अष्टाङ्गसंग्रह · अध्याय 6.9
अथात उन्मादप्रतिषेधं नामाध्यायं व्याख्यास्यमः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
षडुन्मादा भवन्ति वातपित्तकफसन्निपाताधिविषनिमित्ताः ।
तत्रोन्मादो नाम य उन्मार्गगैः शारीरमानसैर्दोषैर्मनसो मदः ॥
तेषां पुनरुन्मार्गगत्वे हेतुः शमलं विकृतोपहितमहितमनुचितमन्नपानविधिनिरपेक्षमाहारजातमत्युपक्षीणदेहानां व्यवायव्याधिवेगसमुद्गमे विषमशरीरचेष्टोपसेवा देवद्विजगुरूल्लङ्घनं वा रागद्वेषजनिताभिराधिभिर्मनोविघातो विषोपविषगरोपयोगो वा ॥
एभिर्हीनसत्वस्य मनस्युपहते बुद्धौ प्रचलितायामत्युदीर्णत्वाद्दोषाः प्रकुपिता हृदयमुपसृत्य मनोवहानि स्रोतांस्यावृत्य जनयन्त्युन्मादम् ॥
तत्र शिरसः शून्यता चक्षुषोरस्वस्थत्वं स्वनः कर्णयोरुच्छ्वासाधिक्यमास्यसंस्रवणमन्नानभिलाषो ऽरोचको ऽविपाको हृदयग्रहो ऽस्थाने ध्यानायाससम्मोहोद्वेगाः सततं रोमहर्षो ज्वरो ऽभीक्ष्णमुन्मत्तचित्तत्वमुदर्दित्वमर्दिताकृतिकरणं व्याधेः स्वप्ने च दर्शनमभीक्ष्णं भ्रान्तचित्तचलितानवस्थितानामप्रशस्तानां रूपाणां तिलपीडकवच्चक्राधिरोहणं वातकुण्डलिकाभिरुन्मथनं निमज्जनं कलुषाणामम्भसामावर्तेषु चक्षुषोश्चापसर्पणामिति दोषनिमित्तानामुन्मादानां पूर्वरूपाणि ।
ततो ऽनन्तरमुन्मादाभिनिर्वृत्तिरेव ॥
सामान्यलिङ्गं मनोबुद्धिस्मृत्यादिसम्प्रमोषः ॥
ततश्च देहो हतसारथिरिव रथो ऽकर्णधार इव चाप्सु प्लवः सुखदुःखाचारधर्माधर्मप्रलुप्तो ऽकस्माद् भ्रमति ॥
तत्रवातादस्थानस्मितहसितनृत्तगीतवादित्रवागङ्गविक्षेपवाग्भेदभ्रू विक्षेपरोदनक्रोशनास्फोटनानि पर्यटनमजस्रमास्यात् फेनागमो यानमयानैरलङ्करणमनलङ्कारिकैर्द्रव्यैर्लोभो ऽभ्यवहार्येषु लब्धेषु चावमानस्तीव्रं मात्सर्यं कार्श्यं पारुष्यमुत्पिण्डितारुणाक्षता जीर्णे ऽन्ने चातिबलवत्वम् ॥
पित्तात् क्रोधः सन्तर्जनमकस्मान्मुष्टिलोष्टकाष्ठशस्त्रैरभिद्रवणं नग्नता प्रच्छायशिशिराभिरातिरुदकाभिलाषः सन्तापः पीतावस्रंसनमनिमित्तमनलज्वलनोपशङ्काह्नि तारकादर्शनं ताम्रहरितहारिद्रसंरब्धाक्षत्वं च ॥
कफादल्पवाक्चेष्टाहारत्वमरोचको वमथुरुष्णसेवा लालासिङ्घणकस्रवणं रहः कामता स्त्रीप्रियत्वं निद्राबीभत्सत्वं शौचद्वेषः श्वयथुरास्ये शुक्लस्तिमितमलाविलाक्षता भुक्ते रात्रौ च बलवत्वमिति ।
भवति चात्र ॥
सर्वायतनसंस्थानसन्निपाते तदात्मकम् ।
उन्मादं दारुणं विद्यात्तं भिषक् परिवर्जयेत् ॥
धनकान्तादिनाशेन दुःसहेनाभिषङ्गवान् ।
पाण्डुर्दीनो मुहुर्मुह्यन् हाहेति परिदेवते ॥
रोदित्यकस्मात् स्मयते तद्गुणान् बहुमन्यते ।
शोकक्लिष्टमना ध्यायन् जागरूको विचेष्टते ॥
विषेण श्याववदनो नष्टच्छायो ऽबलेन्द्रियः ।
वेगान्तरे ऽपि सम्भ्रान्तो रक्ताक्षस्तं विवर्जयेत् ॥
अथानिलज उन्मादे स्नेहपानं प्रयोजयेत् ।
पूर्वमावृतमार्गे तु सस्नेहं मृदुशोधनम् ॥
कफपित्तोद्भवे ऽप्यादौ वमनं सविरेचनम् ।
स्निग्धास्विन्नस्य बस्तींश्च शिरसश्च विरेचनम् ।
तथास्य शुद्धदेहस्य प्रसादं लभते मनः ॥
स्नेहकाले च वातोत्थे तैलं शरीषमिष्यते ।
महाकल्याणकं पैत्ते पञ्चगव्यं कफोद्भवे ॥
इथमप्यनुवृत्तौ तु तीक्ष्णं नावनमञ्जनम् ।
हर्षणाश्वासनोत्रासभयताडनतर्जनम् ॥
अभ्यङ्गोद्वर्तनालेपधूपान् पानं च सर्पिषः ।
युञ्ज्यात्तांनि हि शुद्धस्य नयन्ति प्रकृतिं मनः ॥
हिङ्गुसौवर्चलव्योषैर्द्विपलांशैर्घृताढकम् ।
सिद्धं समूत्रमुन्मादभूतापस्मारनुत् परम् ॥
द्वौ प्रस्थौ स्वरसात्ब्रह्म्या घृतप्रस्थं च साधितम् ।
व्योषश्यामात्रिवृद्बिम्बीशङ्खपुष्पीनृपद्रुमैः ॥
ससप्तलाकृमिहरैः कल्कितैरक्षसम्मितैः ।
पलवृध्या प्रयुञ्जीत परं मात्राचतुष्पलम् ॥
उन्मादकुष्ठापस्मारहरं वन्ध्यासुतप्रदम् ।
वाक्स्वरस्मृतिमेधाकृद्धन्यं ब्राह्मीघृतं स्मृतम् ॥
वराविशालावढ्रैलादेवदार्वेलवालुकैः ।
द्विसारिवाद्विरजनीद्विस्थिराफलिनीनतैः ॥
बृहतीकुष्ठमञ्जिष्ठानागकेसरदाडिमैः ।
वेल्लतालीसपत्रैलामालतीमुकुलोत्पलैः ॥
सदन्तीपद्मकहिमैः कर्षांशैः सर्पिषः पचेत् ।
प्रस्थं भूतग्रहोन्मादकासापस्मारसूदनम् ॥
पाण्डुकण्डूविषे शोषे मेहे मोहे ज्वरे गरे ।
अरेतस्यल्परजसि दैवोपहतचेतसि ॥
अमेधसि स्खलद्वाचि स्मृतिकामे ऽल्पपावके ।
बल्यं मङ्गल्यमायुष्यं कान्तिसौभाग्यपुष्टिदम् ।
कल्याणकामिदं सर्पिः श्रेष्ठं पुंसवनषे च ॥
एभ्यो द्विसारिवादीनि जले पक्त्वैकविंशतिम् ।
जले तस्मिन् पचेत् सर्पिर्गृष्टिक्षीरचतुर्गुणम् ॥
वीराद्विमेदाकाकोलीकपिकच्छूविषाणिभिः ।
सूप्यपर्णीयुतैरेतन्महाकल्याणकं परम् ।
बृंहणं सन्निपातघ्नं पूर्वस्मादधिकं गुणैः ॥
जटिला पूतना केशी चारटी मर्कटी वचा ।
त्रायमाणा जया वीरा चोरकः कटुरोहिणी ॥
कायस्था सूकरी छत्रा सातिच्छत्रा पलङ्कषा ।
महापुरुषदन्ता च वयस्था नाकुलीद्वयम् ॥
कटम्भरा वृश्चिकाली शालिपर्णी च तैर्घृतम् ।
सिद्धं चातुर्थिकोन्मादग्रहापस्मारनाशनम् ॥
महापैशाचकं नाम घृतमेतद्यथामृतम् ।
बुद्धिमेधास्मृतिकरं बालानां चाङ्गवर्धनम् ॥
लशुनानां शतं त्रिंशदभयात्र्यूषणात् पलम् ।
गव्यचर्ममषीप्रस्थो द्व्याढकं क्षीरमूत्रयोः ॥
पुराणसर्पिषःप्रस्थमेभिः सिद्धं प्रयोजयेत् ।
हिङ्गुचूर्णपलं शीते दत्वा च मधुमानिकाम् ॥
तद्दोषगन्तुसम्भूतानुन्मादान् विषमज्वरान् ।
अपस्मारांश्च हन्त्याशु पानाभ्यञ्जननावनैः ॥
केवलं सिद्धमेभिर्वा घृतमुत्तममात्रया ।
पुराणं पाययित्वैनं श्वभ्रे रुन्ध्यात् गृहे ऽथवा ॥
एतानौषधवर्गान्वा विधेयत्वमगच्छति ।
अञ्जनोद्वर्तनालेपनावनादिषु योजयेत् ॥
अश्वगन्धाजगन्धोग्रगन्धालशुनसर्षपैः ।
रास्नाकायस्थगोलोमीयुक्तैस्तैलं विपाचितम् ॥
गोमूत्रसदृशं पाननस्याभ्यङ्गानुवासैनैः ।
सर्वोन्मादग्रहालक्ष्मीपाप्मापस्मारनाशनम् ॥
शिरीषो मधुकं हिङ्गु लशुनस्तगरं वचा ।
कुष्ठं च बस्तमूत्रेण पिष्टं स्यान्नावनाञ्जनम् ॥
तद्वद्व्योषं हरिद्रे द्वे मञ्जिष्ठाहिङ्गुसर्षपाः ।
शिरीषबीजं चोन्मादग्रहापस्मारनाशनम् ॥
ब्राह्मीमैन्द्रीं विडङ्गानि व्योषं हिङ्गुजटां मुरम् ।
रास्नां विषघ्नां लशुनं विशल्यां सुरसं वचाम् ॥
ज्योतिष्मतीं नागविन्नामनन्तां सहरीतकीम् ।
काम्लीं च हस्तिमूत्रेण पिष्ट्वा छायाविशोषिता ।
वर्तिनस्याञ्जनालेपधूपैरुन्मादसूदनी ॥
पिष्ट्वा फलान्यपामार्गाद्धिङ्गुलं हिङ्गुपत्रिकाम् ।
वर्तिर्गोक्रोष्टुपित्तेन मरिचार्धांशकाञ्जनम् ।
उन्मादभूतापस्मारे नृषु गोषु च गोचरे ॥
अवपीडाश्च विविधाः सर्षपस्नेहसंयुताः ।
कटुतैलेन चाभ्यङ्गो ध्मापयेच्चास्य तद्रजः ॥
सहिङ्गुतीक्ष्णधूमश्च सूत्रस्थानोदितो हितः ।
शृगालशल्यकोलूकजतुकावृकबस्तजैः ॥
मूत्रपित्तशकृल्लोमनखचर्मभिराचरेत् ।
धूपधूमाञ्जनाभ्यङ्गप्रदेहपरिषेचनम् ॥
धूपयेत् सततं चैनं श्वगोमत्स्यैः सुपूतिभिः ।
वातश्लेष्मात्मके प्रायः पैत्तिके तु प्रशस्यते ॥
तिक्तकं जीवनीयं च सर्पिः स्नेहश्च मिश्रकः ॥
शीतानि चान्नपानानि मधुराणि लघूनि च ।
विध्येत् सिरां यथोक्तां वा तृप्तं मेद्यामिषस्य वा ।
निवाते शाययेदेवं मुच्यते मतिविभ्रमात् ॥
प्रक्षिप्यासलिले कूपे शोषयेद्वा बुभुक्षया ।
आश्वासयेत् सुहृत्तं वा वाक्यैर्धर्मार्थसंहितैः ॥
ब्रूयादिष्टविनाशं वा दर्शयेदद्भुतानि वा ।
बद्धं सर्षपतैलाक्तं न्यस्तं चोत्तानमातपे ॥
कपिकच्छ्वाथवा तप्तैर्लोहतैलजलैः स्पृशेत् ।
कशाभिस्ताडयित्वा वा बध्वा श्वभ्रे विनिक्षिपेत् ॥
अथवा वीतशस्त्राश्मजने सन्तमसे गृहे ।
सर्पेणोद्घृतदंष्ट्रेण दान्तैः सिंहैर्गजैश्च तम् ।
त्रासयेच्छस्त्रहस्तैर्वा किरातारातितस्करैः ॥
अथवा राजपुरुषा बहिर्नीत्वा सुसंयतम् ।
भीषयेयुर्वधेनैनं तर्जयन्तो नृपाज्ञया ॥
देहदुःखभयेभ्यो हि परं प्राणभयं मतम् ।
तेन याति शमं तस्य सर्वतो विप्लुतं मनः ।
सिद्धा क्रिया प्रयोज्येयं देशकालाद्यपेक्षया ॥
इष्टद्रव्यविनाशात्तु मनो यस्योपहन्यते ।
तस्य तत्सदृशप्राप्तिसान्त्वाश्वासैः प्रसादयेत् ॥
कामशोकभयक्रोधहर्षेर्ष्यालोभसम्भवान् ।
परस्परप्रतिद्वन्द्वैरेभिरेव शमं नयेत् ॥
भूतानुबन्धमीक्षेत प्रोक्तलिङ्गाधिकाकृतिम् ।
यद्युन्मादे ततः कुर्यात् भूतनिर्दिष्टमौषधम् ॥
बलिं च दद्यात् पललं यावकं सक्तुपिण्डिकाम् ।
स्निग्धं मधुरमाहारं तण्डुलान् रुधिरोक्षितान् ॥
पक्वामकानिमांसानि सुरां मैरेयमासवम् ।
अतिमुक्तस्य पुष्पाणि जात्याः सहचरस्य च ।
चतुष्पथे गवां तीर्थे नदीनां सङ्गमेषु च ॥
निवृत्तामिषमद्यो यो हिताशी प्रयतः शुचिः ।
निजागन्तुभिरुन्मादैः सत्ववान् न स युज्यते ॥
प्रसादश्चेन्द्रियार्थानां बुध्यात्ममनसां तथा ।
धातूनां प्रकृतिस्थत्वं विगतोन्मादलक्षणम् ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0