अष्टाङ्गसंग्रह · अध्याय 6.7
अथातो भूतविज्ञानीयं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
अष्टादश भूताधिपतयः ।
तद्यथा ।
सुरासुरगन्धर्वोरगयक्षब्रह्मराक्षसराक्षसपिशाचप्रेतकूष्माण्डकाखोर्दमौकिरणवेतालपितरः ऋषिगुरुवृद्धसिद्धाश्च ।
ते पुनः पृथक् कोटिपरिवाराः ।
तेषामपि चापरिसङ्ख्येयः परिवार इत्यनन्तो भूतलोकः ॥
सर्वो ऽपि च प्रायेणाहारकामा निशार्धविचारिणो भयानका मांसासृग्वसाशिनः ॥
अपि च ।
सुरासुरादिसंवाससंसर्गात्तच्छीलाचारकर्मतया च तत्संज्ञां लभन्ते ॥
तेषां पुनरनुप्रवेशे कारणं सद्यः पूर्वकृतो वा विशेषेण प्रज्ञापराधः ॥
तेन हि कामक्रोधलोभमोहादिजनितेन प्रलुप्तधमभिन्नव्रताचारशौचो मलीमसः पूज्यानतिक्रामन्नात्मानमुपहन्ति ॥
ततस्तमात्महनमवतारगवेषिणो देवादिग्रहा अप्यनुघ्नन्ति ।
तद्वदुन्मादापस्मारोपप्लुतचित्तं तथा ज्वराद्यामयोपहतमपि ।
विशेषतश्च व्रणिनः पूयासृक्स्नेहगन्धेन ॥
एवंविधांस्तु पुरुषानेष्वाघातकालेष्वभिगच्छन्ति ॥
तद्यथा ।
पापस्य कर्मणः समारम्भे ।
पूर्वकृतस्य वा परिणामकाले ।
एकस्य वा शून्यगृहनिवासे ।
चतुष्पथाधिष्ठाने वा ।
सन्ध्यावेलायामप्रयतभावे वा पक्षसन्धिषु वा मिथुनीभावे ।
रजस्वलाभिगमने वा ।
विगुणे वाध्यापनहोमबलिमङ्गलप्रयोगे ।
नियमब्रह्मचर्यव्रतभङ्गे वा ।
महाहवे वा ।
देशपुरकुलविनाशे वा ।
महाग्रहोपगमने वा ।
स्त्रिया वा प्रजननकाले ।
विविधभूताशुचिसंस्पर्शे वा ।
वमनविरेचनरुधिरस्रावे वा ।
अशुचेरप्रयतस्य वा चैत्यदेवायतनाभिगमने वा ।
मांसमधुगुडतिलमद्योच्छिष्टे वा ।
दिग्वाससि वा ।
निशि नगरचतुष्पथोपवनश्मशानाभिगमने वा ।
द्विजगुरुसुरयतिपूज्यव्यतिक्रमे वा ॥
तत्रावलोकयन्तो जनयन्ति मनोविकारं सुरासुरग्रहाः ।
स्पृशन्तो गन्धर्वाः ।
समाविशन्तो भुजगाः ।
यक्षाश्चात्मगन्धमाघ्रापयन्तः ।
राक्षसा वाहयन्तोधिरुह्य ।
तथैव पिशाचाद्याः ।
दर्शयन्तः पितरोभिशपन्त ऋषिगुरुवृद्धसिद्धाः ॥
तत्र शीलवन्तं चोक्षाचारं शुक्लाम्बरधरं तपःस्वाध्यायपरं प्रायः शुक्लप्रतिपदित्रयोदश्यां चतुर्दश्यां पौर्णमास्यां वा देवा गृह्णन्ति ।
क्रोधनं कदर्यमात्मसम्भाविनं कुलरूपगर्वितं कृष्णद्वादश्यां कृष्णत्रयोदश्यां सन्ध्ययोश्चासुराः ।
प्रियनृत्तगीतवादित्रगन्धमाल्याम्बरं परदाररतं चोक्षाचारं प्रायश्चतुर्थ्यामष्टभ्यां द्वादश्यां चतुर्दश्यां च गन्धर्वाः ।
स्वप्नशीलं चपलमनिमित्रक्रोधनमर्थसिद्धं ब्राह्मणं प्रायः पञ्चभ्यां सन्ध्ययोर्मध्याह्ने च नागाः ।
सत्वबलरूपगन्धर्वधनशौर्ययुक्तं माल्यानुलेपनहास्यप्रियमतिव्याकरणं प्रायः शुक्लसप्तम्यामेकादश्यां च यक्षाः ॥
स्वाध्यायतपोव्रतचर्यादेवयतिगुरुपूजारतं भ्रष्टशौचं वा ब्राह्मणमब्राह्मणं वा ब्रह्मवादिनं शूरं मानिनं देवागारसलिलक्रीडनप्रियं च स्खलितब्रह्मचर्यं प्रायः शुक्लपञ्चम्यामष्टम्यां पूर्णचन्द्रदर्शने सन्ध्यासु च ।
ब्रह्मराक्षसाः ॥
हीनसत्वं पिशुनं स्तेनं लुब्धं शठं प्रायो द्वितीयातृतीयाष्टमीषु राक्षसपिशाचादयः ।
कलिपानप्रियमसूयावन्तं परुषभाषिणं बह्वाशिनं च कृष्णनवमीद्वादश्योर्निशि च राक्षसाः ॥
आत्मश्लाघिनं कूटसाक्ष्यप्रदं परोपतापिनं च चतुर्दश्यां पिशाचादयः ॥
मातापितृगुरुवृद्धसिद्धाचार्योपसेविनं प्रायो दशम्याममावास्यां च पितरः ।
तद्विधमेव च प्रायः षष्ठ्यां नवम्यां च गुरुवृद्धसिद्धाः ।
तथैव च स्नानशुचिविविक्तसेविनं धर्मशास्त्रश्रुतिकाव्यकुशलमृषयः ॥
तेषां तु ग्रहीष्यतां पूर्वरूपाणि भवन्ति ।
तद्यथा ।
देवगोब्राह्मणतपस्विनां हिंसारुचित्वं नृशसाभिप्रायता कोपनत्वमरतिरोजोवर्णच्छायाबलवपुषां चोपतप्तिः स्वप्ने देवादिभिर्भत्सनं प्रवर्तनं च ॥
तत्र सौम्यदृष्टिं गम्भीरमप्रधृष्यमकोपनं शुचिमनिद्रं भोजनानभिलाषिणमल्पस्वेदमूत्रपुरीषवाचं संस्कृतवादिनं देवद्विजगुरुभक्तं शुक्लमाल्याम्बरसरित्पुलिनशैलोच्चभवनदधिक्षीरसुरभिप्रियं चिरादक्षिणी निमीलयन्तं वरप्रदातारं शुभगन्धं वर्चस्विनं फुल्लपद्मोपममुखं देवग्रहेण गृहीतं विद्यात् ॥
तत्रापि गोवृषमिव नदन्तं दीप्तमुखनयनमादीप्तेन स्वरेण सर्वमाभाषमाणमीश्वरेण ।
मेधस्तनितविद्युद्वृष्टीर्वाचा विसृजन्तमिन्द्रेण ।
धनानि वाचा प्रयच्छन्तमाच्छिन्दन्तं च धनदेन ।
सुरासवसमगन्धं काष्ठतृणरज्ज्वादि सर्वं पाशमभिमन्यमानं वरुणेन ॥
जिह्मदृष्टिं दुष्टात्मानं क्रोधनमतृप्तं सस्वेदगात्रं देवब्राह्मणगुरुद्वेषिणं निर्भयमभिमानिनं शूरं व्यवसायिनं रुद्रो ऽहमिन्द्रोहमुपेन्द्रो ऽहं स्कन्दो ऽहं विशाखो ऽहमित्यादि भाषमाणं विकृतवाचमसकृद्धसन्तं सुरामिषरुचिं दन्तैर्नखैश्च परान् हिंसन्तमसुरेण ॥
स्वाचारं हृष्टात्मानं शुभगन्धमल्पव्यवहारं नृत्यन्तं गायन्तं मुखवाद्यानि कुर्वन्तं प्रियोद्यानपुलिनरक्तवस्त्रस्नानमाल्यानुलेपनधूपान्नपानहासलीलाशृङ्गारकथागान्धर्वं गन्धर्वेण ।
तत्रापि शिरो धुनानं कलहं कुर्वन्तं संरम्भेण जागरूकं पठन्तं हसन्तं हसनेन ॥
क्रोधनमनिशं विश्वसन्तं भ्रमन्तमातपत्रात् त्रस्यन्तं रक्ताक्षं स्तब्धदृष्टिं जिह्वां लोलयन्तं सृक्विण्यौ लिहानमधोमुखशायिनं चलं वक्रगामिनं बिलमवलोक्य सर्पवदूर्ध्वं प्रसरन्तं जलौघघनदुन्दुभिस्वनैर्हृष्यन्तं क्षीरघृतगुडमधुस्नानमाल्यप्रियं गात्राणि कम्पयन्तं दन्तैः खादन्तं जले ऽवतीर्णमुत्तरणमनिच्छन्तमुरगेण ॥
असकृत् स्वप्नरोदनहासनृत्यगीतपाठकथान्नपानस्नानमाल्यधूपगन्धरक्तवस्त्ररतिं रक्तत्रस्तविप्लुताक्षं द्रुतं सगर्वं मत्तमिव गच्छन्तं वस्त्रान्तमुत्कर्षयन्तं चलिताग्रहस्तं बहुभाषिणं स्त्रीलोलुपं मद्यामिषप्रियं सन्नह्य शस्त्रं मृगयमाणमतिबलमव्यथं हृष्टं तुष्टमल्परोषं किं कस्मै ददामीति वादिनं शुभगन्धं वर्चस्विनं द्विजातिवैद्यपरिभाविनं रहस्यभाषिणं यक्षेण ॥
तत्रापि हृषितरोमाणमूर्ध्वेक्षणं प्रहृष्टनयनं चण्डं परुषं महानिनादं मणिवरेण ।
रहोहसितनृत्यगीतान्याचरन्तमाकीर्णे मौनमासेवमानं विकटेन ॥
हासनृत्तप्रियमाक्रोशिनं प्रधाविनं देवद्विजभिषग्द्वेषिणं मन्त्रवेदशास्त्राभिधायिनं काष्ठशस्त्रादिभिश्चात्मानमाघ्नन्तं छिद्रप्रहारिणं वैद्यरन्ध्रान्वेषिणं भोःशब्दवादिनं परुषं रौद्रचेष्टं शीघ्रगामिनं ब्रह्मराक्षसेन ।
तत्रापि विकृतस्वरं भाषयन्तमुत्रासयन्तं ब्रह्मवादिनं संस्कृतभाषिणं बहुशस्तोयं याचन्तं यज्ञसेनेन ॥
सक्रोधदृष्टिं भ्रुकुटिमुद्वहन्तं भैरवास्यं त्वरितमभिधावन्तं रुवन्तं ससंभ्रमं प्रहरन्तं नष्टनिद्रं निशाविचारिणमन्नद्वेषिणमनाहारमप्यतिबलिनमन्नकाले हसन्तं निर्लज्जं शूरं रोषणमप्रियवादिनमशुचिं स्रीमद्यमांसरक्तमाल्यप्रियं रक्तमामिषं वा दृष्ट्वोष्ठौ परिलिहन्तं दीनं शङ्कितं धावन्तमकस्माद्रुदन्तं हसन्तं गायन्तं नृत्यन्तं निरर्थकं परिभाषमाणं राक्षसेन ।
तत्रापि परुषच्छविं भूमिं ताडयन्तमकस्माद्रुदन्तं विशाखेन ।
भिन्नगद्गदकण्ठमङ्गानि भञ्जयन्तं जिह्वां परिलिहानमक्षमालया जपमानं शौचमभीक्ष्णं कुर्वाणं सङ्गमेन ।
मेघविद्युदुदयायासते क्रुध्यन्तं जलवृष्टिं समन्तान्मन्यमानं शकटनिष्पीडिनं विद्युन्मालिना ।
आममांसपललमूलकापूपपरमान्नयाचिनं रूक्षच्छविं विरूपाक्षेण ॥
अस्वस्थचित्तं नैकत्र तिष्ठन्तं परिधाविनं दयितनृत्यगीतहासोच्छिष्टमद्यमांसशून्यनिवासरतिं पुरस्तादभिघ्नन्तं निर्भत्सनाद्दीनशङ्कितवदनं नखैरात्मवपुषि लिखन्तं नष्टस्मृतिं बद्धाबद्धभाषिणमकस्माद्रुदन्तं दुःखान्यावेदयमानमुध्वस्तरूक्षदेहस्वरं दुर्गन्धमशुचिं नग्नं मलिनं रथ्याचैलतृणाभरणं सङ्करकूटकाष्ठाश्वारोहिणं लोलं बह्वाशिनं पिशाचेन ।
तत्रापि भोजनं दृष्ट्वा हसन्तं विस्वरं क्रोशन्तं नित्यभीतं कश्मलेन ।
सर्वगात्राणि स्पन्दयन्तं मुहुर्मुहुर्धावन्तं भीषयमाणं कुशेन ।
वैद्यं दृष्ट्वा कुप्यन्तं भ्रमद्भोजिनं बह्वाशिनं भस्मगुण्ठनशयनं स्त्रियो मार्गे रुन्धानं मूत्रपुरीषविमर्दिनं निस्तेजसा ।
प्रेताकृतिचेष्टागन्धं तृणच्छेदिनं भीतमाहारद्वेषिणं प्रेतेन ॥
बहुप्रलापमुग्रवाक्यं विलम्बितगतिं कृष्णवदनं शूनप्रलम्बवृषणं कूष्माण्डेन ॥
नग्नं धावन्तमकस्मादश्मकाष्ठादि गृहीत्वा भ्रमन्तं तृणचीरमाल्यनिवसनमुत्रस्तदृष्टिं परुषाभिधायिनं श्मशानशून्यैकवृक्षरथ्यानिषेविणं तिलान्नमद्यामिषसक्तदृष्टिं काखोर्देन ॥
उग्रवादिनं रक्तत्रस्तनेत्रमन्नाभिलाषिणमुदकं प्रार्थयमानं मौकिरणेन ॥
सत्यवादिनं परिवेपिनं धूपगन्धमाल्यरतिमतिनिद्रालुं वेतालेन ॥
अप्रसन्नदृष्टिं चलन्नेत्रपक्ष्माणं शङ्कितेक्षणं दीनवदनं संशुष्कतालुं निद्रालुं प्रतिहतवाचमपसव्यवस्त्रमल्पाग्निमरोचकिनं तिलगुडपायसमांसरुचिं च पितृग्रहेण ॥
ऋषिगुरुवृद्धसिद्धानामाभिशापानुध्यानानुरूपविहारव्याहाराहारं तद्ग्रहेण गृहीतं विद्यादिति ।
भवति चात्र ॥
लक्षयेत् ज्ञानविज्ञानवाक्चेष्टाबलपौरुषम् ।
पुरुषे ऽपौरुषं यत्र तत्र भूतग्रहं वदेत् ॥
कुमारवृन्दानुगतं नग्नमुद्धतमूर्धजम् ।
अस्वस्थमनसं दैर्घ्यकालिकं सग्रहं त्यजेत् ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0