भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 6.5

6.5.1

अथातः स्नपनाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

6.5.2

सरित्सङ्गमगोतीर्थगजेन्द्रस्कन्धगोकुले ।
चतुष्पथे च स्नपयेद् बालं सस्तन्यमातरम् ।
श्मशाने दीर्घरोगार्तं मृतापत्यां च योषितम् ॥

6.5.3

दूर्वाक्षीरिद्रुमवती प्रागुदक्प्रवणा मही ।
स्निग्धनीरुजपुष्पाढ्यपादपा स्नपने शुभा ॥

6.5.4

रेवतीश्रवणस्वातीप्राजापत्योत्तरैन्दवे ।
पुष्ये मूले च बालस्य स्नानं पर्वदिनेषु च ॥

6.5.5

चतुर्हस्ताष्टहस्तं वा द्वात्रिंशद्धस्तमेव वा ।
नल्वमात्रप्रमाणं वा त्रिवर्णं मण्डलं लिखेत् ॥

6.5.6

गोचर्मचापेषुमितस्त्रिविधो नल्व उच्यते ।
चतुरस्रं चतुर्द्वारं पताकाभिरलङ्कृतम् ।
आकीर्णं परितो दूर्वासिद्धार्थकयवाङ्कुरैः ॥

6.5.7

क्रमात् प्राच्यादिषु लिखेद् गजारूढं पुरन्दरम् ।
धर्मराजं महिषगं चक्राह्वस्थमपां पतिम् ॥

6.5.8

धनदं च गदापाणिं यमस्थानमतीत्य च ।
मातृस्थानं लिखेत्तस्मिन् सवृषं नन्दिकेश्वरम् ।
सवध्वनुचरं चादौ मृन्मयं च विनायकम् ॥

6.5.9

अतीत्य वरुणावासं सहस्रारं निवेशयेत् ।
विष्णुप्रहरणं चक्रं सर्वविघ्ननिवारणम् ॥

6.5.10

सुरयक्षेशयोर्मध्ये पद्महस्तालयां श्रियम् ।
नन्द्यावर्ताङ्कुशादर्शमत्स्यस्वस्तिकतोरणम् ॥

6.5.11

शङ्खं च दक्षिणावर्तं श्रीवत्सं माल्यदाम च ।
इन्द्रादीनां परीवारमैशान्यादि विदिक्षुच ॥

6.5.12

लम्बोदरी लम्बभुजा लम्बकर्णी च राक्षसी ।
इन्द्रद्वारे निवेश्याः स्युर्यमद्वारे प्रलम्बिनी ।
लम्बकेश्यप्पतिद्वारे कौबेरे लम्बनासिका ॥

6.5.13

षट्कीलानायसान्कुर्यात्सप्त त्रैलोहिकान् भिषक् ।
द्वौ चात्र खादिरौ शङ्कू चन्दनाम्बुसमुक्षितौ ॥

6.5.14

अष्टौ घटाः षोडश वा द्वात्रिंशद्विगुणा अपि ।
स्वस्तिकाङ्काः प्रवालाभा रङ्गैरश्लेषकैः कृताः ॥

6.5.15

यथार्हौषधसंयुक्तशुचितोयप्रपूरिताः ।
क्षीरिवृक्षपलाशाब्जगन्धमाल्योपशोभिताः ।
मण्डलस्य चतुर्द्वारे कर्तव्याः सुनिवेशिताः ॥

6.5.16

पूर्वेषु प्रक्षिपेद्धेम ततश्च मणिमौक्तिकम् ।
अपरेष्वौषधीबीजानुदक्ष्वक्षतसर्षपान् ॥

6.5.17

मृदः पवित्रा रक्षोघ्नीराहरेत सुरालयात् ।
हस्तिशालाश्वशालाभ्यां शृङ्गाटकचतुष्पथात् ॥

6.5.18

वल्मीकाग्रान्नदीतीराद्वेश्याकोशनृपालयात् ।
गुप्तिद्वारात् समुद्राच्च समिद्धं चाग्निमाहरेत् ॥

6.5.19

समिधः क्षीरिवृक्षाणां गन्धमाल्यं घृतं मधु ।
अक्षतांस्तण्डुलानलाजान्पञ्चवर्णौदनंतिलान् ॥

6.5.20

ततो मध्यस्थिते पद्मे सह धात्र्योपवेशयेत् ।
बालमौदुम्बरे पीठे पालाशे वाप्युदङ्मुखम् ।
आस्तृते हरितैर्दर्भैर्न तु प्राच्यादिदिङ्मुखम् ॥

6.5.21

उदाहरिष्यते मन्त्रो यः स्कन्दबलिकर्मणि ।
जुहुयात्तेन तत्राग्निमुदीच्यां स्थापितं दिशि ॥

6.5.22

त्रिरात्रोपोषितो वैद्यः शुक्लवासा जितेन्द्रियः ।
सर्षपाक्षतयुक्ताभिर्मृद्भिर्गात्राणि मार्जयन् ॥

6.5.23

यथोदिताभिःस्नपयेत्घटैःप्राच्यादिदिक्स्थितैः ।
क्रमात् प्रदक्षिणोत्क्षिप्तैः तत्र मन्त्रं प्रयोजयेत् ॥

6.5.24

अमृतात् पूर्वमुत्पन्नमिमं ते कलशं शुभम् ।
ददातु भगवानिन्द्रो विजयं नाम नामतः ॥

6.5.25

रक्तपीताम्बरधरैर्भूतैर्बहुभिरन्वितः ।
राक्षसोरगगन्धर्वपिशाचैश्चानुसेवितः ॥

6.5.26

वज्रघण्टाशनिधरैर्मेघैश्च विविधस्वनैः ।
देवसङ्घैः परिवृतो गजेन्द्रस्कन्धसंश्रितः ॥

6.5.27

एभिः सार्धं महानिन्द्रः स्नपनं तेनुमन्यताम् ।
पूर्वद्वारे स्थितं दिव्यं वज्रमिन्द्राज्ञया शुभम् ॥

6.5.28

तव सर्वाणि पापानि निहन्ता चापराजितः ।
इन्द्राय नमः स्वाहा ।
इन्द्राण्यै नमः स्वाहा ।
अपराजिताय स्वाहा ।
मेघाधिपतये स्वाहा ।
देवाधिपतये स्वाहा ।
शतक्रतवे स्वाहा ॥

6.5.29

द्वितीयं कलशं पुण्यमादित्यसदृशप्रभम् ।
यमो ददातु भगवान् वैजयन्तं तु नामतः ॥

6.5.30

कृष्णाञ्जननिभिर्घोरैः कृष्णाम्बरधरैस्तथा ।
वृतः करालैर्विकृतै राक्षसैरुग्रविक्रमैः ॥

6.5.31

श्मशानारण्यनिलयैर्मृतवस्त्रान्त्रभूषणैः ।
त्वगस्थिमज्जमांसादैः प्रेतैर्बहुभिरावृतः ॥

6.5.32

धर्मराजो यमः श्रीमान् सत्यसन्धो महातपाः ।
दिव्यं महिषमारुह्य स्नपनं तेनुमन्यताम् ॥

6.5.33

दक्षिणद्वारसंस्थस्ते यमदण्डः प्रतापवान् ।
दुःस्वप्नं दुष्कृतं पापं सर्वमद्य हनिष्यति ॥

6.5.34

यमाय नमः स्वाहा ।
यमदण्डाय नमः स्वाहा ।
महिषवाहनाय स्वाहा ।
प्रेताधिपतये स्वाहा ।
धर्माधिपतये स्वाहा ।
वैजयन्ताय स्वाहा ॥

6.5.35

जयन्तं जयवृध्यर्धं तृतीयं कलशं शुभम् ।
ददातु मधुराजस्ते भगवान् वरुणः स्वयम् ॥

6.5.36

श्वेतमाल्याम्बरधरैः श्वेतगन्धानुलेपनैः ।
गन्धर्वैः पन्नगेन्द्रैश्च भगवाननुशोभितः ॥

6.5.37

तीर्थकूपनदीवृक्षनिष्कुटोद्यानवासिभिः ।
प्रबलैः कापिलैर्मुण्डैर्विकटैर्वामनैस्तथा ॥

6.5.38

वृतः परिषदैर्भूतैः पाशमुद्गरपाणिभिः ।
एभिः सहाद्य भगवान् वरुणस्त्वाभिषिञ्चतु ॥

6.5.39

वरुणस्य महापाशोप्यपरद्वारमाश्रितः ।
तव पापं निहन्त्वाशु सर्वविघ्ननिवारणः ॥

6.5.40

वरुणाय नमः स्वाहा ।
श्वेताम्बरधराय स्वाहा ।
मकरवाहनाय स्वाहा ।
जयन्ताय स्वाहा ॥

6.5.41

चतुर्थं कलशं पुण्यं प्रधानमपराजितम् ।
धनेश्वरो महाबाहुः प्रयच्छत्वलकाधिपः ॥

6.5.42

चित्रमाल्याम्बरधरौश्चित्रगन्धानुलेपनैः ।
चित्रमद्यमदोन्मत्तैर्यक्षैः समुपसेवितः ॥

6.5.43

मुदितोद्गीतगन्धैर्वैः सेवितश्चाप्सरोगणैः ।
स ते वैश्रवणः श्रीमान् स्नपनन्त्वनुमन्यताम् ॥

6.5.44

सर्वव्याधिहरा दीप्ता द्वारमुत्तरमाश्रिता ।
गदा ते नाशयत्वद्य सर्वपापं दिशो दश ॥

6.5.45

धनाधिपतये स्वाहा ।
गदापाणये स्वाहा ।
अपराजिताय स्वाहा ।
चित्राम्बरधराय स्वाहा ॥

6.5.46

आपः पवित्रं लोकेस्मिन्नापो वै परमं शुचिः ।
आपो वै देवताः सर्वा आपस्त्वामभिषिच्यताम् ।
ब्रह्माब्रह्मर्षिभिः सार्धं भगवांस्त्वाभिषिञ्च तु ॥

6.5.47

स्वाहा ।
साङ्गोपाङ्गास्तथा वेदाः कीर्तिर्लक्ष्मीः सरस्वती ।
बाला दाक्षायणी सीता सावित्री सरमा द्युतिः ।
आकाशगङ्गा गङ्गाद्या महानद्यो महोदधिः ॥

6.5.48

नदीनां सङ्गमास्तीर्था निर्झराः सागरास्तथा ।
मेरुर्महेन्द्रो हिमवान् जगच्च स्थावरत्रयम् ॥

6.5.49

स्कन्दादयो ग्रहाश्चैव तोषिता बलिकर्मणा ।
अद्य त्वामभिषिञ्चन्तु नीरुजो भव दारक ॥

6.5.50

नमो भगवते पितामहाय ।
ओं मं ओं मं ल्मि ल्मि लिभुक् लिभुक् लिपिभवनेभ्यः स्वाहा ॥

6.5.51

नमो भगवते रुद्राय हिलिमिलि
मेल्लि
मेल्लि
वेल्लि वेल्लि
म्मिलिम्मिलि स्वाहा ॥

6.5.52

राक्षसाच पलायन्तु भूताश्च त्रस्तमानसाः ।
मृताशना महाजिह्वास्तथा विघ्नविनायकाः ॥

6.5.53

नमो भगवते कुमाराय पिलि
पिलि
खिल्लि
खिल्लि
खिणि
खिणि
स्वाहा ॥

6.5.54

पुष्करं पुष्करारण्यं नैमिषं च तथा गया ।
प्रभासं प्रवरं तीर्थं तथा पिण्डारकाह्वयम् ।
तीर्थान्येतानि सर्वाणि अभिषिञ्चन्तु स्वस्ति ते ॥

6.5.55

नमो भगवतीभ्यो महायोगीश्वरीभ्यो ।
निमिनिमि मेनुमेनु तुरुतुरु स्वाहा ॥

6.5.56

याश्च जातापहारिण्यो राक्षस्यो विकृताननाः ।
अपि ता निहताः सर्वा याश्चान्याः पापचिन्तकाः ॥

6.5.57

सतीनां कपिलानां च सिद्धानां चैव तेजसा ।
तेजसा चर्षिविप्राणां मयाद्य स्नपितो भवान् ॥

6.5.58

प्रभुर्मृत्युरलक्ष्मीश्च कालरात्रिश्च सारथिः ।
लम्बा च लोहशङ्कुश्च पूतना कूटपूतना ।
अशुभं यच्च ते किञ्चित् सर्वं प्रतिहतं मया ॥

6.5.59

आदित्या वसवो रुद्रा अश्विनावौषधीगणाः ।
गावोन्तरिक्षं सन्ध्ये च नक्षत्रग्रहवत्सराः ॥

6.5.60

विश्वावसुश्च हाहा च नारदस्तुम्बुरुस्तथा ।
धन्वन्तरिरगस्त्यश्च सुस्नातं प्रदिशन्तु ते ॥

6.5.61

स्नातो द्विजभिषग्भृत्यान्यथाविभवमर्चयेत् ।
मांसव्यवायाहःस्वप्नान् पञ्चरात्रं विवर्जयेत् ॥

6.5.62

स्नपनं पाप्मजित् पुण्यं नीरुजामपि पुष्टिकृत् ।
रोगिणां सर्वरोगघ्नं वन्ध्यानामपि पुत्रदम् ॥

6.5.63

विधिना विधिहीनन्तु सवैद्यं हन्ति बालकम् ।
नैतदश्रद्दधानाय योज्यं नानुपसीदते ॥

6.5.64

पूतीकरञ्जत्वक्पत्रं क्षीरिभ्यो बर्बरादपि ।
तुम्बीविशालारलुकशमीबिल्वकपित्थतः ॥

6.5.65

स्थाल्यामुत्क्वाथ्य तत्तोयं बालानां स्नपनं शिवम् ।
रात्रौ प्रसुप्तलोकायां पुष्टिदं सर्वरोगजित् ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc