अष्टावक्र गीता · अध्याय 17
तेन ज्ञानफलं प्राप्तं योगाभ्यासफलं तथा
तृप्तः स्वच्छेन्द्रियो नित्यम् एकाकी रमते तु यः ॥
न कदाचिज् जगत्य् अस्मिंस् तत्त्वज्ञो हन्त खिद्यति
यत एकेन तेनेदं पूर्णं ब्रह्माण्डमण्डलम् ॥
न जातु विषयाः के ऽपि स्वारामं हर्षयन्त्य् अमी
सल्लकीपल्लवप्रीतम् इवेभं निम्बपल्लवाः ॥
यस् तु भोगेषु भुक्तेषु न भवत्य् अधिवासितः
अभुक्तेषु निराकाङ्क्षी तादृशो भवदुर्लभः ॥
बुभुक्षुर् इह संसारे मुमुक्षुर् अपि दृश्यते
भोगमोक्षनिराकाङ्क्षी विरलो हि महाशायः ॥
धर्मार्थकाममोक्षेषु जीविते मरणे तथा
कस्याप्य् उदारचित्तस्य हेयोपादेयता न हि ॥
वाञ्छा न विश्वविलये न द्वेषस् तस्य च स्थितौ
यथा जीविकया तस्माद् धन्य आस्ते यथा सुखं ॥
कृतार्थो ऽनेन ज्ञानेनेत्य् एवं गलितधीः कृती
पश्यन् शृण्वन् स्पृशन् जिघ्रन्न् अश्नन्न् अस्ते यथा सुखं ॥
शून्या दृष्टिर् वृथा चेष्टा विकलानीन्द्रियाणि च
न स्पृहा न विरक्तिर् वा क्षीणसंसारसागरे ॥
न जगर्ति न निद्राति नोन्मीलति न मीलति
अहो परदशा क्वापि वर्तते मुक्तचेतसः ॥
सर्वत्र दृश्यते स्वस्थः सर्वत्र विमलाशयः
समस्तवासना मुक्तो मुक्तः सर्वत्र राजते ॥
पश्यन् शृण्वन् स्पृशन् जिघ्रन्न् अश्नन् गृह्णन् वदन्व्रजन्
ईहितानीहितैर् मुक्तो मुक्त एव महाशयः ॥
न निन्दति न च स्तौति न हृष्यति न कुप्यति
न ददाति न गृह्णाति मुक्तः सर्वत्र नीरसः ॥
सानुरागां स्त्रियं दृष्ट्वा मृत्युं वा समुपस्थितम्
अविह्वलमनाः स्वस्थो मुक्त एव महाशयः ॥
सुखे दुःखे नरे नार्यां संपत्सु च विपत्सु च
विशेषो नैव धीरस्य सर्वत्र समदर्शिनः ॥
न हिंसा नैव कारुण्यं नौद्धत्यं न च दीनता
नाश्चर्यं नैव च क्षोभः क्षीणसंसरणे नरे ॥
न मुक्तो विषयद्वेष्टा न वा विषयलोलुपः
असंसक्तमना नित्यं प्राप्ताप्राप्तम् उपाश्नुते ॥
समाधानासमाधान हिताहितविकल्पनाः
शून्यचित्तो न जानाति कैवल्यम् इव संस्थितः ॥
निर्ममो निरहंकारो न किंचिद् इति निश्चितः
अन्तर्गलितसर्वाशः कुर्वन्न् अपि करोति न ॥
मनःप्रकाशसम्मोह स्वप्नजाड्यविवर्जितः
दशां काम् अपि संप्राप्तो भवेद् गलितमानसः ॥
मूल पाठ: Aṣṭāvakragītā · Data entry John Richards · GRETIL (Göttingen) · CC BY-NC-SA 4.0