भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गहृदयसूत्र · अध्याय 104

104.1

उत्तरस्थान
शिरो-ऽभितापे ऽनिल-जे वात-व्याधि-विधिं चरेत् ।
घृतम् अक्त-शिरा रात्रौ पिबेद् उष्ण-पयो-ऽनुपः

104.2

24.1च्व् घृतम् अक्त-शिरो रात्रौ 24.1च्व् घृताभ्यक्त-शिरो रात्रौ 24.1द्व् पिबेत्
सर्पिः पयो-ऽनुपः
माषान् कुलत्थान् मुद्गान् वा तद्-वत् खादेद् घृतान्वितान् ।
तैलं तिलानां कल्कं वा क्षीरेण सह पाययेत्

104.3

पिण्डोपनाह-स्वेदाश् च मांस-धान्य-कृता हिताः ।
वात-घ्न-दश-मूलादि-सिद्ध-क्षीरेण सेचनम्

104.4

स्निग्धं नस्यं तथा धूमः शिरः-श्रवण-तर्पणम् ।
वरणादौ गणे क्षुण्णे क्षीरम् अर्धोदकं पचेत्

104.5

24.4च्व् वरुणादौ गणे क्षुण्णे
क्षीरावशिष्टं तच् छीतं मथित्वा सारम् आहरेत् ।
ततो मधुरकैः सिद्धं नस्यं तत् पूजितं हविः

104.6

वर्गे ऽत्र पक्वं क्षीरे च पेयं सर्पिः स-शर्करम् ।
कार्पास-मज्जा त्वङ् मुस्ता सुमनः-कोरकाणि च

104.7

24.6अव् तस्मिन् विपक्वं क्षीरे च 24.6च्व् कार्पास-मज्जा त्वङ् मुस्तं 24.6द्व्
सुमनः-क्षारकाणि च
नस्यम् उष्णाम्बु-पिष्टानि सर्व-मूर्ध-रुजापहम् ।
शर्करा-कुङ्कुम-शृतं घृतं पित्तासृग्-अन्वये

104.8

प्रलेपैः स-घृतैः कुष्ठ-कुटिलोत्पल-चन्दनैः ।
वातोद्रेक-भयाद् रक्तं न चास्मिन्न् अवसेचयेत्

104.9

इत्य् अ-शान्तौ चले दाहः कफे चेष्टो यथोदितः ।
अर्धावभेदके ऽप्य् एषा तथा दोषान्वयात् क्रिया

104.10

24.9ब्व् कफे चोष्णं यथोदितम् 24.9द्व् यथा-दोषान्वया क्रिया 24.9द्व्
यथा-दोषान्वये क्रिया
शिरीष-बीजापामार्ग-मूलं नस्यं विडान्वितम् ।
स्थिरा-रसो वा लेपे तु प्रपुन्नाटो ऽम्ल-कल्कितः

104.11

24.10च्व् स्थिरा-रसो वा लेपो ऽत्र
सूर्यावर्ते ऽपि तस्मिंस् तु सिरयापहरेद् असृक् ।
शिरो-ऽभितापे पित्तोत्थे स्निग्धस्य व्यधयेत् सिराम्

104.12

24.11अव् सूर्यावर्ते तु तस्मिंस् तु
शीताः शिरो-मुखालेप-सेक-शोधन-वस्तयः ।
जीवनीय-शृते क्षीर-सर्पिषी पान-नस्ययोः

104.13

कर्तव्यं रक्त-जे ऽप्य् एतत् प्रत्याख्याय च शङ्खके ।
श्लेष्माभितापे जीर्णाज्य-स्नेहितैः कटुकैर् वमेत्

104.14

स्वेद-प्रलेप-नस्याद्या रूक्ष-तीक्ष्णोष्ण-भेषजैः ।
शस्यन्ते चोपवासो ऽत्र निचये मिश्रम् आचरेत्

104.15

24.14च्व् शस्यते चोपवासो ऽत्र
कृमि-जे शोणितं नस्यं तेन मूर्छन्ति जन्तवः ।
मत्ताः शोणित-गन्धेन निर्यान्ति घ्राण-वक्त्रयोः

