अष्टाध्यायी (अन्य संस्करण) · अध्याय 1.04
आ कडारात्=एका संज्ञा
विप्रतिषेधे परम् कार्यम्
यू स्त्री=अख्यौ नदी
न=इयङ्=उवङ्-स्थानौ=अ-स्त्री
वा=आमि
ङित्-इ ह्रस्वश् च
शेषो घि=अ-सखि
पतिः समासे=एव
षष्ठी-युक्तश् छन्दसि वा
ह्रस्वम् लघु
संयोगे गुरु
दीर्घं च
यस्मात् प्रत्यय-विधिस् तद्-आदि प्रत्यये=अऋगम्
सुप्-तिङ्=अन्तम् पदम्
नः क्ये
स्-इत्-इ च
स्ः=आदिषु=अ-सर्वनमस्थाने
य्-अचि भम्
त-सौ मतु=अर्थे
अयस्मय=आदीनि छन्दसि
बहुषु बहु-वचनम्
द्वि=एकयोर् द्वि-वचन=एक-वचने
कारके
ध्रुवम् अपाये=अपादानम्
भी-त्रा-अर्थानाम् भय-हेतुः
परा-जेर् अ-सोढः
वारण=अर्थानाम् ईप्सितः
अन्तर्धौ येन अ-दर्शनम् इच्छति
आख्याता=उपयोगे
जनि-कर्तुः प्रकृतिः
भुवः प्रभवः
कर्मणा यम् अभि-प्रैति स सम्प्रदानम्
रुचि=अर्थानाम् प्रीयमाणः
श्लाघ-ह्नुङ्-स्था-शपाम् ज्ञीप्स्यमानः
धारेर् उत्तमर्णः
स्पृहेर् ईप्सितः
क्रुध्ः-द्रुह्ः-ईर्ष्य्ः=असूयान् आम्
क्रुध्ः-द्रुहोर् उपसृष्टयोः कर्म
राध्-ईक्ष्योर् यस्य विप्रश्नः
प्रति=आङ्भ्यां श्रुवः पूर्वस्य कर्ता
अनु-प्रति-गृणश् च
साधकतमम् करणम्
दिवः कर्म च
परि-क्रयणे सम्प्रदानन् अन्यतरस्याम्
आधारः=अधिकरणम्
अधि-शीङ्-स्था=आसां कर्म
अभि-नि-विशश् च
उप=अनु=अधि-आङ्-असः
कर्तुर् ईप्सिततमम् कर्म
तथा-युक्तं च=अन्-इप्सीतम्
अ-कथितं च
गति-बुद्धि-प्रत्यवसान=अर्थ-शब्द-कर्म=अ-कर्मकाणाम् अणि कर्ता स णौ
हृ-क्रोर् अन्यतरस्याम्
स्वतन्त्रः कर्ता
तत्-प्रयोजको हेतुश् च
प्राक्=इश्वरात्=निपा तः
च=आदयो=अ-सत्त्वे
प्र=आदयः
उपसर्गाः क्रिया-योगे
गतिश् च
ऊरी=आदि-च्वि-डाचश् च
अनुकरणम् च=अन्=इति-परम्
आदर=अन्-आदरयोः सत्-असत्-ई
भूषणे=अलम्
अन्तर् अ-परिग्रहे
कणे-मनस्-ई श्रद्धा-प्रतीघाते
पुरस्=अव्ययम्
अस्तं च
अच्छ गति=अर्थ-वदेषु
अदः=अन्-उप-देशे
तिरः=अन्तर्धौ
विभाषा कृञ्-इ
उपाजे=अन्वाजे
साक्षात्-प्रभृतीनि च
अन्-अत्याधाने=उरसि-मनसी
मध्ये-पदे-निवचने च
नित्यं हस्ते पाणौ=उपयमने
प्राध्वम् बन्धने
जीविका-उपनिषदौ=औपम्ये
ते प्राग् धातोह्
छन्दसि परे=अपि
व्यवहिताश् च
कर्म-प्रवचनीयाः
अनुर् लक्षणे
तृतीया=अर्थे
हीने
उपः=अधिके च
अप-परी वर्जने
आङ् मर्यादा-वचने
लक्षण=इत्थम्-भूत=आख्यान-भाग-वीप्सासु प्रति-परि-अनवः
अभिर् अ-भागे
प्रतिः प्रतिनिधि-प्रतिदानयोः
अधि-परी अनर्थकौ
सुः पूजायाम्
अतिर् अतिक्रमणे च
अपिः पदार्थ-सम्भावन=अन्ववसर्ग-गर्हा-समुच्चयेषु
अधिर् ईश्वरे
विभाषा कृञ्-इ
लः परस्मैपदम्
तङ्-आमौ=आत्मनेपदम्
तिङस् त्रीणि त्रीणि प्रथम-मध्यम=उत्तमाः
तानि=एकवचन-द्विवचन-बहुवचनानि एकशः
सुपः
विभक्तिश् च
युष्मदि=उपपदे समान=धिकरणे स्थानिन्य्=अपि मध्यमः
प्रहासे च मन्य=उपपदे मन्यतेर् उत्तम एकवत्=च
अस्मद्य् उत्तमः
शेषे प्रथमः
परः संनिकर्षः संहिता
विरामः अवसानम्
मूल पाठ: Aṣṭādhyāyī · Data entry W. P. Lehmann · GRETIL (Göttingen) · CC BY-NC-SA 4.0