अष्टाङ्गसंग्रह · अध्याय 6.8
अथातो भूतप्रतिषेधं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
भूतं जयेदहिंसेच्छुं जपहोमबलिव्रतैः ।
तपःशीलसमाधानज्ञानदानदयादिभिः ॥
हिङ्गुव्योषालनैपालीलशुनार्कजटाजटाः ।
अजलोमीसगोलोमी भूतकेशी वचा लता ॥
कुक्कुटीसर्पगन्धाख्यातिलाः काणविकाणिके ।
वज्रप्रोक्ता वयस्था च शृङ्गी मोहनवल्यपि ॥
स्रोतोजाञ्जनरक्षोघ्नं रक्षोघ्नं चान्यदौषधम् ।
खराश्वश्वाविडुष्ट्रर्क्षगोधानकुलशल्यकात् ॥
द्वीपिमार्जारगोसिंहव्याघ्रसामुद्रसत्वतः ।
चर्मपित्तद्विजनखा वर्गे ऽस्मिन् साधयेत् घृतम् ॥
पुराणमथवा तैलं नवं तत्पाननस्ययोः ।
अभ्यङ्गे च प्रयोक्तव्यमेषां चूर्णं च धूपने ॥
एभिश्च गुलिकां युञ्ज्यादञ्जने सावपीडने ।
प्रलेपे कल्कमेतेषां क्वाथं च परिषेचने ।
प्रयोगो ऽयं ग्रहोन्मादान् सापस्मारान् शमं नयेत् ॥
गजाह्वापिप्पलीमूलव्योषामलकसर्षपान् ।
गोधानकुलमार्जारशशपित्तप्रपेषितान् ।
नावनाभ्यङ्गसेकेषु विदधीत ग्रहापहान् ॥
अश्वश्वाश्वतरोलूककङ्कगृध्नशृगालजा ।
विट्खरोष्ट्रवराहाच्च तया तैलं विपाचितम् ।
पिष्टया बस्तमूत्रेण नावनादिषु पूजितम् ॥
शिरीषपुष्पं लशुनं शुण्ठीं सिद्धार्थकं वचाम् ।
मञ्जिष्ठां द्वे निशे कृष्णां बस्तमूत्रेण पेषयेत् ।
छायाशुष्का कृता वर्तिः मत्स्यपित्तद्रुताञ्जनम् ॥
नक्तमालफलं व्योषं बिल्वस्योनाकयोर्जटा ।
हरिद्रे च कृता वर्तिः पूर्ववन्नयनाञ्जनम् ।
वयस्था हिङ्गु कटुका षड्ग्रन्था सैन्धवं तथा ॥
सिद्धार्थकवचाहिङ्गुप्रियङ्गुरजनीद्वयम् ।
मञ्जिष्ठाश्वेतकटभीवराश्वेताद्रिकर्णिकाः ॥
निम्बस्य पत्रं बजिं तु नक्तमालशिरीषयोः ।
सुराह्वं त्र्यूषणं सर्पिर्गोमूत्रे तैश्चतुर्गुणे ॥
सिद्धं सिद्धार्थकं नाम पाने नस्ये च योजितम् ।
ग्रहान् सर्वान् निहन्त्याशु विशेषादासुरान् ग्रहान् ॥
कृत्यालक्ष्मीविषोन्मादज्वरापस्मारपाप्मजित् ।
एभिरेवौषधैर्बस्तवारिणा कल्पितो ऽगदः ॥
पाननस्याञ्जनालेपस्नानोद्घर्षणयोजितः ।
गुणैः पूर्ववदुद्दिष्टो राजद्वारे च सिद्धिकृत् ॥
सिद्धार्थकव्योषवचाश्वगन्धा निशाद्वयं हिङ्गुपलाण्डुकन्दम् ।
बीजं करञ्जात् कुसुमं शिरीषात् फलं च वल्कं च कपित्थवृक्षात् ॥
समाणिमन्थं सनतं सकुष्ठं स्योनाकमूलं किणिही सिता च ।
बस्तस्य मूत्रेण सुभावितं तत् पित्तेन गव्येन गुडान् विदध्यात् ॥
दुष्टग्रहोन्मादतमोनिशान्धानुद्बन्धकान् वारिनिमग्रदेहान् ।
दिग्धाहतान् दर्पितसर्पदष्टां स्तेसाधयन्त्यञ्जननस्यलेपैः ॥
कार्पासास्थिमयूरपत्रबृहतीनिर्माल्यपिण्डीतक ।
त्वग्वांशीबृषदंशविट् तुषवचाकेशाहिनिर्मोचनैः ।
नागेन्द्रद्विजशृङ्गहिङ्गुमरिचैस्तुल्यैः कृतं धूपनं ।
स्कन्दोन्मादपिशाचराक्षससुरावेशग्रहघ्नं परम् ॥
त्रिकटुकदलकुंकुमग्रन्घिकक्षारसिंही निशादारुसिद्धार्थयुग्माम्बुशक्राह्वयैः ।
सितलशुनफलत्रयोशीरतिक्तावचा तुत्थयष्टीबलालोहितैलाशिलापद्मकैः ॥
विषातार्क्ष्यशैलैः सचव्यामयैः कल्कितैः ।
घृतमनवमशेषमूत्रांशासिद्धं मतं भूतरावाह्वयं पानतस्तद्ग्रहघ्नं परम् ॥
नतमधुककरञ्जलाक्षापटोलीसमङ्गावचा ।
पाटलीहिंगुसिद्धार्थसिंहीनिशायुग्लतारोहिणैः ॥
बदरकटुफलत्रिकाकाण्डदारुक्रिमिघ्नाजगन्धामरा ।
ङ्कोलकोशातकीशिग्रुनिम्बाम्बुदेन्द्राह्वयैः ॥
गदशुकत्रुपुष्पबीजोग्रयष्ट्यद्रिकर्णीनिकुम्भाग्नि ।
बिल्वैःसभैःकल्कितैर्मूत्रवर्गेण सिद्धं घृतम् ॥
विधिविनिर्हितमाशु सर्वैःक्रमैर्योजितं हन्तिसर्वग्रहोन्मादकुष्ठज्वरांस्तन्महाभूतरावं स्मृतम् ॥
ग्रहा गृह्णन्ति ये येषु तेषां तेषु विशेषतः ।
दिनेषु बलिहोमादीन् प्रयुञ्जीत चिकित्सकः ॥
स्नानवस्त्रवसामांसमद्यक्षीरगुडादि च ।
रोचते यद्यदा येभ्यस्तत्तेषामाहरेत्तदा ॥
रत्नानि गन्धमाल्यानि बीजानि मधुसर्पिषी ।
भक्ष्याश्च सर्वे सर्वेषां सामान्यो विधिरित्ययम् ॥
सुरषिर्गुरुवृद्धेभ्यः सिद्धेभ्यश्च सुरालये ।
दिश्युत्तरस्यां तत्रापि देवायोपहरेत् बलिन् ॥
पश्चिमायां यथाकालं दैत्यभूताय चत्वरे ।
गन्धर्वाय गवां मार्गे सवस्त्राभरणं बलिम् ॥
पितृनागग्रहे नद्यां नागेभ्यः पूर्वदक्षिणे ।
यक्षाय यक्षायतने सरितोर्वा समागमे ॥
चतुष्पथे राक्षसयोर्भीमेषु गहनेषु वा ।
रक्षसां दक्षिणस्यां तु पूर्वस्यां ब्रह्मरक्षसाम् ॥
शून्यालये पिशाचाय पश्चिमां दिशमास्थिते ॥
शुचिशुक्लानि माल्यानि गन्धाः क्षैरेयमोदनम् ।
दधिच्छत्रं च धवलं देवानां बलिरिष्यते ॥
हिङ्गुसर्षपषड्ग्रन्थाव्योषैरर्धपलोन्मितैः ।
चतुर्गुणे गवां मूत्रे घृतप्रस्थं विपाचयेत् ।
तत्पाननावनाभ्यङ्गैर्देवग्रहविमोक्षणम् ॥
नस्याञ्जनं वचाहिङ्गुलशुनं बस्तवारिणा ॥
दैत्ये बलिर्बहुफलः सोशीरकमलोत्पलः ॥
नागानांसुमनोलाजगुडापूपगुडौदनैः ।
परमान्नमधुक्षीरकृष्णमृन्नागकेसरैः ।
वचापद्मपुरोशीररक्तोत्पलदलैर्बलिः ॥
श्वेतपत्रं च लोध्रं च तगरं नागसर्षपाः ।
शीतेन वारिणा पिष्टं नावनाञ्जनयोर्हितम् ॥
यक्षाणां क्षीरदध्याज्यमिश्रकौदनगुग्गुलु ।
देवदारूत्पलं पद्ममुशीरं वस्त्रकाञ्चनम् ॥
हिरण्यं च बलिर्योज्यो मूत्राज्यक्षीरमेकतः ।
सिद्धं समोन्मितं पाननावनाभ्यञ्जने हितम् ॥
हरीतकी हरिद्रे द्वे लशुनो मरिचं वचा ।
निम्बपत्रं च बस्ताम्बुकल्कितं नावनाञ्जनम् ॥
ब्रह्मरक्षोबलिः सिद्धं यवानां पूर्णमाढकम् ।
तोयस्य कुम्भः पललं छत्रं वस्त्रं विलेपनम् ॥
गायत्रीविंशतिपलक्वाथे ऽर्धपलिकैः पचेत् ।
त्र्यूषणत्रिफलाहिङ्गुषड्ग्रन्थामिसिसर्षपैः ॥
सनिम्बपत्रलशुनैः कुडवान् सप्त सर्पिषः ।
गोमूत्रे त्रिगुणे पाननस्याभ्यङ्गेषु तद्धितम् ॥
रक्षसां पललं शुक्लं कुसुमं मिश्रकौदनम् ।
बलिः पक्वाममांसानि निष्पावा रुधिरोक्षिताः ॥
नक्तमालशिरीषत्वङ्मूलपुष्पफलानि च ।
तद्वच्च कृष्णपाटल्या बिल्वमूलं कटुत्रिकम् ॥
हिङ्ग्विन्द्रयवसिद्धार्थलशुनामलकीफलम् ।
नावनाञ्जनयोर्योज्यो बस्तमूत्रद्रुतो ऽगदः ॥
एभिरेव घृतं सिद्धं गवां मूत्रे चतुर्गुणे ।
रक्षोग्रहान् वारयते पानाभ्यञ्जननावनैः ॥
पिशाचानां बलिः सीधुः पिण्याकः पललं दधि ।
मूलकं लवणं सर्पिः सभूतौदनयावकम् ॥
हरिद्राद्वयमञ्जिष्ठामिसिसैन्धवनागरम् ।
हिङ्गुप्रियङ्गुत्रिकटुरसोनत्रिफलावचाः ॥
पाटलीश्वेतकटभीशिरीषकुसुमैर्घृतम् ।
गोमूत्रपादिकं सिद्धं पानाभ्यञ्जनयोर्हितम् ॥
बस्ताम्बुपिष्टैस्तैरेव योज्यमञ्जननावनम् ॥
देवर्षिपितृगन्धर्वे तीक्ष्णं नस्यादि वर्जयेत् ।
सर्पिष्पानादि मृद्वस्मिन् भैषज्यमवचारयेत् ॥
ऋते पिशाचात् सर्वेषु प्रतिकूलं च नाचरेत् ।
सवैद्यमातुरं घ्नन्ति क्रुद्धास्ते हि महौजसः ॥
ईश्वरं द्वादशभुजं नाथमार्यावलोकितम् ।
सर्वव्याधिचिकित्सां च जपन्सर्वग्रहान्जयेत् ।
तथोन्मादानपस्मारानन्यं वा चित्तविप्लवम् ॥
महाविद्यां च मायूरीं शुचिस्तं श्रावयेत् सदा ॥
भूतेशं पूजयेत् स्थाणुं प्रमथाख्यांश्च तद्गणान् ।
जपन् सिद्धांश्च तन्मन्त्रान् ग्रहान् सर्वानपोहति ॥
यच्चानन्तरयोः किञ्चिद्वक्ष्यते ऽध्याययोर्हितम् ।
यच्चोक्तमिह तत् सर्वं प्रयुञ्जीत परस्परम् ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0