अष्टाङ्गसंग्रह · अध्याय 6.6
अथातः प्रत्येकग्रहप्रतिषेधं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
स्कन्दग्रहे गुग्गुल्वेलवालुकमनश्शिलाहरितालमञ्जिष्ठोशीररास्नागरुदेवदारुश्रीवेष्टकहरेणूगिरिकदम्बकचन्दनैः श्लक्ष्णपिष्टैः प्रदेहो वातहरवृक्षपत्रक्वाथेन कवोष्णेन परिषेकस्तेषामेव च मूलक्वाथे सर्वगन्धसुरामण्डकैडर्यावापवत्तैलं विपक्वमभ्यङ्गः ॥
बृंहतीद्वयद्विपुर्ननवरेणुकोपकुल्यामुस्तखदिरवचाशङ्खनाभिसरलसर्पसुगन्धासुराह्वकल्कविपक्वंवा ॥
क्षीरिवृक्षकषायेण क्षीरेण च सिद्धमर्धपलिकैश्च पिष्टैः सारिवाद्विकाकोलीद्विबलांशुमतीद्वयहस्तिकर्णपर्णैर्घृतप्रस्थं पानम् ॥
रास्नादेवदार्वन्यतरकल्केन वा सक्षीरं साधितं सर्पिः ॥
वचाकाकादनीसर्पकञ्चुकसर्षपैरुष्ट्राजाव्यश्वगोरोमभिश्च सघृतैर्धूपैः ।
सिद्धार्थकसर्जरसकुष्ठहिङ्गुगुग्गुलुभिर्वा ॥
सोमवल्लीन्द्रवल्लीशमीबिल्ववृन्दाकमृगादिनीमूलानि सूत्रेण ग्रथितानि कण्ठेन शिरसा वा धारयेत् ॥
रक्तमाल्यानुलेपनवस्त्रपताकामणिबीजैर्विविधैश्च भक्ष्यैः सदधिघृतमधुलाजकुल्माषमांसमत्स्यसुरासवं समयूरकुक्कुटं सघण्टाकं सशूर्पव्यजनं च कुमारग्रहे रक्तौदनेन बलिमुपोषितो निवेदयेत् ॥
तत्र च रात्रावग्निं ज्वालयित्वा मन्त्रमिमं पठन् मधुसर्पिषा जुहुयात् ॥
अग्नये कृत्तिकाभ्यश्च स्वाहा स्वाहेति चान्ततः ।
नमः स्कन्दाय देवाय ग्रहाधिपतये नमः ॥
शिरसा त्वाभिवन्देहं प्रतिगृह्णीष्व मे बलिम् ।
नीरुजो निर्विकारश्च शिशुर्भवतु सर्वदा ॥
सर्वेष्वेव ग्रहेषु त्रिकालमग्निं पूजयेत्तर्पयेच्च ।
विशेषतः स्कन्दग्रहे त्रिरात्रं च रात्रौ रात्रौ गायत्र्यभिमन्त्रितोदकेन चत्वरे धात्रीकुमारयोः स्नपनमाचरेत् ॥
त्रिकालं च मन्त्रेणानेन बालमपमार्जयेत् प्रतिसरां च बध्नीयात् ॥
तपसां तेजसां चैव यशसां वपुषां तथा ।
विधाता यो ऽव्ययो देवः स ते स्कन्दः प्रसीदतु ॥
ग्रहसेनापतिर्देवो देवसेनापतिर्विभुः ।
देवसेनारिपुहरः पातु त्वा भगवान् गुहः ॥
देवदेवस्य महतः पावकस्य च यः सुतः ।
गङ्गोमाकृत्तिकानां च स ते शर्म प्रयच्छुतु ॥
रक्तमाल्याम्बरः श्रीमान् रक्तचन्दनभूषितः ।
रक्तादित्यवपुर्देवः पातु त्वा क्रौञ्चसूदन इति ॥
विशाखे स्कन्दग्रहोक्तो वचाकुष्ठान्वितः प्रदेहो गोलोमीबिल्वशिरीषमुस्तसुरसादिक्वाथेन परिषेकः ।
सर्पसुगन्धादेवदारुकुष्ठमुस्ताकल्केन सगोमूत्रबस्तमूत्रेण सिद्धं तैलमभ्यङ्गः ॥
क्षीरिवृक्षकषायेण जीवनीयगर्भं सपयस्कं सर्पिः सिद्धं पानम् ।
जीवकर्षभक्षीरिणीबृहतीहरिद्रांशुमतीद्वयमधुकैर्वा विदारीद्वयतवक्षीरीमृद्वीकामधुकरास्नानीलोत्पलकन्दवचाव्योषैर्वा ॥
गृद्ध्रोलूकपुरीषवृषभरोमकेशहस्तिनखैर्घृताक्तैर्धूपः ।
अनन्ताकुक्कुटीमर्कटीबिम्बीसमङ्गाश्वेतगिरिकर्णीकाः पूर्वोक्तानि च पूर्ववद्धारयेत् ॥
पक्वाममांसरुधिरदधिवारुणीयुक्तो वटवृक्षे बलिश्चतुष्पथे स्नानम् ।
मन्त्रश्च ॥
स्कन्दापस्मारसंज्ञो यः स्कन्दस्य दयितः सखा ।
विशाखसंज्ञः स शिशोः शिवोस्तु विकृताननः ॥
नैगमेषे विशाखोक्तः प्रदेहोग्निमन्थवरुणनलरोहिषपूतीकपारिभद्रकैः परिषेको धान्याम्लेन सबीजेन गुग्गुल्वश्वगन्धासर्षपोशीरश्वेताकुष्ठशताह्वाविपक्वं तैलमभ्यङ्गः ॥
दशमूलक्वाथे मधुरस्कन्धगर्भं सक्षीरं सर्पिः पानम् ।
सर्पगन्धाबस्तनखरोमभिर्धूपः ।
सर्पगन्धाबस्तगन्धातुम्बीमृगोर्वारुशतावरीसहदेवापुनर्नवबीजानि धारयेत् ॥
विचित्रमाल्यफलशुक्लविलेपनौदनदधिघृतगुडक्षीरैर्महापथे क्षीरिद्रुमे वा बलिः ।
नदीतीरे स्नानम् मन्त्रश्च ॥
अजाननश्चलाक्षिभ्रूः कामरूपी महायशाः ।
बालं बालहितो देवो नैगमेषो ऽभिरक्षतु ॥
स्वाहा ।
श्वग्रहे गवाक्षीब्रह्मदत्ताबृहतीद्वयसारिवाद्द्रीवेरकुष्ठभूमिकदम्बसुरसमञ्जरीकरवीरपुष्पैः प्रदेहः ।
मयूरो लूकाश्वमहिषीपुरीषरोमभिश्च ।
बिल्वैरण्डनक्तमालारलुकपत्रक्वाथः परिषेकः ॥
वयस्थाशतावरीसारिवापयस्यैरण्डसहदेवात्रिकटुककल्कक्षीरसिद्धं तैलमभ्यङ्गः ।
तथैव च घृतं पानम् ।
गोबस्तमूत्रभावितशुष्कमत्स्यचूर्णो निशीथे धूपः ॥
वचावयस्थाब्राह्मीजटिलागोलोमीलम्बापूतनाकेशीगिरिकदम्बकेकैषीकासहदेवीर्धारयेत् ॥
सघृतसुरामांसदधिरुधिरपललश्चत्वरे बलिः ।
सङ्करकूटे स्नानम् ।
मन्त्रश्च ॥
रक्षार्थं कार्तिकेयस्य कृत्तिकोमाग्निशूलिभिः ।
योसौ श्वविग्रहः सृष्टः स देवस्त्वाभिरक्षतु ॥
स्वाहा ।
पितृग्रहे पूर्वोक्तः प्रदेहो वचावयस्थाजीवन्तीधातकीप्रियङ्गुगुग्गुलुरास्नामनश्शिलालैर्वा ।
वचादिभिरेव सिद्धं तैलमभ्यङ्गः ॥
बिल्वकपित्थकरञ्जतर्कारीसुरसपाटलीवरणपारिभद्रकपारिजातमातुलुङ्गपत्रक्वाथेन रात्रौ परिषेको बिल्वादिभिरेव च तैलं सुराबस्तमूत्रयुक्तं साधितमभ्यङ्गः ॥
त्रिफलांशुमतीद्वयपयस्यामधुककल्केन दशमूलनिर्यूहे सक्षीरं सर्पिः पक्वं पानम् ।
देवदारुभार्ङ्गीविडङ्ग चन्दनकाकोलीद्वयजीवकर्षभकैर्वा सक्षारैः ॥
लक्ष्मीपुरकुष्ठगोलोमीजटिलोग्रगन्धाभिः सिद्धं तैलं नावनम् ।
एभिरेव च सुरापिष्टैर्लेपः ॥
गृद्ध्रोलूकवानररोमाणि सघृतानि तत्पुरीषं वा सुप्तजने धूपो वचादिभिर्वा प्रदेहोक्तैः पूर्वोक्तो वा ।
पूर्वोक्ता एव च धारयेत् ॥
सुरासवगुडापूपपिष्टतिलकृतभक्षो वृक्षमूले सवृषभः काञ्चनाक्षियुगयुक्तः स्वयं पित्रा कुमारस्य निर्वापणीयो बलिः ।
क्षीरिवृक्षसमीपे स्नानम् ।
मन्त्रश्व ॥
यः पिता सर्वबालानां ग्रहाणां पूजितो वरः ।
वृक्षमूले कृतावासः स त्वां पातु पिता सदा ॥
स्वाहा ॥
शकुन्यां मधुकद्रीबेरोशीरसारिवापद्मकोत्पलमञ्जिष्टालोद्ध्रप्रियङ्गुगैरिकैः प्रदेहः ।
सुरामूत्रपिष्टैर्वा लोध्रयष्टीमधुकमञ्जिष्ठाहरीतकीदेवदारुभिर्व्रणोक्ताश्च प्रदेहाः ।
वेतसाम्लकपित्थैः सपञ्चमूलैर्वा ।
शुक्तिशङ्खशम्बूकभस्ममञ्जिष्ठाभयामधुकैस्तैलं पक्वं व्रणरोपणम् ॥
क्षीरितरुभिः परिषेको मार्कवमूलकामलकीत्वक्पत्रप्रियङ्गुमनश्शिलालैलाद्वययष्टीक्रमुकलोध्रधातकीसारिवाञ्जनोत्पलपतङ्गसमङ्गाद्विहरिद्रामांसीमञ्जिष्ठाचन्दनपद्मकसुवर्णगौरिकैस्तैलं सपयस्कं पक्वमभ्यङ्गो ग्रहहा व्रणरोपणश्च ॥
अर्जुनफललोध्रमधुकोदुम्बरवचाचूर्णं क्षौद्रयुक्तो मुखपाके मुखोद्घर्षः ।
विशाखोक्तं सापः पानम् ।
स्कन्दोक्तो धूपः ।
काकपिच्छेन वा गोबालोग्रगन्धारक्षोघ्नघृतमयूरचन्द्रकैर्वा ॥
कटम्भराकुक्कुटीमर्कटीलम्बासहदेवीह्रीबेरोशीराणि धारयेत् ।
नागदन्ती लक्ष्मणाबृहतीद्वयमृगोर्वारुशतावरीसहदेव्यो वा ॥
तिलतण्डुलमत्स्यमनशिशलाहरितालसम्पृक्तस्तिलपिष्टकृतशकुनिकैः करञ्जे बलिर्निष्कुटे स्नानम् ।
मन्त्रश्च ॥
अन्तरिक्षचरा देवी सर्वालङ्कारभूषिता ।
अयोमुखी तीक्ष्णतुण्डा शकुनी ते प्रसीदतु ॥
दुर्दर्शना महाकाया पिङ्गाक्षी भैरवस्वरा ।
लम्बोदरी शङ्कुकर्णी शकुनी ते प्रसीदतु ॥
पूतनायां हिङ्गुवचागिरिकदम्बकुष्ठैलाद्वयसुराह्वैः प्रदेहः ।
कपित्थशिरीषन्यग्रोधबिल्वैरण्डबकुलधव वंशाग्निमन्थपत्रक्वाथः सर्वगन्धोदकयुक्तः परिषेको वरणकट्वङ्गास्फोतकपोतवङ्कापारिभद्रदैर्वा ॥
कुष्ठसर्जरसवचागोलोमीवयस्थामनश्शिलालैस्तैलं साधितमभ्यङ्गः ।
मधुरौषधैः साधितं सर्पिः पानम् ।
एलाद्वयकुष्ठवचाहिङ्गुदेवदारुगिरिकदम्बकैर्धूपः ।
बिम्बीगुञ्जाकाकादनीनद्रवारुणीचित्रपला धारयेत् ॥
विचित्रमाल्यमत्स्योदनकृसरपललवान् बलिः सङ्करकूटे ।
तद्वच्छरावसम्पुटस्थः शून्यग्रहे चतुर्दिशं प्रक्षेप्यः ।
तत्र चोच्छिष्टेन स्रपनम् ।
मन्त्रश्च ॥
मलिनाम्बरसंवीता मलिना रूक्षमूर्धजा ।
शून्यागाराश्रया देवी दारकं पातु पूतना ॥
दुर्दर्शना महाकाया कराला मेघकालिका ।
भिन्नागाराश्रया देवी दारकं पातु पूतना ॥
शीतपूतनायां पूतनोक्तः प्रदेहो धारणीयानि च ।
वरणकपित्थतुलसीपाशिकावंशीबिल्वपाटलीनन्दीभल्लातकपत्रनिर्यूहेण परिषेकः ॥
मुस्तामरदारुकुष्ठसर्पगन्धैर्गोबस्तमूत्रयुक्तं तैलं विपक्वमभ्यङ्गः ।
काश्मर्यपृश्निपर्णीलोध्रमधुकैर्मधुरवर्गेण च समक्षीरं सर्पिः शृतं प्राश्यमानं शीतपूतनां छर्दिहिध्माकासश्वासांश्च शमयति ॥
सातिसारायां तु खदिरपलाशसर्जार्जुनरोहिणीत्वक्क्वाथेन तुल्यपयः सर्पिः ।
गृध्रोलूकविड्बस्तगन्धाहिनिर्मोकनिम्बपत्रैर्धूपः ।
जीर्णगोचर्मसर्षपभिक्षुसङ्घाटीसर्पकञ्चुकैर्वा ॥
मुद्गौदनप्रायो जलाशयसमीपे बलिस्तत्रैव च स्नानम् ।
मन्त्रश्च ॥
मुद्गौदनाशना देवी सुराशोणितपायिनी ।
जलाशयालयरता पातु त्वा शीतपूतना ॥
अन्धपूतनायां सर्वगन्धैः सशिरोवक्त्रस्य प्रदेहः ।
वरुणास्फोतपारिभद्रकवृक्षादनीनागबलागैरिकशतावरीभिः परिषेकः ।
हरितालमनश्शिलाकुष्ठसर्जरससुरासौवीरकसंस्कृतं तैलमभ्यङ्गः ॥
स्यन्दनस्योनाककाश्मर्यखदिरकुष्ठैर्मधुरवर्गेण च क्षीरिवृक्षकषाये सक्षीरं शृतं घृतं मधुयुक्तं चक्षुःकामोपसृष्टानां प्राशः ।
छर्दिकासातीसारवतां तु तदेव पिप्पलीपिप्पलीमूलसालपर्णीबृहतीकल्कोपेतम् ॥
रक्षोघ्ररुष्करसर्जरसमधुभिर्धूपः ।
जीर्णाभिक्षुसङ्घाटीकृकवाकुपुरीषाहित्वक्केशचर्मभिर्वा ॥
अनन्ता कुक्कुटी मर्कटी बिम्बीर्धारयेत् ।
तुम्बी चित्रफलामृगोर्वारुजालिनीकाकादनीर्वा ॥
पक्वाममांसशोणितैश्चतुष्पथे बलिर्गृहे स्नानम् ।
मन्त्रश्च ॥
कराला पिङ्गला मुण्डा कषायाम्बरवासिनी ।
देवी बालमिमं प्रीता पालयत्वन्धपूतना ॥
मुखमण्डितिकायां वारुण्या श्लक्ष्णपिष्टैः सर्वगन्धैर्लेपः ।
बिल्वैरण्डकपित्थाग्निमन्थवंशीकुबेराक्षीपत्रक्वाथेन परिषेकस्तेषामेव च स्वरसेन मधुकवाजिगन्धागर्भमैकध्यं तैलं वसा च पक्वमभ्यङ्गः ॥
ह्रस्वपञ्चमूलमधुरवर्गसिद्धं घृतं समधुशर्करं प्राशः ।
पाठाकेतकसूचीनिम्बफलपिप्पलीविडङ्गहरीतकीभस्मवचाचोरकचूर्णो वा मधुसर्पिर्भ्याम् ।
ऋक्षरोममषीपाठामरिचपिप्पलीचूर्णो वा देवदारुभस्मयुक्तो मूर्वाव्योषमुस्तरास्नागिरिकदम्बकाश्वगन्धाचूर्णो वाशोकरोहिणीचूर्णो वा ।
एभिरेव च विपक्वमाजं घृतं पयो वा पिबेत् ॥
एभिरेव च योगैर्धूपोपदेहाभ्यङ्गनस्यतैलाक्षिपूरणपरिषेकान् कुर्यात् ।
यवकुष्ठसर्जरसैर्धूपः ।
सर्पचाषकीररल्लकजिह्वा धारयेत् ।
मातुश्चास्य श्लेष्महरमौषधं पाने स्तनोद्वर्तने च युञ्ज्यात् ॥
विविधगन्धधूपमाल्याञ्जनपारदमनश्शिलायुक्तो गोष्ठमध्ये बलिर्गवां मध्ये स्नानम् ।
मन्त्रश्च ॥
अलङ्कृता रूपवती सुभगा कामरूपिणी ।
गोष्ठमध्यालयरता पातु त्वा मुखमण्डिता ॥
रेवत्यां सर्वगन्धैः कुलत्थमाषचूर्णेन च प्रदेहः ।
अश्वगन्धाजशृङ्गीसारिवाद्विपुनर्नवद्विसहाविदारीभिः परिषेकः ॥
कुष्ठसर्जरससांधितं तैलमभ्यङ्गः ।
धवाश्वकर्णधातकीककुभतिन्दुकैर्जीवनीयैश्च पिष्टैर्घृतं शृतं प्राशः ।
यवयवफलोलूकगृध्रशकृद्भिः सघृतैर्धूपः ।
वरणारिष्टसिन्दुकान्वितश्चाविकमूत्रेण कण्डको लेपः ॥
शुक्लमाल्यविलेपनलाजौदनपायसैर्गोतीर्थे बलिः ।
नदीसङ्गमे क्षीरिवृक्षसमीपे वा स्नपनम् ।
मन्त्रश्च ॥
नानावस्त्रधरादेवी चित्रमाल्यानुलेपना ।
चलत्कुण्डलिनी श्यामा रेवती ते प्रसीदतु ॥
शुष्करेवत्यां धूपवर्ज्यः स्कन्दग्रहोक्तो विधिः ।
वचाश्वगन्धाहिङ्गुलाजसिद्धार्थकैरुद्वर्तनम् ।
सर्षपतैलं वचासिद्धं नेत्रपूरणम् ॥
काकगृध्रगर्दभशकृद्भिर्लेपः ।
कुलीरकपालशल्यकशुक्तिमेषशृङ्गहयखरजाहकहस्तिनखनकुलरोमभिर्धूपः सर्वग्रहघ्नः ॥
कुल्माषैर्मद्येन शुष्कमांसेन च शुष्कवृक्षे बलिः ।
तत्रैव च स्नानम् ।
मन्त्रश्च ॥
उपासते या सततं देव्यो विविधभूषणाः ।
लम्बा कराला विनता तथैव बहुपुत्रिका ।
रेवती शुष्कनामा च सा ते देवी प्रसीदतु इति ॥
भवति चात्र ।
अनुबन्धान्यथाकृच्छ्रं ग्रहापायेप्युपद्रवान् ।
बालामयनिषेधोक्तभेषजैः समुपाचरेत् ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0