भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 6.45

6.45.1

अथातः प्रत्येकलूताप्रतिषेधं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

6.45.2

आदंशे पिटका ताम्रा भवेत् कपिलया स्थिरा ।
लसीका रोमकूपेषु दाहो ऽक्ष्णो मूर्ध्नि गौरवम् ॥

6.45.3

पाननस्याञ्जनालेपसेकेष्वत्र प्रयोजयेत् ।
निशापद्मककुष्ठैलाकरञ्जककुभत्वचः ॥

6.45.4

स्थिरार्कपर्ण्यपामार्गब्राह्मीज्वलननाकुलीः ।
अथवा कुष्ठपत्तङ्गनखजोङ्गककुङ्कुमम् ॥

6.45.5

अग्निमुख्यातिरुक्स्फोटः सम्भवत्यग्निदग्धवत् ।
अग्निज्वालासमानेन प्रस्विद्यति विषोष्मणा ॥

6.45.6

तृड्दाहकम्पमूर्च्छावान् पित्तास्रमतिसार्यते ।
योजयेत् पूर्ववत्तत्र प्रत्याख्याय त्वरान्वितः ॥

6.45.7

कुष्ठलामज्जकोशीरमधूकं मधुकं मधु ।
लाभतः शीतवीर्याणि तालीसं गोपकन्यकाम् ॥

6.45.8

पीतया पीतविण्मूत्रदंशक्लेदाक्षिदर्शनम् ।
मूर्च्छाच्छर्दिंशिरोदुःखज्वरारोचकशूलवान् ॥

6.45.9

तत्रेष्टाः कटभोशीरमुञ्जावञ्जुलपद्मकाः ।
वंशकाशार्जुनकुशाः शिरीषकिणिहीत्वचः ।
अथवा वन्यबाल्हीककुष्ठकेसरजोङ्गफम् ॥

6.45.10

पद्माभः पद्मया स्फोटो भिन्नो ऽभिन्नः पुनर्भवेत् ।
क्लिद्यत्याशु स्रवत्युष्णं क्लेदं स्पर्शे ऽतिरुक्करः ॥

6.45.11

तत्र पद्मोत्पलान्नालो हिमवेतसवञ्जुलाः ।
समृणालाः सकुमुदाः सक्षौद्रघृतशर्कराः ॥

6.45.12

पूतिर्मूत्रविषादंशो विसर्पी कृष्णशोणितः ।
श्वासकासज्वरच्छर्दिंमूर्छादाहभ्रमान्वितः ॥

6.45.13

मनश्शिलालमधुकमधूकोत्पलचन्दनम् ।
कुष्ठालामज्जकोशीरपद्मकं तत्र भेषजम् ॥

6.45.14

आदंशे श्वेतया श्वेता पिटका भृशकण्डुला ।
दाहमूर्छाज्वररुजाविसर्पक्लेदकारिणी ॥

6.45.15

तत्रेष्टाः शीतरास्नैलाहरेणुनलवञ्जुलाः ।
कुष्ठमांसीनतोशीरकान्ताध्यामकपद्मकाः ॥

6.45.16

आदंशः कृष्णया कृष्णो विङ्गन्धिः क्लेदशोफवान् ।
उत्थाप्यते कृष्णमसृग्दुष्टं तत्र च भेषजम् ।
महासुगन्धा सर्पक्षी वक्रैला गन्धनाकुली ॥

6.45.17

शूनः पाण्डूरया दंशः शोफो वक्त्रस्य गौरवम् ।
ज्वरो विघूर्णनं जृम्भा शिरोरुक् तत्र भेषजम् ।
मूलं वारुणपुष्पाया रोचना गोशकृद्रसः ॥

6.45.18

आपाण्डुपिटको दंशः शोफवान् रक्तपादया ।
अस्रस्रुत्तत्र नलदसेव्योदीच्यहिमं मधु ॥

6.45.19

भृङ्गाभो भृङ्गया दंशः पिटका दाहरुक्करी ।
कोठैश्च चीयते गात्रं तत्र शस्तं भिषग्जितम् ।
अङ्कोलसारः फलिनी गवां पित्तं मिसिर्गदः ॥

6.45.20

पिङ्गया वह्निदग्धाभो दंशः स्फोटो बहुस्रुतिः ।
तीब्रशोफज्वररुजाहृत्पीडादाहतृङ्युतः ॥

6.45.21

तत्रागदः सिता गुन्द्रा मल्लिका मधुकोत्पलम् ।
जीवंकः क्षीरिणां शुङ्गा द्विहिमं नागकेसरम् ॥

6.45.22

त्रिमण्डलाया बहलो दंशः कृष्णं स्रवत्यसृक् ।
अरुचिर्नेत्रयोर्दाहः कलुषस्रुतिदृष्टिता ॥

6.45.23

विविधैर्मण्डलैश्चास्य शरीरमुपचीयते ।
तत्रार्कमूलद्विनिशासुरालापृश्निपर्णिकाः ।
दधित्थनाकुलीब्राह्मीज्योतिष्मत्यो हितो ऽगदः ॥

6.45.24

आदंशः पूतिगन्धाया विसर्पक्लेददाहवान् ।
अलजीसन्निभो रुग्वान् विबद्धपिटकाचितः ॥

6.45.25

भार्ङ्गीनिदिग्धिकानिम्बपाटलीसिन्दुवारकम् ।
दूर्वा हरिद्रे वासा च पूतिगन्धाविषापहम् ॥

6.45.26

चित्रमण्डलवान् दंशः पिटकाजालकावृतः ।
वीराया मूर्धरुक् शीतज्वरान्नद्वेषसंयुतः ॥

6.45.27

हरिद्रे नलदं कुष्ठमेला सुरसमञ्जरी ।
तगरं च श्वपित्तेन पिष्टं वीराविषापहम् ॥

6.45.28

दंशः कुमुदया दाहस्फोटस्फुरणतोदवान् ।
पिच्छिलक्लेदविस्रावी सश्वासस्सगलग्रहः ।
प्रत्याख्यायात्र कुर्वीत सामान्योक्तं क्रियाक्रमम् ॥

6.45.29

भवन्त्यलविषादंशे पीतलोहितमण्डलाः ।
पिटकाः सर्षपप्रख्यास्तालुशोषो रुजा ज्वरः ॥

6.45.30

छर्दिर्दाहः शिरःकम्पस्तत्र सेव्यः समाक्षिकः ।
सकासीसकह्रीबेरः सपिप्पलिवटाङ्कुरः ॥

6.45.31

रक्तान्तो रक्तया दंशः सपाण्डुपिटकाज्वरः ।
श्वेतोतिसारः श्वसनं दाहः क्लेदः सशोणितः ।
शस्तं शेल्वर्जुनाम्रातात्त्वङ्मूलं सिन्दुवारतः ॥

6.45.32

आदंशे चित्रया रक्ता पिटका विसृता स्थिरा ।
पर्वभेदशिरस्तापज्वरशोफा विसर्पिणी ॥

6.45.33

भिन्ना कृष्णत्वमभ्येति पीतास्रावा महाव्रणा ।
तत्रेष्टाः कुष्ठनलदशिरीषनलरेणुकाः ॥

6.45.34

दंशे च सन्तानिकया शूलमाकुलताश्रुणः ।
प्रदराक्षेपकौ तत्र केसरं क्षीरिणां त्वचः ।
आम्रस्य सिन्दुवारस्य मूलमश्मन्तकस्य च ॥

6.45.35

पिटका मेचका दंशमध्ये जतुकणोपमा ।
ज्वरः शोफोत्र वारुण्यां रोचना रजनीद्वयम् ॥

6.45.36

राजीमान् कसनादंशः शिरोरुक् श्वासकासवान् ।
शीतपिच्छिलरक्तस्रुद्रक्तोकं तत्र मेषजम् ॥

6.45.37

पाण्डुरक्तो ऽतिरुग्दंशः काकाण्ड्याः स्मृतिमोषकृत् ।
हिध्मा श्वसनतृण्मूर्च्छा निद्राक्षेपकहृद्गदाः ॥

6.45.38

रक्तान्तर्स्त्वेणपादाया दंशः कृष्णतिलाकृतिः ।
दाहमोहाग्निवीसर्पतृङ्वमिश्वासकासवान् ॥

6.45.39

पूतिः श्यावोतिरुक् सासृगादंशो लाजवर्णया ।
शीतज्वरसमुत्थानो दाहमूर्छातिसारवान् ॥

6.45.40

अग्निदग्धनिभो दंशो वैदेह्या भृशवेदनः ।
गम्भीरः सज्वरस्तीक्ष्णमोहो हृदयपीडनम् ॥

6.45.41

ऊर्ध्वराजीचितो दंशो जालिन्यास्तीव्रशोफरुक् ।
उदीर्णतृङ्भ्रमश्वासस्तम्भमोहविदीर्यते ॥

6.45.42

रक्तो मालागुणादंशो धूमगन्धिः सपीव्ररुक् ।
दीर्यते पार्श्वतस्तैस्तैः संरब्धैर्मण्डलैर्युतः ॥

6.45.43

अन्तर्दाहो बहिः शैत्यमाध्मानं मूत्रकृच्छ्रता ।
मूर्च्छाप्रलापातीसारज्वराः प्राणान्तकारिणः ॥

6.45.44

ध्मातः सौवर्णिकादंशः स्यन्दते मत्स्यगन्धिकः ।
शिरोक्षिरुग्ज्वरः कासस्तृणा शोफो वमिर्भ्रमः ॥

6.45.45

आसाध्यानामपि हितं प्रत्याख्यायाशु योजयेत् ।
दोषोच्छ्रायविशेषेण छेददाहादिवर्जितम् ॥

6.45.46

कपिला तत्र नासायामग्निर्दशति जत्रुणि ।
पीता तु गण्डयोः पद्मा दक्षिणांसेथ कक्षयोः ॥

6.45.47

लूता मूत्रविषा श्वेता चिबुके कालिकाक्षिणि ।
पाण्डुरा दक्षिणस्कन्धे करयो रक्तपादिका ॥

6.45.48

वामपार्श्वे दशेत् भृङ्गा वामांसे पिङ्गला दशेत् ।
त्रिमण्डलोदरे पूतिः पृष्ठे वीरा तु दक्षिणे ॥

6.45.49

बाहौ नाभ्यां कुमुदिका वामस्कन्धे ऽलसंज्ञिता ।
कण्ठे रक्ता ललाटे तु चित्रा सन्तानिकौष्ठयोः ॥

6.45.50

मेचका मूर्ध्नि कसनाद्धस्तयोः कक्षमूलयोः ।
काकाण्ड्येणी तु हृदये लाजवर्णा स्तनान्तरे ॥

6.45.51

बाहुसन्धिषु वैदेही लूतापाङ्गे तु जालिनी ।
मालागुणाख्या ग्रीवायां सौवर्णी कर्णमूलयोः ॥

6.45.52

इति क्षेत्राणि नियतान्यत्युदीर्णविषाः पुनः ।
परक्षेत्रेपि वर्तन्ते राजानोतिबला इव ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc