अष्टाध्यायी (अन्य संस्करण) · अध्याय 1.02
गाङ्-कुटादिभ्यः=अ-ञ्-ण्-इत्=ङ्-इत्
विज इट्
विभाषा=ऊर्णोः
सार्वधातुकम् अ-प्-इत्
अ-संयोगात्=लिट् क्-इत्
इन्धि-भवतिभ्यां च
मृड्ः-मृद्ः-गुध्ः-कुष्ः-क्लिश-वद्ः-वसः क्र्वा
रुद-विद्ः-मुष्ः-ग्रहि-स्वपि-प्रच्छः सन्=च
इको झल्
हल्-अन्तात्=च
लिङ्-सिचौ=आत्मनेपदेषु
उस् च
वा गमः
हनः सिच्
यमो गन्धने
विभाषा=उपयमने
स्था-घ्वोर् इत्=च
न क्त्वा स=इट्
निष्ठा शीङ्-स्विदि-मिदि-क्ष्विदि-धृषः
मृषस् तितिक्षायाम्
उत्=उपधात्=भाव=आदिकर्मणोर् अन्यतरस्याम्
पूङः क्त्वा च
न=उपधात् थ-फ=अन्तात्=वा
वन्चि=लुन्चि=ऋतस् च
तृषि-मृषि-कृशेः काश्यपस्य
रलो उ=इ=उपधात्=हल्-आदेः सन्=च
ऊ-कालः=अच्=ह्रस्व-दीर्घ-प्लुतः
अचश् च
उच्चैर् उदात्तः
नीचैर् अनुदात्तः
समाहारः स्वरितः
तस्य=आदित उदात्तम् अर्ध-ह्रस्वम्
एक-श्रुति दूरात् सम्बुद्धौ
यज्ञ-कर्मणि=अ-जप-न्यूऋख-सामसु
उच्चैस्तरां वा वषट्कारः
विभाषा छन्दसि
न सुब्रह्मण्यायाम् स्वरितस्य तु=उदात्तः
देव-ब्रह्मणोर् अनुदात्तः
स्वरितात् संहितायाम् अनुदात्तानाम्
उदात्त-स्वरित-परस्य सन्नतरः
अपृक्त एक=अल् प्रत्ययः
तत्पुरुषः समान=अधिकरणः कर्मधारयः
प्रथमा-निर्दिष्टं समास उपसर्जनम्
एक-विभक्ति च=अ-ऊर्व-निपाते
अर्थवद् अ-धातुर् अ-प्रत्ययः प्रातिपदिकम्
कृत्-तद्धित-समासाश् च
ह्रस्वो नपुंसके प्रातिपदिकस्य
गो-स्त्रियोर् उपसर्जनस्य
लुक् तद्धित-लुकि
इत्=गोण्याः
लुपि युक्तवत्=व्यक्ति-वचने
विशेषणानां च=अ-जातेः
तद् अशिष्यं संज्ञा-प्रमाणत्वात्
लुप्=योग=अ-प्रख्यानात्
योग-प्रमाणे च तद्-अभावे=अ-दर्शनं स्यात्
प्रधान-प्रत्यय=अर्थ-वचनम् अर्थस्य=अन्य-प्रमाणत्वात्
काल=उपसर्जने च तुल्यम्
जात्य्-आख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम्
अस्मदो द्वायोश् च
फल्गुनी-प्रोष्ठपदानां च नक्षत्रे
छन्दसि पुनर्वस्वोर् एकवचनम्
विसाखयोस् च
तिष्य-पुनर्वस्वोर् नक्षत्र-द्वंद्वे बहुवचनस्य द्विवचनम् नित्यम्
सरूपाणाम् एकशेष एक-विभक्तौ
वृद्धो यूना तद्=लक्षणश् चेद्-एव विशेषः
स्त्री पुंवत्=च
पुमान् स्त्रिया
भ्रातृ-पुत्रौ स्वसृ-दुहितृभ्याम्
नपुंसकम् अ-नपुंसकेन=एकवत्=अ=अस्य=न्यतरस्याम्
पिता मात्रा
श्वशुरः श्वश्र्वा
त्यद्-आदीनि सर्वैर् नित्यम्
ग्राम्य-पशु-संघेषु=अ-तरुणेषु स्त्री
मूल पाठ: Aṣṭādhyāyī · Data entry W. P. Lehmann · GRETIL (Göttingen) · CC BY-NC-SA 4.0