अष्टाङ्गसंग्रह · अध्याय 6.48
अथातो विषोपयोगीयं नामाध्यायं व्याख्यास्यामः इति ह स्माहुरात्रेयादयो महर्षयः ।
विषे प्रतिविषं योज्यं मन्त्रतन्त्रैरसिध्यति ।
अतीते पञ्चमे वेगे सप्तमस्यानतिक्रमे ।
प्रभोनिर्वद्ये प्रयतो नैव वाख्याय कस्यचित् ॥
सिद्धमन्त्रधरः कृत्वा धरणीबन्धमादितः ।
नहि मन्त्रसहायस्य विषं यात्यविधेयताम् ॥
श्लेष्मतुल्यगुणं प्रायः स्थिरमूर्ध्वगमं विषम् ।
प्रायः पित्तगुणैर्युक्तमधोगामि च जङ्गमम् ॥
गुणैरिति विपर्यस्तैर्निहतस्ते परस्परम् ।
युञ्ज्यान्मूलविषं तस्माद्दष्टानां पानलेपयोः ॥
विषपीतं च कुशलो दंशयेत् पवनाशिभिः ।
न विषप्रतिमं किञ्चिन्निर्विषीकरणं विषे ॥
चतुर्भिः षड्भिरष्टाभिर्हीनमध्योत्तमां यवैः ।
मात्रां विषस्य मौलस्य प्रयुञ्जीत यथायथम् ॥
दष्टस्य द्वौ यवौ कीटैस्तिलमात्रं तु वृश्चिकैः ।
नैव स्वसृक्स्थे पाने तु लूतादष्टस्य नेष्यते ॥
सविषे युक्तममृतं विषमेवाविषे विषम् ।
अबले चातिबलवद्व्यापन्नं च प्रयोगतः ॥
सविषाविषशङ्कायामगदानुपयोजयेत् ।
अविरुद्धान् प्रयुक्तो हि निर्विषस्यागदो गदः ॥
तद्वच्च सविषत्यापि क्रियाकालातिपाततः ।
जानीयाद्विषसद्भावं भिषक्तस्मात् प्रयत्नतः ॥
साक्तुकं मुस्तकं शृङ्गी वालकं सर्षपाह्वयम् ।
वत्स्स्नाभं च कर्मण्यं विषं स्निग्धं घनं गुरु ।
नजात्वन्यत् प्रयोक्तव्यं कालकूटं विशेषतः ॥
विषे ऽवचारिते तीक्ष्णे पेयं घृतमनन्तरम् ।
सभार्ङ्गीदधिधूमोत्थसारिवातण्डुलीयकम् ॥
अगारधूममञ्जिष्ठायष्ट्याह्वैर्वा समन्वितम् ।
लिह्याद्वा मधुसर्पिर्भ्यां चूर्णितामर्जुनत्वचम् ॥
क्षीरक्षौद्रघृतैर्युक्तं पीतं हन्ति विषं विषम् ।
ससिन्दुवारतगरं मृतसञ्जीवनं विषम् ॥
शिरीषकुसुमं वक्रं विषमाखुविषापहम् ॥
देवदारुनतंमांसी द्रामिलीबाकुचीविषम् ।
कुष्ठं च पानलेपाभ्यां समस्तविषशाशनम् ॥
मनश्शिलाज्जनालैला सिन्दुवारामराह्वयम् ।
सरक्ताकुंकुमविषं ध्मानं निस्संज्ञबोधनम् ॥
दाहे विषोद्भवे लेपः सक्तुक्षीरघृतैर्हितः ॥
यस्तु संरोषितो भोगी धूमं वक्त्राद्विमुञ्ज्चति ।
दण्डाग्रे पिशितं बध्वा बहुशस्तेन दंशयेत् ॥
अशक्यमगदैरन्यैर्विषपीतं चिकित्सकः ।
पाययेन्मांसचूर्णं तं ज्ञात्वा विषबलाबलम् ॥
अन्येष्वपि च रोगेषु शेषोपायपरिक्षये ।
विषं युञ्जीत नित्यं च रसायनगवेषिणः ॥
घृतोपस्कृतदेहस्य विशुद्धस्य हिताशिनः ।
सात्विकस्योदिते भानौ योज्यं शीतवसन्तयोः ॥
ग्रीष्मेप्यात्ययिके व्याधौ न च वर्षासु दुर्दिने ॥
न क्रोधने न पित्तार्ते न क्लीबे राजनि द्विजे ।
क्षुत्तृष्णाश्रमघर्माध्वव्याध्यन्तरनिपीडिते ।
गर्भिणीबालवृद्धेषु न रूक्षेषु न मर्मसु ॥
अभ्यस्तेपि विषे यत्नाद्वर्जनीयान् विवर्जयेत् ।
कट्वम्लतैललवणदिवास्वप्नातपानलान् ।
रूक्षमन्नं विशेषेण भयं वाजीर्णतः सदा ॥
दृग्विभ्रमं कर्णरुजामन्यांश्चानिलजान् गदान् ।
विषं रूक्षाशिनः कुर्यान्मृत्युमेव त्वजीर्णतः ॥
अलं गोमूत्रसंयुक्तमातपे शोषयेत् त्र्यहम् ।
विषं बृंहणमेतद्धि विषस्यादौ प्रशस्यते ॥
तत् पिबेन्मस्तुना वातज्वरे क्षीरेण पैत्तिके ।
युक्तं मूत्रेण कफजे सर्वजे त्रिफलाम्भसा ॥
लोध्रचन्दनषड्ग्रन्थाशर्कराघृतमाक्षिकैः ।
क्षीरेण च विषं युक्तं जीर्णज्वरहरं परम् ॥
निकुम्भकुम्भत्रिफलासर्पिर्मधुविषैःकृतः ।
निहन्ति मोदको जीर्णज्वरमेहत्वगामयान् ।
शिखिकर्किरसोपेतं विषमज्वरजिद्विषम् ॥
विषं यष्ट्याह्वयं रास्नासेव्यमुत्पलकन्दकम् ।
तण्डुलोदकपीतानि रक्तपित्तस्य भेषजम् ॥
विषं रसाञ्जनं भार्ङ्गी वृश्चिकाली महासहा ।
सवेदने सपाके च व्रणे दुष्टे प्रलेपनम् ॥
सिताविषक्षीरतरुप्रवाला मधुना द्रुताः ।
श्वासहिध्मापहा लीढाश्छर्दिध्न्यस्तु विषान्विताः ।
क्षौद्रोशीरमधुक्षाररजनीकुटजत्वचः ॥
विजयापिप्पलीमूलपिप्पलीद्वयचित्रकैः ।
पुष्कराह्वशठीद्राक्षायवानीक्षारदीप्यकैः ॥
सितायष्टीद्विबृहतीसैन्धवैः पालिकैः पचेत् ।
सविषार्द्धपलैः प्रस्थं घृतात्तज्जीर्णभुक्पिबेत् ॥
दुर्नाममेहगुल्मार्मतिमिरक्रिमिपाण्डुताः ।
गलग्रहग्रहोन्मादकुष्ठानि च नियच्छति ॥
कृच्छ्रघ्ना विषपथ्याग्निदन्तीद्राक्षानिशाविषाः ।
शिलाजतु विषं मूत्रमुदावर्ताश्मरीहरम् ॥
गोमूत्रक्षारसिन्धूत्थं विषं पाषाणभेदकम् ।
वज्रवद्दारयत्येतदेकतः पीतमश्मरीम् ॥
समूला पिप्पली मूत्रं विषं शूलहरं तथा ।
विषद्रवन्तीमधुकद्राक्षारास्नाशठी कणाः ॥
एरण्डतैलं त्रिफला गोमूत्रं चित्रको विषम् ।
सर्पिषा सहितं पीतं वाताण्डत्वमपोहति ॥
त्रिफला स्वर्जिकाक्षारो विषं गुल्मप्रभेदनम् ।
विषवेल्लमिसिक्षीरं गुल्मप्लीहनिबर्हणम् ॥
प्लीहोदरघ्नं पयसा शताह्वा क्रिमिजिद्विषम् ॥
वायसीमूलनिष्क्काथपीतं कुष्ठहरं विषम् ॥
वायस्याराजवृक्षत्वक्त्रायन्तीबाकुचीफलात् ।
प्लीहघ्नेभकणाभ्यां च विषं क्वाथेन कुष्ठजित् ॥
अवल्गुजैडगजयोर्बीजं क्षारद्वयं विषम् ।
लेपः ससैन्धवः पिष्टो वारिणा कुष्ठनाशनः ॥
चित्रकार्कजटाहस्तिपिप्पलीबाकुचीविषैः ।
गोमूत्रपिष्टैरन्योन्योमनोह्वास्नुक्पयोविषैः ॥
सचन्द्रलेखैडगजकरञ्जफलसैन्धवैः ।
सव्योषस्वर्जिकाक्षारयवक्षारनिशाद्वयैः ।
अगारधूमसहितैर्बस्तमूत्रेण कल्कितैः ।
भल्लातकाग्निशम्याकविषैर्गोमूत्रपेषितैः ।
लेपो विचर्चिकाददुशतारुःकिटिभापहः ।
शम्याकपत्रत्वङ्मूलं विषं तक्रं च तद्गुणम् ॥
विषभल्लातकद्वीपिगुञ्जानिम्बफलैर्जयेत् ।
लेपोम्लपिष्टैः श्वित्राणि पुण्डरीकं च दारुणम् ॥
वक्रकुष्ठरसद्वीपिस्पृक्कापत्रैलवालुकम् ।
पिष्टं खदिरतोयेन त्रिरात्रमुषितं पिबेत् ॥
श्वित्री विषेण संसृष्टं ततः स्फोटान् किलासजान् ।
कण्टकेन विभिद्यानु लेपैर्लिम्पेत कौष्ठिकैः ॥
अथवा करवीरार्कमूलबाकुचिकाविषैः ।
बताम्बुपिष्टैः सद्वीपिद्विपपिप्पल्यरुष्करैः ॥
लाक्षासुराह्वामञ्जिष्ठाकुष्ठपद्मकसारिवाः ।
गुञ्जाफलं कुरबको लाङ्गली वज्रकन्दकः ॥
वाराहीकन्दकास्फोता सप्ताह्वगिरिकर्णिकाः ।
अर्काश्वमारयोर्मूलं नागपुष्पं नतं निशे ॥
दन्ती विषं सातिविषं पिप्पली मरिचानि च ।
तैस्तैल्ं कटुतैलं वा श्वित्रस्याभ्यञ्जनं पचेत् ।
सवर्णीकरणं श्रेष्ठमास्तिकस्य वचो यथा ॥
वीरा लाङ्गलिकी दन्ती विषपाषाणभेदकैः ।
प्रयोज्यो मूढगर्भाणां प्रलेपो गर्भमोचनः ॥
स्वरसं बीजपूरस्य वचां ब्राह्मीरसं घृतम् ।
बन्ध्या पिबन्ती सविषं सुपुत्रैः परिवार्यते ॥
नष्टशुक्रः पयो द्राक्षाकपिकच्छु वचा विषम् ॥
विषं सर्पिः सिता क्षौद्रं तिमिरापहमञ्जनम् ।
विषं चैकमजाक्षीरकल्कितं घृतधूपितम् ॥
विषं धात्रीफलरसैरसकृत् परिभावितम् ।
अञ्जनं शङ्खसहितं प्रगाढतिमिरप्रणुत् ॥
विषमिन्द्रायुधं स्तन्ये घृष्टं काचजिदञ्जनम् ।
बीजपूररसे घृष्टं विषं तद्वत्सितायुतम् ।
विषं मागधिका द्वे च निशे काचघ्रमञ्जनम् ॥
शुक्लार्मजिद्विषं कृष्णायुक्तं गोमूत्रभावितम् ॥
समुद्रफेनस्फटिककुरुविन्दसुधाञ्जनम् ।
कूर्मपृष्ठं च तुल्यानि तेभ्योर्द्धांशा मनश्शिला ॥
अर्द्धहीनानि मरिचसैन्धवायोरजांसि च ।
अतो यथोत्तरं दद्यादयसा च समं विषम् ।
रसक्रियेयं मधुना शुक्लपिल्लार्मकाचहृत् ॥
अभीक्ष्णं शीततोयेन सिञ्ज्चेन्नेत्रे विषाञ्जिते ॥
रसोनकन्दमरिचविषसर्षपसैन्धवैः ।
पिल्लेक्षि लिखितं पूर्वं सुरसारसपेषितैः ॥
पूरयेत् सर्पिषा चानु सर्पिरेव च पाययेत् ।
मधूकसारमधुकविषक्षीरजलैर्घृतम् ।
पक्वं सन्तर्पणं श्रेष्ठं रात्र्यन्धत्वे चिरोत्थिते ॥
नस्यं शिरोरुक्शमनं प्रत्यक्पुष्पी सिता विषम् ।
अथवा घृतयष्ट्याह्वशर्करा विषसंयुताः ॥
शुण्ठी पथ्या विषं पाठा द्रवन्ती पूतिनासजित् ॥
कटुतैलं विषं नस्यं पलितारूंषिकापहम् ॥
स्वर्जिकाक्षारसिन्धूत्थशुक्तयुक्तं विषं परम् ।
कर्णयोः पूरणं तीव्रकर्णशूलनिबर्हणम् ॥
प्रपौण्डरीकमञ्जिष्ठाविषसिन्धुसमुद्भवैः ।
निहन्ति साधितं तैलं गण्डूषेण मुखामयान् ॥
देवदारु विषं सर्पिर्गोमूत्रं कण्टकारिका ।
वाचःस्खलनतां हन्ति पीतमित्याह काश्यपः ॥
शत्रुप्रयुक्ताद्विषतो गराद्वा ।
लूताभुजङ्गाखुगणाज्जरायाः ।
अकालमृत्योर्ग्रहपाप्मतो वा ।
विषाशिनो नास्ति भयं नरस्य ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0