अष्टाध्यायी (अन्य संस्करण) · अध्याय 1.03
भूवादयो धातवः
उपदेशे=अच्=अनुनासिक इत्
हल् अन्त्यम्
न विभक्तौ तु-स्-माः
आदिर् ञि-टु-डव्-अः
षः प्रत्ययस्य
चु-टू
ल-श-कु=अ-तद्धिते
तस्य लोपः
यथा-संख्यम् अनुदेशः समानाम्
स्वरितेन=अधिकारः
अनुदात्त-ङ्-इत आत्मनेपदम्
भाव-कर्मणोः
कर्तरि कर्म-व्यतिअरे
न गति-हिंसा=अर्थेभ्यः
इतरेतर=अन्योन्य=उपपदात्=च
नेर् विशः
परि-वि=अवेभ्यः क्रियः
वि-परा-भ्यां जे-ः
आङो दः=अन्-आस्य-विहरणे
क्रीडः=अनु-सम्-परिभ्यश् च
सम्=अव-प्र-विभ्यः स्ह्तः
प्रकाशन=स्थेय=आख्ययोः
उदः=अन्-ऊर्ध्व-कर्मणि
उपात्=मन्त्र-करणे
अ-कर्मकात्=च
उद्-विभ्याम् तपः
आङो यम-हनः
समो गमि=ऋच्छि-प्रच्छि-स्वरति=अर्ति-श्रु-विदिभ्यः
नि-सम्-उप-विह्ह्यो ह्वः
स्पर्धायाम् आङः
गन्धन=अवक्षेपण-सेवन-साहसिक्य-प्रतियत्न-प्रकथन=उपयोगेषु कृञः
अधेः प्रसहने
वेः शब्द-कर्मणः
अकर्मकात्=च
सम्मानन=उत्सञ्जन=आचार्यकरण-ज्ञान-भृति-विगणन-व्ययेषु नियः
कर्तृस्थे च=अ-शरीरे कर्मणि
वृत्ति-सर्ग-तात्यनेषु क्रमः
उप-पराभ्याम्
आङ उद्गमने
वेः पाद-विहरणे
प्र=उपाभ्याम् सम्-अर्था-भ्याम्
अन्-उपसर्गाद् वा
अपह्नवे ज्ञः
अ-कर्मका=च
सम्-प्रतिभ्याम् अन्-आ-ध्याने
भासन=उपसम्भाषा-ज्ञान-यत्न-विमति-उपमन्त्रणेषु वदः
व्यक्तवाचाम् समुच्चारणे
अनोर् अ-कर्मकात्
विभाषा वि-प्र-लापे
अवाद् ग्रः
समः प्रतिज्ञाने
उदश् चरः स-कर्मकात्
समस् तृतीया-युक्तात्
दाणस् च सा चेत्=चतुर्त्य्-अर्थे
उपाद् यमः स्व-करणे
ज्ञा-श्रु-स्मृ-दृशाम् सनः
न=अनोर् ज्ञः
प्रति=आङ्भ्याम् श्रुवः
शदेः श्-इत्-अः
म्रियतेर् लुङ्-लिङोश् च
पूर्ववत् सनः
आम्-प्रत्ययवत् कृञः=अनुप्रयोगस्य
प्र=उपाभ्यां युजेर् अ-यज्ञ-पात्रेषु
समः क्ष्णुवः
भुजः=अन्-अवने
णेर् अणौ यत् कर्म णौ चेत् स कर्ता अनाध्याने
भी-स्म्योर् हेतु-भये
गृधि-वन्च्योह् प्रलम्भने
लियः सम्-मानन-शालिनी-करणयोश् च
मिथ्योपपदात् कृञः=अभ्यासे
स्वरित-ञ्-इतः कर्त्र्=अभिप्राये क्रिया-फले
अपाद् वदः
णिचश् च
सम्-उद्=आङ्भ्यह्=अमः=अ-ग्रन्थे
अन्-उपसर्गात्=ज्ञः
विभाषा=उपपदेन प्रतीयमाने
शेषात् कर्तरि परस्मैपदम्
अनु-पराभ्यां कृञः
अभि-प्रति=अतिभ्यः क्षिपः
प्राद् वहः
परेर् मृषः
वि-आङ्-परिभ्यः=रमः
उपात्=च
विभाषा=अ-कर्मकात्
बुध्ः-युध-नश्ः-जन-इङ्-प्रु-द्रु-स्रुभ्यो णेः
निगरण-चलन=अर्थेभ्यः
अणौ=अ-कर्मकात्=चित्तवत्-कर्तृकात्
न पा-दमि=आङ्-यम-आङ्-यस-परि-मुह-रुचि-नृति-वद-वसः
वा क्यषः
द्युद्भ्यो लुङि
वृद्भ्यः स्य-सनोः
लुटि च कॢप्-अः
मूल पाठ: Aṣṭādhyāyī · Data entry W. P. Lehmann · GRETIL (Göttingen) · CC BY-NC-SA 4.0