अष्टाङ्गसंग्रह · अध्याय 6.50
अथातो वाजीकरणविधिं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहु रात्रेयादयो महर्षयः ॥
वाजीकरणमन्विच्छेत् सततं विषयी पुमान् ।
तुष्टिः पुष्टिरपत्यं च गुणवत्तत्र संश्रितम् ।
अपत्यसन्तानकरं यत्सद्यः सम्प्रहर्षणम् ॥
वाजीवातिबलो येन यात्यप्रतिहतो ऽङ्गनाः ।
भवत्यतिप्रियः स्त्रीणां येन येनोपचीयते ।
तद्वाजीकरणं तद्धि देहस्यौजस्करं परम् ॥
सारो हि जीवलोकस्य स्त्री स्त्रीगुणसमन्विता ।
स्त्रियः साद्ध्व्यः प्रसुवते नरान् गुणमयानिव ॥
गोत्रवृद्धिकराह्येता गृहिण्यो गृहदेवताः ।
गृहं हि जीनमेताभिर्न श्रीमदपि शोभते ॥
न तु ता अपि शोभन्ते जरसानुगता इव ।
पुंयोगेन विना स्त्रीणां स हि संवननं परम् ॥
वाजीकरणनित्यस्य कामं कामं सिषेविषोः ।
न शरीरमवाप्नोति न वा रतिरतिः क्षयम् ॥
अच्छायः पूतिकुसुमः फलेन रहितो द्रुमः ।
यथैकश्चैकशाखश्च निरपत्यस्तथा नरः ॥
अदृष्टपुत्रपौत्रस्य कुलतन्त्वन्तवर्त्तिनः ।
संसारसुखबाह्यस्य कीदृशं नाम जीवितम् ॥
असम्बन्धोह्यपुत्रस्य नित्यमेव परः परः ।
सीदत्यस्यावसाने च गृहं सुस्थेप्यनायकम् ।
अतो वाजीकरा योगा निषेव्याः शुक्रवर्द्धनाः ॥
कल्यस्योदग्रवयसो वाजीकरणसेविनः ।
सर्वेष्वृतुष्वहरहर्व्यवायो न निवार्यते ॥
चिन्ताजराभ्यां शुक्रं तु व्याधिभिः कर्मकर्शनात् ।
क्षयं गच्छत्यनशनात् स्त्रीणां चातिनिषेवणात् ॥
शुक्रक्षयात् भयाच्छोकादविस्रम्भादसेवनात् ।
अतिहर्षादतिस्थौल्यान्मलोपचयतः श्रमात् ॥
स्त्रीणामकौशलाद्दोषदर्शनादभिचारतः ।
मेढ्रामयात् सुमहतः क्रोधतो ऽधर्मकीर्त्तनात् ।
तृप्तस्यापि स्त्रियो गन्तुं न शक्तिरुपजायते ॥
नहि जातबलाः सर्वे नराश्चापत्यभागिनः ।
बृहच्छरीरा बलिनः केचिन्नारीषु दुर्बलाः ॥
सन्ति चाल्पाश्रयाः स्त्रीषु बलवन्तो बहुप्रजाः ।
नराश्चटकवत्केचिद्व्रजन्ति बहुशः स्त्रियः ॥
गजवच्चप्रसिञ्चन्ति केचिन्न बहुगामिनः ।
केचित्प्रयत्नैर्वाह्यन्ते वृषाः केचित्स्वभावतः ॥
तस्मात्प्रयोगान् वक्ष्यामि दुर्बलानां बलप्रदान् ।
सुखोपभोगान् बलिनां भूयश्च बलवर्द्धनान् ॥
अथ स्निग्धविशुद्धानां निरूहान् सानुवासनान् ।
घृततैलरसक्षीरशर्कराक्षौद्रसंयुतान् ॥
योगविद्योजयेत् पूर्वं क्षीरमांसरसाशिनाम् ।
ततो वाजीकरान्योगान् शुक्रापत्यबलप्रदान् ॥
शरेक्षुकुशकाशानां विदार्या वीरणस्य च ।
मूलानि कण्टकार्याश्च जीवकर्षभकौ बलाम् ॥
मेदे द्वे द्वे च काकोल्यौ सूप्यपर्ण्यौ शतावरीम् ।
अश्वगन्धामतिबलामात्मगुप्तां पुनर्नवाम् ॥
वीरां पयस्यां जीवन्तीमृद्धिं रास्नां त्रिकण्टकम् ।
मधुकं शालिपर्णीं च भागांस्त्रिपलिकान् पृथक् ॥
माषाणामाढकं चैतत् द्विद्रोणे साधयेदपाम् ।
रसेनाढकशेषेण पचेत्तेन घृताढकम् ॥
दत्वा विदारीधात्रीक्षुरसानामाढकाढकम् ।
घृताच्चतुर्गुणं क्षीरं पेष्याणीमानि चावपेत् ॥
वीरां स्वगुप्तां काकोल्यौ यष्टीं फल्गु द्विपिप्पलीम् ।
द्राक्षां विदारीं खर्जूरं मधुकानि शतावरीम् ॥
तत्सिद्धपूतं चूर्णस्य पृथक्प्रस्थेन योजयेत् ।
शर्करायास्तुगायाश्च पिप्पल्याः कुडवेन च ॥
मरिचस्य प्रकुञ्चेन पृथगर्द्धपलोन्मितैः ।
त्वगेलाकेसरैः श्लक्ष्णैः क्षौद्रद्विकुडवेन च ॥
पलमात्रं ततः खादेत् प्रत्यहं रसदुग्धमुक् ।
तेनारोहति वाजीव कुलिङ्गैव हृष्यति ॥
माषात्मगुप्ताबीजानामाढकं प्रसृतोन्मितम् ।
मेदाश्वगन्धर्द्धिवरी वीरा यष्टी द्विजीवकम् ॥
शूर्पे ऽपां विपचेत्तेन पादशेषेण पाचयेत् ।
विदारीक्षुरसप्रस्थद्वयेन सदृशेन च ॥
सर्वैः क्षीरेण हविषो नवात् प्रस्थं शृते ऽत्र च ।
सिताक्षौद्रसिताख्यानां पृथग्दद्याच्चतुष्पलम् ॥
पलं कणात् पुरोभक्तं लिहंस्तत्पलपूर्वकम् ।
तरुणीष्ववतृप्तासु प्रसभं रासभायते ॥
मेदादिभिश्च कर्षांशैः शृतं बाष्कयणं पयः ।
सशर्कराक्षौद्रघृतं शुक्रवृद्धिकरं परम् ॥
पयसा पायसस्तेन माषकण्डूकरीफलैः ।
वृष्यो वेगकरः सिद्धः सघृतक्षौद्रशर्करः ॥
श्वदंष्ट्राया विदार्याश्च रसे क्षीरचतुर्गुणे ।
घृताढ्यः साधितो वृष्यो माषषष्टिकपायसः ॥
मधूलिका माषपर्णी सिता शृङ्गाटकं यवाः ।
स्वगुप्तामूलयष्ट्याह्वविदारीक्षुरकाः समाः ॥
सप्रियालाः कृतं चूर्णं पृथङ्मध्वाज्यषड्गुणम् ।
पादाभ्यामस्पृशन्भूमिं लिहन्काल्यमतः पिचुम् ।
लभते वलमुत्साहं स्त्रीश्च याति कुलिङ्गवत् ॥
स्वगुप्ता क्षीरकाकोली विदारी जीवकद्वयम् ।
तिलाः सलुञ्चिता भृष्टाः शर्कराज्यमधुप्लुतम् ।
तच्चूर्णं प्रसृतं लीढ्वा गच्छति प्रमदाशतम् ॥
प्रसृतं माषचूर्णस्य धात्रीस्वरसभावितम् ।
विदारीरजसो वापि लिहन् मधुघृतद्रुतम् ।
क्षीरानुपश्चटकवद्दशकृत्वो व्रजेत् स्त्रियः ॥
चूर्ण विदार्या बहुशः स्वरसेनैव भावितम् ।
क्षौद्रसर्पिर्युतं लीढ्वा प्रमदा दश गच्छति ॥
कृष्णा धात्रीफलरजः स्वरसेनैवभावितम् ।
शर्करामधुसर्पिर्भिर्लीढ्वा यो ऽनु पयः पिबेत् ।
स नरो ऽशीतिवर्षोपि युवेव परिहृष्यति ॥
कर्षं मधुकचूर्णस्य घृतक्षौद्रसमन्वितम् ।
पयोनुपानं यो लिह्यान्नित्यवेगः स ना भवेत् ॥
कुलीरशृङ्ग्या यः कल्कमालोड्य पयसा पिबेत् ।
सिताघृतपयोन्नाशी स नारीषु वृषायते ॥
धान्यमाषरसः क्षीरं क्षौद्रमिक्षुरसो घृतम् ।
द्विमेदाजीवकयुगक्वाथश्चैकत्र योजितः ।
पीतः करोति पुरुषं प्रमदाशतगामिनम् ॥
भल्लातकैश्चतुर्भिस्तु दुग्धस्यार्द्धाढकं पचेत् ।
पीतं करोति वृषतां सुजीर्णस्यापि देहिनः ॥
स्वयङ्गुप्तेक्षुरकयोर्बीजचूर्णं सशर्करम् ।
धारोष्णेन नरः पीत्वा पयसा रासभायते ।
उच्चटाचूर्णमप्येवं शतावर्याश्च योजयेत् ॥
सूप्यपर्णी द्विकाकोली जीवकर्षभकैः शृतम् ।
लघुना पञ्चमूलेन द्विकाकोलीयुतेन वा ।
पयो ऽतिवृष्यमभ्यस्य वृद्धो ऽपि तरुणायते ॥
क्षीरिणी च श्वदंष्ट्रा च फाणितं शर्करा मधु ।
गृष्टिक्षीरं नवं सर्पिरेतत् पुंसवनं परम् ॥
अश्वत्थफलमूलत्वक्शृङ्गसिद्धं पयो नरः ।
पीत्वा सशर्करं शीतं कुलिङ्ग इव हृष्यति ॥
पयः पयस्यया सिद्धं शुक्रकृत्साज्यमाक्षिकम् ॥
शतावरीकत्करसे पयो दशगुणं घृतम् ।
शृतं सपिप्पलीक्षौद्रशर्करं वृष्यमुत्तमम् ॥
शतावरीरसप्रस्थं क्षीरप्रस्थचतुष्टयम् ।
प्रस्थं घृतस्य शुक्त्यंशं द्राक्षामांसीपरूषकम् ॥
जीवकर्षभयष्ट्याह्वबलामेदाकशेरुकम् ।
प्रियालबीजं काकोलीयुग्मं चैकत्र पाचयेत् ॥
पक्वपूते क्षिपेच्चास्मिन् कुडवांशां सितोपलाम् ।
गृष्टिक्षीरानुपः प्राश्य तन्नारीषु वृषायते ।
विजयेत च वातास्रं पित्तास्रोरःक्षतक्षयान् ॥
जीवकक्षीरकाकोलीस्थिराहंसपदीघनः ।
शठीक्षुगण्डिकायष्टीमृणालैः कर्षिकैः पचेत् ॥
घृतप्रस्थं दशगुणे क्षीरे तत् बलपुष्टिकृत् ।
वन्ध्यानां पुत्रजननं शुक्रवर्द्धनशोधनम् ॥
जलाढके स्वयंगुप्तामूलात् पञ्चपलं पचेत् ।
पादशेषे च संचूर्ण्य कुडवांशाः पृथक् क्षिपेत् ॥
स्वगुप्तामूलगोधूममाषेक्षुरकपिप्पलीः ।
सप्रियालफलक्षौद्राः प्रस्थार्द्धं नवसर्पिषः ॥
सितोपलातुलापादं कुर्यात्तान् मोदकांस्ततः ।
मोदकं भक्षयित्वैकं षष्टिं व्रजति योषिताम् ॥
पलांशान् बृहतीव्याघ्रीपृश्निपर्णीत्रिकण्टकान् ।
द्व्याढकेनाम्भसा पक्त्वा पादशेषे रसे स्थिते ॥
पलानि क्षीरकाकोल्याः पञ्च मागधिकापलम् ।
स्वगुप्ताफलमूलानां माषाणामिक्षुरस्य च ॥
विदार्या मधुनश्चात्र कुडवं कुडवं क्षिपेत् ।
पृथक् द्वौ मुद्गतिलयोर्घृते शष्कुलिकास्ततः ।
पचेदेकां ततः प्राश्य शतं व्रजति योषिताम् ॥
स्वगुप्तामूलचूर्णेन द्रुतेन पयसा कृताः ।
घृते सशर्कराक्षौद्रा भक्ष्या वेगशतप्रदाः ॥
माषात्मगुप्तागोधूमशालिषष्टिकपैष्टिकान् ।
शर्कराया विदार्याश्च चूर्णानीक्षुरकस्य च ॥
संयोज्य क्षीरसर्पिर्भ्यां घृते पूपलिकाः पचेत् ।
पयोनुपानास्ताः शीघ्रं कुर्वन्ति वृषतां परम् ॥
चूर्णं माषात्तिलाच्छालेर्विदार्याश्च ससैन्धवम् ।
रसेन पुण्ड्रकस्येक्षोः प्लुतं वाराहमेदसि ।
पक्त्वा शष्कुलिक्राः खादन्नारोहेत् षष्टिमङ्गनाः ॥
मुखप्रियाणां स्निग्धानां फलानां मधुरात्मनाम् ।
फलानामात्मगुप्तायाः शालेर्माषात्तिलात् घृतात् ॥
मुद्गात् गोधूमतश्चापि कुडवं कुडवं पृथक् ।
चूर्णितैर्निस्तुषैस्तैस्तु क्षीरेणालोड्य मर्दितैः ।
पक्वां पूपलिकां खादन् स्त्रीषु हृष्यति वाजिवत् ॥
शर्करामाषगोधूमतुगाक्षीरीपयोघृतैः ।
पक्वामुत्कारिकां खादेत् कृकवाकुरसानुपः ॥
मायुरं तैत्तिरं हांसमेवमेव रसं पिबेत् ।
अनेनाश्व इवोदीर्णो बली लिङ्गं समर्पयेत् ॥
पिष्ट्वा वराहमांसानि दत्वा मरिचसैन्धवे ।
कोलवद्गुटिकाः कृत्वा तप्ते सर्पिषि वर्त्तयेत् ॥
वर्त्तनस्तम्भितास्ताश्च प्रक्षेप्याः कौक्कुटे रसे ।
घृताढ्ये गन्धपिशुने दधिदाडिमसारिके ॥
यथा न भिन्द्याद्गुटिकास्तथा तं साधयेद्रसम् ।
तं पिबन्भक्षयंस्ताश्च बली बालेयवद्व्रजेत् ।
मांसानि बलयुक्तानि तथान्यान्यपि कल्पयेत् ॥
माषानंकुरितान्शुद्धान् निस्तुषान्साजहाफलान् ।
घृताढ्ये माहिषरसे दधिदाडिमसारिके ॥
प्रक्षिप्य साधयेद्युक्त्या धान्यजीरकनागरैः ।
पीतो भुक्तश्च स रसः कुरुते शुक्रमक्षयम् ॥
हंसबर्हिणदक्षाण्डान् भृष्टांस्तप्तेन सर्पिषा ।
सुरानुपानान् यः खादेत् स तृप्तस्तर्प्पयेत्स्त्रियः ॥
आर्द्राणि मत्स्यमांसानिशफरीर्वा सुभर्जिताः ।
तप्ते सर्पिषि यः खादेत् स गच्छेत् स्त्रीषु न क्षयम् ॥
घृतभृष्टान् रसे छागे रोहितान् फलसारिके ।
अनुपीतरसान् सिद्धानपत्यार्थी प्रयोजयेत् ॥
घृतं माषान् सबस्ताण्डान् फलाम्ले माहिषे रसे ।
स्वादौ वा साधयेत् पूतं तद्रसं भर्जयेत् घृते ॥
ईषल्लवणितं युक्तं धान्यजीरकनागरैः ।
पीतः स वृष्यो बल्यश्च बृंहणश्च परं रसः ॥
चटकांस्तैत्तिरे तद्वत्तित्तिरीन् कौक्कुटे रसे ।
कल्पयेच्छिखिनो हांसे हंसान् वा शिखिजे रसे ॥
तृप्तिं चटकमांसानां गत्वा योनु पयः पिबेत् ।
प्रभूतकालसंरुद्धाः सन्तर्पयति योषितः ॥
घृताढ्यं कुक्वुटं शूल्यं शीतं खादेत् समाक्षिकम् ।
पिबेच्चानन्तरं क्षीरं य इच्छेच्छुक्रमक्षयम् ॥
पिप्पलीलवणैर्युक्तौ बस्ताण्डौ क्षीरसर्पिषा ।
साधितौ भक्षयेद्यस्तु स गच्छेत् प्रमदाशतम् ॥
बस्ताण्डसिद्धे गोदुग्धे भावितानसकृत्तिलान् ।
यः खादेत्ससितान् गच्छेत् स स्त्राशतमपूववत् ॥
भुक्त्वा यो माषसूपेन घृताड्यं षष्टिकौदनम् ।
पयः पिबति जागर्ति कृत्स्नां रात्रिं स वेगवान् ॥
आत्मगुप्ताफलं माषान् खर्जूराणि शतावरीम् ।
शृङ्गाटकानि मृद्वीका पचेत्तत् प्रसृतोन्मितम् ॥
क्षीरप्रस्थं जलप्रस्थमेतत् क्षीरावशेषितम् ।
शुचिना वाससा पूतं योजयेत् प्रसृतैस्त्रिभिः ॥
शर्करायास्तुगाक्षीर्याः सर्पिषो ऽभिनवस्य च ।
तत्पिबेत् क्षौद्रसंयुक्तं भुञ्जानः षष्टिकौदनम् ।
तथा जरापरीतोपि पुत्रैः स परिवार्यते ॥
द्राक्षाखर्जरखर्जूरीमस्तकान्यजहाफलम् ।
पयस्याभीरुमाषांश्च मधुकानि च साधयेत् ॥
तोयाढके पलांशानि पादशेषेण तेन च ।
क्षीरप्रस्थं पचेत् क्षीरशेषेणाद्यात् घृतान्वितम् ।
षष्टिकान्नं सिताज्येन योगो ऽयं शुक्रकृत् परम् ॥
जीवकर्षभकौ मेदा जीवन्ती श्रावणीद्वयम् ।
खर्जूरं मधुकं द्राक्षां विदारीं विश्वभेषजम् ॥
शृङ्गाटकानि चपला नवं सर्पिःपयो जलम् ।
घृतावशेषितं सिद्धं शर्करामाक्षिकान्वितम् ॥
षष्टिकौदनसंयुक्तमुपयोज्यं यथाबलम् ।
तद्वृष्यं बलकृद्वर्ण्यं कण्ठ्यं देहस्य बृंहणम् ॥
गृष्टिर्बष्कयणी नीरुगूर्ध्वशृङ्गी चतुःस्तनी ।
सान्द्रस्वादुबहुक्षीरा रूपशीलसमन्विता ॥
इक्षुभिर्माषपर्णेन या सुपुष्टार्जुनेन वा ।
तत्क्षीरं ससिताक्षौद्रघृतं पुत्र्यं रतिप्रदम् ॥
शुक्रलैर्जीवनीयाख्यैर्बृंहणैर्बलवर्द्धनैः ।
वयसः स्थापनैश्चेतत् पयः सिद्धं पृथक्पृथक् ॥
युक्तं गोधूमचूर्णेन सघृतक्षौद्रशर्करम् ।
पर्यायेणोपयोक्तव्यमिच्छता शुक्रमक्षयम् ॥
मेदां पयस्यां जीवन्तीं विदारीं कण्टकारिकाम् ।
माषान् श्वदंष्ट्रां क्षीरीकां गोधूमान् शालिषष्टिकान् ॥
तत्क्षीरेर्द्धोदके सिद्धान् कार्षिकानाढकोन्मिते ।
विसर्जयेत्पयश्शेषं तत्पूतं क्षौद्रसर्पिषा ।
सितया च युतं पीत्वा वृद्धोपि तरुणायते ॥
मण्डलैर्जातरूपस्य सुतप्तैस्तत्पयः शृतम् ।
सिद्धं पुंसवनं वृष्यं ससिताघृतमाक्षिकम् ।
रूप्यायस्ताम्नसीसानामयमेव पृथग्विधिः ॥
चूर्णिताः पिप्पलीस्त्रिंशत् प्रकुञ्चे तैलसर्पिषोः ।
भृष्टाः सशर्कराक्षौद्राः क्षीरेणालोडिताः पिबेत् ।
अश्नंश्च षष्टिकं क्षीरसर्पिर्भ्यां वाजिवद्भवेत् ॥
चन्द्रांशुशुभ्रं पयसा घृताढ्यं षष्टिकौदनम् ।
शर्करामधुसंयुक्तं भुञ्जानो ना वृषायते ॥
दध्नः सरेण सघृतो भक्षितः षष्टिकौदनः ।
सैलातुगोषणक्षौद्रः शर्कराढ्येन शुक्रकृत् ॥
अध्यण्डामार्षभींचैव स्वयड्गुप्ताफलानि च ।
पादलेपं नरः कृत्वा निशि वेगैर्न हीयते ॥
वर्षाभूमूलमृद्वीकास्वयङ्गुप्ताफलानि च ।
सिद्धश्चरणलेपोयं भुवं पद्भ्यां तु न स्पृशेत् ॥
घृतक्षीराशनो नित्यं निर्व्याधिर्नित्यगो युवा ।
सङ्कल्पप्रवणो इत्यं नरः स्त्रीषु वृषायते ॥
आत्मगुप्ताफलं माषा गोधूमः शालिषष्टिकम् ।
इक्षुरिक्षुरकः क्षीरं क्षौद्रं द्राक्षा सितोपला ॥
उच्चटा शरमूलानि विदारी सशतावरी ।
जीवनीयानि स्वर्जूरं मोचचोचफलानि च ॥
एभिर्भक्ष्याणि पेयानि लेह्यानि च घृतानि च ।
नित्यमासेवमानस्य स्त्रीषु हर्षो विवर्द्धते ॥
जीवनीयघृतक्षीरमधुतैलसितारसैः ।
रसक्षीराशिनः क्षिप्रं वृषं कुर्वन्ति बस्तयः ॥
सिद्धबस्तिविकल्पोक्तान् बलशुक्रसुतप्रदान् ।
युञ्जीत बस्तीन् पुत्रार्थी पुत्रकामोदितं च यत् ॥
यत्किञ्चिन्मधुरं स्निग्धं बृंहणं बलवर्द्धनम् ।
मनसो हर्षणं यच्च तत्सव वृष्यमुच्यते ॥
द्रव्यैरेवंविधैस्तस्मात् भावितः प्रमदां व्रजेत् ।
आत्मवेगेन चोदीर्णः स्रीगुणैश्च प्रहर्षितः ॥
इष्टाह्येकैकशोप्यर्था हर्षप्रीतिकराः परम् ।
किं पुनः स्त्रीशरीरे ये सङ्घघातेन प्रतिष्ठिताः ॥
रुचिभेदेन लोकस्य दैवयोगाञ्च योषिताम् ।
तं तं प्राप्य विवर्द्धन्ते नरं रूपादयो गुणाः ॥
तस्माद्या यस्य हृदयं विशतीव वराङ्गना ।
तुल्यस्वभावा या हारिमृजारूपगुणान्विता ॥
पाशभूतैर्वहन्त्यङ्गैर्लावण्यमिव मूर्तिमत् ।
आलपन्त्यमृतेनेव या गात्राणि निषिञ्चति ॥
पिबन्तीव च पश्यन्ती स्पृशन्ती लिम्पतीव या ।
नित्यमुत्सवभूता या या समानमनःशया ॥
नयत्युत्सुकतां चेतो नित्यं सन्निहितापि या ।
यया वियुक्तो निःस्त्रीकमरतिर्मन्यते जगत् ॥
प्रगल्भा रीतसङ्ग्रामे स्वस्था लज्जामयी च या ।
बहुशोपि च यां गत्वा तत्पूर्वमिव गच्छति ॥
चरितैर्निर्विकारा या विकारैरिव निर्मिता ।
कान्तानुवृत्तिपरमा सा स्त्री वृष्ट्यतमा मता ॥
अभ्यञ्जनोद्वर्तनसेकगन्धस्रक्चित्रवस्त्राभरणप्रकाराः ।
सुगन्धिपुष्पोत्कररेणुकीर्णा मृदुर्मनोज्ञा विपुला च शय्या ॥
प्राज्ञाः कलाज्ञा वशगा विनीताः प्रियंवदाः प्रीतिकरा वयस्याः ।
विस्रम्भसत्वप्रकृतिक्रियैक्याच्छरीरमात्रेण पृथक्त्वभूताः ॥
कान्ता वनान्ताः परपुष्टघुष्टा रम्याः स्रवन्त्यः सततं स्रवन्त्यः ।
मद्यं मदामोदकरं विशेषाध्दृद्या प्रसन्ना सुरभिः प्रसन्ना ॥
शकाङ्गनागण्डतलाभिपाण्डुताम्बुलपत्रं परिवारशोभि ।
प्रसाधनं स्त्रीमुखपङ्कजानां यदायुधं मूर्तमिवात्मजस्य ॥
हिमाचलोद्धूनितदुग्धसिन्धुसमुद्भवत्फेनचयावदातम् ।
सौधं सुधाशुभ्रतराः कराश्च चन्द्रस्य कुर्वन्ति परं वृषत्वम् ॥
बन्धेन पूर्वोपहितेन पुंसः खिन्नस्य वृत्तिः करणान्तरेण ।
संवाहनं स्पर्शसुखैः करैश्च करोत्यपूर्वामिव मन्मथेच्छाम् ॥
प्रायोगिकाधिकरणोदिताचित्रचेष्टासंशीलनोद्भवदनल्परसार्द्रचित्तः ।
वृष्योपयोगपरिबृंहितदेहधातुर्नारीमनांसि वशमानयति प्रसह्य ॥
तस्मान्नित्यं स्त्रीषु वाञ्छन् प्रियत्वं वृष्यैर्योगैर्जातकामो ऽपि कामी ।
सत्व्ंअ सात्म्यं देशकालौ च बुध्वा चातुष्षष्टे चेष्टिते व्याप्रियेत ॥
वलयस्वनसङ्कुलमुष्टिरवद्विगुणीकृतमेखलिकानिनदः ।
चलनूपुरशब्दयुतो ऽपि मुहुः शममावहते न रतातिशयः ॥
सर्वार्थसिद्धिः प्रथमोनुरागः शृङ्गारगान्धर्वकथाविशेषाः ।
सीत्कारगर्भं हसितं सहावं छिन्नाक्षरं विभ्रमवच्च गीतम् ॥
सव्याजसन्दीर्शतचारुगात्रं वृत्तं प्रियाणामवलोकितं च ।
चूताङ्कुरं पुष्पफलं यथर्तु विद्युत्वदुद्योतितगर्जितानि ॥
विहङ्गभृङ्गस्तनितानुयातं स्त्रीकूजितं भूषणशिञ्जितानि ।
काले यथास्वं वपुषश्च शुद्धिः सङ्कल्पयोनेर्धुरमुद्वहन्ति ॥
स्रोतस्सु शुद्वेष्वमले शरीरे वृष्यं यदाद्यं मितमत्ति काले ।
वृषायते तेन परं मनुष्यस्तद्बृंहणं देहबलप्रदं च ॥
तस्मात् पुरा शोधनमेव कार्यं बलानुरूपं न च वृष्ययोगाः ।
सिध्यन्ति देहे कलुषे प्रयुक्ताः क्लिष्टे यथा वाससि रागयोगाः ॥
उपदिष्टे विचित्रे ऽस्मिन् वक्तव्यार्थानुरोधतः ।
कर्तव्यमेवकर्तव्यं प्राणाबाधे ऽपि नेतरत् ॥
एतत् स्वरूपं शास्त्रस्य यद्व्यापित्वेन वर्ण्यते ।
स्पृशति न्यूनतादोषो महानव्यापिनि ध्रुवम् ॥
वीर्यहीनैरसम्पूर्णैः प्रयोगैरपि भूषितम् ।
अर्थानतन्त्रयत्तन्त्रं तन्त्रतामाप्नुयात् कथम् ॥
हंसबर्हिणदक्षाण्डा यद्यप्यत्यर्थशुक्रलाः ।
मुनयः सदया ब्रूयुस्तान्योगेष्वन्यथा कथम् ॥
कथं वा सर्वएवैते योगा रागाग्निदीपनाः ।
क्लिष्टसङ्कल्पजननाः प्रोक्ताः संसारवर्द्धनाः ॥
त्रिकालदर्शिभिर्दिव्यैः सत्वदोषषिवर्जितैः ।
पूर्वाचार्यैः कृतं वर्त्म को लङ्घयित्मुमर्हति ॥
प्रक्रान्ते सर्वथा सर्वमुक्तं भवति सूदितम् ।
नाहि लेशाभिधानेन लभ्यः सर्वार्थसङ्ग्रहः ॥
तथा च गर्दभीक्षीरं मांसमश्वस्य हस्तिनाम् ।
मद्दासागरतोयं च प्रोक्तं निरुपयोग्यपि ॥
अद्यत्वे ऽपि विशेषेण भूरितन्त्रार्थसङ्ग्रहात् ।
सङ्ग्रहाद्यन्नबुध्येत तज्ज्ञानमतिदुर्लभम् ॥
यथा प्रतिज्ञातमिति क्रमेण वेदोयमष्टाङ्गनिधेर्निबद्धः ।
अभ्यस्यतो मार्गमिवार्यसत्यं सञ्जायते स्वार्थपरार्थसिद्धिः ॥
पितामहमुखोद्गीर्णमित्यायुर्वेदवाङ्मयम् ।
जीवितारोग्यधर्मार्थसुखगौरवकीर्त्तिकृत् ॥
अलङ्कृतं युक्तिपदैः सद्रत्नैरिव काञ्चनम् ।
षट्त्रिंशतार्थदुर्गेषु भिषजां सङ्क्रमैरिव ॥
तत्राधिकरणं योगो हेत्वर्थोर्थः पदस्य च ।
प्रदेशोद्देशनिर्देशवाक्यशेषाः प्रयोजनम् ॥
उपदेशापदेशातिदेशार्थापत्तिनिर्णयाः ।
प्रसङ्गैकान्तनैकान्ताः सापवर्गो विपर्ययः ॥
पूर्वपक्षविधानानुमतव्याख्यानसंशयाः ।
अतीतानागतापेक्षा स्वसंज्ञोह्य समुच्चयाः ॥
निदर्शनं निर्वचनं नियोगो ऽथ विकल्पनम् ।
प्रत्युत्सारस्तथोद्धारः सम्भवस्तन्त्रयुक्तयः ॥
सरसः सुप्तपद्मस्य रविदीधितयो यथा ।
यथा गृहस्य दीपाभास्तथा तन्त्रस्य युक्तयः ॥
अधीयानो ऽपि तन्त्राणि तन्त्रयुक्त्यविचक्षणः ।
नाधिगच्छति तन्त्रार्थमर्थं भाग्यक्षये यथा ॥
वाक्यार्थयोजनोदता युक्तयस्त्विष्टसिद्धिदाः ।
असद्वादिप्रयुक्तानां वाक्यानां प्रतिषेधकाः ॥
लीनव्यत्यासलेशोक्तिगदितानां प्रकाशकाः ।
वाक्यन्यायोदधेः सारं गृहीत्वैवं व्यवस्थिताः ॥
एतदागमसिद्धत्वात् प्रत्यक्षफलदर्शनात् ।
प्रयोज्यं मन्त्रवत्तन्त्रं तन्त्रज्ञानविशारदैः ॥
पित्तामहेन लोकस्य स्मृत्वा तदिदमव्ययम् ।
अकालमृत्युरक्षार्थमलौहं वर्म निर्मितम् ॥
सुज्ञातमेतदमृतं स्वस्थास्वस्थसुखास्पदम् ।
यथेप्सितफलाशेषपुरुषार्थप्रसाधनम् ॥
इदं शास्त्रमदृष्टीनामेवमालोककार्यपि ।
मण्डलं भास्करस्येव न प्रकाशाय जायते ॥
ध्रुवं वैद्येषु कल्याणमायुर्वेदानुसारिषु ।
इतरेष्वितरच्छत्रविषज्वलनकर्मसु ॥
कुर्यात् प्रयुक्तं शस्त्रादि सशेषमपि रोगिणम् ।
न त्वेवं भेषजं मोहादनालोचितयोजितम् ॥
सदा दोषौषधादीनि वीक्ष्य द्वादश तत्वतः ।
कुर्याच्चिकित्सितं प्राज्ञो न योगैरेव केवलैः ॥
मात्रादि सम्यगज्ञात्वा यदृच्छाप्रतिपादितः ।
हिनस्ति व्याधितं योगो घृतमाक्षिकयोरिव ॥
दृष्ट्वा विषेष्यमृततां घृतादौ मारणात्मताम् ।
शास्त्रतत्वं न विज्ञाय स दुरात्मा चिकित्सति ॥
सुगीतश्चैष कस्यापि महाश्लोको महात्मनः ।
वैद्याश्चाश्रुतशास्त्रार्था मूर्खाश्च प्रभाविष्णवः ।
अकालमृत्यवो ह्येते विचरन्ति महीतले ॥
लोभयन्त्यातुरं मूढा ये चित्रैः कर्मकौशलैः ।
तेभ्यो रक्षेत्सदात्मानमात्मा यस्मात् सुदुर्लभः ॥
ते ध्रुणाक्षरवत्कञ्चिदुत्तार्य नियतायुषम् ।
घ्नन्ति वैद्याभिमानेन शतान्यनियतायुषाम् ॥
रोगार्तस्य विषण्णस्य यत्नलभ्यसुखायुषः ।
अवैद्यो निर्घृणःक्रूरो यः करोति भिषग्जितम् ॥
पापस्य मृत्युदूतस्य दुर्मतेस्त्यक्तधर्मणः ।
नरो नरकपाती स्यात्तस्य सम्भाषणादपि ॥
अतन्त्रीकृततन्त्रार्थः शास्त्रमात्रोपजीविनः ।
राज्ञां प्रमादाद्राष्ट्राणि चरन्ति व्याधवृत्तयः ॥
तान् कालपाशसदृशान् वर्जयेच्छास्त्रदूषकान् ।
सेवेत शमविज्ञानज्ञानपूर्णान् भिषक्तमान् ॥
अन्नपानानि पथ्यानि व्याधिनिर्घातमौषधम् ।
रसायनानि वृष्याणि प्राप्यन्ते वैद्यसंश्रयात् ॥
अराजका यथा देशा भर्तृहीना यथा गृहाः ।
आतुराद्यास्तथा पादाः शोच्या वैद्यानधिष्ठिताः ॥
प्राणाचार्यं बुधस्तस्माद्दयालुं विजितेन्द्रियम् ।
अश्विनाविव देवेन्द्रः पूजयेदादृतः सदा ॥
यज्ञस्य हि शिरश्छिन्नमश्विभ्यां सन्धितं पुनः ।
पातिता दशनाः पूष्णो भगस्य च विलोचने ॥
राजयक्ष्मार्दितश्चन्द्रस्ताभ्यामेव चिकित्सितः ।
सोमान्निपतितो वज्री भुजस्तम्भे च दारुणे ॥
भार्गवश्चवनः कामी वृद्धः सन् विकृतिं गतः ।
वीर्यवर्णबलोपेतः कृतस्ताभ्यां पुनर्युवा ॥
एभिश्चान्यैश्च बहुभिः कर्माभीर्भिषगुत्तमौ ।
बभूवतुर्भृशं पूज्याविन्द्रादीनां महात्मनाम् ॥
अश्विभ्यां सहितः सोमं प्रातः पिबति वासवः ।
सौत्रामण्यां च भगवानश्विभ्यां सह मोदते ॥
अश्विनोः कल्प्यते भागो यज्ञेषु ब्राह्मणैरपि ।
अश्विनावग्निरिन्द्रश्च वेदेषु सुतरां स्तुताः ॥
वैद्यवित्यश्विनौ तस्मात् पूज्येते विबुधैरपि ।
अजरैरमरैर्नित्यं सुखितैरेवमादृतैः ॥
व्याधिमृत्युजराग्रस्तैर्दुःखप्रायैः सुखार्थिभिः ।
किं पुनर्भिषजो मर्त्यैः पूज्याः स्युर्नातिशक्तितः ॥
शीलवान् मतिमान् युक्तो द्विजातिर्वेदपारगः ।
प्राणिभिः पितृवत्पूज्यः प्राणाचार्यः स हि स्मृतः ॥
विद्यासमाप्तौ भिषजां द्वितीया जातिरुच्यते ।
न वैद्यो वैद्यशब्दं हि लभते पूर्वजन्मना ॥
विद्यासमाप्तावाष वा ब्रह्मं वा भिषजं ध्रुवम् ।
तस्वमाविशति ज्ञानात्तेन वैद्यो द्विजः स्मृतः ॥
नावध्यायेन्न चाक्रोशेदहितं न समाचरेत् ।
प्राणाचार्यं बुधः कच्छिदिच्छन्नायुरनश्वरम् ॥
भिषगप्यातुरान् सर्वान् स्वसुतानिव यत्नवान् ।
आबाधेभ्यो ऽभिसंरक्षेत् ज्ञानं धर्मनुस्मरन् ॥
कुर्वते ये तु वृत्यर्थं चिकित्सापण्यविक्रयम् ।
ते हित्वा काञ्चनं राशिं पांसुराशिमुपासते ॥
रोगाख्यान्दारुणान्पाशानन्तकान्तिककर्षिणः ।
यश्छित्वा यच्छति प्राणान्दाता नास्त्येव तत्समः ॥
न जीवितप्रदानाद्धि दानमन्यद्विशिष्यते ।
तस्मादुपाचरेत् स्वेन स्वेन निःस्वतपस्विनः ॥
सत्वार्थमीहमानस्य वैद्यस्यैवं महामतेः ।
वर्तन्ते सन्निधानेन नियतं सिद्धिदेवताः ॥
क्वचिद्धर्मः क्वचिन्मित्रं क्वचिदर्थः क्वचिद्यशः ।
कर्माभ्यासः क्वचिच्चेति चिकित्सा नास्ति निष्फला ॥
नित्यमादरवान् वैद्यस्तस्मादार्तानुपाचरेत् ।
प्राणान्सहात्मनः कीर्त्या निहन्त्येषामनादरात ॥
सर्वत्र मैत्री करुणातुरेषु निरामदेहेषु नृषु प्रमोदः ।
मनस्युपेक्षापकृतिं व्रजत्सु वैद्यस्य सद्वृत्तमलं तनोति ॥
सामिषेणापि चित्तेन जीवितोच्छेदकारिणः ।
यो निहन्त्यामयान् वैद्यः सोपि केनोपमीयताम् ॥
किमुत निरामिषेण मनसा करुणामृदुना कृपणविशिष्टयोः सदृशमादरमुद्वहता ।
अतिगुरु बोधिसत्वचरितं सततं विदधच्छमयति रोगजालमपि योतिविरोधि मिथः ॥
दाहः शूलं तृडाध्मानं क्षुत्क्षामत्वमरोचकम् ।
कः प्राकृतो जयेद्रोगान् नित्यमन्योन्यरोधिनः ॥
मारुतामग्रहोन्भादमदान् सुसदृशाकृतीन् ।
को जानीयाच्चिकित्सेद्वादूरभित्नक्रियाक्रमान् ॥
प्राणाचार्थं वेदपारं प्रयातं बुध्या युक्तं पूजयेन्नित्यमस्मात् ।
यस्मिन्यस्य प्राणयात्रा निबद्धा तस्मै यच्छन् को धनानां धनायेत् ॥
आयुर्वेदं श्लोकलक्षेण पूव ब्रह्माम्नासीदग्निवेशादयस्तु ।
कृत्स्नज्ञेयप्राप्तसाराः स्वतन्त्रास्तस्यैकैकं नैकधाङ्गं वितेनुः ॥
भिषग्वरो वाग्भट इत्यभून्मे पितामहो नामधरो ऽस्मि यस्य ।
सुतोभवत्तस्य च सिंहगुप्तस्तस्याप्यहं सिन्धुषु लब्धजन्मा ॥
समधिगम्य गुरोरवलोकितात् गुरुतराच्च पितुः प्रतिभा मया ।
सुबहुभेषजशास्त्रविलोचनात् सुविहितो ऽङ्गविभागविनिर्णयः ॥
पूर्वोक्तमेव वदता किमिवोदितं स्याच्छ्रद्धालुतुष्टिजननं न भवत्यपूर्वम् ।
सङ्क्षिप्तसंशयितविस्तृतविप्रकीर्णः कृत्स्नोर्थराशिरिति साधु स एव दृष्टः ॥
आयुर्वेदोदधेः पारमपारस्य प्रयाति कः ।
विश्वव्याध्यौषधिज्ञानसारस्त्वेष समुच्चितः ॥
स्मृत्वेदमुदितं पूर्वं श्रुत्वेदानीं द्वयोः पुनः ।
स्मर्त्तुः श्रोतुश्च सुतरां श्रद्धातुं कस्य युज्यते ॥
अथवा श्रुतमप्येतत् स्मर्तुरेव क्रमागतम् ।
अभिधातृविशेषेण किं तथापि प्रयोजनम् ॥
ऊर्ध्वमेति मदनं त्रिवृताधो वस्तुमात्रक इति प्रतिपाद्ये ।
मद्विधो यदि वदेदथवात्रिः कथ्यतां क इव कर्मणि भेदः ॥
साध्वसाध्विति विवेकवियुक्तो लोकपङ्क्तिकृतभक्तिविशेषः ।
बालिशो भवति नो खलु विद्वान् सूक्त एव रमते मतिरस्य ॥
इति मुनिवचनानां जीवितोपाश्रयाणामभिलषितसमृद्धौ कल्पवृक्षोपमानाम् ।
यदुदितमिह पुण्यं कुर्वतो मेनुवादं भवतु विगतरोगो निर्वृतस्तेन लोकः ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0