104.16

24.15द्व् निर्यान्ति घ्राण-वक्त्रतः
सु-तीक्ष्ण-नस्य-धूमाभ्यां कुर्यान् निर्हरणं ततः ।
विडङ्ग-स्वर्जिका-दन्ती-हिङ्गु-गो-मूत्र-साधितम्

104.17

कटु-निम्बेङ्गुदी-पीलु-तैलं नस्यं पृथक् पृथक् ।
अजा-मूत्र-द्रुतं नस्यं कृमिजित् कृमि-जित् परम्

104.18

24.17च्व् अजा-मूत्र-द्रुतं नस्ये
पूति-मत्स्य-युतैः कुर्याद् धूमं नावन-भेषजैः ।
कृमिभिः पीत-रक्त-त्वाद् रक्तम् अत्र न निर्हरेद्

104.19

पूति-मत्स्यः कृमीन् हत्वा दुर्-गन्ध-त्वात् तु वात-जे ॥ 18.1+1अब् ॥
वाताभिताप-विहितः कम्पे दाहाद् विना क्रमः ।
नवे जन्मोत्तरं जाते योजयेद् उप-शीर्षके

104.20

वात-व्याधि-क्रियां पक्वे कर्म विद्रधि-चोदितम् ।
आम-पक्वे यथा-योग्यं विद्रधि-पिटिकार्बुदे

104.21

अरूंषिका जलौकोभिर् हृतास्रा निम्ब-वारिणा ।
सिक्ता प्रभूत-लवणैर् लिम्पेद् अश्व-शकृद्-रसैः

104.22

पटोल-निम्ब-पत्त्रैर् वा स-हरिद्रैः सु-कल्कितैः ।
गो-मूत्र-जीर्ण-पिण्याक-कृकवाकु-मलैर् अपि

104.23

कपाल-भृष्टं कुष्ठं वा चूर्णितं तैल-संयुतम् ।
रूंषिकालेपनं कण्डू-क्लेद-दाहार्ति-नाशनम्

104.24

मालती-चित्रकाश्वघ्न-नक्तमाल-प्रसाधितम् ।
चाचारूंषिकयोस् तैलम् अभ्यङ्गः क्षुर-घृष्टयोः

104.25

24.24द्व् अभ्यङ्गे क्षुर-घृष्टयोः 24.24द्व् अभ्यङ्गः क्षुर-मृष्टयोः
अ-शान्तौ शिरसः शुद्ध्यै यतेत वमनादिभिः ।
विध्येत् सिरां दारुणके लालाट्यां शीलयेन् मृजाम्

104.26

नावनं मूर्ध-वस्तिं च लेपयेच् च स-माक्षिकैः ।
प्रियाल-बीज-मधुक-कुष्ठ-माषैः स-सर्षपैः

104.27

24.26अव् नावनं मूर्ध्नि वस्तिं च
लाक्षा-शम्याक-पत्त्रैडगज-धात्री-फलैस् तथा ।
कोरदूष-तृण-क्षार-वारि-प्रक्षालनं हितम्

104.28

24.27द्व् -वारि प्रक्षालने हितम्
इन्द्र-लुप्ते यथासन्नं सिरां विद्ध्वा प्रलेपयेत् ।
प्रच्छाय गाढं कासीस-मनोह्वा-तुत्थकोषणैः

104.29

24.28ब्व् सिरां विद्ध्वा प्रलेपनम्
वन्यामरतरुभ्यां वा गुञ्जा-मूल-फलैस् तथा ।
तथा लाङ्गलिका-मूलैः करवीर-रसेन वा

104.30

24.29अव् कुटन्नट-मरुभ्यां वा 24.29अव् धान्यामरतरुभ्यां वा
स-क्षौद्र-क्षुद्र-वार्ताक-स्व-रसेन रसेन वा ।
धत्तूरकस्य पत्त्राणां भल्लातक-रसेन वा

104.31

24.30अव् स-क्षौद्र-क्षुद्र-बृहती- 24.30द्व् भल्लातक-फलेन वा
अथ-वा माक्षिक-हविस्-तिल-पुष्प-त्रिकण्टकैः ।
तैलाक्ता हस्ति-दन्तस्य मषी चाचौषधं परम्

104.32

24.31द्व् मषी वाप्य् औषधं परम् 24.31द्व् मषी वा चौषधं परम्
शुक्ल-रोमोद्गमे तद्-वन् मषी मेष-विषाण-जा ।
वर्जयेद् वारिणा सेकं यावद् रोम-समुद्भवः

104.33

24.32द्व् यावद् रोम-समुद्गमः 24.32द्व् यावद् रोम-पुनर्-भवः
खलतौ पलिते वल्यां हरिद्-रोम्नि च शोधितम् ।
नस्य-वक्त्र-शिरो-ऽभ्यङ्ग-प्रदेहैः समुपाचरेत्

104.34

सिद्धं तैलं बृहत्य्-आद्यैर् जीवनीयैश् च नावनम् ।
मासं वा निम्ब-जं तैलं क्षीर-भुङ् नावयेद् यतिः

104.35

नीली-शिरीष-कोरण्ट-भृङ्ग-स्व-रस-भावितम् ।
शेल्व्-अक्ष-तिल-रामाणां बीजं काकाण्डकी-समम्

104.36

पिष्ट्वाज-पयसा लोहाल् लिप्ताद् अर्कांशु-तापितात् ।
तैलं स्रुतं क्षीर-भुजो नावनात् पलितान्त-कृत्

104.37

24.36अव् पिष्ट्वाज-पयसा लोह- 24.36ब्व् -लिप्ताद् अर्कांशु-तापितात्
क्षीरात् साहचराद् भृङ्गरजसः सौरसाद् रसात् ।
प्रस्थैस् तैलस्य कुडवः सिद्धो यष्टी-पलान्वितः

104.38

24.37अव् क्षीरात् सहचराद् भृङ्गं 24.37अव् क्षीरात् साहचराद् भृङ्ग- 24.37ब्व्
ंराजतः सौरसाद् रसात्
24.37ब्व् -रसतः सौरसाद् रसात्
नस्यं शैलासने भाण्डे शृङ्गे मेषस्य वा स्थितः ।
क्षीरेण श्लक्ष्ण-पिष्टौ वा दुग्धिका-करवीरकौ

104.39

24.38अव् नस्यं शिला-मये भाण्डे 24.38अव् नस्यं शैलोद्भवे भाण्डे
उत्पाट्य पलितं देयाव् आशये पलितापहौ ।
क्षीरं प्रियालं यष्ट्य्-आह्वं जीवनीयो गणस् तिलाः

104.40

कृष्णाः प्रलेपो वक्त्रस्य हरिद्-रोम-वली-हितः ।
तिलाः सामलकाः पद्म-किञ्जल्को मधुकं मधु

104.41

24.40ब्व् हरि-लोप-वली-हितः
बृंहयेद् रञ्जयेच् चैतत् केशान् मूर्ध-प्रलेपनात् ।
मांसी कुष्ठं तिलाः कृष्णाः शारिवा नीलम् उत्पलम्

104.42

24.41अव् बृंहयेच् च रजेच् चैतत् 24.41ब्व् केशान् मूर्ध्नः प्रलेपनात्
क्षौद्रं च क्षीर-पिष्टानि केश-संवर्धनम् परम् ।
अयो-रजो भृङ्गरजस् त्रि-फला कृष्ण-मृत्तिका

104.43

स्थितम् इक्षु-रसे मासं स-मूलं पलितं रजेत् ।
माष-कोद्रव-धान्याम्लैर् यवागूंस् त्रि-दिनोषिता

104.44

24.43च्व् यव-कोद्रव-धान्याम्लैर्
लोह-शुक्लोत्कटा पिष्टा बलाकाम् अपि रञ्जयेत् ।
प्रपौण्डरीक-मधुक-पिप्पली-चन्दनोत्पलैः

104.45

24.44अव् लोह-कुष्ठोत्कटा पिष्टा 24.44अव् लोह-शुक्तोत्कटा पिष्टा 24.44अव् लोहे
शुक्तोत्कटा पिष्टा
24.44अव् लौहे शुक्लोत्कटा पिष्टा
भृङ्गरजस्-त्रि-फलोत्पल-सारि-लोह-पुरीष-समन्वित-कारि ।
तैलम् इदं पच दारुण-हारि लुञ्चित-केश-घन-स्थिर-कारि ॥ 44.1+1 ॥
24.44.1+1ब्व् -लोह-पुरीष-समन्वित-धारि
सिद्धं धात्री-रसे तैलं नस्येनाभ्यञ्जनेन च ।
सर्वान् मूर्ध-गदान् हन्ति पलितानि च शीलितम्

104.46

मधूक-यष्टी-कृमिजिद्-विश्व-भृङ्गैः शृतं हविः ।
षड्-बिन्दु-दानात् तन् नस्यं सर्व-मूर्ध-गदापहम् ॥ 45+1 ॥
24.45+1च्व् षड्-बिन्दु-नाम तन् नस्यं 24.45+1च्व् षड्-बिन्दु-नाम्ना तन् नस्यं
वरी-जीवन्ति-निर्यास-पयोभिर् यमकं पचेत् ।
जीवनीयैश् च तन् नस्यं सर्व-जत्रूर्ध्व-रोग-जित्

104.47

24.46अव् वरी-जीवन्ति-निर्यासैः 24.46ब्व् -पयोभिर् यद् घृतं पचेत् 24.46ब्व्
स-पयोभिर् घृतं पचेत्
मयूरं पक्ष-पित्तान्त्र-पाद-विट्-तुण्ड-वर्जितम् ।
दश-मूल-बला-रास्ना-मधुकैस् त्रि-पलैर् युतम्

104.48

24.47ब्व् -शकृत्-पात्-तुण्ड-वर्जितम् 24.47द्व् -मधुकैस् त्रि-पलैः सहम्
जले पक्त्वा घृत-प्रस्थं तस्मिन् क्षीर-समं पचेत् ।
कल्कितैर् मधुर-द्रव्यैः सर्व-जत्रूर्ध्व-रोग-जित्

104.49

तद् अभ्यासी-कृतं पान-वस्त्य्-अभ्यञ्जन-नावनैः ।
एतेनैव कषायेण घृत-प्रस्थं विपाचयेत्

104.50

चतुर्-गुणेन पयसा कल्कैर् एभिश् च कार्षिकैः ।
जीवन्ती-त्रि-फला-मेदा-मृद्वीकर्द्धि-परूषकैः

104.51

समङ्गा-चविका-भार्गी-काश्मरी-कर्कटाह्वयैः ।
आत्मगुप्ता-महामेदा-ताल-खर्जूर-मस्तकैः

104.52

24.51द्व् -ताल-खर्जूर-मुस्तकैः
मृणाल-बिस-खर्जूर-यष्टीमधुक-जीवकैः ।
शतावरी-विदारीक्षु-बृहती-शारिवा-युगैः

104.53

24.52द्व् -बृहती-श्रावणी-युगैः
मूर्वा-श्वदंष्ट्रर्षभक-शृङ्गाटक-कसेरुकैः ।
रास्ना-स्थिरा-तामलकी-सूक्ष्मैला-शठि-पौष्करैः

104.54

24.53अव् दूर्वा-श्वदंष्ट्रषभक-
पुनर्नवा-तवक्षीरी-काकोली-धन्वयासकैः ।
मधूकाक्षोट-वाताम-मुञ्जाताभिषुकैर् अपि

104.55

24.54च्व् मधुकाक्षोट-वाताम-
महा-मायूरम् इत्य् एतन् मायूराद् अधिकं गुणैः ।
धात्व्-इन्द्रिय-स्वर-भ्रंश-श्वास-कासार्दितापहम्

104.56

योन्य्-असृक्-शुक्र-दोषेषु शस्तं वन्ध्या-सुत-प्रदम् ।
आखुभिः कुक्कुटैर् हंसैः शशैश् चेति प्रकल्पयेत्

104.57

24.56च्व् आखुभिः कर्कटैर् हंसैः
जत्रूर्ध्व-जानां व्याधीनाम् एक-त्रिंशच्-छत-द्वयम् ।
परस्-परम् अ-संकीर्णं विस्तरेण प्रकाशितम्

104.58

24.57ब्व् एक-त्रिंशं शत-द्वयम्
ऊर्ध्व-मूलम् अधः-शाखम् ऋषयः पुरुषं विदुः ।
मूल-प्रहारिणस् तस्माद् रोगाञ् छीघ्र-तरं जयेत्

104.59

सर्वेन्द्रियाणि येनास्मिन् प्राणा येन च संश्रिताः ।
तेन तस्योत्तमाङ्गस्य रक्षायाम् आदृतो भवेत्

मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc