भाषा

ENहिગુ
ग्रंथ पाठ

अष्टावक्र गीता · अध्याय 18

18.1

यस्य बोधोदये तावत् स्वप्नवद् भवति भ्रमः
तस्मै सुखैकरूपाय नमः शान्ताय तेजसे ॥

18.2

अर्जयित्वाखिलान् अर्थान् भोगान् आप्नोति पुष्कलान्
न हि सर्वपरित्यागम् अन्तरेण सुखी भवेत् ॥

18.3

कर्तव्यदुःखमार्तण्ड ज्वालाद् अग्धान्तरात्मनः
कुतः प्रशमपीयूष धारासारम् ऋते सुखम् ॥

18.4

भवो ऽयं भावनामात्रो न किंचित् परमर्थतः
नास्त्य् अभावः स्वभावनां भावाभावविभाविनाम् ॥

18.5

न दूरं न च सङ्कोचाल् लब्धम् एवात्मनः पदम्
निर्विकल्पं निरायासं निर्विकारं निरञ्जनम् ॥

18.6

व्यामोहमात्रविरतौ स्वरूपादानमात्रतः
वीतशोका विराजन्ते निरावरणदृष्टयः ॥

18.7

समस्तं कल्पनामात्रम् आत्मा मुक्तः सनातनः
इति विज्ञाय धीरो हि किम् अभ्यस्यति बालवत् ॥

18.8

आत्मा ब्रह्मेति निश्चित्य भावाभावौ च कल्पितौ
निष्कामः किं विजानाति किं ब्रूते च करोति किं ॥

18.9

अयं सो ऽहम् अयं नाहम् इति क्षीणा विकल्पनाः
सर्वम् आत्मेति निश्चित्य तूष्णीभूतस्य योगिनः ॥

18.10

न विक्षेपो न चैकाग्र्यं नातिबोधो न मूढता
न सुखं न च वा दुःखम् उपशान्तस्य योगिनः ॥

18.11

स्वाराज्ये भैक्षवृत्तौ च लाभालाभे जने वने
निर्विकल्पस्वभावस्य न विषेसो ऽस्ति योगिनः ॥

18.12

क्व धर्मः क्व च वा कामः क्व चार्थः क्व विवेकिता
इदं कृतम् इदं नेति द्वन्द्वैर् मुक्तस्य योगिनः ॥

18.13

कृत्यं किम् अपि नैवास्ति न कापि हृदि रञ्जना
यथाजीवनम् एवेह जीवन्मुक्तस्य योगिनः ॥

18.14

क्व मोहः क्व च वा विश्वं क्व तद् ध्यानं क्व मुक्तता
सर्वसङ्कल्पसीमायां विश्रान्तस्य महात्मनः ॥

18.15

येन विश्वम् इदं दृष्टं स नास्तीति करोतु वै
निर्वासनः किं कुरुते पश्यन्न् अपि न पश्यति ॥

18.16

येन दृष्टं परं ब्रह्म सो ऽहं ब्रह्मेति चिन्तयेत्
किं चिन्तयति निश्चिन्तो द्वितीयं यो न पश्यति ॥

18.17

दृष्टो येनात्मविक्षेपो निरोधं कुरुते त्व् असौ
उदारस् तु न विक्षिप्तः साध्याभावात् करोति किम् ॥

18.18

धीरो लोकविपर्यस्तो वर्त्तमानो ऽपि लोकवत्
न समाधिं न विक्षेपं न लेपं स्वस्य पश्यति ॥

18.19

भावाभावविहीनो यस् तृप्तो निर्वासनो बुधः
नैव किंचित् कृतं तेन लोकदृष्ट्या विकुर्वता ॥

18.20

प्रवृत्तौ वा निर्वृत्तौ वा नैव धीरस्य दुर्ग्रहः
यदा यत् कर्तुम् आयाति तत्कृत्वा तिष्ठतः सुखम् ॥

18.21

निर्वासनो निरालम्बः स्वच्छन्दो मुक्तबन्धनः
क्षिप्तः संस्कारवातेन चेष्टते शुष्कपर्णवत् ॥

18.22

असंसारस्य तु क्वापि न हर्षो न विषादिता
स शीतलमना नित्यं विदेह इव राजते ॥

18.23

कुत्रापि न जिहासास्ति नाशो वापि न कुत्रचित्
आत्मारामस्य धीरस्य शीतलाच्छतरात्मनः ॥

18.24

प्रकृत्या शून्यचित्तस्य कुर्वतो ऽस्य यदृच्छया
प्राकृतस्येव धीरस्य न मानो नावमानता ॥

18.25

कृतं देहेन कर्मेदं न मया शुद्धरूपिणा
इति चिन्तानुरोधी यः कुर्वन्न् अपि करोति न ॥

18.26

अतद्वादीव कुरुते न भवेद् अपि बालिशः
जीवन्मुक्तः सुखी श्रीमान् संसरन्न् अपि शोभते ॥

18.27

नानाविचारसुश्रान्तो धीरो विश्रान्तिम् आगतः
न कल्पते न जानाति न शृणोति न पश्यति ॥

18.28

असमाधेर् अविक्षेपान् न मुमुक्षुर् न चेतरः
निश्चित्य कल्पितं पश्यन् ब्रह्मैवास्ते महाशयः ॥

18.29

यस्यान्तः स्याद् अहङ्कारो न करोति करोति सः
निरहङ्कारधीरेण न किंचिद् अकृतं कृतम् ॥

18.30

नोद्विग्नं न च सन्तुष्टम् अकर्तृ स्पन्दवर्जितम्
निराशं गतसन्देहं चित्तं मुक्तस्य राजते ॥

18.31

निर्ध्यातुं चेष्टितुं वापि यच् चित्तं न प्रवर्त्तते
निर्निमित्तम् इदं किन् तु निर्ध्यायति विचेष्टते ॥

18.32

तत्त्वं यथार्थम् आकर्ण्य मन्दः प्राप्नोति मूढताम्
अथ वायाति सङ्कोचम् अमूढः को ऽपि मूढवत् ॥

18.33

एकाग्रता निरोधो वा मूढैर् अभ्यस्यते भृशम्
धीराः कृत्यं न पश्यन्ति सुप्तवत् स्वपदे स्थिताः ॥

18.34

अप्रयत्नात् प्रयत्नाद् वा मूढो नाप्नोति निर्वृतिम्
तत्त्वनिश्चयमात्रेण प्राज्ञो भवति निर्वृतः ॥

18.35

शुद्धं बुद्धं प्रियं पूर्णं निष्प्रपञ्चं निरामयम्
आत्मानं तं न जानन्ति तत्राभ्यासपरा जनाः ॥

18.36

नाप्नोति कर्मणा मोक्षं विमूढो ऽभ्यासरूपिणा
धन्यो विज्ञानमात्रेण मुक्तस् तिष्ठत्य् अविक्रियः ॥

18.37

मूढो नाप्नोति तद् ब्रह्म यतो भवितुम् इच्छति
अनिच्छन्न् अपि धीरो हि परब्रह्मस्वरूपभाक् ॥

18.38

निराधारा ग्रहव्यग्रा मूढाः संसारपोषकाः
एतस्यानर्थमूलस्य मूलच्छेदः कृतो बुधैः ॥

18.39

न शान्तिं लभते मूढो यतः शमितुम् इच्छति
धीरस् तत्त्वं विनिश्चित्य सर्वदा शान्तमानसः ॥

18.40

क्वात्मनो दर्शनं तस्य यद् दृष्टम् अवलम्बते
धीरास् तं तं न पश्यन्ति पश्यन्त्य् आत्मानम् अव्ययम् ॥

18.41

क्व निरोधो विमूढस्य यो निर्बन्धं करोति वै
स्वारामस्यैव धीरस्य सर्वदासाव् अकृत्रिमः ॥

18.42

भावस्य भावकः कश्चिन् न किंचिद् भावको ऽपरः
उभयाभावकः कश्चिद् एवम् एव निराकुलः ॥

18.43

शुद्धम् अद्वयम् आत्मानं भावयन्ति कुबुद्धयः
न तु जानन्ति संमोहाद् यावज्जीवम् अनिर्वृताः ॥

18.44

मुमुक्षोर् बुद्धिर् आलम्बम् अन्तरेण न विद्यते
निरालम्बैव निष्कामा बुद्धिर् मुक्तस्य सर्वदा ॥

18.45

विषयद्वीपिनो वीक्ष्य चकिताः शरणार्थिनः
विशन्ति झटिति क्रोडं निरोधैकाग्र्यसिद्धये ॥

18.46

निर्वासनं हरिं दृष्ट्वा तूष्णीं विषयदन्तिनः
पलायन्ते न शक्तास् ते सेवन्ते कृतचाटवः ॥

18.47

न मुक्तिकारिकां धत्ते निःशङ्को युक्तमानसः
पश्यञ् छृण्वन् स्पृशञ् जिघ्रन्न् अश्नन्न् आस्ते यथासुखम् ॥

18.48

वस्तुश्रवणमात्रेण शुद्धबुद्धिर् निराकुलः
नैवाचारमनाचारम् औदास्यं वा प्रपश्यति ॥

18.49

यदा यत् कर्तुम् आयाति तदा तत्कुरुते ऋजुः
शुभं वाप्य् अशुभं वापि तस्य चेष्टा हि बालवत् ॥

18.50

स्वातन्त्र्यात् सुखम् आप्नोति स्वातन्त्र्याल् लभते परम्
स्वातन्त्र्यान् निर्वृतिं गच्छेत् स्वातन्त्र्यात् परमं पदम् ॥

18.51

अकर्तृत्वम् अभोक्तृत्वं स्वात्मनो मन्यते यदा
तदा क्षीणा भवन्त्य् एव समस्ताश् चित्तवृत्तयः ॥

18.52

उच्छृङ्खलाप्य् अकृतिका स्थितिर् धीरस्य राजते
न तु सस्पृहचित्तस्य शान्तिर् मूढस्य कृत्रिमा ॥

18.53

विलसन्ति महाभोगैर् विशन्ति गिरिगह्वरान्
निरस्तकल्पना धीरा अबद्धा मुक्तबुद्धयः ॥

18.54

श्रोत्रियं देवतां तीर्थम् अङ्गनां भूपतिं प्रियम्
दृष्ट्वा सम्पूज्य धीरस्य न कापि हृदि वासना ॥

18.55

भृत्यैः पुत्रैः कलत्रैश् च दौहित्रैश् चापि गोत्रजैः
विहस्य धिक्कृतो योगी न याति विकृतिं मनाक् ॥

18.56

सन्तुष्टो ऽपि न सन्तुष्टः खिन्नो ऽपि न च खिद्यते
तस्याश्चर्यदशां तां तां तादृशा एव जानते ॥

18.57

कर्तव्यतैव संसारो न तां पश्यन्ति सूरयः
शून्याकारा निराकारा निर्विकारा निरामयाः ॥

18.58

अकुर्वन्न् अपि संक्षोभाद् व्यग्रः सर्वत्र मूढधीः
कुर्वन्न् अपि तु कृत्यानि कुशलो हि निराकुलः ॥

18.59

सुखम् आस्ते सुखं शेते सुखम् आयाति याति च
सुखं वक्ति सुखं भुङ्क्ते व्यवहारे ऽपि शान्तधीः ॥

18.60

स्वभावाद् यस्य नैवार्तिर् लोकवद् व्यवहारिणः
महाह्रद इवाक्षोभ्यो गतक्लेशः सुशोभते ॥

18.61

निवृत्तिर् अपि मूढस्य प्रवृत्तिर् उपजायते
प्रवृत्तिर् अपि धीरस्य निवृत्तिफलभागिनी ॥

18.62

परिग्रहेषु वैराग्यं प्रायो मूढस्य दृश्यते
देहे विगलिताशस्य क्व रागः क्व विरागता ॥

18.63

भावनाभावनासक्ता दृष्टिर् मूढस्य सर्वदा
भाव्यभावनया सा तु स्वस्थस्यादृष्टिरूपिणी ॥

18.64

सर्वारम्भेषु निष्कामो यश् चरेद् बालवन् मुनिः
न लेपस् तस्य शुद्धस्य क्रियमाणे ऽपि कर्मणि ॥

18.65

स एव धन्य आत्मज्ञः सर्वभावेषु यः समः
पश्यन् शृण्वन् स्पृशन् जिघ्रन्न् अश्नन् निस्तर्षमानसः ॥

18.66

क्व संसारः क्व चाभासः क्व साध्यं क्व च साधनम्
आकाशस्येव धीरस्य निर्विकल्पस्य सर्वदा ॥

18.67

स जयत्य् अर्थसंन्यासी पूर्णस्वरसविग्रहः
अकृत्रिमो ऽनवच्छिन्ने समाधिर् यस्य वर्तते ॥

18.68

बहुनात्र किम् उक्तेन ज्ञाततत्त्वो महाशयः
भोगमोक्षनिराकाङ्क्षी सदा सर्वत्र नीरसः ॥

18.69

महदादि जगद्द्वैतं नाममात्रविजृम्भितम्
विहाय शुद्धबोधस्य किं कृत्यम् अवशिष्यते ॥

18.70

भ्रमभूतम् इदं सर्वं किंचिन् नास्तीति निश्चयी
अलक्ष्यस्फुरणः शुद्धः स्वभावेनैव शाम्यति ॥

18.71

शुद्धस्फुरणरूपस्य दृश्यभावम् अपश्यतः
क्व विधिः क्व च वैराग्यं क्व त्यागः क्व शमो ऽपि वा ॥

18.72

स्फुरतो ऽनन्तरूपेण प्रकृतिं च न पश्यतः
क्व बन्धः क्व च वा मोक्षः क्व हर्षः क्व विषादिता ॥

18.73

बुद्धिपर्यन्तसंसारे मायामात्रं विवर्तते
निर्ममो निरहङ्कारो निष्कामः शोभते बुधः ॥

18.74

अक्षयं गतसन्तापम् आत्मानं पश्यतो मुनेः
क्व विद्या च क्व वा विश्वं क्व देहो ऽहं ममेति वा ॥

18.75

निरोधादीनि कर्माणि जहाति जडधीर् यदि
मनोरथान् प्रलापांश् च कर्तुम् आप्नोत्य् अतत्क्षणात् ॥

18.76

मन्दः श्रुत्वापि तद्वस्तु न जहाति विमूढताम्
निर्विकल्पो बहिर्यत्नाद् अन्तर्विषयलालसः ॥

18.77

ज्ञानाद् गलितकर्मा यो लोकदृष्ट्यापि कर्मकृत्
नाप्नोत्य् अवसरं कर्तुं वक्तुम् एव न किंचन ॥

18.78

क्व तमः क्व प्रकाशो वा हानं क्व च न किंचन
निर्विकारस्य धीरस्य निरातङ्कस्य सर्वदा ॥

18.79

क्व धैर्यं क्व विवेकित्वं क्व निरातङ्कतापि वा
अनिर्वाच्यस्वभावस्य निःस्वभावस्य योगिनः ॥

18.80

न स्वर्गो नैव नरको जीवन्मुक्तिर् न चैव हि
बहुनात्र किम् उक्तेन योगदृष्ट्या न किंचन ॥

18.81

नैव प्रार्थयते लाभं नालाभेनानुशोचति
धीरस्य शीतलं चित्तम् अमृतेनैव पूरितम् ॥

18.82

न शान्तं स्तौति निष्कामो न दुष्टम् अपि निन्दति
समदुःखसुखस् तृप्तः किंचित् कृत्यं न पश्यति ॥

18.83

धीरो न द्वेष्टि संसारम् आत्मानं न दिदृक्षति
हर्षामर्षविनिर्मुक्तो न मृतो न च जीवति ॥

18.84

निःस्नेहः पुत्रदारादौ निष्कामो विषयेषु च
निश्चिन्तः स्वशरीरे ऽपि निराशः शोभते बुधः ॥

18.85

तुष्टिः सर्वत्र धीरस्य यथापतितवर्तिनः
स्वच्छन्दं चरतो देशान् यत्रास्तमितशायिनः ॥

18.86

पततूदेतु वा देहो नास्य चिन्ता महात्मनः
स्वभावभूमिविश्रान्ति विस्मृताशेषसंसृतेः ॥

18.87

अकिंचनः कामचारो निर्द्वन्द्वश् छिन्नसंशयः
असक्तः सर्वभावेषु केवलो रमते बुधः ॥

18.88

निर्ममः शोभते धीरः समलोष्टाश्मकाञ्चनः
सुभिन्नहृदयग्रन्थिर् विनिर्धूतरजस्तमः ॥

18.89

सर्वत्रानवधानस्य न किंचिद् वासना हृदि
मुक्तात्मनो वितृप्तस्य तुलना केन जायते ॥

18.90

जानन्न् अपि न जानाति पश्यन्न् अपि न पश्यति
ब्रुवन्न् अपि न च ब्रूते को ऽन्यो निर्वासनाद् ऋते ॥

18.91

भिक्षुर् वा भूपतिर् वापि यो निष्कामः स शोभते
भावेषु गलिता यस्य शोभनाशोभना मतिः ॥

18.92

क्व स्वाच्छन्द्यं क्व सङ्कोचः क्व वा तत्त्वविनिश्चयः
निर्व्याजार्जवभूतस्य चरितार्थस्य योगिनः ॥

18.93

आत्मविश्रान्तितृप्तेन निराशेन गतार्तिना
अन्तर् यद् अनुभूयेत तत् कथं कस्य कथ्यते ॥

18.94

सुप्तो ऽपि न सुषुप्तौ च स्वप्ने ऽपि शयितो न च
जागरे ऽपि न जागर्ति धीरस् तृप्तः पदे पदे ॥

18.95

ज्ञः सचिन्तो ऽपि निश्चिन्तः सेन्द्रियो ऽपि निरिन्द्रियः
सबुद्धिर् अपि निर्बुद्धिः साहङ्कारो ऽनहंकृतिः ॥

18.96

न सुखी न च वा दुःखी न विरक्तो न सङ्गवान्
न मुमुक्षुर् न वा मुक्तो न किंचिन् न च किंचन ॥

18.97

विक्षेपे ऽपि न विक्षिप्तः समाधौ न समाधिमान्
जाड्ये ऽपि न जडो धन्यः पाण्डित्ये ऽपि न पण्डितः ॥

18.98

मुक्तो यथास्थितिस्वस्थः कृतकर्तव्यनिर्वृतः
समः सर्वत्र वैतृष्ण्यान् न स्मरत्य् अकृतं कृतम् ॥

18.99

न प्रीयते वन्द्यमानो निन्द्यमानो न कुप्यति
नैवोद्विजति मरणे जीवने नाभिनन्दति ॥

18.100

न धावति जनाकीर्णं नारण्यम् उपशान्तधीः
यथातथा यत्रतत्र सम एवावतिष्ठते ॥

मूल पाठ: Aṣṭāvakragītā · Data entry John Richards · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc