अष्टाङ्गसंग्रह · अध्याय 6.44
अथातो लूताप्रतिषेधं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
विश्वामित्राय रुष्टस्य वसिष्ठस्य ललाटजाः ।
स्वेदलेशाः स्मृता लूता लूने ये पतितास्तृणे ॥
खाण्डवे दह्यमानानामसुराणां शरीरतः ।
ये स्फुलिङ्गा विनिश्चेरुस्ते लूता इति केचन ॥
अन्ये वदन्ति भुक्तस्य दुष्टस्यान्नस्य मूर्च्छनात् ।
सम्भवन्ति विषस्फोटा ये लूताः कीटलक्षणम् ।
यथास्वं धारयन्तस्ते लूताः कीटाश्च संज्ञिताः ॥
तत्र घोरतमा लूता भिद्यन्ते ता अपि त्रिधा ।
तक्ष्णिमध्यावरत्वेन घ्नन्ति वाश्वचिकित्सिताः ।
सप्ताहेन दशाहेन पक्षेण च परं क्रमात् ॥
कपिलाग्निमुखी पीता पद्मा मूत्रा सितासिता ।
आग्नेय्यः स्वेदजाः सप्त लूताः पित्तविकारदाः ॥
पाण्डुरा रक्तपदिका भृङ्गा पिङ्गा त्रिमण्डला ।
पूतिर्वीराण्डजाःसप्त सौम्याः श्लेष्मविकारदाः ॥
कुमुदालविषा रक्ता श्चित्रा सन्ता निमेचका ।
कसना चोद्भिदाः सप्त वायव्या वायुरोगदाः ॥
काकाण्ड्येणपदी लाजा वैदेही जालिनी तथा ।
मालागुणा सुवर्णा च मिश्राः सप्तोपपादिकाः ॥
व्याप्नुवन्त्याशु गात्राणि ज्वलत्पावकसन्निभाः ।
सन्निपातकृतो ऽसाध्याः साध्याः कृच्छ्रेणचेतराः ॥
ता दशन्ति सिते पक्षे ऽसिते सन्धौ सदैव च ॥
दंशः सामान्यतस्तासां दद्रुमण्डलसन्निभः ।
सितो ऽसितो ऽरुणःपीतःश्यावो वा मृदुरुन्नतः ॥
मध्ये कृष्णो ऽथवा श्यावः पर्यन्ते जालकावृतः ।
विसर्पवाञ्छोफयुतस्तप्यते बहुवेदनः ॥
ज्वराशुपाकविक्लेदकोथावदरणान्वितः ।
क्लेदेन यत्स्पृशत्यङ्गं तत्रापि कुरुते व्रणम् ॥
श्वासदंष्ट्राशकृन्मूत्रशुक्रलालानखार्तवैः ।
अष्टाभिरुद्वमन्त्येता विषं वक्त्राद्विशेषतः ॥
श्वासेन दंशः सहसा शूयते ज्वरदाहवान् ।
दंष्ट्राकृतस्तूग्रतरो विवर्णः कठितः स्थिरः ॥
गम्भीरशोफवस्तोदवेदनादाहसंयुतः ।
दुर्गन्धी शकृता दाहकण्डूचिमिचिमान्वितः ॥
पच्यते चाशु पक्वश्च पाण्डुः पीलुफलोपमः ।
मूत्रेण रक्तपर्यन्तो मध्ये कृष्णो विशीर्यते ॥
आवर्तसदृशः शूनः पूतिः सर्पति दह्यते ।
शुक्रेण ग्रन्थिसंस्थानः कठिनस्तीव्रवेदनः ॥
अल्पमूलोल्परुक्वोठो लालया कण्डुरो मृदुः ।
नखेन चोषपिटकाकण्डूधूमायनान्वितः ।
किंशुकोदरवर्णस्तु रजसा चञ्चुमालवान् ॥
लूता नाभेर्दशन्त्यूर्ध्वमूर्ध्वं चाधश्च कीटकाः ।
तद्दूषितं च वस्त्रादि देहे पृक्तं विकारकृत् ॥
दिनार्धं लक्ष्यते नैव दंशो लूताविषोद्भवः ॥
सूचीव्यधवदाभाति ततोसौ प्रथमे ऽहनि ।
अव्यक्तवर्णः प्रचलः किञ्चित् कण्डूरुजान्वितः ॥
द्वितीये ऽत्युन्नतोन्तेषु पिटकैरिव चाचितः ।
व्यक्तवर्णो नतो मध्ये कण्डूमान् ग्रन्थिसन्निभः ॥
तृतीये सज्वरो रोमहर्षकृद्रक्तमण्डलः ।
शरावरूपस्तोदाढ्यो रोमकूपेषु सास्रवः ॥
महांश्चतुर्थे श्वयथुस्तापश्वासभ्रमप्रदः ॥
विकारान् कुरुते तांस्तान् पञ्चमे विषकोपजान् ।
षष्ठे व्याप्नोति मर्माणि सप्तमे हन्ति जीवित ॥
विषमित्यतितीक्ष्णानामितरे विभजेदतः ॥
विषं शाम्यति सर्वासामेकविंशतिरात्रतः ॥
दंशः पित्तात्मको दाहतृट्स्फोटज्वरदाहवान् ।
सशोफः कठिनः पाण्डुः कण्डूमान् श्लैष्मिकोल्परुक् ।
वातिकः परुषः श्यावः पर्वभेदादिरुक्करः ॥
सर्पज्ञानोदितैर्लिङ्गैर्द्दोषोद्रेकं च लक्षयेत् ॥
त्रिदोषाः प्रायशः सर्वा लूताः पित्तकफाधिकाः ॥
प्राणान्तिकीषु हृन्मोहश्वासहिध्माशिरोग्रहाः ।
श्वेतासिताः पीतरक्ताः पिटकाः श्वयथूद्भवः ॥
वेपुथुर्वमथुर्दाहस्तृडान्ध्यं वक्रनासता ।
श्यावोष्ठवक्त्रदन्तत्वं पृष्ठग्रीवावभञ्जनम् ।
पक्वजम्बूसवर्णं च दंशात् स्रवति शोणितम् ॥
अथाशु लूतादष्टस्य शस्त्रेणादंशमुद्धरेत् ।
दहेत् जांबवोष्ठाद्यैर्न तु पित्तोत्तरं दहेत् ॥
कर्कशं भिन्नरोमाणं मर्मसन्ध्यादिसांश्रितम् ।
प्रसृतं सर्वतो दंशं न छिन्दीत दहेत् वा ॥
लेपयेद्दग्धमगदैर्मधुसैन्धवसंयुतैः ।
सुशीतैः सेचयेच्चानु कषायैः क्षीरिवृक्षजैः ॥
सर्वतोपहरेद्रक्तं शृङ्गाद्यैः सिरयापि वा ।
स्रुते रक्ते परीषेको घृतक्षीरादिभिर्हितः ॥
प्रपौण्डरीकद्द्रीबेरसारिवोशीरजीवकाः ।
लोध्रचन्दनजीवन्तीमञ्जिष्ठासर्जवञ्जुलाः ॥
मृणालबिसशैवालकुमुदोत्पलगैरिकाः ।
न्यग्रोधोदुम्बराश्वत्थनिचुलप्लक्षवेतसाः ॥
समङ्गापाटलीगुन्द्राकाकोलीशतपर्विकाः ।
शिरीषधातकीमूर्वाविदारीपद्मकिंशुकाः ॥
शृङ्गाटकं कोशवतीवायसीसोमराजयः ।
मधुकांशुमतीमूर्वा यथालाभं समाहृताः ।
शस्तः पर्युषितो लेपः सघृतः पैत्तिके वर्णे ॥
श्यामाद्वयनिशामुस्तानखरास्नामहासहाः ।
वासापत्तङ्गसुवहानाकुलीगिरिकर्णिकाः ॥
सर्पगन्धायवफलानिर्गुण्ड्यश्मन्तकस्थिराः ।
शुकाख्या महिषक्रान्ता कुष्ठेन्द्रयवकुङ्कुमम् ॥
करवीरागरुनतं सुगन्धा सिन्दुवारकम् ।
आस्फोटगुन्द्रा च हिता प्रलेपः श्लैष्मिके विषे ॥
बिम्बीविदुलबन्धूककोविदारपलाशकाः ।
सुवहारिष्टकब्राह्मीगुडूचीविश्वसैर्यकाः ॥
सिद्धार्थका देवदारु विडङ्गानीन्द्रवारुणी ।
शतावरीलाङ्गलिकीराजवृक्षपुनर्नवाः ॥
जीवन्ती वायसी भार्ङ्गी कतकेन्द्रयवार्जुनाः ।
मिसिव्याघ्रपदीसिंहपुच्छीमण्डलपर्णिकाः ॥
श्वदंष्ट्रा कोलबृहती रेवती श्वेतपुष्पिका ।
प्रपुन्नाटः कुरवकः प्रलेपो वातिके विषे ॥
सर्वत्रैव च शस्यन्ते बोधिश्लेष्मातकाक्षकाः ॥
उदीर्णदोषान् बलिनो विषे महति वाभयेन् ।
काकण्डकीकोशवती लोध्रेन्द्रयवसैन्धवैः ॥
पटोलपत्रमरिचकरघाटप्रियङ्गुभिः ।
कृष्णाशुकनसानीपनिम्बसप्ताह्वयष्टिभिः ॥
विरेचयेच्च त्रिफलात्रिवृत्त्रिकटुसैन्धवैः ।
सदन्तीपूगमृद्वीका विडङ्गैरथवा पचेत् ।
एभिः पलार्धिकैः प्रस्थं समब्राह्मीरसं घृतात् ॥
पञ्चमूलशृतं क्षीरं तोयं वा शोधनौषधैः ।
यथास्वं कल्कितैर्युक्तं पृथग्दद्याद्विरेचनम् ॥
पिप्पलीपिप्पलीमूलशुण्ठीन्द्रयवसैन्धवैः ।
पाठाजमोदायष्ट्याह्वमुस्तासर्षपदारुभिः ॥
लघुना पञ्चमूलेन सरलेन च साधिता ।
पेया संसर्जने योज्या सघृता विषनाशिनी ॥
आध्मानहिध्माश्वासेषु पृष्ठग्रीवावभञ्जने ।
सङ्कोचस्तम्भकम्पेषु शूलेष्वर्धावभेदके ॥
वातरोगेषु चान्येषु पर्वभेदार्दितादिषु ।
एरण्डविल्वसरलचिरिविल्वार्कपाटलीः ॥
शिग्रुपाठा कुशवृषं विदुलं च जले पचेत् ।
कनीयः पश्चमूलं च तस्मिन् मण्डं पचेत् घृतात् ॥
द्विगुणे तुल्यगोक्षीरे पिष्टैर्यष्टीनिशानतैः ।
सुराह्ववेल्लसरलशताह्वालोध्रगैरिकैः ॥
पयस्याकुष्ठागाङ्गेयीकृष्णामदनसैन्धवैः ।
बस्तौ प्रत्यागतेश्नीयात् पञ्चमूलान्वितैः रसैः ॥
नावनं गौरवे शोफे लालास्रावे हनुग्रहे ।
गिरिकर्णी फलसरो बन्धूकं किणिही सिता ॥
षड्ग्रन्थालशुनव्योषबृहतीवेल्लसैन्धवम् ।
अपामार्गफलं भार्ङ्गी नाकुली सर्पगन्धिका ॥
श्यामा यवफला बीजं फणिज्जकशिरीषयोः ।
वार्ताकरसपिष्टानि नस्यं विषहरं परम् ॥
विरिक्तशिरसश्चास्य सर्पिर्मण्डोनु नावनम् ॥
नेत्रोपरोधश्वयथुकण्डूनिद्रासमागमे ।
वचामनोह्वात्रिकटुत्रिफलालोध्रगैरिकाः ॥
शङ्खो नीलोत्पलं ताम्रं हेम प्रवालकम् ।
जीवन्ती लशुनं कुष्ठं कतकं मार्कवं नतम् ॥
प्रपैण्डरीकं मधुकं करञ्जफलसैन्धवम् ।
निशे फणिज्जकं तुत्थं स्रोतोञ्जनरसाञ्जने ।
मेषशृङ्गयाश्च कुसुमं पिष्टं गोवारिणाञ्जनम् ॥
सुरसप्रसवव्योषविल्वमूलसुराह्वयम् ।
हरिद्रा छागलीमूत्रं लूताकीटघ्नमञ्जनम् ॥
शिरीषपद्मकोशीरपाटलीसिन्दुवारकम् ।
क्षीरिशुङ्गनतोदीच्यसारिवाकुष्ठचन्दनम् ॥
शेलुस्वरसपिष्टोयमगदो नावनेञ्जने ।
पाने प्रलेपे सेके च लूतासु परमं हितः ॥
पयस्या मधुमृद्वीकाश्वदंष्ट्राक्षीरमोरटाः ।
गोजीविदारीयष्ट्याह्वमधुकानि च तद्गुणः ॥
तथा शिरीषकुसुमं चन्द्रलेखोद्भवं फलम् ।
सुराला कटभी जातिः श्वेता च गिरिकर्णिका ॥
तद्वच्च युञ्ज्यात्तगरकुष्ठनागबलाबलाः ॥
हरिद्रायुगलं नागदन्ती लोध्रं च शाबरम् ।
शिरीषपुष्पं तगरं सहदेवा शतावरी ॥
पुनर्नवा नागबला सर्पगन्धा कुटन्नटम् ।
गवादनी दन्तशठसोमवल्केन्दुराजयः ।
विषेषु सर्वेष्वगदः सक्षौद्रः सर्वकर्मकृत् ॥
सर्पाक्षी चन्दनं वक्रं मृगाक्षी गन्धनाकुली ।
एला महासुगन्धा च बस्तमूत्रेण कल्कितः ।
लेपे पाने च लूतासु नानेन सदृशोगदः ॥
कटभीमूलतगरसमङ्गोदवदारुभिः ।
बृहतीद्वयगाङ्गेयीरोचनाचन्दनैर्घृतम् ॥
सिद्धं चतुर्गुणक्षीरं पानाभ्यञ्जनयोर्हितम् ।
लूताकणभकीटानां विषे परमदारुणे ॥
निवृत्ते दाहशोफादौ कर्णिकां पातयेद्व्रणात् ॥
कुसुम्भपुष्पं गोदन्तः स्वर्णक्षीरी कपोतविट् ।
त्रिवृता सैन्धवं दन्ती कर्णिकापातनं तथा ॥
हरिद्रा गुग्गुलुः किण्वं वंशलेखः कपोतविड् ।
तद्वच्च सैन्धवं कुष्ठं दन्तीकटुकदौग्धिकम् ।
राजक्रोशातकीमूलं किण्वो वा मथितोद्भवः ॥
कर्णिकापातसमये बृंहयेत विषापहैः ॥
ऋतुकाले च लूतानां यावन्तः शुक्रविन्दवः ।
देहे पतन्ति तावत्यो जायन्ते कर्णिकाः समम् ॥
गोदन्तदन्ती त्रिवृता हरिद्रे सैन्धवं तिलाः ।
मधुकं निम्बपत्राणि घृतं च व्रणशोधनम् ॥
कान्ताविडङ्गखदिरनिम्बकम्पिल्लकाम्बुदैः ।
सर्जैलाधातकीलोहैः सिद्धं सर्पिर्व्रणापहम् ॥
शिरीषकटभीशेलुक्षीरिवृक्षार्जुनत्वचः ।
कल्कचूर्णपरीषेकैः कीटलूताव्रणापहाः ॥
शताह्वालोध्रकासीसदार्वीजम्ब्वस्थिरोचनाः ।
हरीतकी पूगफलं चूर्णोयं व्रणरोपणः ॥
लाक्षा रजन्यौ मञ्जिष्ठा हरितालं मनश्शिला ।
सर्पिर्मधु च लेपोयं त्वग्विशुद्धिकरः परम् ॥
रोमसञ्जननं कुर्याद्यदुक्तं व्रणसाधने ॥
स्नेहकार्यमशेषं च सर्पिषैव समाचरेत् ।
विषस्य वृद्धये तैलमग्नेरिव तृणोलपम् ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0