भाषा

ENहिગુ
ग्रंथ पाठ

अष्टावक्र गीता · अध्याय 19

19.1

तत्त्वविज्ञानसन्दंशम् आदाय हृदयोदरात्
नानाविधपरामर्श शल्योद्धारः कृतो मया ॥

19.2

क्व धर्मः क्व च वा कामः क्व चार्थः क्व विवेकिता
क्व द्वैतं क्व च वाद्वैतं स्वमहिम्नि स्थितस्य मे ॥

19.3

क्व भूतं क्व भविष्यद् वा वर्तमानम् अपि क्व वा
क्व देशः क्व च वा नित्यं स्वमहिम्नि स्थितस्य मे ॥

19.4

क्व चात्मा क्व च वानात्मा क्व शुभं क्वासुभं यथा
क्व चिन्ता क्व च वाचिन्ता स्वमहिम्नि स्थितस्य मे ॥

19.5

क्व स्वप्नः क्व सुषुप्तिर् वा क्व च जागरणं तथा
क्व तुरियं भयं वापि स्वमहिम्नि स्थितस्य मे ॥

19.6

क्व दूरं क्व समीपं वा बह्यं क्वाभ्यन्तरं क्व वा
क्व स्थूलं क्व च वा सूक्ष्मं स्वमहिम्नि स्थितस्य मे ॥

19.7

क्व मृत्युर्जीवितं वा क्व लोकाः क्वास्य क्व लौकिकम्
क्व लयः क्व समाधिर् वा स्वमहिम्नि स्थितस्य मे ॥

19.8

अलं त्रिवर्गकथया योगस्य कथयाप्य् अलम्
अलं विज्ञानकथया विश्रान्तस्य ममात्मनि ॥

मूल पाठ: Aṣṭāvakragītā · Data entry John Richards · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc