अष्टाङ्गसंग्रह · अध्याय 6.46
अथातो मूषिकालर्कप्रतिषेधं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
लालनश्चपलः पुत्रो हसिरश्चिकिरो ऽजिनः ।
कषायदन्तः कुलकः कोकिलः कपिलो ऽसितः ॥
अरुणः शबलः श्वेतः कपोतः पलितोन्दुरुः ।
चुच्छुन्दारो रसालाख्यो दशाष्टौ चेति मूषिकाः ॥
यस्मिन्नङ्गे पतत्येषां शुक्रमङ्गैः स्पृशन्ति वा ।
यच्छुक्रदिग्धैस्तत्रास्रे दूषिते पाण्डुतां गते ॥
ग्रन्थयः श्वयथुः कोठो मण्डलानि भ्रमोरुचिः ।
शीतज्वररोतिरुक्सादो वेपथुः पर्वभेदनम् ॥
रोमहर्षः स्नुतिर्मूर्च्छा दीर्घकालानुबन्धनम् ।
श्लेष्मानुविद्धबह्वाखुपोतकछर्दनं सकृत् ॥
व्यवाय्याखुविषं कृच्छ्रं भूयो भूयश्च कुप्यति ॥
मूर्च्छाङ्गशोफवैवर्ण्यक्लेदशब्दाश्रुतिज्वराः ।
शिरोगुरुत्वं लालासृक्छर्दिश्चासाध्यलक्षणम् ॥
शूनबस्तिं विवर्णौष्ठमाख्वाभैर्ग्रन्थिभिश्चितम् ।
चुच्छुन्दुरुसगन्धं च वर्जयेदाखुदूषितम् ॥
शुनः श्लेष्मोल्बणा दोषाः संज्ञां संज्ञावहाश्रिताः ।
मुष्णन्तः कुर्वते क्षोभं धातूनामतिदारुणम् ॥
लालावानन्धबधिरः सर्वतः सोभिधावति ।
स्रस्तपुच्छहनुस्कन्धः शिरोदुःखी नताननः ॥
दंशस्तेन विदष्टस्य सुप्तः कृष्णं क्षरत्यसृक् ।
हृच्छिरोरुग्ज्वरस्तम्भतृष्णामूर्छोद्भवो ऽनु च ॥
अनेनान्येपि बोद्धव्या व्याला दंष्ट्राप्रहारिणः ।
सृगालाश्वतराश्वर्क्षद्वीपिव्याघ्रवृकादयः ॥
कण्डूनिस्तोदवैवर्ण्यसुप्तिक्लेदज्वरभ्रमाः ।
विदाहरागरुक्पाकशोफग्रन्थि विकुञ्चनम् ॥
दंशावदरणं स्फोटाः कर्णिका मण्डलानि च ।
सर्वत्र सविषे लिङ्गं विपरीतं तु निर्विषे ॥
दष्टो येन तु तच्चेष्टारुतं कुर्वन् विनश्यति ।
पश्यंस्तमेव चाकस्मादादर्शसलिलादिषु ॥
जलदर्शनसंस्पर्शशब्देभ्यो यश्च सन्त्रसेत् ।
अदष्टमपि तं जह्याज्जलसन्त्रासरोगिणम् ॥
आखुना दष्टमात्रस्य दंशं काण्डेन दाहयेत् ।
दर्पणेनाथवा तीव्ररुजा स्यात् कर्णिकान्यथा ॥
दग्धं विस्रावयेद्दंशं प्रच्छितं च प्रलेपयेत् ।
शिरीषरजनीवक्रकुङ्कुमामृतवल्लिभिः ॥
अगारधूममञ्जिष्ठा रजनी लवणोत्तमैः ।
लेपो जयत्याखुविषं कर्णिकायाश्च पातनः ॥
ततोम्लैः क्षालयित्वा तु तोयैरनु च लेपयेत् ।
पालिन्दी श्वेतकटभी बिल्वमूलगुडूचिभिः ।
अन्यैश्च विषशोफघ्नैः सिरां वा मोक्षयेत् द्रुतम् ॥
छर्दनं जालिनीकाथैः शुकाख्याङ्कोलयोरपि ।
कोशवत्याः शुकाख्यायाः फलं जीमूतकस्य च ।
मदनस्य च सञ्चूर्ण्य दध्ना पीत्वा विषं वमेत् ॥
वचामदनजीमूतकुष्ठं वा मूत्रपेषितम् ।
पूर्वकल्पेन पातव्यं सर्वोन्दुरुविषापहम् ॥
निष्पावाः कदलीमूलं बन्धुजीवफलानि च ।
सुवर्चलारामठकं स्वर्जिकातिविषाद्वयम् ।
श्यामाद्रिकर्णिकामूलमूर्धचैंवमनत्रयम् ॥
वान्तस्य शुद्धे हृदये शूलं हिध्मारुचिर्वमिः ।
उष्णोद्गारानुबन्धो वा स्याच्चेत्तत्रैतदौषधम् ॥
जीरकं त्र्यूषणं कुष्ठं तुङ्गाख्यं नागकेसरम् ।
रजन्यौ सैन्धवं सेव्यं यष्टीमधुसुवर्चलाम् ॥
मधुरं च गणं पिष्ट्वा बीजपूरकपित्थयोः ।
रसेन षाडवं कुर्यान्मधुमत्स्यण्डिकान्वितम् ।
गन्धवर्णरसोपेतः स पीतो विषदोषजित् ॥
द्विपिप्पलीद्व्यंशुमतीक्वाथे पेया च तद्गुणा ॥
विरेचने त्रिवृन्नीलीत्रिफलाकल्क इष्यते ।
शिरोविरेचने सारः शिरीषस्य फलानि च ॥
अञ्जने गोमयरसो व्योषसूक्ष्मरजोन्वितः ।
कपित्थगोमयरसो मधुमानवलेहने ॥
तण्डुलीयकमूलेन सिद्धं पाने हितं घृतम् ।
द्विनिशा कटभी रक्ता यष्ट्याह्वैर्वामृतान्वितैः ।
आस्फोतमूलसिद्धं वा पञ्चकापित्थमेव वा ॥
अधोभागे विशुद्धस्य शूलं नाभ्यां भवेद्यदि ।
पुरीषं वा विबध्येत गुदे स्याद्वा विकर्तिका ॥
तत्र पेयां पिबेच्छीतां शर्करामधुसंयुताम् ।
पिप्पली पिप्पलीमूलसारिवा कटुकाह्वयैः ।
शृतैः सिद्धां सह बलासमङ्गाविश्वभेषजैः ॥
नलदध्यामकव्योषलोध्रचित्रकदीप्यकम् ।
कुतलक्षारतोयेन पिष्टं माक्षिकसर्पिषा ॥
दध्ना वा प्राशयेत् क्षौद्रं यवक्षारपयोदधि ।
फणितं तैलमाज्यं च विषघ्नं पीतमेकतः ॥
सिन्दुवारं नतं शिग्रु बिल्वमूलं पुनर्नवम् ।
वचा श्वदंष्ट्रा जीमूतमेषां क्वाथं समाक्षिकम् ।
पिबेच्छाल्योदनं दध्ना भुञ्जानो मूषिकार्दितः ॥
तक्रेण शरपुङ्खाया बीजं सञ्चूर्ण्य वा पिबेत् ।
अङ्कोलमूलवल्को वा बस्तमूत्रेण कल्कितः ।
पानलेपनयोर्युक्तः सर्वोन्दुरुविषापहः ॥
पयः पयस्यया युक्तं सितया मधुकेन च ॥
किराततिक्तममृतां समङ्गां ककुभत्वचम् ।
बाणं पलाशं काश्मर्यं पयस्यां तण्डुलीयकम् ॥
आखुविन्नां महानिम्बं सप्तपर्णं मधूलिकाम् ।
कपित्थं राजवृक्षं वा पिबेदन्यतमं ज्वरी ॥
स्थिरां मन्दरुजां प्रच्छेत् कर्णिकां पातयेत वा ।
श्यामा लाङ्गलिका दन्ती किणिही गिरिकर्णिका ॥
आखुवृक्षो महावृक्षस्त्रिवृदञ्जनकी स्नुही ।
कर्णिकापातनं कल्कमेकैकं तिलकल्कवत् ॥
क्षीरिप्रवालमञ्जिष्ठाबलादार्वीहयाह्वयाः ।
रोपण्यः कल्कितास्तैलं घृतं वा साधितं तथा ।
द्विनिशा तिलयष्ट्याह्वतगरोशीरपद्मकैः ॥
सामान्येनेति निर्दिष्टा क्रियाखूनां विशेषतः ॥
लालनेन वमिर्मूर्च्छा लालास्रावश्च जायते ।
लिह्यात् समाक्षिकं तत्र चूर्णितं तण्डुलीयकम् ॥
चपलेन वमिर्मूर्च्छा तृड्वा तत्रावलेहयेत् ।
सदारुमुस्तां त्रिफलां पुत्रकेण तु पाण्डुता ॥
सादोङ्गे सर्वतश्चाखुसदृशग्रन्थिसम्भवः ।
शिरीषबीजं कुष्ठं च मधुना तत्र लेहयेत् ॥
हसिरेणान्नविद्वेषो जृम्भणं रोमहर्षणम् ।
आरग्वधदिनिर्यूहं सुवान्तं तत्र पाययेत् ॥
चिकिरेण शिरोदुःखं शोफो हिध्मा वमिर्भ्रमः ।
वान्तोत्र जालिनीक्वाथैः सारमङ्कोलजं पिबेत् ॥
अजिनेनाङ्गकृष्णत्वं मूर्च्छा छर्दिश्च हृद्ग्रहः ।
मधुना तत्र मञ्जिष्ठां लिह्यात् स्नुक्क्षीरकल्किताम् ॥
निद्रा कषायदन्तेन हृच्छोषः कृशताति च ।
शिरीषसारत्वग्बीजं तत्र क्षौद्रेण लेहयेत् ॥
कुलकेन रुजास्रावौ राजयो दंशमण्डले ।
स सिन्दुवारकौ तत्र सहौ लिह्यान्मधुप्लुतौ ॥
ग्रन्थयः कोकिलेनोग्रा ज्वरो दाहश्च दारुणः ।
नीलीपुनर्नवाक्वाथे सिद्धं तत्र पिबेत् घृतम् ॥
कपिलेन व्रणे कोथो ज्वरो ग्रन्थिर्भ्रमः सतृट् ।
लेहयेन्मधुना श्वेतां श्वेतां चात्र पुनर्नवाम् ॥
रक्तं कृष्णेन वमति विशेषाद् दुर्दिने पिबेत् ।
तत्र किंशुकभस्माम्बु शिरीषफलवालकम् ॥
अरुणाद्याः पृथग्दोषसन्निपातास्रसम्भवान् ।
जनयन्ति क्रमाद्रोगान् सर्वे च ग्रन्थिकर्णिकाः ॥
करञ्जारग्वधव्योषबृहत्यंशुमतीद्वयात् ।
क्वाथे दधिपयः सर्पिः पृथक्प्रस्थोन्मितं पचेत् ॥
कपित्थदाडिमवरी विशालात्रिसुगन्धिकाः ।
त्रिवृतामृत्तिका वक्रगुडूचीश्चात्रकल्किताः ॥
क्षिपेत्तदरुणादीनां पञ्चानां विषनाशनम् ।
काकादनी काकमाची स्वरसेन शृतं घृतम् ॥
क्लमश्चुच्छुन्दरेणोग्रो ग्रीवास्तम्भो विषूचिका ।
यवनालर्षभक्षारं बृहत्यौ वात्र पाययेत् ॥
ग्रीवास्तम्भो रसालेन वेदना दंशमण्डले ।
लिह्यान्महागदं तत्र घृतमाक्षिकसंयुतम् ॥
सशेषं मूषिकविषं प्रकुप्यत्यभ्रदर्शने ।
यथायथं वा लाकेषु दोषाणां वृद्धिहेतुषु ॥
तत्र सर्वे यथावस्थं प्रयोज्याः स्युरुपक्रमाः ।
यथास्वं ये च निर्दिष्टास्तथा दूषीविषापहाः ॥
दंशत्वलर्कदष्टस्य दग्धमुष्णेन सर्पिषा ।
प्रदिह्यादगदैस्तैस्तैः पुराणं च घृतं पिबेत् ।
व्रणस्योपरि निष्पीड्यः प्रत्यक्पुष्पीरसोथवा ॥
तिलगुग्गुलुदूर्वाणां दाडिमस्य गुडस्य च ।
कल्को मुहुर्मुहुर्लेपः श्वदंशविषजित्परम् ॥
नलमूलं जले पिष्टं पानलेपनयोर्हितम् ।
मातुलुङ्गच्छदैर्दंशं बध्नीयाद्दन्तचर्वितैः ॥
अर्कक्षीरयुतं चास्य योज्यमाशु विरेचनम् ॥
पिबेत् पुनर्नवां श्वेतां धुर्धूरकफलान्विताम् ॥
फलं धुर्धूरकान्मूलं काकोदुम्बरिकोद्भवम् ।
शीधुना श्वविषं हन्ति पीतं वा तण्डुलाम्बुना ॥
ऐकध्यं पललं तैलं रूपिकायाः पयो गुडः ।
भिनत्ति विषमालर्कं घनवृन्दमिवानिलः ॥
लशुनोषणवैदेही वरा गोपित्तकल्किताः ।
पाननस्याञ्जनालेपैः श्वदष्टस्यौषधं परम् ॥
जलवेतसपत्रत्वङ्मूलं क्षुण्णं पचेज्जले ।
स क्वाथः शीतलः पीतः परं श्वविषभेषजम् ॥
तत्सिद्धं च घृतं पाननस्याभ्यञ्जनलेपनम् ।
जलत्रासे समस्ते च विषे तत् गरुडोपमम् ॥
यवमाषकुलत्थानां पञ्चमूलस्य चाम्भसि ।
क्षीरद्विगुणिते सर्पिः साधयेच्छ्लक्ष्णकल्कितैः ॥
अश्वगन्धासहाकुष्ठबृहतीरजनीद्वयैः ।
विदारीनतकट्वङ्ग पयस्यासिन्दुवारकैः ॥
सर्पगन्धानखाभीरुशर्करारक्तचन्दनैः ।
श्वसंष्ट्रोपद्रवान् सर्वान् पानाभ्यङ्गैर्निहन्तितत् ॥
हृद्विदाहे प्रसेके च विरेकवमने भृशम् ।
विषदोषहरे योज्ये शुद्धे संसर्जनक्रमः ॥
दद्यात् संशोधनं तीक्ष्णमवश्यं विषनाशनम् ।
अशुद्धस्य निरूढेपि व्रणे कुप्यति तद्विषम् ॥
सरत्रबीजौषधिभिः कुम्भैः शीताम्बुपूरितैः ।
अष्टोत्तरशतं वारान् सिद्धमन्त्राभिमन्त्रितै ॥
अष्टोत्तरशतोन्मानैः पुष्पमालावगुण्ठितैः ।
गोचर्ममात्रके लिप्ते ज्वलिताग्नौ कुशास्तृते ।
स्थण्डिले सरितस्तीरे स्नानं वास्य चतुष्पथे ॥
अलर्काधिपते यक्ष सारमेयगणाधिप ।
अलर्कजुष्टमेतं मे निर्विषं कुरु मा चिरात् ।
स्वाहेतिमन्त्रोलर्कार्त्ते सर्वकर्मसु शस्यते ॥
चतुष्पाद्भिद्विपाद्भिर्वा नखदन्तपरिक्षतम् ।
शूयते पच्यते रागज्वरस्रावरुजान्वितम् ॥
सोमवल्कोश्वकर्णश्च गोजिह्वा हंसपादिका ।
रजन्यौ गैरिकं लेपो नखदन्तविषापहः ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0