अष्टाङ्गसंग्रह · अध्याय 6.49
अथातो रसायनविधिं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ।
दीर्घमायुः स्मृतिं मेधामारोग्य्ंअ तरुणं वयः ।
प्रभा वर्णस्वरौदार्यं देहेन्द्रियबलोदयम् ॥
वाक्सिद्धिं वृषतां कान्तिमवाप्नोति रसायनात् ।
लाभोपायो हि शस्यानां रसादीनां रसायनम् ॥
पूर्वे वयसि मध्ये वा तत्प्रयोज्यं जितात्मनः ।
स्निग्धस्य स्रुतरक्तस्य विशुद्धस्य च सर्वथा ॥
अविशुद्धे शरीरे हि युक्तो रासायनो विधिः ।
न भाति मलसंसृष्टे वस्त्रे राग इवार्पितः ॥
युक्तं संस्कारहीनस्य सम्यगप्यप्रमादिनः ।
यथैव पौरुषं तद्वन्नसिध्यति रसायनम् ॥
सर्वे च दोषा भवन्ति ग्राम्यादाहारादम्ललवणकटुकक्षारविरुद्वासात्म्यरूक्षाभिष्यन्दिक्लिन्नगुरुपूतिपुर्युषितनवधान्यशुष्कशाकाममांसतिलकुलत्थदधिशुक्तकाञ्जिकपिष्टान्नविरूढकनिषेविणां दिवास्वप्नस्त्रीमद्यनित्यानां विषमातिमात्रव्यायामायामसङ्क्षोभितवपुषां क्रोधलोभभयशोकायासबहुलाना पापकर्मणामसमञ्जसाहारविहारनिर्हारनिरतानाम् ॥
अतो निमित्तं ह्यविशुद्धः सञ्जायते रसो विदह्यते रक्तं शिथिलीभवन्ति मांसानि विष्यन्दते मेदो दूष्यन्ते दोषा विमुच्यन्ते सन्धयो न सन्धीयन्तेस्थिषु मज्जानो नाप्यायते शुक्रं नौजो न बलं न वीर्यम् ॥
ततः स एवंभूतो ग्लायति सीदति निद्रातन्द्रालस्यसमन्वितः खिद्यते निर्विद्यते निरुत्साहो ऽसमर्थः शारीरमानसानां विशिष्टानां चेष्टानां भ्रष्टच्छायो नष्टस्मृतिरल्पबुद्धिरसम्पाद्यमानाभिलषितार्थो ऽहर्निशमनिशमनिशं निश्वसन्नधिष्ठानभूतो रोगाणां नोपात्तमपि सर्वमायुरवाप्नोति ॥
तस्मात् बुद्धिमानपास्य यथोक्तानाहारादिदोषान् निर्वाह्य च पूर्वोपचितान् रसायनं विधिविहितमुपसेवेत ॥
तत्तु द्विविधं कुटीप्रावेशिकं वातातपिकं च ।
तत्र वीर्यप्रभावप्रयोगपरिहारगुरुत्वात् कुटीप्रावेशिकं महाफलतरम् ॥
तस्य विधिः क्षेमसुभिक्षधार्मिकशद्दधानजननृपवैद्यविप्रे सुलभमहौषधिघृतक्षीरपथ्यभोजनोपकरणे ग्रमे नगरे वा पूर्वोत्तरस्यांदिशि प्रागुदक्प्रवणे सुविभक्तविहारोद्देशे देशे दृढघनसुमृष्टभित्तिमुत्सेधविस्तारसम्पन्नां सूक्ष्मलोचनां त्रिगर्भामृतुसुखां निर्वातां प्रवातैकदेशां प्राग्द्वारामुदग्द्वारां वा शमीविल्वक्षीरिवृक्षपरिगृहीतामनिष्टेन्द्रियार्थवातातपरजोधूमस्वेदक्लेददंशमशकसरीसृपव्यालबालस्त्रीदासान्तावसायिनामगम्यां सन्निहितसद्वैद्यपरिचारकोपकरणां कुटीं कारयेत् ॥
तस्यां रसायनार्थी शरदि वसन्ते वा शुक्लपक्षे प्रशस्ते अहनि पूजयित्वा यथार्हं देवगुरुविप्रान् प्रणम्य ब्रह्मदक्षाश्विप्रभृतीन् परिमृश्य सुवर्णघृतमधुसिद्धार्थकप्रियङ्गुरोचनाः प्रदक्षिणीकृत्य गोब्राह्मणाननु प्रविशेत् ॥
तत्र संशोधनैः शुद्धः सुखी जातबलः पुनः ।
ब्रह्मचारी धृतियुतः श्रद्दधानो जितेन्द्रियः ॥
दानशीलदयासत्यव्रतधर्मपरायणः ।
देवतानुस्मृतौ युक्तो युक्तस्वप्नप्रजागरः ।
प्रियौषधः पेशलबागारभेत रसायनम् ॥
हरीतकीमामलकं सैन्धवं नागरं वचाम् ।
हरिद्रां पिप्पलीं वेल्लं गुडं चोष्णाम्बुना पिबेत् ।
स्निग्धस्विन्नो नरः पूर्वं तेन साधु विरिच्यते ॥
ततः शुद्धशरीराय कृतसंसर्जनाय च ।
त्रिरात्रं पञ्चरात्रं वा सप्ताहं वा घृतान्वितम् ।
दद्याद्यावकमाशुद्धेः पुराणशकृतो ऽथवा ॥
इत्थं संस्कृतकोष्ठस्य रसायनमुपाहरेत् ।
यस्य यद्यौगिकं पश्येत् सर्वमालोच्य सात्म्यवित् ॥
हरणात् सर्वरोगाणां यासावुक्ता हरीतकी ।
पथ्यत्वात् सर्वधातूनां पथ्या शिवतया शिवा ॥
यस्माद्विजयते व्याधीन् समग्रान्विजया ततः ।
अभयं सर्वरोगेभ्यो भवत्यायुश्च शाश्वतम् ।
यतः शीलयतामेनां तेनेयमभया स्मृता ॥
नवा वृत्ता घना स्निग्धा गुर्वी मज्जति चाप्सु या ।
बालस्य सा प्रयोक्तव्या नवनीतसमन्विता ॥
वाते ससर्पिर्लवणा पित्ते सगुडशर्करा ।
कफे सपिप्पलीक्षौद्रा सर्वदा सा प्रशस्यते ॥
अथ हरीतकीनां हिमवच्छैलसम्भवानां कालजातानामापूर्णरसवीर्याणामनामयानां द्विशस्त्रिशो वा शकलितानामनस्थ्नामाढकं चतुर्गुणेन पयसा संस्वेद्य मृदुभूतमवतार्य शीतं सर्पिर्मध्वाढकाभ्यां संसृज्य सुगुप्तं स्थापयेत् ।
ततस्त्रिरात्रादूर्ध्वमाहारानुपरोधिनीं मात्रां प्रत्यहमुपयोजयेत् जीएणे शालिषष्टिकं पयसा भुञ्जीत ।
प्रयोगान्ते च तावन्तमेव कालम् ।
अस्य प्रयोगाद्वर्षशतमजरो निर्वलीखलतिपलितामयः श्रुतिस्मृतिसम्पन्नः समिद्धानलश्च पुरुषो भवति ॥
बृहच्छरीरं गिरिसारसारं स्वरो घनौघस्तनितानुकारी ।
भवत्यपत्यं विपुलं स्थिरं च समश्नतो योगमिमं प्रयत्नात् ॥
पथ्यासहस्त्रं त्रिगुणधात्रीफलसमन्वितम् ।
पञ्चानां पञ्चमूलानां सार्द्धं पलशतद्वयम् ॥
जले दशगुणे पक्त्वा दशभागस्थिते रसे ।
आपोथ्य कृत्वा व्यस्थीनि विजयामलकान्यथा ॥
विनीय तस्मिन् निर्यूहे योजयेत् कुडवांशकम् ।
त्वगेलामुस्तरजनीपिप्पल्यगरुचन्दनम् ॥
मण्डूकपर्णीकनकशङ्खपुष्पीवचाप्लवम् ।
यष्ट्याह्वयं विडङ्गं च चूर्णितं तुलयाधिकम् ॥
सितोपलार्द्धभारं च प्रात्राणि त्रीणि सर्पिषः ।
द्वे च तैलात् पचेत् सर्वं तदग्नौ लेहतां गतम् ॥
अवतीर्णं हिमं युञ्ज्याद्विंशैः क्षौद्रशतैस्त्रिभिः ।
ततः खजेन मथितं निदध्यात् घृतभाजने ॥
एतद्रसायनं ब्राह्मं समं पूर्वेण सर्वथा ।
वैखानसा बालखिल्याः प्राश्य प्राप्ता नवं वयः ।
आरोग्यममितंचायुर्वीततन्द्राश्रमक्लमाः ॥
अभयामलकविभीतकपञ्चात्मकपञ्चमूलनिर्यूहे ।
वल्लीपलाशकरसे द्विगुणे क्षीरेष्टगुणे च विपचेत् ॥
घृतस्यकुम्भं मधुकं मधूकं काकोलियुग्मं च बलां स्वगुप्ताम् ।
सक्षीरशुक्लामृषभं सजीवं सुखाम्बुपस्तच्चपिबेत् गुणाढ्यम् ॥
आमलकसहस्त्रं पिष्टस्वेदनविधानेन क्षीरोष्मणा सुस्विन्नमनातपशुष्कमनस्थि चूर्णयेत् ।
तदामलकसहस्रस्वरसपरिपीतं स्थिराजीवन्तीपुनर्नवानागबलामण्डूकपर्णीब्रह्मसुवर्चलाभीरुशङ्खपुष्पीवचापिप्पलीविडङ्गस्वगुप्तामृतागरुचन्दनमधुकमधूकपुष्पपद्मोत्पलनवमालिकायुवतियूथिकाचूर्णाष्टभागसम्पृक्तं पुनर्नागबलापलसहस्रस्वरसपरिपीतं छायोपशोषितं द्विगुणितसर्पिषा क्षौद्रेण क्षुद्रगुडाकृति कृत्वा घृतभाजनस्थं भस्मराशेरधः स्थापयेदन्तर्भूमेः पक्षमथर्ववेदवित्कृतरक्षं पक्षात्यये चोद्धृत्य कनकरजतताम्रप्रवालकालायश्चूर्णाष्टभागसंयुक्तमर्द्धकर्षाभिवृद्ध्या यथाग्नि प्रातः प्रयोजयेदिति समानं पूर्वेण ॥
आमलकसहस्रमार्द्रपलाशद्रोण्यां सापिधानायां बाष्पमनुद्वमन्त्यामारण्यगोमयाग्निभिरुपस्वेदयेत् ।
तानि सुस्विन्नशीतान्युद्धृत्य निष्कुलीकृतान्यापोथ्य पिप्पली विडङ्गतण्डुलानां पृथगाढकेनाध्यर्द्धेन शर्करायाः षड्भिर्मधुघृततैलानां संयोज्य घृतकुम्भे स्थापयेद्विंशतिरात्रं परं चोपयोजयेदिति समानं पूर्वेण ॥
अभयामलकसहस्रं पिप्पलीसहस्रयुक्तं तरुणपलाशक्षारोदकेनाप्लाव्य शुचौ भाण्डे स्थापयेत् ।
ततोनुगतक्षारमनातपशुष्कमास्थिरहितं चूर्णयित्वा सितोपलापादेन चतुर्गुणाभ्यां च मधुघृताभ्यां संयोज्य घृतभाजने षण्मासानन्तर्भूमेः स्थापयित्वा परतो यथाग्निबलमुपयुञ्जीतेति समानं पूर्वेण ॥
आमलकचूर्णाढकमेकविंशतिरात्रमामलकस्वरसभावितं मधुघृताढकाभ्यां पिप्पलीचूर्णाष्टभागेन शर्कराचतुर्भागेन च संसृष्टं घृतभाजनस्थं प्रावृषि भस्मराशौ निदध्यात् ।
तच्छरदि चोपयोजयेदिति समानं पूर्वेण ॥
विडङ्गतण्डुलानामाढकमाढकं पिप्पलीतण्डुलानामध्यर्द्धं सितोपलानां मधुघृततैलाढकैः षड्भिरेकीकृतं घृतभाजनस्थं प्रावृषि भस्मराशावितिसमानं पूर्वेण ॥
अभयामलकबिभीतकानां द्विशस्त्रिशो वा संयोजितानां पलाशत्वगवनद्धानां मृदावलिप्तानां कुकूलस्विन्नानां निरस्थीकृतानां पलसहस्त्रमुलूखले सङ्क्षुद्य दधिभधुघृततैलपललशर्करासम्पृक्तं भक्षयेदनन्नभुग्यथोक्तेन विधिना प्रयोगान्ते ततो द्विगुणं कालं यवागूयूषक्षीरघृतषष्टिकान्नमाहारोभ्यञ्जनं सर्पिरुद्वर्तनं यवचूर्णमिति समानं पूर्वेणाभ्यधिकफलं वा ॥
दशमूलबलामुस्तजीवकर्षभकोत्पलम् ।
पर्णिन्यौ पिप्पली शृङ्गी मेदा तामलकी त्रुटिः ॥
जीवन्ती जोङ्गकं द्राक्षा पौष्करं चन्दनं शठी ।
पुनर्नवद्विकाकोली काकनासामृताद्वयम् ॥
विदारी वृषमूलं च तदैकध्यं पलेन्मितम् ।
जलद्रोणे पचेत् पञ्च धात्रीफलशतानि च ॥
पादशेषं रसं तस्माद्व्यस्थीन्यामलकानि च ।
गृहीत्वा भर्जयेत्तैलघृताद्वादशभिःपलैः ॥
मत्स्यण्डिकातुलार्धेन युक्तं तल्लेहवत् पचेत् ।
स्नेहार्द्धं मधुनः शीते तुगाक्षीर्याश्चतुष्पलम् ॥
पिप्पल्या द्वे पले दद्याचतुर्जातं कणार्धिकम् ।
अतोवलेहयेन्मात्रां कुटीस्थं पथ्यभोजिनम् ॥
इत्येष च्यवनप्राशो यं प्राश्य चय्वनो मुनिः ।
जराजर्जरितोप्यासीन्नारीनयननन्दनः ॥
कासं श्वासं ज्वरं शोषं हृद्रोगं वातशोणितम् ।
मूत्रशुक्राश्रयान्तोषान् वैस्वर्यं च व्यपोहति ।
बालवृद्धक्षतक्षीणकृशानामङ्गवर्द्धनः ॥
मेधां स्मृतिं कान्तिमनामयत्वमायुःप्रकर्षं पवनानुलोम्यम् ।
स्त्रीषु प्रहर्पं बलमिन्द्रियाणामग्नेश्च कुर्याद्विधिनोपयुक्तः ॥
मधुकेन तवक्षीर्या पिपल्या सिन्धुजन्मना ।
पृथग्लोहैः सुवर्णेन वचया मधुसर्पिषा ॥
सितया वा समायुक्ता समायुक्ता रसायनम् ।
त्रिफला सर्वरोगघ्नी मेधायुःस्मृतिबुद्धिदा ॥
त्रैफलेनायसीं पात्रीं कल्केनालेपयेन्नवाम् ।
तमहोरात्रिकं लेपं पिबेत् क्षौद्रोदकाप्लुतम् ॥
प्रभूतस्नेहशमनं जीर्णे तत्र प्रशस्यते ।
जीवत्यरुग्जरस्तस्य समाभ्यासात्समाः शतम् ॥
वर्षं खादेत् प्राणदां प्रातरेकामश्नन्नन्नात् पूर्वमक्षद्वयं च ।
साज्यक्षौद्रं भोजनान्ते चतुष्कं धात्रीकानां तद्वयःस्थापने ऽलम् ॥
अथायसानि चतुरङ्गुलदीर्घविस्तृतानि तिलोत्सेधानि पत्राणि कारयेत् ।
तन्न्यग्निवर्णानि कृत्वामलकस्वरसे निर्वापयेदेकविंशतिकृत्वः ।
तेषां तादृशानां पलशतमायस्यां स्थाल्यां प्रक्षिप्यामलकस्वरसोत्तरं कृत्वा सुपिहितं भस्महितं भस्मराशौ निखनेत् ।
मासि मासि चोद्दृत्यायसेन दण्डेन घट्टयेत् ।
शुष्यत्यामलकस्वरसं पूर्ववदावपेत् ।
एवं तानि लोहपत्राणि संवत्सरात् द्रवीभवन्ति ।
ततश्चोत्तरकालं कृत्वा वमनविरेचनं स्निग्धतनुरेव केवलं समन्ततोङ्गुष्ठपर्वमात्रमुखेनायसेन स्रुवेणायस एव भाजने तस्मात् कल्कीकृतात् स्रुवमेकं गृहीत्वा मधुधृताभ्यां पृथक् स्रुवेण संयोज्य प्राश्नीयात् ।
जीर्णे क्षीररसयूषाणामन्यतमेन सर्पिर्मिश्रं नवं षष्टिकौदनमश्नीयात् ।
अनेन विधिना वर्षमुपयुज्य वर्षमेव चान्यदप्युद्दिष्टाहारो यन्त्रितात्मा कुटीं समधिवसेत् ।
ततः सर्वोपतापान् जित्वा व्याधिजरामरणशस्त्राग्नितोयविषाणामगम्यः सर्वभावेष्वतीन्दिर्यो वर्षसहस्रद्वयं जीवति ॥
वाजिवेगो गजप्राणो भवेच्च स्मृतिबुद्धिमान् ।
वाग्मी वृषः श्रुतधरो महाभोगो महाधनः ॥
ताम्ररूप्यसुवर्णानामयमेव पृथग्विधिः ।
द्विगुणं तद्गुणोत्कर्षं जानीयादुत्तरोत्तरम् ॥
हेमधात्रीफलक्षौद्रं गायत्रीपरिमन्त्रितम् ।
लिहन्ननुपिबन् क्षीरं दृप्टरिष्टोपि जीवति ॥
सुवर्णं पद्मबीजानि मधु लाजाः प्रियङ्गवः ।
क्षीरेण पीतं परममलक्ष्मीविनिवारणम् ॥
सपद्मबीजामलकाभयाक्षं सर्पिर्मधुभ्यां कनकं लिहन्तः ।
दीर्घायुषो मन्दजरोपतापाः सरीसृपाणां च भवन्त्यगम्याः ॥
मधुमागधिकाविडङ्गसारत्रिफला हेम घृतं सितां च खादन् ।
जरसानवलीढदेहकान्तिः समधातुश्च समाः शतं च जीवेत् ॥
हेमबिल्ववचार्सीपरैकध्यमुपयोजितम् ।
मेध्यमायुष्यमारोग्यकान्तिसौभाग्यपुष्टिदम् ॥
शतावरीघृतं लीढं ससुवर्णं समाक्षिकम् ।
करोति चिरजीवित्वं राजानं च वशानुगम् ॥
आयुष्कामः शङ्खपुष्प्यासमेतं मेधाकामः काञ्चनं सोग्रगन्धम् ।
लक्ष्मीकामः पद्मकिञ्जल्कयुक्तं युक्तं खादेत् कामकामो विदार्या ॥
मण्डूकपर्ण्याः स्वरसं यथाग्नि क्षीरेण यष्टीमधुकस्यचूर्णम् ।
रसं गुडूच्याः सहमूलपुष्प्याः कल्कं प्रयुञ्जीत च शङ्खपुष्प्याः ॥
आयुःप्रदान्यामयनाशनानि बलाग्निवर्णस्वरवर्द्धनानि ।
मेध्यानि चैतानि रसायनानि मेध्या विशेषेण तु शङ्खपुष्पी ॥
नलदं कटुरोहिणी पयस्या मधुकं चन्दनसारिवोग्रगन्धाः ।
त्रिफला कटुकत्रयं हरिद्रे सपटोलं लवणं च तैः सुपिष्टैः ॥
त्रिगुणेन रसेन शङ्खपुष्प्याः सपयस्कं घृतनल्वणं विपक्वम् ।
उपयुज्य भवेज्जडोपि वाग्मी श्रुतधारी प्रतिभानवानरोगः ॥
पेष्यैर्मृणालविसकेसरपत्रबीजैः सिद्धं सहेमशकलं पयसा च सर्पिः ।
पञ्चारविन्दमिति तत्प्रथितं पृथिव्यां प्रभ्रष्टपौरुषबलप्रतिभैर्निषेव्यम् ॥
यन्नालकन्ददलकेसरवद्विपकं नीलोत्पलस्यतदपि प्रथितं पृथिव्याम् ।
सर्पिश्चतुष्कुवलयं सहिरण्यपत्रं मेध्यं गवामपि भवेत् किमुमानुषाणाम् ॥
ब्राह्मीवचासैन्धवशङ्खपुष्पी मत्स्याक्षकब्रह्मसुवर्चलैन्द्रयः ।
वैदेहिका च त्रियवाः पृथक्स्युर्यवौ सुवर्णस्य तिलो विषस्य ॥
सर्पिषश्च पलमेकत एत द्योजयेत् परिणते च घृताढ्याम् ।
भोजनं समधु वत्सरमेवं शीलयन्नधिकधीस्मृतिमेधाः ॥
अतिक्रान्तजराव्याधितन्द्रालस्यश्रमक्लमः ।
जीवत्यब्दशतं पूर्णं श्रीतेजःकान्तिदीप्तिमान् ॥
विशेषतः कुष्ठकिलासगुल्म विषज्वरोन्मादगरोदराणि ।
अथर्वमन्त्रादिकृताश्च कृत्याः शाम्यन्त्यनेनातिबलाश्च वाताः ॥
यथोक्तगुणायां भूमौ जातामबालामजीर्णां शीर्णपुराणपर्णामसञ्जातान्यपर्णां तपे तपस्ये वा मासे यथोक्तेन विधिना पुष्ययुक्ते चन्द्रमसि सुमुहुर्ते नागबलां समूलामुद्धरेत् ।
तस्या मूलानां त्वक्पिण्डमाम्रमात्रमक्षमात्रं वा श्लक्ष्णपिष्टमवचूर्णितं वा पयसा पिबेन्मधुघृताभ्यां वा लिह्यात् ।
जीर्णे क्षीरवृत्तिरेव स्यात् ।
क्षीरेणैव वा ससर्षिष्कं शालिषष्टिकमश्नीयात् ।
एवं संवत्सरप्रयोगाद्वर्षशतमजर इत्यादि समानं पूर्वेण ॥
बलातिबलाचन्दनागरुधवतिनिशखदिरकदरशाकशिंशपासनसुरसापुनर्नवानन्ताश्च वयःस्थापनोक्ता दशौषधयः सविदारीश्वदंष्ट्राश्वगन्धावाराहीशतावर्यो नागबलया व्याख्याताः ॥
तत्र सारवृक्षाणां सर्वेषां स्वरसार्थी कुष्ठचिकित्सिते खदिरकल्पमीक्षेत ।
आर्द्रवृक्षासम्भवे तु सारशकलानिद्व्यङ्गुलत्र्यङ्गुलानि तनूनि चतुर्गुणेम्भ्स्या प्लाव्यातपे त्रिरात्रं स्थापयेत् ।
ततस्तान्युद्धृत्यान्यानि तत्र क्षिपेत् ।
त्रिरात्राच्च पुनरन्यान्येवं नवरात्रेण त्रिःप्रक्षेपणोद्धारेण च स्वरसः परिकल्पितो भवति ॥
फलानां पुनर्वीरुदौषधीनां च यन्त्रेणोलूखलेन वा सङ्क्षुद्य निष्पीड्य स्वरसं गृह्णीयात् ॥
परिशुष्काणां तु चूर्णिकृतानामाढकमाढकमुदकस्याहोरात्रस्थितं विमृदितपूतं स्वरसवत् प्रयोज्यम् ।
तुवरकभल्लातकादीनां पुनः पृथगेवोपदेशः ॥
वृक्षास्तुवरका नाम पश्चिमार्णवतीरजाः ।
वीचीतरङ्गविक्षोभमारुतोद्धूतपल्लवाः ॥
तेभ्यः फलान्याददीत सुपक्वान्यम्बुदागमे ।
मज्ञः फलेम्यश्चादाय शोषयित्वावचूर्ण्यं च ॥
तिलवत्पीडयेद्रोण्यां क्वाथयेद्वा कुसुम्भवत् ।
तत्तैलं सम्भृतं भूयः पचेदासलिलक्षयात् ॥
अवतार्य करीषे च पक्षमात्रं निधापयेत् ।
स्निग्धस्वैन्नो हृतमलः पक्षादुद्धृत्य यत्नवान् ॥
चतुर्थभक्तान्तरितः प्रातः पाणितलं पिबेत् ।
मन्त्रेणानेन एतस्य तैलस्य दिवसे शुभे ॥
मज्जसार महावीर्य सर्वान् धातून् विशोधय ।
शङ्खचक्रगदापाणिस्त्वामाज्ञापयते ऽच्युतः ॥
तेनास्योर्ध्वमधस्ताच्च दोषा यान्त्यसकृत्ततः ।
सायमस्नेहलवणां यवागूं शीतलां पिबेत् ॥
पञ्चाहानि पिबेत्तैलमित्थं वर्ज्यानि वर्जयेत् ।
पक्षं मुद्गरसान्नाशी सर्वकुष्ठैर्विमुच्यते ॥
तदेवखदिरक्वाथे त्रिगुणे साधु साधितम् ।
निहितं पूर्ववत् पक्षं पिबेन्मासं सुयन्त्रितः ॥
तेनाभ्यक्तशरीरश्च कुर्वन्नाहारमीरितम् ।
भिन्नस्वरं रक्तनेत्रं शीर्णाङ्गं कृमिभक्षितम् ।
अनेनाशु प्रयोगेण साधयेत् कुष्ठिनं नरम् ॥
सर्पिर्मधुयुतं पीतं तदेव खदिराद्विना ।
पक्षं मांसरसाहारं करोति द्विशतायुषम् ॥
तदेव नस्ये पञ्चाशद्दिवसानुपयोजितम् ।
वलीपलितनिर्मुक्तस्थिरस्मृतिकचद्विजम् ॥
वपुष्मन्तं श्रुतधरं करोति त्रिशतायुषम् ।
अन्त्र्धूमं तस्य मज्जा सुदग्धः क्षिप्तस्तैले सैन्धवं चाग्निवर्णम् ।
तुल्यं हन्यादर्मनक्तान्ध्यकाचान् नीलीरोगं तैमिरं चाञ्जनेन ॥
एकान्तरं तौवरकञ्च तैलं पिबेद्धिताशी नियमेन मासम् ।
प्रभिन्नकोष्ठो गलिताङ्गदेशस्त्वचं त्यजेत् सर्पैवाशु जीर्णम् ॥
साधयेत् षोडशगुणे सलिले तुवराढकम् ।
अष्टांशशेषे विस्राव्य सङ्क्षुद्योलूखले ततः ॥
शुष्कारग्वधवल्कपादरजसा व्यामिश्रित कल्कितं ।
तस्य क्वाथजलैरुदुम्बरसमान् छायाविशुष्कान् गुडान् ॥
कुर्यादेकतमं च सार्द्धमथवा गोवारिणालोडितं ।
कुष्ठी तद्दिवसास्थितो निरशनः सूर्ये गते ऽस्तं पिबेत् ॥
तावदेव च तथैव च भूयः पाययेत्तमरुणोदयकाले ।
अप्यजीर्णमविचिन्त्य वमिं वा भेषजं पुरुषदोषबलज्ञः ॥
मध्याह्ने ऽद्यात् भूरिनिष्पावतैलं कङ्गूकूरं शिग्रुकन्दोपदंशम् ।
दध्नायुक्तं स्वल्पसिन्धूत्थचूर्णं गव्येनानु स्तोकतक्राम्बुपायी ॥
तैलाक्तगात्रो दिवसान्तरं च कङ्ग्विष्टिकाचूर्णकृतप्रघर्षः ।
स्नायात् सुखाम्भोभिरमद्यमांस स्त्रीसङ्गतिः स्यात्त्रिगुणं च योगात् ॥
उपयुज्य योगमखिलं प्रतिदिनमेव द्विकालमभियुक्तः ।
कुष्ठी कुष्ठमपोहति विशीर्णकर्णौष्ठनासमपि ॥
अथ भल्लातकान्यनुपहतान्यनामयान्यापूर्णरसप्र्पमाणवीर्याणि पक्रजाम्बवप्रकाशानि शुचौ शुक्रे वा मासे सङ्गृह्य यवपल्ले माषपल्ले वा निधापयेत् ।
तानि चतुर्मासस्थितानि सहे सहस्ये वा मासे प्रयोक्तुमारभेत ।
शीतस्निग्धमधुरोपस्कृतशरीरः पूर्वं दशभल्लातकान्यापोथ्याष्टगुणेनाम्भसा साधु साधयेत् ।
तेषां रसमष्टभागावशिष्टमनुष्णं सपयस्कं सर्पिर्गण्डूषाभ्यक्तोष्ठतालुजिह्वः प्रातः पिबेत् ।
एवमेतानी दशभल्लातकान्येकैकोत्कर्षापकर्षेण त्रिंशत्प्रयोज्यानि ।
विधिनानेन सहस्रप्रयोगस्त्रिगुणश्च कालो घृतक्षीराभ्यां शालिषष्टिकमशनमेवं विशेषाद्विगतकुष्ठदुर्नामकृमिप्रमेहमेदोदोषो वर्षशतमजर इत्यादि समानं पूर्वेण ॥
पूर्वमेकैकभल्लातकक्वाथं सपयस्कं पिबेदेकैकं च भल्लातकमभिवर्द्धयेद्यावत् पञ्च ।
ततः पञ्च पञ्चवर्धयेद्यावत् सप्ततिः ।
प्राप्य च सप्ततिमपकर्षयेत् भूयः पञ्च पञ्च यावत् पञ्च ।
पञ्चभ्यश्चैकैकं यावदेकम् ।
विधिनानेनसहस्रं प्रयोग इत्यादि समानं पूर्वेण ॥
सप्ततिवच्च शतमुपयुञ्जीत ।
तथा च सहस्रद्वयन् ।
प्रयोग इत्यादि समानं पूर्वेण ।
द्विगुणस्त्वायुषः कालः ॥
भल्लातकानां जर्जरीकृतानां पिष्टस्वेदनं पूरयित्वा भूमावाकाण्ठनिखातस्य स्नेहभावितस्य दृढस्योपरिकुम्भस्यारोप्योडुपेनापिधायकृष्णभृदावलिप्तं गोमयाग्निनोपस्वेदयेत् ।
तेषां यः स्वरसः कुम्भं प्रपद्यते तमष्टभागमधुसंयुक्तं द्विगुणितघृतमद्यात् ।
त्रिगुणश्च कालो घृतक्षीराभ्यामित्यादि समानं पूर्वेण ॥
अनेनैव विधिना भल्लातकस्य रसं गृहीत्वा केवलमेव मासमेकं प्रयुञ्जीत ।
त्रिगुणश्च काल इत्यादि समानं पूर्वेण ।
मासि मासि वर्षशतमायुषोभिवृद्धिः ।
एवं दशमासानुपयुज्य वर्षसहस्रमायुर्भवति ॥
भल्लातकतैलपात्रं सपयस्कं मधुकाक्षमात्रेण शतपाकमुपयुञ्जीत ।
त्रिगुणश्चकाल इत्यादि समानं पूर्वेण ॥
भल्लातकतैलं कृष्णतिलतैलं सर्पिरामलकरसो ऽसनादिसारकषाय इत्येषां द्रोणं द्रोणं त्रिफलात्रिकटुकविडङ्गसारचित्रकहरिद्राद्वयत्रिवृद्दन्तीन्द्रयवयष्टीमधुकविषातिविषारसाञ्जनप्रियङ्गूनां पालिकाभागास्तदैकध्यं स्नेहपाकविधिना विपाच्यावतार्य परिपूयचानुगुप्तं निदध्यात् ।
तत उपस्कृतशरीरः प्रातः प्रातः पाणिशुक्तिमात्रं क्षौद्रेण प्रतिसंसृज्योपयुञ्जीत ।
जीर्णे मुद्वामलकयूषेणालवणेन सर्पिष्मता खदिरोदकसिद्धं मृदुमोदनमश्नीयात् ।
खदिरोदकेनोदककार्याणीत्येवमतो द्रोणमुपयुज्य विगतकुष्ठदुर्नामेत्यादि समानं पूर्वेण ॥
पुष्टानि पाकेनपरिच्युतानि भल्लातकान्याढकसम्मितानि ।
घृष्ट्वेष्टिकाचूर्णकणैर्जलेन प्रक्षाल्य संशोष्य च मारुतेन ॥
जर्जराणि विपचेज्जलकुम्भे पादशेषधृतगालितशीतम् ।
तद्रसं पुनरपि श्रपयेत क्षीरकुम्भसहितं चरणस्थे ॥
सर्पिः पक्वं तेन तुल्यप्रमाणं युञ्ज्यात् स्वेच्छं शर्कराया रजोभिः ।
एकीभूतं तत्खजक्षोभणेन स्थाप्यं धान्ये सप्तरात्रं सुगुप्तम् ॥
तममृतरसपाकं यः प्रगे प्राशमश्नन्ननु पिबति यथेष्टं वारि दुग्धं रसं वा ।
स्मृतिमतिबलमेधासत्वसारैरुपेतः कनकनिकषगौरः सोश्नुते दीर्घमायुः ॥
द्रोणे ऽम्भसो व्रणकृतां त्रिशताद्विपक्वात् क्वाथाढके पलसमैस्तिलतैलपात्रम् ।
तिक्ताविषाद्वयवरा गिरिजन्मतार्क्ष्यैः सिद्धं परं निखिलकुष्ठनिषूदनाय ॥
सहामलकशुक्तिभिर्दधिसरेण तैलेन वा ।
गुडेन पयसा घृतेन यवसक्तुभिर्वा सह ।
तिलेन सह माक्षिकेण पललेन सूपेन वा ।
वपुष्करमरुष्करं परममेध्यमायुष्करम् ॥
भल्लातकानि तीक्ष्ष्णानि पाकीन्यग्निसमानि च ।
भवन्य्तमृतकल्पानि प्रयुक्तानि यथाविधि ॥
कफजो न स रोगास्ति न विबन्धोस्तिकश्चन ।
यं न भल्लातकं हन्याच्छीघ्रमग्निबलप्रदम् ॥
वातातपविधानेपि विशेषेण विवर्जयेत् ।
कुलत्थदधिशुक्तानि तैलाभ्यङ्गाग्निसेवनम् ॥
पञ्चाष्टौ सप्त दश वा पिप्पलीर्मधुसर्पिषा ।
रसायनगुणान्वेषी समामेकां प्रयोजयेत् ॥
तिस्रस्तिस्रस्तु पूर्वाह्ने भुक्त्वाग्रे भोजनस्य च ।
पिप्पल्यः किंशुकक्षारभाविता घृतभर्जिताः ।
प्रयोज्या मधुसम्मिश्रा रसायनगुणौषिणा ॥
क्रमवृध्या दशाहानि दशपैप्पलिकं दिनम् ।
वर्धयेत् पयसा सार्द्धं तथैवापनयेत् पुनः ॥
जीर्णौषधश्च भुञ्जीत षष्टिकं क्षीरसर्पिषा ।
पिप्पलीनां सहस्रस्य प्रयोगोयं रसायनम् ॥
पिष्टास्ता बलिभिः पेयाः शृता मध्यबलैर्नरैः ।
शीतीकृता द्रस्वबलैर्योज्या दोषामयान् प्रति ॥
तद्वच छागदुग्धेन द्वे सहस्रे प्रयोजयेत् ॥
एभिः प्रयोगैः पिप्पल्यः कासश्वासगलग्रहान् ।
यक्ष्ममेहग्रहण्यर्शः पाण्डुत्वविषमज्वरान् ।
घ्नन्ति शोफं वमिं हिध्मां प्लीहानं वातशोणितम् ॥
विडङ्गचूर्णं यष्टीमधुकचूर्णयुक्तं शीततोयेन समाशमुपयुञ्जीत ।
जीर्णे मुद्गयूषेणालवणेन सघृतमोदनमश्नीयात् ।
तेन विशेषाद्विगतकृमिदुर्नामकुष्ठप्रमेहमेदोदोषो वर्षशतमजर इत्यादि समानं पूर्वेण ।
विडङ्गचूर्णं क्षौद्रभल्लातकक्वाथाभ्यां मध्वामलकरसाभ्यां गुडूचीक्वाथेन च एतांश्चतुरो योगान् मासमुपयुञ्जीतेति समानं पूर्वेण ।
सर्वेषु च मासिमासि वर्षशतमायुषो ऽभिवृद्धिः ॥
अलम्बुषां स्वेन रसेन भावितां पृथग्घृतक्षीरमधूष्णवारिभिः ।
पिबेत्तथा काञ्जिकतक्रमस्तुभिर्भगन्दरोरुग्रहगुल्मकासवान् ॥
उष्णा विपाके कटुका कषायमधुरा रसे ।
अत्यन्तदीपनी मेध्या वातश्लेष्महरा च सा ॥
वर्षोपयोगात् कुरुते नरं वर्षशतायुषम् ।
दृढेन्द्रियानलबलं निर्वलीपलितामयम् ॥
श्वेतावल्गुजफलान्यातपशुष्काणी चूर्णयित्वा तत्तुल्यगुडेन सङ्क्षुद्य घृतकुम्भे धान्यराशौ सप्त्परात्रं निदध्यात् ।
ततो ऽनुदिते भास्वति यथाबलं मात्रां सुखोदकानुपानामुपयोजयेत् ।
जीर्णे सुखाम्बुपरिषितः शालिषष्टिकौदनं सशर्करेण पयसाश्नीयात् ।
तस्य मासप्रयोगाद्विशेषेण विगतकुष्ठो ग्रहणधारणवान् वर्षशतमजर इत्यादि समानं पूर्वेण ।
प्रयोगतश्चोर्ध्वं द्विगुणं परिहारः ॥
वाकुचिकाकर्षचूर्णं सुखाम्बुना पिबेत् ।
पीत्वा चातपे निर्वातोष्णे वा गर्भगृहे तिष्ठेदपराह्णे तद्वदेव स्रानमशनं च ।
यूषरसाभ्यां वा ।
तस्य त्रिसप्तरात्रप्रयोगाद्विगतकुष्ठ इत्यादि समानं पूर्वेण ॥
त्वग्रोमकेशदशनान् नखांश्चमुक्त्वा पुनर्नवान् लभते ।
स्वरवर्णबलोत्साहं नवं वयो नष्टपलितं च ॥
पलानि दश बाकुच्या दशैव च फलत्रयात् ।
सप्त क्रिमिघ्नादयसस्त्रीणि द्वे गिरिसम्भवात् ॥
पुरपुष्करमूलाभ्यामाहरेत पलं पलम् ।
सूक्ष्मैलार्धपलं व्योषघनकेसरकुङ्कुमम् ॥
लोध्रत्वक्पत्रयष्ट्याह्वचित्रकं कार्षिकं पृथक् ।
शतंभल्लातकानां च सर्वं खण्डसमांसकम् ॥
चूर्णयेदथ तन्मात्रां भक्षयेत् पालिकीं पराम् ।
यथेष्टचेष्टो लभते वर्षाद्रासायनान् गुणान् ॥
सर्वरोगान् विजयते त्वग्विकारान् विशेषतः ।
अर्शोभगन्दरश्वासकासपाण्ड्वामयक्रिमीन् ॥
गुल्मप्लीहाश्मरीवर्धमप्रमेहारुचिपीनसान् ।
मन्दानलत्वं कृशतां शोफग्रन्थ्यर्बुदानपि ॥
वाकुचिकाफलानि गोमूत्रे सप्तरात्रं वासयेत् ।
ततो निस्तुषीकृत्य छायायां विशोषयित्वा सुसूक्ष्मं च सञ्चूर्ण्य त्र्यहं त्र्यहं क्रमशो भावयेत्त्रिफलाक्वथेन कारवल्लीवासाब्राह्मीगुडूचीभृङ्गराजस्वरसैः पृथक्पृथक् खदिरासनराजवृक्षपिचुमन्दक्वाथैः ॥
तस्य पीतः प्रतिदिनं धात्रीफलरसाप्लुतः ।
कर्षः सर्वामयान् हन्ति त्वग्विकारान्विशेषतः ॥
असनखदिरयूषैर्भावितां सोमराजीं ।
मधुघृतशिखिपथ्यालोहचूर्णैरुपेताम् ।
शरदमवलिहानः पारिणामान् विकारां ।
स्त्यजति मितहिताशी तद्वदाहारजातान् ॥
तीव्रेण कुष्ठेन परीतमूर्त्तिर्यःसोमराजीं नियमेन खादेत् ।
संवत्सरं कृष्णतिलद्वितीयां ससोमराजीं वपुषातिशेते ॥
ये सोमराज्या वितुषीकृतायाश्चूर्णैरुपेतात् पयसः सुजातात् ।
उद्धृत्य सारं मधुना लिहन्ति तक्रं तदेवानु पिबन्ति चान्ते ॥
ते कुष्ठिनः पक्ष्मदरिद्रनेत्रा ।
विशीर्णकर्णाङ्गुलिनासिका वा ।
विहायवैरूप्यमपास्य रूपं ।
पुनः प्ररूढा इव भान्ति वृक्षाः ॥
खदिराम्भसा पिबेद्वा रविसेवी तां तया यवागूं वा ।
गायत्रीजलसिद्धां कुष्ठी तत्तोयकार्यकरः ॥
गजलिण्डक्षारयुता तत्क्षारपायिनो विलेपिभुजः ।
श्वित्राणि सोमराजी प्रसह्य हन्यात् प्रलेपाच्च ॥
गोमूत्रे सप्तरात्रं शशिशकलफलं वासितं लोलयित्वा ।
कुर्याच्छायाविशुष्कं पृथगिति च फलं प्रापुनाटं च शुष्कम् ॥
अंशस्ताभ्यां तथांशः कृमिरिपुदहन स्फोटकृद्भ्यः स चूर्णो गोमूत्रेणोपयुक्तः प्रमितहितभुजः श्चित्रमाश्वेव हन्ति ॥
इक्षुरगोक्षुरसिंही व्याघ्री पञ्चांगुलाम्बुना पीता ।
उपलमघनं घनं वा रसाशिनां हन्ति बाकुचिका ॥
उष्णोदकेन पिष्टा पीता च घृतान्विता जयेत् गुल्मम् लघुपञ्चमूलसिद्धां पेयामुपयोजयेज्जीर्णे ॥
कट्वङ्गकुटजयूषैरर्शींसि भगन्दरं च नाशयति ।
मेहान् मद्यैर्निगदैर्निषोविता बाकुची प्रबलान् ॥
विष्किररसेन पीता दशमूलरसेन वा गुडूच्या वा ।
अपतन्त्रकं निहन्यादायामं वा रसान्नभुजः ॥
जठरेषु पिबेन्मूत्रैर्जलोदरे त्रैवृतेन यूषेण ।
शोफे पाण्डुव्याधाववल्गुजं शीघ्वरिष्टाभ्याम् ॥
इक्षुरकादिक्वाथैर्वर्ध्मनि मूत्रेण वा गवां शस्तः ।
धारोष्णेन तु पयसा युक्तः शोफज्वरौ हन्ति ॥
उष्णाम्बुना प्रयोज्यो लूताकीटाखुसर्पदष्टेषु ।
कृमिहरचतुरङ्गुलयोः क्वाथः कोष्णः कृमिणकोष्हेषु ॥
लेखामिन्दोः सघृतां सुखाम्बुना पुत्रिणी भवति पीत्वा पुष्षोदयेश्वगन्धाशृतेन पयसा च भुञ्जाना ॥
वन्ध्यापि सप्ताहमिमंप्रयोगं करोति या हर्षयती सुगन्धिः ।
प्रियंवदा सद्व्रतशौचयुक्ता सूते सुतान् सा नियमात् गुणाढ्यान् ॥
स्निग्धैरुष्णैर्मधुरैर्हरति गदान्वातजान् युता पैत्तान् ।
तिक्तकमधुरकषायैः कफजांस्त्रिफलारसमधुभ्यां च ॥
इति शमनी धन्येयं विषगरभूतोपसर्गपाप्मघ्नी ।
गेहे स्थितापि रेखा चान्द्रमसी किमुत कोष्ठस्था ॥
मनुष्यमप्यागतमृत्युशासनं प्रणष्टबुद्धीन्द्रियमल्पचेतसम् ।
अवल्गुजो मोक्षयते महाभयाच्छ्रियं च मेधां च ददाति पुप्कलाम् ॥
हैमवत्या वचायाः पिण्डमामलकमात्रं पयसालोड्य पिबेज्जीर्णे पयस्सर्पिरोदन इत्याहारः ।
एवं सप्तरात्रेण मेधावी भवति ।
सप्तभिः सप्तरात्रैः श्रुतधरो वर्षशतमजर इत्यादि समानं पूर्वेण ॥
इतरस्या अपि वचाया द्विपलक्वाथं पिबेत् जीर्णे पयः सर्पिरित्यादि समानं पूर्वेण ।
तच्चूर्णं वा क्षौद्रसर्पिभ्यां यथाबलमवलिह्यात् ।
जीर्णे पयः सर्पिरित्यादि समानं पूर्वेण ॥
वचाकल्कशतपाकं घृतद्रोणमुपयुज्य विशेषात् ग्रहोन्मादापस्मारगलगण्डगण्डमालाश्लीपदस्वरभेदविमुक्तः सर्वार्थेषु सिद्धिमान् वर्षशतायुर्भवति ॥
शीतवातहिमदग्धतनूनां स्तब्धभग्रकुटिलव्यधितास्थ्नाम् ।
भेषजस्य पवनोपहतानां वक्ष्यते विधिरतो लशुनस्य ॥
राहोरमृतचौर्येण लूनाद्ये पतिता गलात् ।
अमृतस्य कणा भूमौ ते रसोनत्वमागताः ॥
द्विजानाश्नन्ति तमतो दैत्यदेहसुमुद्भवम् ।
साक्षादमृतसम्भूतेर्ग्रामणीः स रसायनम् ॥
शीलयेल्लशुनं शीते वसन्ते च कफोल्बणः ।
घनोदयेपि वातार्त्तः सदा वा ग्रीष्मलीलया ।
रक्तपित्तभवारोगा जायन्ते रक्तपित्तिनः ॥
मासः परोस्य रसकल्कनिषेवणाय स्वच्छन्दमप्युपदिशन्ति विमर्दकैस्तु ।
षण्मासमन्यविधिना न तु शस्तमाहुः पक्षप्रयोगमपि हीनतरं रसोने ॥
स्रिग्धशुद्धतनु शीतमधुरोपस्कृताशयः ।
तदुत्तंसावतंसाभ्यां चर्चितानुचराजिरः ॥
तस्य कन्दान् वसन्तान्ते हिमवच्छकदेशजान् ।
अपनीतत्वचो रात्रौ निमयेन्मदिरादिभिः ॥
तत्कल्कस्वरसं प्रातः शुचितान्तवपीडितम् ।
मदिरायाः सुरूढायास्त्रिभागेन समन्वितम् ॥
मद्यस्यान्यस्य तक्रस्य मस्तुनः कञ्जिकस्य वा ।
तत्काल एव वा युक्तं युक्तमालोच्य मात्रया ॥
तैलसर्पिर्वसामज्जक्षीरमासरसैः पृथक् ।
क्वाथेन वा यथाव्याधि रसं केवलमेव वा ॥
पिबेत् गण्डूषमात्र प्राक्कण्ठनाडीविशुद्धये ।
प्रततं स्वेदनंचानु वेदनायां प्रशस्यते ॥
शीताम्बुसेकः सहसा वमिमूर्च्छाययोर्मुखे ।
शेषं पिबेत् क्लमापाये स्थिरतां गत ओजसि ॥
विदाहपरिहाराय परं शीतानुलेपनः ।
धारयेत्साम्बुकणिका मुक्ताकर्पूरमालिकाः ॥
सहिमसलिलगर्भाश्चन्द्रशुभ्रामृणालीः कुवलयदलमाला हारयष्टीश्च लोलाः ।
स्तनतटविनिविष्टाश्चारुगात्र्यो दधानास्तनुसरसविलिता गाढमेनं स्वजेरन् ॥
नलिनीदलतालवृन्तवातैः प्रगलद्वारिलवैर्जलार्द्रया च ।
दयिताकरपल्लवैश्च शीतैर् शुनस्वेदकृतं क्लमं हरेयुः ॥
कुडवोस्यपरा मात्रा तदर्द्धं केवलस्य तु ।
पलं पिष्टस्य तन्मज्ज्ञः सभक्तं प्राक्च शीलयेत् ॥
रसोग्निकल्पो मृदुनौजसा हि ।
संयुज्यमानः सहसैव तस्य ।
दाहातिसारारतिचित्तनाशान् ।
कुर्यादतस्तं त्वरितो न युञ्ज्यात् ॥
जीर्णशाल्योद्दनं जीर्णे शङ्खकृन्देन्दुपाण्डुरम् ।
भुञ्जीत यूषैः पयसा रसैर्वा धन्वचारिणाम् ॥
दीप्ताग्निर्मण्डकान् खादेत् सर्पिप्र्मण्डोपसेचनान् ।
अखण्डमण्डलेन्द्वाभानिण्डरीखण्डमण्डितान् ॥
राजिकाशुक्तसम्पर्कविनिवर्तितगौरवैः ।
पिष्टकाचूर्णधवलैर्वध्रैः सौकरकैर्युतान् ॥
मद्यमेकं पिबेत्तत्तु तृट्प्रबन्धे जलान्वितम् ।
गन्धमत्तक्वणदलि प्रियावक्त्रेन्दुबोधितम् ॥
अमद्यपो यस्तु फलाम्बुतुक्रमवन्तिसोमं च सुगन्धि शीतम् ।
सौवीरकं जाङ्गलजं रसं वा तुषोदक्वं वा परिसिक्थिकां वा ॥
तत्कल्कं वा समघृतं घृतपात्रे खजाहतम् ।
स्थितं दशाहादश्नीयात्तद्वद्वा वसया समम् ॥
सद्यः पिष्टं सर्पिषा संयुतं वा निर्यासेन स्वेन युक्तं च कामम् ।
युञ्जीतैनं पूर्वकैरेव पानैः कोष्णाम्भोभिर्वैष कल्पोतिवीर्यः ॥
रसोनकल्कः सदृशाजसर्पिः षण्मासमुर्व्यामुषितो निहन्ति ।
अभ्यङ्गपानाञ्जननस्ययुक्तो मनोविकारान् विषमज्वरं च ॥
समतैलं सशुक्तं वा यवराशौ समास्थितम् ।
वातरोगान् जयेत् खादन् घृतमांसोत्तराशनः ॥
तैलसर्पिर्गुडसिताः पृथक्कुर्यात्तुलान्मिताः ।
द्वे तुले लशुनाच्छ्रुद्धात् त्र्यूषणात् कुडयत्रयम् ॥
पलं त्वचश्च तच्श्लक्ष्णं निहितं घृतभाजने ।
द्वे समे यवमध्यस्थं पूर्वस्मादधिकं गुणैः ॥
क्षुण्णां क्षिपेत् कन्दतुलां तक्रस्य पलविंशतौ ।
गते च सप्तरात्रे तु तुलार्द्धमसितात्तिलात् ॥
धौतक्षुण्णात् पृथक्क्षौद्रघृतशुण्ठीचतुष्पलम् ।
अजाजीचव्यधान्याग्निद्विकृष्णाग्रन्थिदीप्यकान् ॥
पलोन्मितांश्चतुर्जातात् पलमेकं सुचूर्णितम् ।
पृथक्पलाष्टकं तैलात्घृतात्क्षुण्णाच्चसर्षपात् ॥
पटूनि पञ्च क्षारौ द्वौ दद्यात्तत्राक्षमानतः ।
एकादशाहं तद्धान्ये स्थितमश्नन् प्रगे प्रगे ।
गुणान्रासायनान्सर्वान् स प्राप्नोति निरामयः ॥
द्विपश्चमूलनिष्क्वाथे नल्वणे लशुनाढकम् ।
पिष्टं पर्युषितं वर्षं हन्ति वातकफामयान् ॥
तत्कन्दकल्कस्वरसे घृततैलं पृथक्पचेत् ।
शीलयेच्च यथासात्म्यं दारुणानलपीडितः ॥
नवनीतसमांशं वा खोदत्तत्कल्कमर्दिती ॥
विकञ्चुकप्राज्यरसोनगर्भान् सशूल्यमांसान् विविधोपदंशान् ।
निमर्दकान् वा घृतशुक्तयुक्तान् प्रकाममद्याल्लघुतुच्छमश्नन् ॥
कुस्तुम्बरी जीरकभृष्टमुद्गसौवर्चलश्लक्ष्णरजोवकीर्णैः ।
रसोनकन्दाङ्कुरपत्रचित्रैः सव्यञ्जनैर्नैकरसानुयातैः ॥
तत्कन्दसिद्धान् क्रमशो यूषक्षीररसान् पिबेत् ।
कफपित्तानिलाशङ्की यथास्वौषधसंस्कृतान् ॥
कृशोश्वगन्धोद्भवचूर्णकीर्णं सन्नस्वरो यष्टिमधूपधानम् ।
तैलेन गुल्मी खदिरेण कुष्ठी खादेत् कृमिघ्नैः कृमिमान् रसोनम् ॥
मांसादमांसैर्यक्ष्माणमर्शांसि कुटजत्वचा ।
हन्ति स श्रेष्ठया मेहकासश्वासविलम्बिकाः ॥
अन्नस्वरूपविज्ञानात् स्वरूपमुपलभ्य च ।
यथायथं प्रयोगोस्य कार्यस्तं तं गदं प्रति ॥
लशुनस्वरसात् प्रस्थान्द्वात्रिंशत्तिलतैलतः ।
द्वावपेतमलात् किण्वादष्टौपिष्टाच्चषड्यवात् ॥
मेषशृङ्गीभवात् क्वाथाद्रोणं पूताच्च शीतलात् ।
स्नेहपात्रे तदैकध्यं निदध्याच्च शुचौ दृढे ॥
क्रमात्तत्र पुनर्दद्यात् पिष्टं प्रस्थचतुष्टयम् ।
पक्षात्परमियं पेया सुरा वातविकारिभिः ॥
त्रिरात्रमुषितां धेनुं लशुनं खादयेत्ततः ।
क्षीरदध्याज्यमथितं ब्राह्मणस्यापि शस्यते ॥
पित्तरक्तविनिर्मुक्तसमस्तावरणावृते ।
शुद्धे वा विद्यते वायौ न द्रव्यं लशुनात्परम् ॥
सुखात्मनां विशेषेण प्रयोज्यो लशुनासवः ।
नारदेनोद्धवस्यैष वातभग्नस्य कल्पितः ॥
आमाम्बुपानेक्षुविकारमत्स्ययानाध्ववातातपभाष्यचिन्ताः ।
स्वप्नं दिवा जागरणं निशासु पिष्टं व्यवायं दधि चात्र नेच्छेत् ॥
स्नेहकल्पविधानेन स्नेहयुक्तं प्रयोजयेत् ।
लशुनं स्नेहसंयोगात् गरीयान् जायते हि सः ॥
पित्तकोपभयादन्ते युञ्ज्यान्मृदुविएचनम् ।
रसायनगुणानेवं परिपूर्णान् समश्नुते ॥
प्रियाम्बुगुडदुग्धस्य मांसमद्याम्लविद्विषः ।
अतितिक्षोरजीर्णं च रसोनो व्यापदे ध्रुवम् ॥
पाण्डूदरोरक्षतशोफतृष्णापानात्ययच्छर्दिविषव्रणेषु ।
पैत्ते विकारेक्षिगदेतिसारे क्षामे शरीरे च स वर्जनीयः ॥
शीलित एष करोति दुरापं वह्निशरीरबलं सममेव ।
वङ्मतिरूपगुणाढ्यसुतेप्सोः स्त्रीपुरुषस्य च बीजविशुद्धिम् ॥
अमृतकणसमुत्थं यो रसोनं रसोनं विधियुतमितिखादेच्छीतकाले सदैव ।
स नयति शतजीवी स्त्रीसहायो जरान्तं कनकरुचिरवर्णो नीरुजस्तुष्टिजुष्टः ॥
रसोनानन्तरं वायोः पलाण्डुः परमौषधम् ।
साक्षादिवस्थितं यत्र शकाधिपतिजीवितम् ॥
यस्योपयोगेन शकाङ्गनानां लावण्यसारादिविनिर्मितानाम् ।
कपोलकान्त्या विजितः शशाङ्को रसातलं गच्छति निर्विदेव ॥
स्निग्धाङ्गत्वं गौरता कान्तिमत्ता वनेर्दीप्तिर्वर्ष्मपुष्टिर्वृषत्वम् ।
सम्प्राप्यन्ते यन्त्रणोद्वेगमुक्तैः र्यस्याभ्यासाद्धारि दीर्घं सुखं च ॥
अप्याहारे शीलितो दीर्घारात्रं बल्यश्चक्षुष्यस्तर्पणः स्थैर्यकारी ।
तैस्तैर्योगैर्योजितोयं पलाण्डुस्तांस्तानातङ्कान् मेहिनामुच्छिनत्ति ॥
रसं रसोनवत्तस्य पीत्वाश्नीयात्तथैव च ।
सबीजपूरस्वरसमदिरामधुशीधुपः ॥
मरकतमणिनीलं नालमस्यातिबालं परिणतशशिगौरं यच्च बीजं सुपिष्टम् ।
ससुरससुमुखाभ्यां प्राज्यमांसं सशुक्तं मृदुधवलसुवृत्तैर्मण्डकैरात्तमूर्तिम् ॥
वहुशःशोभितं शुभ्रैः शशाङ्कशकलोपमैः ।
घारिकेण्डरिकावल्लैः क्षीरोदावयवैरिव ॥
यवमुद्गमाषगोधूम बहुविध विकारकल्पितान् भक्ष्यान् ।
काम्बलिकरागषाडवसट्टकखलकान् सफलसारान् ॥
पटुसुरभिमधुरगन्धान् धवलाक्षकधवलबहुलरसान् ।
खर्जूरदाडिमसिताद्राक्षापानानुपोभ्यस्येत् ॥
लभते बलवर्णौजोवीर्यस्वरसौमनस्यतेजांसि ।
क्षीणशकृद्रुधिरोपि च रसोनवत्तद्रसं पीत्वा ॥
सुरासुरैःक्षीरसमुद्रमन्थे गतास्तटान् ये ऽमृतविप्रुषः पुरा ।
बबूव तेभ्यः किल कुक्कुटी यया व्रजन्ति देवत्वमिवाद्य मानुषाः ॥
कुक्कुटाण्डनिभैः कन्दैः किञ्चित् कटुकपिच्छिलैः ।
स्निग्धैर्मरकतच्छायैः खर्जूरसदृशैच्छदैः ॥
निस्विलरोगहरापि विशेषतो जयति दारुणमप्यनिलामयम् ।
गुदजगुल्मतमोविषनाशिनी जनयति स्थिरतां वपुषः पराम् ॥
कुटीं प्रविश्यतत्कन्दान् भक्षयेत्घृतभर्जितान् ।
पयोनुपानं धारोष्णं तत्रेष्टमसनाम्बु वा ॥
तन्मात्रवृत्तिस्तुभवेद्दशाहं विंशत्यहं स्वादुभुगप्रमादी ।
जत्रूर्ध्वकोष्ठत्रिकसन्धिवातपाण्डवामयार्शस्तिमिराणि जित्वा ॥
वलीपलितनिर्मुक्तः स्थिरकेशद्विजश्रुतिः ।
मेधामतिस्मृतियुतो जीवेद्वर्षशतद्वयम् ॥
आपूर्यमाणचन्द्रप्रतिपदमारभ्यवर्धयेत्कन्दम् ।
एकैकं घृतभृष्टं प्राग्भक्तं पथ्यभुक्खादेत् ॥
भुञ्जीताल्पतरं दिनार्दितमृषिः पक्षक्षये भक्षयन् क्षीरं बीजकवारि तक्रमथवा पीत्वा स्थितिं कल्पयेत् ।
मांसं प्राश्य तथा नखद्विजकचः शीर्णोत्थितैः कान्तिमान् जीवत्यब्दशतत्रयं धृतिमतिस्मृत्यादिभिर्भूषितः ॥
क्षीरेण कन्दचूर्णं पिबन्यवागूं च परिणते मासम् ।
लवणस्नेहविनां दृढदृग्जीवेच्छरद्द्विशतम् ॥
तिमिरं क्षौद्रघृताभ्यां पथ्यभुजस्तद्रजो जयेन्मासात् ।
कन्दत्रयं च भृष्टं घृतेश्नतो भक्षितं वातान् ॥
तत्कन्दसूक्ष्मरजसा त्रिभागगोधूमचूर्णमिश्रेण ।
पयसा पक्त्वा खादेत् घृतपूरानान्त्रवृद्धिहरान् ॥
त्रीन् कन्दकांश्च निशि भक्षयताज्यभृष्टान् धात्रीफलाम्बु ससितं चह्गलीपयो वा ।
पेयं दृगामयजयाय निषेवितव्या कामं च रोगशममात्रफलार्थिभिः सा ॥
क्षीरान्विता मूलकतुल्यकन्दा सप्ताष्टपत्रासितरक्तकाण्डा ।
विभर्त्ति या पल्लवमब्दशब्दात् सा कञ्चुकी श्वेतवपुर्वरेण्या ॥
आषाढे कार्तिके वात्तं तत्कन्दं शीतलं स्थितम् ।
अङ्गुष्ठपर्वद्वयसं पिष्टं क्षीरपलाष्टके ॥
कुटीप्रवेशस्तं पीत्वा क्षीरमेव पिबेदनु ।
क्षीरमेव च जीर्णेपि पेयां वा स्नेहभर्जिताम् ॥
किञ्चिदुष्णामलवणां स्पृशेदुष्णाम्बु नो हिमम् ।
एकेन सप्तरात्रेण कुष्ठान्येवं नियच्छति ॥
सर्वव्याधीन् द्वितीयेन तृतीयेन तु सर्पवत् ।
त्यक्त्वा त्वचं ततो जीर्णां केशदन्तनखानपि ।
धीमेधारूपवान् जीवेत् पञ्चवर्षशतानि च ॥
कञ्चुकीकन्दचूर्णं वा स्वेन क्षीरेण भावितम् ।
गोक्षीरकुडवे न्यतं कर्षं खण्डपलान्वितम् ।
पीतं सर्वाभयान् हन्ति नखकेशस्थितानपि ॥
पीततत्स्वरसं चूर्णं तस्या मधुघृतान्वितम् ।
खादन्हिताशी सप्ताहं त्वग्दोषांस्तिमिरं जयेत् ॥
विडङ्गताप्यत्रिफलालोहकञ्चुकिजं रजः ।
सप्तरात्रत्रयं लिह्यान्मधुना संयतेन्द्रियः ॥
क्षीरेण भोजनं जीर्णे शालेर्लाबरसेन वा ।
तथास्य काचत्यिमिरे सुकृच्छ्राः शिरसो गदाः ॥
मेधाविनः प्रणश्यन्ति गात्रं सुप्तं च बुध्यते ।
एष सप्तामृतश्चूर्णः सर्वव्याधिषु पूजितः ॥
पलं चूर्णस्य कञ्चुक्याः क्षीरप्रस्थे समावपेत् ।
स्नेहं दध्नस्ततो लिह्याज्जितात्मा ससितामधु ॥
शालेरन्नं पयः पानं मासमेवं प्रयोजयेत् ।
चतुर्गुणः परीहारः शोषशाब्दसमद्युतिः ।
शतानि पञ्च वर्षाणां जीवेद्देव इवोर्जितः ॥
पचेत् पलानि द्रोणेपां कञ्चुक्याः पञ्चविंशतिः ।
अष्टांशशिष्टे तु घृतात् प्रस्थं क्षीरसमं पचेत् ॥
शङ्खपुष्पीवचाकुष्ठत्रिवृतामरदारुभिः ।
वरायष्टीसिताद्राक्षामहिषाक्षैः पलांशिकैः ॥
युक्तैः कमलकिञ्जल्कत्रिपलेन हिमे ऽत्र च ।
क्षौद्राच्चतुष्पलं दद्यादेतन्मर्त्यामृताह्वयम् ।
चक्षुष्यं बृंहणं मेध्यं वर्ण्यं वर्षशतप्रदम् ॥
पचेत्पलानि कञ्चुक्यास्त्रीणि लोहात्सुचूर्णितात् ।
पलाशबीजाच्चत्वारि दश द्वे च फलत्रयात् ॥
अष्टादश शतावर्या बीजकस्यैकाविंशतिः ।
जीवन्त्याः षोडशैकध्यं पौर्णमास्यां विपाचयेत् ॥
वहे ऽपां पादशेषे च पृथगर्द्धाढकेन च ।
पचेत् काञ्जिकमस्तुभ्यां घृतप्रस्थं पिचून्मितैः ॥
शताह्वारुष्करवचाकुष्ठैलाबिडहिङ्गुभिः ।
सौवर्चलान्वितैः पद्मकेसराच्च त्रिभिः पलैः ॥
पञ्चभिः पद्मबीजानां पद्मद्वादशकेन च ।
एतत् सोमामृतं पीत्वा यस्सोमो ऽद्यापि राजते ॥
इदमुपयुज्य सर्पिरतिवीर्यमुदारगुणं भवति सुवाक्सुधीः सुदृढसुबलः सुभगः ।
ग्रहमरकोपसर्गविषभीतिभिरधृष्यवपुर्विजितजराज्वरो नयति वर्षशतद्वितयम् ॥
दानवेन्द्र विजितान् पुरा सुरान् भ्रष्टकान्तिधृतिधर्यतेजसः ।
वीक्ष्य विष्णुरमृतं किलासृजत् गुग्गुलुं बलवपुर्जयप्रदम् ॥
अद्याप्यतः सुरगणाः किल धूपमुख्यान् हित्वा वरागरुतुरुष्कहिमेन्दुदर्पान् ।
निर्दह्यमानवपुष्षो ऽपि शिखां पिबन्तो गन्धेन यस्य मुदिता दधति प्रसादम् ॥
स योगवाही स शिवः स सार्वः सर्वर्तुसेव्यः सुखशीलनीयः ।
हन्ता जरापाप्ममलामयानां कर्ताग्निमेधास्मृतिपाटवानाम् ॥
गन्धोत्कटः स दाहे स्निग्धद्रवपिच्छिलो विगतशल्यः ।
महिषाक्षः पुष्पराग स्फटिकासितनीरदच्छायः ॥
यः पद्मरागरागो यः कनकच्छेदपाटलो यो वा ।
जयतीन्द्रनीलममलं भग्नोप्यन्तिकान्तिमत्वेन ॥
आत्रेयमुनिगीतश्च मन्त्रोयं कर्मसिद्धिकृत् ।
भगवान् पुण्डरीकाक्षो देवाश्च सपुरन्दराः ॥
जरामरणदुःखेभ्यो यथा तेग्युत्थिताः सुराः ।
उपयोक्तुस्तथैवास्य भव त्वं हि महाबल ॥
पञ्चमूलस्य महतः क्वाथेन हितभोजिना ।
गुग्गुलुः शीलितो हन्ति सर्वान् वातकफामयान् ॥
लघीयसोपि तद्वच्च सुखोष्णेन जलेन वा ।
मस्तुधान्याम्लमद्यैर्वा वचादेः सलिलेन वा ॥
वरणादेस्तु बाधिर्यदन्तकर्णशिरोरुजः ।
स्वरभेदोदरश्वासवर्ध्मान्तर्गुल्मविद्रधीन् ॥
वातपित्तास्ररोगेषु बृंहणार्थिनि चेष्यते ।
क्वाथेन वाजिगन्धाया जीवनीयगणस्य वा ॥
क्वाथेनोत्पलमृद्वीकारक्तचन्दनजन्मना ।
वातपित्तं निहन्त्येष पद्मकादिगणस्य वा ॥
चव्यकुष्ठविडङ्गानां यान्या नागरस्य वा ।
प्रसारिण्याश्च तोयेन गुग्गुलुः कफवातजित् ॥
त्र्यूषणाग्निघनवेल्लवराभिर्भक्षयन् समघृतं महिषाक्षम् ।
आशु हन्ति कफमारुतमेदोदोषजान् बलवतोपि विकारान् ॥
पटोलनिम्बत्रिफलागुडूची गायत्रिरात्रिद्वयबीजकानाम् ।
क्वाथैः पृथक्पथ्यपरस्य हन्ति मासेन घोरान् कफपित्तरोगान् ॥
विशेषाच्छोफवीसर्पदुष्टव्रणभगन्दरान् ।
शुक्रार्तवमनोदोषप्रमेहश्वित्रपाण्डुताः ॥
पटोलारिष्टीर्नयूहपिष्टस्तुल्यरसाञ्जनः ।
गलगोगापचीव्यङ्गग्रन्थिस्थौल्यकृमिप्रणुत् ॥
शिलाजतुसमःपीतः पयसा वातशोणितम् ।
निवर्तयत्यतिबलं क्षीरमांसघृताशिनः ॥
रसेन पयसा मूत्रैर्वातपित्तकफापहः ।
ब्राह्मीमण्डूकशङ्खानां पृथङ्मेधादिकृद्रसैः ॥
मागधिकाग्निकलिङ्गबिडगैर्बिल्वधृतैः सवरापलषट्कैः ।
गुग्गुलुना सदृशेन समेतैः क्षौद्रयुतैः सकलामयनाशः ॥
पिबेत् पलशतं योस्य विधिना नियतो यतिः ।
नाकालमृत्योर्न व्याधेर्न तस्य जरसो भयम् ॥
कल्पयेदौषधैः स्वै स्वैर्व्याधिषु व्याधिनाशनैः ॥
शिलाजतुविधानं च गुग्गुलोः सर्वमिष्यते ॥
गुणनिधिरपिकुर्यात् सोतिमात्रोपयुक्तस्तिमिरवदनशोषक्लबिताकार्श्यमोहान् ।
शमलशिथिलभावं देहरौक्ष्यं च तस्माद्रजनिचरनिषेवीस्य्यान्न रोगेष्वमीषु ॥
ग्रीष्मेर्कतप्ता गिरयो जतुतुल्यं वमन्ति यत् ।
हेमादिषट्धातुरसं प्रोच्यते तच्छिलाजतु ॥
सर्वदोषप्रशमनं सर्वरोगविनाशनम् ।
शिलाभ्यो यस्य यज्जातं धातोस्तत्तद्गुणं वदेत् ॥
सर्वं च तिक्तकटुकं नात्युष्णं कटु पाकतः ।
छेदनं च विशेषेण लौहं तत्र प्रशस्यते ॥
गोमूत्रगन्धि कृष्णं गुग्गुल्वाभं विशर्करं मृत्स्नम् ।
स्निग्धमनम्लकषायं म्दृउ गुरु च शिलाजतु श्रेष्ठम् ॥
रास्नादशमूलबला पुनर्नवैरण्डशुण्ठिमधुकानाम् ।
क्वाथेन भावितं तद्विशेषतो वातरोगघ्नम् ॥
द्राक्षाभीरुपटोलत्रायन्तिगुडूचिजीवनीयानाम् ।
निर्यूहेण सुभिन्नं शस्तं पित्तामये सुतराम् ॥
क्रिमिजिद्वचाफलत्रय करञ्जघनमुख्यपञ्चमूलानाम् ।
सहपञ्चकोलकानां क्वाथेन कफामये भाव्यम् ॥
लघुपञ्चमूलशुण्ठी द्राक्षाकाश्मर्यवाजिगन्धानाम् ।
सगुडूचिशरबलानां रसेन पित्तानिलगदेषु ॥
घनकुष्ठवचात्रिफला सुरदारुविडङ्गपञ्चकोलानाम् ।
रजनीमरिचातिविषा युक्तानां वातकफजेषु ॥
पाठापटोलनिम्बत्रिफलाघनकुटजसप्तपर्णानाम् ।
त्रायन्त्यमृतातिविषासहितानां पित्तकफजेषु ॥
निचये ऽपिदोषबलतो योगानेतान् विकल्प्य युज्जीत ।
विविधगणसङ्ग्रहोक्तैस्तैस्तैश्च गणैर्गिरेस्सारम् ॥
व्याधिव्याधितसात्म्यं समनुसरन् भावयेदयः पात्रे ।
प्राक्केवलजलधौतं शुष्कं क्वाथैस्ततो भाव्यम् ॥
समगिरिजमष्टगुणिते निष्क्काथ्यं भावनौषधं तोये ।
तन्निर्यूहे ऽष्टांशे पूतोष्णे प्रक्षिपेत् गिरिजम् ॥
तत् समरसतां यातं संशुष्कं प्रक्षिपेद्रसे भूयः ।
स्वैस्वैरेवं क्वाथैर्भाव्यं वारान् भवेत् सप्त ॥
अथ स्निग्धस्य शुद्धस्य घृतं तिक्तकसाधितम् ।
त्र्यहं युञ्जीत गिरिजमेकैकेन तथा त्र्यहम् ॥
फलत्रयस्य यूषेण पटोल्या मधुकस्य च ।
योगयोग्यं ततस्तस्य कालापेक्षं प्रयोजयेत् ॥
शिलाजमेवं देहस्य भवत्यत्युपकारकम् ।
गुणान् समग्रान् कुरुते सहसा व्यापदश्च न ॥
एकत्रिसप्तसप्ताहं कर्षमर्द्धपलं पलम् ।
हीनमध्योत्तमो योगः शिलाजस्य क्रमान्मतः ॥
संस्कृतं संस्कृते देहे प्रयुक्तं गिरिजाह्वयम् ।
युक्तं व्यस्तैः समस्तैर्वा ताम्रायोरूप्यहेमभिः ॥
क्षीरेणालोडितं कुर्याच्छीघ्रं रासायनं फलम् ।
हन्याद्रोगानशेषांश्च जीर्णे हितमिताशिनः ॥
व्यायामातपमारुतचेतःसन्तापगुरुविदाह्यादि ।
उपयोगादपि परतो द्विगुणं परिवर्जयेत् कालम् ॥
कुलत्थान् काकमाचीं च कपोतांश्च सदा त्यजेत् ।
पिबेन्माहेन्द्रमुदकं कौपं प्रास्रवणाम्बु वा ॥
ज्वरी ज्वरघ्नाम्बुदपर्पटादेः क्वाथेन रक्ती मधुयष्टिकायाः ।
शोषी सरैः क्रव्यभुगामिषोत्थैर्मायुरमांसैः पयसा च कार्श्ये ॥
मध्वम्बुना मेदसि सम्प्रवृद्धे क्षीरेण पयाकुलबुद्धिसत्वः ।
पाण्ड्वामयार्त्तावुदरे सशोफे पिबेच्छिलाजं महिषीजलेन ॥
अश्म वीरतराद्येन कुष्ठं खदिरवारिणा ।
विषं विषघ्नैरगदैर्हन्त्येवं तद्यथामयम् ॥
शैलजत्रिकटुक्षौद्रक्षौद्रधातून् निषेवते ।
क्षीरौदनाशी यो जीर्णे यक्ष्मणा न स बाध्यते ॥
सुभावितात्सारगणैस्तुलां पीत्वा शिलोद्भवात् ।
सारांबुनैव भुञ्जानः शालिं जाङ्गलजै रसैः ॥
व्यपोह्य मधुमेहाख्यमन्तकं रोगसङ्करम् ।
वपुर्वर्णबलोपेतः शतं जीवत्यनामयः ॥
शिलाह्वात् षोडशपलं त्रिस्त्रिरेकत्र भावयेत् ।
वराया दशमूलस्य गुडूच्याः कर्कशस्य च ॥
बलाया मधुयष्ट्याश्च रसे गव्ये च वारिणि ।
क्षीरे सकृत्क्रमेणैवं सप्तकृत्वस्तथा पुनः ॥
काकोलियुग्मघनपुष्करवह्निरास्ना मेदायुगर्द्धिचविकागजपिप्पलीनाम् ।
पाठाद्विजीवकनिकुम्भविदारियुग्म वीरावरीमधुफलांशुमतीद्वयानाम् ॥
पलिकानामब्द्रोणे सिद्धानां पादशेषिते क्वाथे ।
भावितमित्थं गिरिजं द्विपलैश्चूर्णीकृतैर्युञ्ज्यात् ॥
कर्कटशृङ्गीधात्रीव्योषैस्तालीसपत्रकुडबेन ।
चूर्णपलेन विदार्यास्त्वक्षीर्याः कर्षयुग्मेन ॥
द्विपलेन चतुर्जातात्तैल घृतक्षौद्रशर्कराभिश्च ।
द्विपलाद्द्विगुणाभिः कार्या गुटिकास्ततोक्षसमाः ॥
ताः शुष्का नवकुम्भे जातीपुष्पाधिवासिते स्थाप्याः ।
तासामेकां खादेत् प्रतिदिनमनुपानमत्रेष्टम् ॥
क्षीररसदाडिमाम्भो मार्द्वीकसुरासवान्यतमम् ।
जीर्णेन्नं लघु भोज्यं यूषपयःपिशितनिर्यूहैः ॥
सप्ताहमात्रमेवं सर्वान्नीनः क्रमात् भवेत् परतः ।
भक्तस्यान्ते प्राग्वा गुटिका न विरुध्यते सैषा ॥
निरपाया भूरिफला परिहारसुखोपयोजिता जयति ।
प्रबलमपि वातशोणितमूरुस्तम्भं ज्वरं दीर्घम् ॥
भगमूत्रशुक्रदोषप्लीहयकृद्रक्तपाण्डुहृद्रोगान् ।
वर्ध्मवमिगुल्मपीनसहिध्माकासारुचिश्वासान् ॥
विद्रधिमुदरं कुष्ठं श्वित्रं जाड्यं क्षयं मदं मूर्च्छाम् ।
उन्मादमपस्मारं मुखनेत्रशिरोगदांस्तांतान् ॥
आनाहमतीसारं हलीमकं कामलाग्रहणिरोगान् ।
ग्रन्थ्यर्बुदान् सपिटकान् भगन्दरं गण्डमालां च ॥
अतिकार्श्यमतिस्थौल्यं स्वेदमथश्लीपदं गुदे कीलान् ।
दंष्ट्राविषं समूलं गरप्रयोगान् सुघोरांश्च ॥
अभिचारमरातिकृतं दुःस्वप्नं भौतिकीं तथा बाधाम् ।
पाप्मालक्ष्मीं चेयं गुटिका शमयेच्छिवा नाम्ना ॥
वृष्यायुष्या धन्या कान्तियशःश्रीविबोधिनी मेध्या ।
कुरुते नृपवल्लभतां जयं विवादे च वक्त्रस्था ॥
जितखलतिवलीपलिता जीवयति सुखं शतद्वयं शरदाम् ।
वर्षद्वयप्रयोगाद्वर्षशतचतुष्टयं जीवेत् ॥
न सोस्तिरोगो भुवि साध्यरूपो जत्वश्मजं यं न जयेत् प्रसह्य ।
तत्कालयोगैर्विधिवत्प्रयुक्तैः स्वस्थस्य चोर्जां विपुलां दधाति ॥
अमरमन्दिरमन्दरसम्भवाच्छतपलं गिरिजादुपयोजय ।
यदि जरामयदुःखविवर्जितां सुचिरमिच्छसि जीवितसन्ततिम् ॥
दशगुणमुपयुङ्क्ते यः शतं शैलजाताल्लघुहितमितभोजी वर्जयन् वर्जनीयान् ।
सततसमनुषक्तान् वर्जितान् वैद्यवृन्दैर्विधमति सगदौघान् नेक्षते चायुषोन्तम् ॥
समुद्वभूवामृतमन्थनोत्थः स्वेदः शिलाभ्यो ऽमृतवान् गिरेः प्राक् ।
यो मन्दरस्यात्मभुवा हिताय न्यस्तः स शैलेषु शिलाजरूपी ॥
सुवर्णशैलप्रभवो विष्णुना काञ्चनो रसः ।
तापी किरातचीनेषु यवनेषु च निर्मितः ॥
ताप्यां सूर्यांशुसन्तप्तो माधवे मासि दृश्यते ।
मधुरः काञ्चनाभासः साम्लो रजतसन्निभः ॥
किंचित् कषाय उभयः शीतः पाके कटुर्लघुः ।
शिलानिर्यासवच्चात्र कुलत्थादीन् परित्यजेत् ॥
न तन्निषेवी जरसाभिभृयते न पन्नगैर्नापि गरैर्न वृश्चिकैः ।
न पाण्डुमेहज्वरशोफयक्ष्मभिर्न कण्ठनेत्रश्रवणत्वगामयैः ॥
सोदश्वित्को माक्षिकधातुः सघृतो वा सक्षौद्रो वा क्षौद्रघृताभ्यां सहितो वा ।
साम्भस्को वा तैलयुतो वा विनिहन्ता त्वग्दोषाणां सर्वविषाणां सगराणाम् ॥
अक्षद्राक्षायोमलमुस्तामलकानां सव्योषाणां पर्वतनिर्यासयुतानाम् ।
दत्वा तुल्यं माक्षिकधातुं मधुमिश्रं लिह्यात्पाण्डुव्याध्यभिभूतः शिवमिच्छन् ॥
अंशः शुण्ठ्या लोहमलांशो बदरांशः पिप्पल्यंशो माक्षिकधातुर्द्विगुणांशः ।
क्षौद्रं कामं कृष्णतिलानामपि चांशः श्रेष्ठा पिण्डी पाण्डुविकारश्वयथुघ्नी ॥
सायश्चूर्णं माक्षिकधातुं मधुमिश्रं व्योषोपेतं पर्वतनिर्याससमेतम् ।
क्षीराहारो यो ऽवलिहानः प्रयतात्मा कृत्युद्वारं शोषमपोहत्यचिरेण ॥
लोहं सर्पिर्माक्षिकधातुर्मधुमात्रा धात्रीचूर्णं के सरमम्बुप्रभवानाम् ।
योगः कुर्यादेष सिताभागविमिश्रश्चक्षुर्घ्राणश्रोत्ररसज्ञानविबोधम् ॥
कृत्यैकस्थं माक्षिकधातुं त्रिफलां च भ्राष्ट्रे पक्त्वा ये सहविष्कं विलिहन्ति ।
पथ्यादास्तान् वार्धकदोषा न भजन्ते मातुर्दोषाः स्तन्यनिवृत्तानिव वालान् ॥
समश्नतो माक्षिकधातुचूर्णं सर्पिर्मधुभ्यां त्रिफलारजश्च ।
शनैः शनैर्याति जरा विनाशं प्रत्यन्तवासादिव लोकयात्रा ॥
त्रिकोणकाण्डा सुबहुप्रताना फलेषु पीता कुसुमेषु रक्ता ।
पत्रैःसदुग्धैर्मृदुरोमवद्भिस्ताम्बूलतुल्यैर्घनकन्दमूला ॥
पवनविवस्वदंशुवनितादिषुकामचरा विविधमनःशरीरगदवृन्दनिवृत्तिकरी ।
भुवि परमौषधिर्महिषवल्लरीति प्रथिता क्वचिदपि वृद्धदारक इयत्वपि वेल्लरिका ॥
वसन्ते सङ्गृहीतानां शोषितानामनातपे ।
वृद्धदारकमूलानां तुलां संचूर्ण्यं सर्पिषा ॥
आप्लाव्य घृतपात्रस्थां धान्ये पक्षमुपेक्षिताम् ।
लिह्यादनु पिवेत्क्षीरं जीर्णे क्षीरघृताशनः ॥
तत्प्रयोगाज्जराजीणा वृद्धा दारकतामियात् ।
भग्नास्थिर्गद्गदः पङ्गुः कृशो ह्रस्वोन्यरूपताम् ॥
निरस्ताशेषदोषोत्थनखभेदाद्युपद्रवः ।
अपस्मारग्रहोन्मादपाप्मालक्ष्मीविवर्जितः ।
दीप्ताग्निर्बलवान् वाग्मी जीवेद्वर्षशतानि षट् ॥
चूर्णितैरश्वगन्धायाः संयुतं त्रिंशता पलैः ।
तत्तुल्यं दारकं प्राश्य पयसा सर्पिषाथवा ॥
जीर्णो पूर्ववदश्नीयाद्यो जीवेत् स समाः शतम् ।
वाजिवेगो गजप्राणः सुरूपो भास्करद्युतिः ॥
अश्वगन्धेन संयोज्यौ वरीगोक्षुरकौ पृथक् ॥
यो लिह्यात् सर्पिषा चूर्णं वृद्धदारकमूलजम् ।
सप्ताहं यूषभक्ताशी स्यात् स किन्नरतुल्यवाक् ॥
स्वरसेन शतावर्या सप्ताहं भावितं च तत् ।
लिहानः पूर्ववन्मासं शतं जीवेन्महामतिः ॥
लिह्याद्वा मधुसर्पिर्भ्यां धात्रीस्वरसभावितम् ।
क्षीरेण वा पिबन्मासं शतं जीवेदरुक्सुधीः ॥
वृद्धदारकमूलानां रसं क्षीरेण यः पिबेत् ।
तत्कल्कसिद्धं सर्पिर्वा सजीवेन्नीरुजः शतम् ॥
पीतं वेल्लरिकामूलं गोमूत्रेण सहोषितम् ।
कुष्ठगुल्मोदरगरश्लीपदार्शोपचीर्जयेत् ॥
पिप्पली त्रिफला दार्वी महौषधपुनर्नवाः ।
पृथग्दशपलाः सर्वैस्तुल्यांशो वृद्धदारकः ॥
धान्याम्लपीतस्तच्चूर्णो जीर्णे स्वच्छन्दभोजनः ।
श्लीपदाममरुद्वर्ध्मगुल्मोदरगरान् हरेत् ॥
शौण्डी विश्ववराद्वीपिवेल्लमुस्ताः समांशकाः ।
तुल्यवेल्लरिकामूलाः साज्यक्षौद्रास्तथागुणाः ॥
तत्फलात् स्वरसं कर्षं लिहंस्तुल्याज्यमाक्षिकम् ।
गव्यं पिबेदनु पयो माहिषं वा यथेष्टभुक् ॥
पञ्चाहेन जयेत् कासान् सप्ताहेन त्वगामयान् ।
महाकुष्ठानि मासेन भवेन्मासद्वयेन तु ।
पञ्चवर्षशतायुष्को धीमेधाबलरूपवान् ॥
वेल्लरीफलमूलानां पिप्पल्याश्च समं रजः ।
वेल्लरीफलमूलोत्थस्वरसेनैव भावयेत् ॥
अमृताया रसेनानु ततः शुष्कं घृताप्लुतम् ।
निखनेत् घृतकुम्भस्थं करीषे बहुसञ्चये ॥
मासादुद्धृत्य तं लेहं यो वर्षमुपयोजयेत् ।
सहस्रायुः स जरसा सहसा नाभिभूयते ॥
कुष्ठचूर्णतुलां क्षौद्रघृतस्य द्वितुलान्विताम् ।
धान्यराशौ दिनशतं निहितामुपयोजयेत् ॥
सुगन्धिकायो दृक्श्रोत्रस्वरवर्णेष्वतीन्द्रियः ।
गतव्याधिजरो जीवेत् सप्तवर्षशतानि ना ॥
कुटीप्रवेशः क्षणिनां परिच्छदवतां हितः ।
अतोन्यथा तु ये तेषां सौर्यमारुतिको विधिः ॥
वातातपसहा योगा वक्ष्यन्ते ऽतो विशेषतः ।
सुखोपचारा भ्रंशे ऽपि ये न देहस्य बाधकाः ॥
शीतोदकं पयः क्षौद्रं घृतमेकैकशो द्विशः ।
त्रिशः समस्तमथवा प्राक्पीतं स्थापयेद्वयः ॥
हरीतकीमागधिकाक्षधात्रीश्चूर्णीकृता लोहरजोविमिश्राः ।
सर्पिर्मधुभ्यामदतः शरीरं कालाग्रदूती न जरा दुनोति ॥
हरीतकीमागधिकाविडङ्गशशाङ्कलेखामलकच्छवीनाम् ।
सितोपलौतपघृतान्वितानां रोगा न लेढारमभिद्रवन्ति ॥
त्रिफलामसनोदकेन पिष्टां रजनीं पर्युषितामयः कपाले ।
मधुना मधुरां लिहन् हिनस्ति स्थविमानं जरसं गदांश्च सर्वान् ॥
खदिरासनयूषभावितायास्त्रिफलाया घृतमाक्षिकप्लुतायाः ।
नियमेन नरा निषेवितारो यदि जीवन्त्यजराः किमत्र चित्रम् ॥
असनस्वरसेन भावितानामभयानां सविडङ्गतण्डुलानाम् ।
मधुलोहरजोघृताप्लुतानां न हि लेढारमभिद्रवन्ति रोगाः ॥
बीजकम्य रसमङ्गुलिहार्यं शर्करामधुघृतं त्रिफलां च ।
शीलयत्सु पुरुषेषु जरत्तास्वागतापि विनिवर्त्तत एव ॥
दर्वीप्रलेपास्रिफलाकषायः सितोपला तैलमधुप्रगाढः ।
सपिप्पलीनागरलोहरेणुस्तनोः सपत्नीं जरसं निहन्ति ॥
फलत्रयत्र्यूषणचूर्णयुक्तां द्राक्षां ससर्पिर्मधुशर्करां च ।
क्षीरानुपानं पुरुषा लिहन्तो जीवन्ति निर्धूतजराविकाराः ॥
हरीतकीं सर्पिषि सम्प्रताप्य समश्नतस्तत् पिबतो घृतं च ।
भवेच्चिरस्थायि बलं शरीरे सक्द्त्कृतं साधु यथा कृतज्ञे ॥
आराच्चितानां कलशं पुराणं धात्रीफलानां मधुनश्च पूर्णम् ।
संवत्सरार्द्धं निहितं यवेषु निषेवमाणो जरसं निहन्ति ॥
धात्रीकृमिघ्नासनसारचूर्णं सतैलसर्पिर्मधुलोहरेणु ।
निषेवमाणस्य भवेन्नरस्य तारुण्यलावण्यमपि प्रणष्टम् ॥
नवामलकशुक्तयो मधु घृतं रजश्चायसं चतुष्टयमयोघटस्थमिति चूर्णितं वत्सरम् ॥
क्रमेण लिहतः पयोनुपिबतश्च पथ्याशिनश्चिरं भवति जीवितं क्षयमुपैति पृथवीजरा ॥
चूर्णं श्वदंष्ट्रामलकामृतानां लिहन् ससर्पिर्मधुभागयुक्तम् ।
वृषस्थिरःशान्तविकारदुःखः समाः शतं जीवति कृष्णकेशः ॥
विडङ्गसारं मधुकं च पिष्टं भल्लातकक्वाथमधुप्रगाढम् ।
अर्शांसि जन्तूंश्च जयत्युदीर्णान् वह्निं च सन्धुक्षयति क्षणेन ॥
विडङ्गभल्लातकचित्रकाणां गुडोत्तराणामभयान्वितानाम् ।
तैलेन चूर्णानि निषेवमाणान् शरीरिणो नोपतपन्ति रोगाः ॥
विडङ्गभल्लातकनागराणि ये ऽश्नन्ति सर्पिर्मधुसंयुतानि ।
जरानदीं रोगतरङ्गिणीं ते लावण्ययुक्ताः पुरुषास्तरन्ति ॥
विडङ्गकल्कं स्वरसेन धात्र्याः क्षौद्रेण युक्तं च पिबेन्नरो यः ।
द्राक्षारसक्षौद्रपरिप्लुतं वा विजित्य रोगान् स भवेच्छतायुः ॥
चूर्णं समं मागधिकाकणानां विडङ्गचूर्णेन सचित्रकेण ।
निषेवमाणो मधुतैलमिश्रं वयःपरीणामजले न मज्जेत् ॥
पुनर्नवस्यार्द्धपलं पलं वा पिष्टं पिबेद्यः पयसार्द्धामासम् ।
मासद्वयं तत्त्रिगुणं समां वा जीर्णोपि भूयः सपुनर्नवः स्यात् ॥
मूर्वाबृहत्यंशुमतीबलानामुशीरपाठासनसारिवाणाम् ।
कालानुसार्यागरुचन्दनानां वदन्ति पौनर्नवमेव कल्पम् ॥
शतवरीकल्ककषायसिद्धं ये सर्पिरश्नन्ति सिताद्वितीयम् ।
तान् जीविताध्वानमभिप्रपन्नान् न विप्रलुम्पन्ति विकारचोराः ॥
पीताश्वगन्धा पयसार्द्धमासं घृतेन तैलेन सुखाम्बुना वा ।
कृशस्य पुष्टिं वपुषो विधत्ते बालस्य सस्यस्य यथा सुवृष्टिः ॥
दिने दिने कृष्णतिलप्रकुञ्चं समश्नतः शीतजलानुपानम् ।
पोषः शरीरस्य भवत्यनल्पो दृढीभवन्त्यामरणाच्च दन्ताः ॥
शिलाजतुक्षौद्रविडङ्गसर्पिर्लोहाभयापारदताप्यभक्षः ।
आपूर्यते दुर्बलदेहधातुस्त्रिपञ्चरात्रेण यथा शशाङ्कः ॥
मधु मधुरसा लाजा भार्ङ्गी मधूकशतावरी ।
कमलकुसुमत्वक्षीरीभिः समं जतु पार्वतम् ।
प्रचुरहविषा लेहं लीढ्वा समृद्धसितोपलं ।
शिथिलजरसो मन्दातका भवन्ति चिरायुषः ॥
गायत्रीशिखिशिंशपासनशिवा वेल्लाक्षकारुष्करान् पिष्ट्वाष्टौ दशषट्गुणेम्भसि दृतान् खण्डैः सहायोमयैः ।
पात्रे लोहकृते त्र्यहं रविकरैरालोडयन् पाचयेदग्नौ चानु मृदौ सलोहशकलं पादस्थितं तत् पचेत् ॥
पूतस्यांशः क्षीरतोंशस्तथांशौ भार्ङ्गान्निर्यासात् पिबर्यास्त्रयोंशाः ।
अंशाश्चत्वारस्तत्र हय्यङ्गवीनादेकीकृत्यैतत् साधयेत् कृष्णलौहे ॥
विमलया सितया मधुनाथवा युतमयुक्तमिदं यदि वा घृतम् ।
स्वरुचिभोजनपानविचेष्टितो भवति ना पलशः परिशीलयन् ॥
श्रीमान् निर्धूतपाप्मा वनमहिषबलो वाजिवेगः स्थिराङ्गो केशैर्भृङ्गाङ्गनीलैर्मधुसुरभिमुखो नैकयोषिन्निषेवी ।
वाङ्मेधाधीसमृद्धः सुपटुहुतवहो मासमात्रोपयोगाद्धत्तेसौ नारसिंहं वपुरनलशिखातप्तचामीकराभम् ॥
हविरिदमतिप्रभावं स्वमिव वपुर्निर्मितं नृसिंहेन ।
नश्यन्ति यतो भीता व्याध्याधिजरासुरा दूरात् ॥
भृङ्गप्रवालानमुनैवभृष्टान् घृतेन यः खादति यन्त्रितात्मा ।
विशुद्धकोष्ठो ऽसनसारासिद्धदुग्धानुपस्तत्कृतभोजनार्थः ॥
मासोपयोगात् स सुखी जीवत्यब्दशत त्रयम् ।
गृह्णाति सकृदप्युक्तमविलुप्तस्मृतीन्दिर्यः ॥
अनेनैव च कल्पेन यस्तैलमुपयोजयेत् ।
तानेवाप्नोति स गुणान् कृष्णकेशश्च जायते ॥
काश्मर्याणां तुलां मासं स्थितां मधुघृतोक्षिताम् ।
उपयुज्य पयोन्नाशी चिरं जीवति कान्तिमान् ॥
उक्तानि शक्यानि फलान्वितानि युगानुरूपाणि रसायनानि ।
महानुशंसान्यपि चापराणि प्राप्त्यादिकष्टानि न कीर्त्तितानि ॥
अमानुषाणामतिविस्मयानां सत्कर्मणां यद्यपि तानि हेतुः ।
समूलकाषं तु कषन्ति देहं भ्रंशाद्विधेस्तेन विवर्जितानि ॥
युगस्वभावाद्यदि चौषधीनां क्रियासु शक्तिः परिकल्प्यते ऽल्पा ।
आयुर्बलादिष्वपि सा तथेति यत्नान्निषेव्याणि रसायनानि ॥
न चौषधीनामपि सर्वथैव प्रभावहानिः परिकल्पनीया ।
फलं प्रयात्यूर्ध्वमधस्त्रिवृत्तु प्रत्यक्षतः कस्य न सिद्धमेतत् ॥
अदेशकालोपहितान्यसात्म्यान्यत्युष्णतीक्ष्णानि यथौषधानि ।
नाशं नयन्ते सहसैव देहं सम्यक्प्रयुक्तानि तथैव वृद्धिम् ॥
जित्वा तस्मादिन्द्रियादीन् सुदुष्टान् कालोपेतः श्वद्दधानो यथावत् ।
आयुःप्रज्ञातेजसां यद्विवृध्यै वीर्योपेतं शीलयेदौषधं तत् ॥
उत्साहवीरैरपि सर्वकालं नरैरगम्यानि तपोदरिद्रैः ।
महार्णवानामिव दुस्तराणां पाराण्यपाराणि रसायनानाम् ॥
रसायनानामुपयोगसम्पदा कृतप्रसादैर्मलदोषधातुभिः ।
स्थिरं शरीरं क्रियते शरीरिणां कुलं यथा सत्पुरुषैरधिष्ठितम् ॥
दान्तेन्द्रियेण शास्त्रार्थं यथावदनुतिष्ठाता ।
कियद्वा दीर्घदर्शित्वं नेन्द्रत्वमपि दुर्लभम् ॥
रसायनविधिभ्रंशाज्जायेरन् व्याधयो यदि ।
यथास्वमौषधं तेषां कार्यं मुक्त्वा रसायनम् ॥
अध्याक्रान्ता ये ऽम्लपटुक्षारकटूष्णैर्द्रव्यैस्तीक्ष्णैः सन्निहिता तेषु जरत्ता ।
सन्धुक्ष्योग्निस्तैरुपजाते च विवर्ज्या योगास्तेग्नौ धातुसमृद्धेः स हि मूलम् ॥
आयुर्योगाः साध्वपि युक्ता मृदुवह्नौ नैरर्थक्यं यान्ति कृतघ्ने ऽप्युपकाराः ।
दीप्ते वह्नौ ते तु गुणौघैरपि तुच्छा विस्तीर्यन्ते पात्रनिसृष्टा इव भोगाः ॥
सत्यवादिनमक्रोधमध्यात्मप्रवणेन्द्रियम् ।
शान्तं सद्वृत्तनिरतं विद्यान्नित्यरसायनम् ॥
गुणैरोभिः समुदितः सेवते यो रसायनम् ।
सनिर्वृतात्मा दीर्घायुः परत्रेह च मोदते ॥
शास्त्रानुसारिणी चर्या चित्तज्ञाः पार्श्ववर्त्तिनः ।
बुद्धिरस्खलितार्थेषु परिपूर्णं रसायनम् ॥
गवामृजुत्वेन कृतानुकारैरनन्यवागाशयदेहचेष्टैः ।
स्थिरेन्द्रियायुर्ज्वलनैः सुशीलैः सुवृद्ध गोपैः समधिष्ठितेषु ॥
प्राज्याज्यदुग्धौषधिपादपेषु हुम्भारवैर्वल्गितवत्सकेषु ।
मठप्रवेशेन विनापि सिद्धिं व्रजन्ति गोष्ठेषु रसायनानि ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0