भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 6.47

6.47.1

अथातो विषोपद्रवप्रतिषेधं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

6.47.2

ज्वरकासवमिश्वासहिध्मा तृष्णातिमूर्च्छनम् ।
विशोभेदो ऽतिकाठिन्यमानाहो बस्तिमूर्द्धरुक् ॥

6.47.3

श्वयथुः पूतिदंशत्वं रक्तस्रावो विषानिलः ।
इति षोडश निर्दिष्टा विषार्तानामुपद्रवाः ।
गच्छन्त्युपोक्षिता नाशं यैर्जुष्टा विषरोगिणः ॥

6.47.4

राजवृक्षफलोशीरकाश्मर्यघनपद्मकात् ।
क्वाथः सशर्कराक्षौद्रो विषज्वरहरः परम् ॥

6.47.5

पीता तण्डुलतोयेन कटुका ससितोपला ।
विषज्वरहराजाजी जीवकर्षभकोत्पलम् ॥

6.47.6

कोलमज्जसिताधान्यभार्ङ्गीयष्ट्याह्वकेसरम् ।
विषज्वरवमिश्वासकासतृष्णानिबर्हणम् ॥

6.47.7

त्रिफलारग्वधव्याघ्रीक्वाथो ज्वरविबन्धजित् ।
बालबिल्ववचामुस्ता कषायः सपुनर्नवः ।
ज्वराग्निसादश्वयथून्निहन्ति विषसम्भवान् ॥

6.47.8

वैदेहिकारामठकं कपित्थरससैन्धवम् ।
ससितामाक्षिकं लीढं श्वासकासज्वरापहम् ॥

6.47.9

सद्राक्षानागरां कृष्णामथवा सवराघनाम् ।
लीढ्वाज्यमधुना कासान्मुच्यते विषसम्भवात् ॥

6.47.10

सपाठाञ्जनमञ्जिष्ठाद्विनिशामधुकां तथा ।
यष्ट्याह्वमम्भसा पीत्वा मरिचैरवचूर्णितम् ॥

6.47.11

विषवम्यां पिबेत् क्वाथं विल्बमूलाद्रजो ऽथवा ।
धात्रीषरूपकद्राक्षा मधुकं पयसा द्रुतम् ॥

6.47.12

वेल्लाग्र्याञ्जनसोशीरयष्ट्यैलाकणकेसरम् ।
लिह्यान्मरिचकुम्भीं वा घृतपुष्परसद्रुताम् ॥

6.47.13

क्षीरिवृक्षाङ्कुरक्षौद्रसितास्तृड्वमथुच्छिदः ॥

6.47.14

जीर्णशाल्योदनं क्षौद्रं क्षीरं चन्दनसाधितम् ।
शीतान्भोनुपिबेत् भुक्त्वा विषच्छर्दिमपोहति ॥

6.47.15

तैलगोविड्रसक्षौद्रैलिह्यात् कृष्णाप्रियङ्गुके ॥

6.47.16

श्वासी क्षौद्रेण वा द्राक्षाशृङ्गीमागधिकासिताः ।
गुडनागरवैदेहीविजयामलकानि वा ॥

6.47.17

हिध्मायां शङ्खकनककटुकास्वर्णगैरिकम् ।
वेल्लशुण्ठीकणोशीररजनीद्वितयानि वा ॥

6.47.18

लिह्याद्वा व्योषमृद्वीकां बीजपूररसेन वा ।
सक्षौद्रं वालकरजः क्वाथं वा सगुडं पिबेत् ॥

6.47.19

विश्वभेषजगायत्रीहरिद्रामरदारुजम् ।
दन्तीन्द्रवारुणीद्वीपीकल्कं सौवीरकेण वा ॥

6.47.20

तृण्मूर्च्छयोरशिरसो लेपसेका हिमा हिताः ।
अम्भोजनालकुसुमचन्दनोशरीमौक्तिकैः ।
वैहायससितातोयक्षीराज्येक्षुरसाप्लुतैः ॥

6.47.21

वीजनं तालवृन्तेन शीते सिकतिले स्थितिः ॥

6.47.22

कमलोत्पलकिञ्जल्कपटलावृतवारिषु ।
विषतृड्दाहमूर्च्छाघ्नं सरसीष्ववगाहनम् ॥

6.47.23

विषवेगसमुत्थायां तृष्णायां लाजतर्पणम् ।
शर्करादाडिमक्षौद्रसलिलाप्लावितं पिबेत् ।
वटवेतसजम्ब्वाम्रसेव्यतोयं च शीतलम् ॥

6.47.24

भूनिम्बमुस्तकटुकात्रायन्तीन्द्रयवान् समान् ।
द्वौ भागौ चित्रकादष्टौ कुटजाद्वारिणा पिबेत् ।
विषातिसारोदावर्तकासश्वासज्वरापहम् ॥

6.47.25

लोध्रमोचरसाम्बष्ठाधातकीस्तण्डुलाम्बुना ।
समाक्षिकाः पिबेत्तद्वन्नागरातिविषाभयाः ॥

6.47.26

सधातकीः सकुटजाः साञ्जनाः श्लक्ष्णचूर्णिताः ।
पाठानागरचूर्णं वा दध्ना युक्तं समाक्षिकम् ॥

6.47.27

बस्तिरुग्वर्तनाहेषु फलवर्तिं प्रयोजयेत् ।
सारग्वधां सत्रिवृतां सोपकुल्यां हरीतकीम् ।
पिबेत् घृतेन सक्षौद्रां बस्तिशूलादिनाशिनीम् ॥

6.47.28

गृहधूमनतश्यामा नीलिनी तण्डुलीयकैः ।
सिद्धं वाज्यं तथासिद्धं वरा क्वाथत्रिवृद्युतम् ॥

6.47.29

काकोली क्षीरिवृक्षत्वग्द्राक्षायष्ट्याह्वशर्कराः ।
नस्यं विषशिरोरुघ्नं संयोज्यं शीतवारिणा ॥

6.47.30

श्वयथौ शुद्धकोष्ठस्य पयः पाने हितं शृतम् ।
विश्वभेषजवैदेहीकटुकादेवदारुभिः ।
सुरसाम्लकल्कैर्वा छागं वा पिप्पलीशृतम् ॥

6.47.31

त्रिफलायाः कषायेण त्रिवृता भाविता त्र्यहम् ।
आलोड्य सर्पिषा पीता विषश्वयथुनाशिनी ॥

6.47.32

मधुवेल्लवराव्योषसुराह्वोशीरपद्मकैः ।
विषश्वयथुजिल्लेपस्तथा स्वादुकषायकैः ॥

6.47.33

शिरीषपुष्पाहिशिरोनतकुष्ठैर्घृतान्वितः ।
धूपो ऽगदः श्वयथुजित् समस्तविषनाशनः ॥

6.47.34

अल्पेनाप्यपचारेण दंशः पूतित्वमश्नुते ।
प्रायो न सहते तीक्ष्णमुष्णं वा भेषजं विषम् ॥

6.47.35

मधुरस्निग्धशीतानि युञ्यात्तस्माद्विषव्रणे ।
सेकालेपांश्च सक्षीरैः कषायैः क्षीरिवृक्षजैः ॥

6.47.36

न्यग्रोधशुङ्गमधुकतिलसर्षपसैन्धवम् ।
साभया निम्बपत्राज्यं दंशपूतित्वनाशनम् ।
कर्णिकापातनं श्रेष्ठं विषव्रणविनाशनम् ॥

6.47.37

रक्ते स्रवत्यतिभृशं घृतं समरिचं पिबेत् ।
तण्डुलीयकमूलेन सितया वा समन्वितम् ॥

6.47.38

दंशं प्रलेपयेच्चास्य दार्व्या सुश्लक्ष्णपिष्टया ।
सितोपलाक्षौद्रघृतच्छागदुग्धानि नावनम् ॥

6.47.39

शमीकल्कं पिबेच्छ्लक्ष्णमङ्गं लिम्पोद्विशालया ।
नावने हेमं शुक्ला च ततः शाम्यति शोणितम् ॥

6.47.40

क्द्शस्यातिस्रुते रक्ते रूक्षैरत्यर्थसेवितैः ।
विषस्य च स्वभावेन मातरिश्वा प्रकुप्यति ॥

6.47.41

उन्मादाक्षेपकमनोभ्रंशापस्मृतयस्ततः ।
तत्रेष्टं स्नेहनं बस्तिनस्यप्रधमानाञ्जनम् ॥

6.47.42

नागदन्त्यभयाकुष्ठपिप्पलीवृषकट्फलम् ।
भल्लातकास्थिकटुकाबिल्वप्रतिविषाग्निकाः ।
सक्षीरं तैर्घृतं सिद्धं विषवातविकारजित् ॥

6.47.43

पिबेदेरण्डतैलं वा छागमांसरसान्वितम् ।
ऐकध्यं घृततैलं वा मेध्यमांसरसाशनः ॥

6.47.44

कार्पासमूलं मरिचं हरिद्रे नलदं नलम् ।
पिप्पलीं स्वर्जिकां कुष्ठं जलेनालोड्य पाययेत् ।
उन्मत्तं विषवातेन तथापस्मारिणं नरम् ॥

6.47.45

वचाहंसपदीव्योषदधित्थं हस्तिपिप्पलीम् ।
देवदारुबलाबिल्वकृमिजित् कुष्ठटुण्टुकम् ॥

6.47.46

लोध्राखुकर्ण्यतिविषाः क्षीरं सर्पिश्च पाययेत् ।
निहन्ति पानाभ्यङ्गाभ्यां घृतं सर्वविषाणि तत् ॥

6.47.47

प्रतिकुर्याद्यथास्वं च रोगेष्वेवं परेषु च ।
दोषानुबन्धमालोच्य विषतन्त्राविरोधतः ॥

6.47.48

दृश्यशब्दागदैरस्य विषशेषं निवर्तयेत् ।
अल्पमप्यवशिष्टं हि व्याधये मरणाय वा ॥

6.47.49

धवाश्वकर्णतिनिशकरघाटकपीतनान् ।
पलाशाम्रातककुभपारिभद्रकतिल्वकान् ॥

6.47.50

कपित्थकुटजाङ्कोलप्रग्रहामलकीभुजान् ।
शमीश्लेष्मातकाश्मन्तगोजीयमलकण्टकान् ॥

6.47.51

चिरिविल्वार्ककट्वङ्गसमङ्गामधुशिग्रुकान् ।
गोपघोण्टाहिमारौ च भस्मीकृत्याम्भसा गवाम् ॥

6.47.52

क्षारकल्पेनविस्राव्य पचेत् क्षिप्त्वावचूर्णितान् ।
पिप्पलीद्वयकोशास्रसप्तपर्णैलवालुकान् ॥

6.47.53

वराङ्गचोचमञ्जिष्ठाकुष्ठवञ्जुलटुण्टुकान् ।
विडङ्गातिविषानन्तासर्षपतण्डुलीयकान् ॥

6.47.54

सुराह्वसरलप्लक्षगृहधूमकरञ्जकान् ।
नागदन्ती सुतश्रेणी निचुलं वरुणं वचाम् ॥

6.47.55

वर्द्धमानमयो बिल्वं क्षारवत्पाकमागतम् ।
तत् लोहकुम्भे निहितं कार्यं सन्निहितं सदा ॥

6.47.56

तेन दुन्दुभिमालिम्बेत् पताकास्तरणानि च ।
दर्शनश्रवणस्पर्शैर्निर्विषं तानि कुर्वते ॥

6.47.57

पानात् क्षारागदश्चैष विषं स्थावरजङ्गमम् ।
शूलगुल्मोदराजर्णिश्वासकासाश्मशर्कराः ॥

6.47.58

शोफार्शोग्रहणीदोषानरुचिं च नियच्छति ।
अपि तक्षकतुल्यानां सर्पाणां दर्पनाशनः ॥

6.47.59

श्रीवेष्टकमनोह्वालं ससर्जरसवालकम् ।
कर्षांशं नागपुष्पस्य प्रकुञ्चं त्रुटिविंशकम् ॥

6.47.60

हरेणवश्चतुःषष्टिः कुटन्नटचतुष्टयम् ।
शताह्वां षोडशैतानि पुष्ये सम्भृत्य पेषयेत् ॥

6.47.61

आश्लेषासु गवां मध्ये शस्त्रमन्त्राभिरक्षितम् ।
कुमार्या स्नातया तत्र मन्त्रोयं विष्णुनिर्मितः ॥

6.47.62

माता मे विजयानाम जयो नाम पिता मम ।
अजय्यस्य च पुत्रोसौ विजये च जयामि वः ॥

6.47.63

सुगन्धाख्योयमगदो नित्यं देहविलेपनात् ।
अभङ्गकरणो युद्धे विवादे च जयावहः ॥

6.47.64

अमुना लेपिताश्छत्रदुन्दुभिध्वजतोरणाः ।
दृष्टस्पृष्टश्रुता घ्नन्ति विषं स्थावरजङ्गमम् ।
भूतबालग्रहोन्मादान् गेहस्थोपि निवारयेत् ॥

6.47.65

प्रपौण्डरीकसरलदेवदारुकुटन्नटम् ।
जटाशताह्वातिविषातिलपर्णीसुगन्धिका ॥

6.47.66

नीलीयिवफलाभार्ङ्गीमधुयष्ट्यैलवालुकम् ।
तोयतोयदकालीयतगरध्यामकत्वचः ॥

6.47.67

नखपद्मकपुन्नागपत्रकालानुसारिवाः ।
तालीसपत्रं मरिचं जोङ्गकं चन्दनद्वयम् ॥

6.47.68

द्व्येलाद्विसेव्यद्विता द्विनिशा नलदद्वयम् ।
लाक्षाशीतशिवव्योषफलिनीधान्यगैरिकम् ॥

6.47.69

शैलेयकशिलापुष्पग्रन्थिला चोरकाभयाः ।
अर्कस्थौणेयपृथ्वीका कटुका चन्द्रराजयः ॥

6.47.70

कलिङ्गकः सर्जरसः कुष्ठं लवणपञ्चकम् ।
श्रीपर्णिकाश्मरीशेलुशिंशपा सिन्दुवारजः ॥

6.47.71

चम्पकाशोकसुरससुमनस्तिल्वकोद्भवाः ।
पाटल्यास्तृणशूल्याश्च प्रसवाः कुमुदोत्पलम् ॥

6.47.72

तिनिशार्जुनशम्याकधवपुष्पं सपङ्कजम् ।
पञ्चाशीतेरिदं चूर्णं समूत्रघृतमाक्षिकम् ॥

6.47.73

निधापयेत् गवां शृङ्गे मनुष्यं पुनराहरेत् । (मनुष्यं तेन जीवयेत्)
भग्नस्कन्धं विवृत्ताक्षं मृत्योर्दंष्ट्रान्तरं गतम् ॥

6.47.74

महासुगन्धो नाम्नायमतिवीर्योतितेजसा ।
वारयत्यतिदुर्वारं विषाग्निं वासुकेरपि ॥

6.47.75

नृपोनेनानुलिप्ताङ्गो भवेत् सर्वजनप्रियः ।
तेजस्वितां च लभते राजकस्यापि मध्यगः ॥

6.47.76

शीतमेव च कुर्वीत विधानं विषरोगिणाम् ।
मुक्त्वा कीटविषं तद्धि शीतेनातिप्रबर्द्धते ॥

6.47.77

शालयः षष्टिका जीर्णाः कोरदूषाः प्रियङ्गवः ।
मुद्गो हरेणुस्तुवरी पटोलं वेत्रपल्लवाः ॥

6.47.78

तण्डुलीयकजीवन्ती वार्ताकं सुनिषण्णकः ।
जाङ्गलं दाडिमं धात्री कपित्थं सैन्धवं सिता ॥

6.47.79

अविदाहियदन्यच्च विज्ञायान्नस्वरूपतः ।
तत्तद्दद्याद्विषार्तेभ्यः कार्या व्यञ्जनसंस्कृतिः ।
कषायैर्विषहन्तृऋणां घृनैः कल्याणकादिभिः ॥

6.47.80

दिव्यसारसकूपोत्थमन्यद्वा शृतशीतलम् ।
मध्वामलकयुक्तं वा विषार्त्तः सलिलं पिबेत् ।
नदीतटाकजं त्याज्यं विशेषेण घनागमे ॥

6.47.81

शुक्लवस्त्रोदरायातैः सुकृताः सक्तवो यवैः ।
तक्रेण सघृताः पीताः परमं विषनाशनाः ॥

6.47.82

तिलमद्यकुलत्थक्षुत्क्रुद्भयायासमैथुनम् ।
वर्जयेद्विषमुक्तोपि दिवास्वप्नं विशेषतः ॥

6.47.83

प्रशान्तदोषं प्रकृतिस्थधातु माहारकामं सममूत्रविट्कम् ।
प्रसन्नवर्णेन्द्रियचित्तचेष्टं वैद्योवगच्छेदविषं मनुष्यम् ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc