर्णो वर्तिश् च संयोज्य व्रणे सप्त यथा-यथम्

मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc