भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 6.10

6.10.1

अथातो ऽपस्मारप्रतिषेधं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

6.10.2

स्मृत्यपायो ह्यपस्मारः स धीसत्त्वाभिसम्प्लवात् ।
जायते ऽभिहते चित्ते चिन्ताशोकभयादिभिः ॥

6.10.3

उन्मादवत् प्रकुपितैश्चित्तदेहगतैर्मलैः ।
हते सत्त्वे हृदि व्याप्ते संज्ञावाहिषु खेषु च ॥

6.10.4

तमो विशन् मूढमतिर्बीभत्साः कुरुते क्रियाः ।
दन्तान्खादन्वमन्फेनं हस्तौ पादौ च विक्षिपन् ॥

6.10.5

पश्यन्नसन्ति रूपाणि प्रस्खलन् पतति क्षितौ ।
विजिह्माक्षिभ्रुवो दोषवेगे ऽतीते विबुध्यते ॥

6.10.6

कालान्तरेण स पुनश्चैवमेव विचेष्टते ।
अपस्मारश्चतुर्भेदो वाताद्यैर्निचयेन च ॥

6.10.7

रूपमुत्पत्स्यमाने ऽस्मिन् हृत्कम्पः शून्यता भ्रमः ।
तमसो दर्शनं ध्यानं भ्रूव्युदासो ऽक्षिवैकृतम् ॥

6.10.8

अशब्दश्रवणं स्वेदो लालासिङ्घाणकस्रुतिः ।
अविपाको ऽरुचिर्मूर्छा कुक्ष्याटोपो बलक्षयः ॥

6.10.9

निद्रानाशो ऽङ्गमर्दस्तृट् स्वप्ने गानं सनर्तनम् ।
पानं तैलस्य मद्यस्य तयोरेव च मेहनम् ॥

6.10.10

तत्र वातात् स्फुरत्सक्थिः प्रततं च मुहुर्मुहुः ।
अपस्मरति संज्ञां च लभते विस्वरं रुदन् ॥

6.10.11

उत्पिण्डिताक्षः श्वसिति फेनं वमति कम्पते ।
आविध्यति शिरो दन्तान् दशत्याध्मातकन्धरः ॥

6.10.12

परितो विक्षिपत्यङ्गं विषमं विनताङ्गुलिः ।
रूक्षश्यावारुणाक्षित्वङ्नखास्यः कृष्णमीक्षते ।
चपलं परुषं रूपं विरूपं विकृताननम् ॥

6.10.13

अपस्मरति पित्तेन मुहुः संज्ञां च विन्दति ।
पीतफेनाक्षिवक्त्रत्वगास्फालयति मेदिनीम् ।
भैरवादीप्तरुषितरूपदर्शी तृषान्वितः ॥

6.10.14

कफाच्चिरेण ग्रहणं चिरेणैव विबोधनम् ।
शुक्लाभरूपदर्शित्वं सर्वलिङ्गं तु वर्जयेत् ॥

6.10.15

अथावृतानां धीचित्तहृद्खानां प्राक्प्रबोधनम् ।
तीक्ष्णैः कुर्यादपस्मारे कर्मभिर्वमनादिभिः ॥

6.10.16

वातिकं बस्तिभूयिष्ठैः पैत्तं प्रायो विरेचनैः ।
श्लैष्मिकं वमनप्रायैरपस्मारमुपाचरेत् ॥

6.10.17

वमनं मदनं लम्बा विशालारिष्टकौटजम् ।
रेको मूत्रत्रिवृच्छ्यामा द्रवन्ती सप्तला स्नुही ॥

6.10.18

दशमूलबलारास्नासरलामरदारुभिः ।
यवकोलकुलत्थैश्च समूत्रक्षारसैन्धवैः ।
आस्थापनं प्रयुञ्जीत हिङ्गुस्नेहसमन्वितैः ॥

6.10.19

एभिरन्यैश्च वातघ्नैः कटुतैलं प्रसाधितम् ।
वातापस्मारशमनं नस्याभ्यङ्गानुवासनैः ॥

6.10.20

सर्वतः सुविशुद्धस्य सम्यगाश्वासितस्य च ।
अपस्मारविमोक्षार्थं योगान् संशमनान् शृणु ॥

6.10.21

गोमयस्वरसक्षीरदधिमूत्रैः शृतं हविः ।
अपस्मारज्वरोन्मादकामलान्तकरं पिबेत् ॥

6.10.22

द्विपञ्चमूलत्रिफलाद्विनिशाकुटजत्वचः ।
सप्तपर्णमपामार्गं नीलिनीं कटुरोहिणीम् ॥

6.10.23

शम्याकपुष्करजटाफल्गुमूलदुरालभाः ।
द्विपलाःसलिलद्रोणे पक्त्वा पादावशेषिते ॥

6.10.24

भार्ङ्गीपाठाढकीकुम्भनिकुम्भव्योषरोहिषैः ।
मूर्वाभूतीकाभूनिम्बश्रेयसीसारिवाद्वयैः ॥

6.10.25

मदयन्त्यग्निनिचुलैरक्षांशैः सर्पिषः पचेत् ।
प्रस्थं तद्वद्द्रवैः पूर्वैः पञ्चगव्यमिदं महत् ॥

6.10.26

ज्वरापस्मारजठरभगन्दरहरं परम् ।
शोफार्शः कामलापाण्डुगुल्मकासग्रहापहम् ॥

6.10.27

शिरीषपुष्पपत्रत्वक्सारमूलतुलाद्वयम् ।
वरणैरण्डशम्याकदशमूलाटरूषकम् ।

6.10.28

शतावरीबलारास्नासुषवीपारिभद्रकम् ।
मुरुङ्गीं वञ्चुलं दन्तीं ककुभं सपुनर्नवम् ॥

6.10.29

रोहिषस्य जटां पुष्पं करघाटमयूरकम् ।
शतार्धांशं पृथग्द्राक्षालाक्षामिसिवरायवान् ॥

6.10.30

सकोलान् सकुलत्थांश्च पृथगर्धाढकोन्मितान् ।
द्विशतं पिशितात् गव्यात् छागाद्वा तत्पचेदपाम् ॥

6.10.31

द्रोणैर्द्वात्रिंशताष्टांशशेषेण च विपाचयेत् ।
तैलद्रोणं दधिवहे श्लक्ष्णपिष्टैश्च पालिकैः ॥

6.10.32

पाठासमङ्गासुषवीद्विनिशाचन्दनद्वयैः ।
एलाजलोत्पलबलाश्वदंष्ट्रासारिवाघनैः ॥

6.10.33

मञ्जिष्ठाकुष्ठमधुकलोध्ररास्नाकुटन्नटैः ।
शठीशिरीषकुसुमनतनागामराह्वयैः ॥

6.10.34

वराङ्गजोङ्गपत्तङ्गविडङ्गैः सप्रियङ्गुभिः ।
मुरुड्गीपत्रनलदसेव्यकुन्दनखद्वयैः ॥

6.10.35

तिलपर्ण्या च तत्पानबस्त्यभ्यञ्जननावनैः ।
अपस्मारग्रहोन्मादान् सशोषविषमज्वरान् ॥

6.10.36

योनिशुक्रामयान् गुल्मं प्रमेहं पाण्डुतां मदम् ।
वातशोणितवीसर्पपक्षाघातार्दितादिकान् ॥

6.10.37

सर्वान् मारुतजान्रोगान्विशेषाद्विषवातजान् ।
निहन्ति कार्मणं कृत्यां मूलदंष्ट्राविषं गरम् ।
रसायनानां प्रवरं मेध्यं वाजीकरं परम् ॥

6.10.38

ब्राह्मीरसवचाकुष्ठशङ्खपुष्पीशृतं घृतम् ।
पुराणं मेध्यमुन्मादालक्ष्म्यपस्मारपाप्मजित् ॥

6.10.39

तैलप्रस्थं घृतप्रस्थं जीवनीयैः पलोन्मितैः ।
क्षीरद्रोणे पचेत् सिद्धमपस्मारविमोक्षणम् ॥

6.10.40

कंसे क्षीरेक्षुरसयोः काश्मर्ये ऽष्टगुणे रसे ।
कार्षिकैर्जीवनीयैश्च सर्पिःप्रस्थं विपाचयेत् ।
वातपित्तोद्भवं क्षिप्रमपस्मारं निहन्ति तत् ॥

6.10.41

तद्वत् काशाविदारीक्षुकुशक्वाथशृतं पयः ॥

6.10.42

मधुकद्विपले कल्के द्रोणे चामलकीरसात् ।
सिद्धं सिद्धो घृतप्रस्थः पित्तापस्मारभेषजम् ॥

6.10.43

कूष्माण्डस्वरसे सर्पिरष्टादशगुणे शृतम् ।
यष्टीकल्कमपस्मारहरं धीवाक्स्वरप्रदम् ॥

6.10.44

कपिलानां गवां पित्तं नावनं परमं हितम् ।
श्वशृगालविडालानां सिंहादीनां च पूजितम् ॥

6.10.45

गोधानकुलनागानां पृषतर्क्षगवामपि ।
पित्तेषु साधितं तैलं नस्ये ऽभ्यङ्गे च शस्यते ॥

6.10.46

त्रिफलाव्योषपीतद्रुयवक्षारफणिज्जकैः ।
श्र्याह्वापामार्गकारञ्जबीजैस्तैलं प्रसाधितम् ।
बस्तमूत्रे हितं नस्यं चूर्णं वाध्मापयेत् भिषक् ॥

6.10.47

वृश्चिकालीबलाकुष्ठभाङ्र्जीलवणपञ्चकम् ।
कायस्थां शारदां मुद्गमुशीरं जलदं यवान् ॥

6.10.48

व्योषं च बस्तमूत्रेण पिष्ट्वा वर्तीं प्रकल्पयेत् ।
अपस्मारगरोन्मादसर्पदष्टविषाशिते ॥

6.10.49

मुस्तावयस्थात्रिफलाकायस्थाहिङ्गुशाद्वलैः ।
व्योषमाषयवैर्मूत्रैर्बस्तमेषर्षभोद्भवैः ॥

6.10.50

हन्ति वर्तिरपस्मारकिलासविषमज्वरान् ।
पुष्योद्घृतं शुनः पित्तमपस्मारघ्नमञ्जनम् ।
तदेव सर्पिषा युक्तं धूपनं परमं हितम् ॥

6.10.51

कटभीनिम्बकट्वङ्गमधुशिग्रुत्वचां रसे ।
सिद्धं मूत्रसमं तैलमभ्यङ्गार्थं प्रशस्यते ॥

6.10.52

पलङ्कषावचापथ्यावृश्चिकाल्यर्कसर्षपैः ।
जटिलापूतनाकेशीनाकुलीहिङ्गुचोरकैः ॥

6.10.53

लशुनातिरसाच्छत्राकुष्ठैर्विड्भिश्च पक्षिणाम् ।
मांसाशिनां यथालाभं बस्तमूत्रे विपाचितम् ।
तैलमभ्यञ्जनं कार्यं तैश्च धूपनलेपनम् ॥

6.10.54

नकुलोलूकमार्जारगृध्रकीटाहिकाकजैः ।
तुण्डैः पक्षैः पुरीषैश्च धूपमस्य प्रयोजयेत् ॥

6.10.55

काकोलीशिग्रुलवणहिङ्गुशिवाटिकाः ।
कैडर्यं चन्दनं कृष्णां काकनासां ससर्षपाम् ॥

6.10.56

शुनः स्कन्धाक्षिनखरान् पर्शुकांश्चेति पेषयेत् ।
बस्तमूत्रेण पुष्यर्क्षे तैर्दिह्याद्धूपयेच्च तैः ॥

6.10.57

गोपुच्छलोमभिर्दग्धैरथवा बस्तरोमभिः ।
खरास्थिभिर्हस्तिनखैस्तद्वद्वा मूत्रकल्कितैः ।
उद्वर्तनं सदा कुर्याच्छृतैश्च परिषेचनम् ॥

6.10.58

आभिः क्रियाभिः सिद्धाभिर्हृदयं सम्प्रभुच्यते ।
स्रोतांसि चास्य शुध्यन्ति स्मृतिं संज्ञां च विन्दति ॥

6.10.59

भूतानुबन्धेपस्मारे दोषलिङ्गाधिकाकृतौ ।
युञ्ज्याद्यथास्वं भूतोक्तां क्रियां दैवव्यपाश्रयाम् ॥

6.10.60

शीलयेत्तैललशुनं पयसा वा शतावरीम् ।
ब्राह्मीरसं कुष्ठरसं वचां वा मधुसंयुताम् ॥

6.10.61

समं क्रुद्धैरपस्मारो दोषैः शारीरमानसैः ।
यज्जायते यतश्चैष महामर्मसमाश्रयः ॥

6.10.62

तस्माद्रसायनैरेनं दुश्चिकित्स्यमुपाचरेत् ।
तदार्तं चाग्नितोयादेर्विषमात् पालयेत् सदा ॥

6.10.63

मुक्तं मनोविकारेण त्वमित्थं कृतवानिति ।
न ब्रूयाद्विषयैरिष्टैः क्लिष्टं चेतो ऽस्य बृंहयेत् ॥

6.10.64

ग्रहोपश्लिष्टदेहानां विभ्रान्तस्मृतिचेतसाम् ।
महास्नेहं प्रशंसन्ति पानाभ्यञ्जनबस्तिषु ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc