भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 6.43

6.43.1

अथातः कीटविषप्रतिषेधं नामाध्यायं व्याख्यास्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

6.43.2

सर्पाणामेव विण्मूत्रशुक्राण्डशवकोथजाः ।
दोषैर्व्यस्तैः समस्तैश्च युक्ताः कीटाश्चतुर्विधाः ॥

6.43.3

कुम्भीनसस्तुण्डिकेरी शृङ्गी शतकुलीरकः ।
उच्चिटिङ्गोग्निनामा च चिच्चिटाङ्गो मयूरकः ।
अहिजोरभ्रकाबर्तशारिकामुखवैदलाः ॥

6.43.4

शरावकुर्दौ परुषश्चित्रशीर्षो हि जारकः ।
अष्टादशेति वायव्याः कीटा वातप्रकोपनाः ॥

6.43.5

कौण्डिन्यकः कणभको वरटी पत्रवृश्चिकः ।
विनासिका ब्राह्मणिका विन्दुलो भ्रमरस्तथा ॥

6.43.6

बाह्यकी पिच्चिटः कुम्भी वर्चःकीटोरिमेदकः ।
दुन्दुभिः पद्मकीटश्च मकरः शतपादकः ॥

6.43.7

पञ्चालः पाकमत्स्यश्च सूक्ष्मतुण्डोथ गर्दभिः ।
क्लीतः कृमिशरारी च यश्चाप्युत्क्लेशकः स्मृतः ।
चतुर्विंशतिराग्रेयाः कीटाः पित्तविकारदाः ॥

6.43.8

विश्वम्भरः पञ्चशुष्कः पञ्चकृष्णोथ कोकिलः ।
स्थैर्यकः प्रचलाकश्च वटभः किटिभो जटी ॥

6.43.9

सूचीमुखः कृष्णगोधा दभ्रः काषायवासिकः ।
त्रयोदशैते निर्दिष्टाः सौम्याः श्लेष्मप्रकोपणाः ॥

6.43.10

तुङ्गनासश्चिपिलकस्तालको वाहकस्तथा ।
कोष्ठागारी कृमिकरो यश्च मण्डलपुच्छकः ॥

6.43.11

तुण्डनाभः सर्षपको मद्गुलिः शम्बुकस्तथा ।
अग्निकीटश्च सङ्कीर्णा द्वादश प्राणनाशनाः ॥

6.43.12

दष्टस्यकीटैर्वायव्यैर्दंशस्तोदरुजोल्बणः ।
आग्नेयैरल्पसंस्रावो दाहरागविसर्पवान् ।
पक्कपीलुफलप्रख्यः खर्जूरसदृशोथ वा ॥

6.43.13

कफाधिकैर्मन्दरुजः पक्कोदुम्बरसन्निभः ।
स्रावाढ्यःसर्वलिङ्गस्तुदंशः स्यात्सान्निपातिकैः ॥

6.43.14

वेगाश्च सर्पवच्छोफो वर्द्धिष्णुर्विस्ररक्तता ।
शिरोक्षिगौरवं मूर्च्छा भ्रमः श्वासोतिवेदना ॥

6.43.15

सर्वेषां कर्णिका शोफो ज्वरः कण्डूररोचकः ॥

6.43.16

वातिकः पक्षवातेन स्पर्शाद्दशति पैत्तिकः ।
मुखेन श्लैष्मिकः कीटः सर्वथा सान्निपातिकः ॥

6.43.17

दष्टस्य कणभैः शोफो विसर्पो वमथुर्ज्वरः ।
दंशश्च कर्णिकाकारः श्यावरक्तो विशीर्यते ॥

6.43.18

त्रिकण्टकैस्तु दष्टस्य नानावर्णोथ वा सितः ।
दंशो भवेच्छ्वयथुमान् मोहो भेदश्च वर्चसः ॥

6.43.19

कृकलासेर्द्धचन्द्राभः स्राववात् भृशलोहितः ।
दंशो रक्तैश्चितः स्फोटैः सशूलैर्दम्भवोद्भवः ॥

6.43.20

एकदंष्ट्रार्पितः पीतः कण्डूमान् दार्दुरः सरुक् ।
दंशो दष्टः सतृण्निद्रो मूर्च्छावान् हरितं वमेत् ॥

6.43.21

मात्स्यो दंशः सरुग्दाहः प्रागेवोक्तो जलौकसाम् ।
विश्वम्भरकृतो दंशः शोफकण्डूरुजान्वितः ।
कफोद्वममतीसारं कुरुते कोठजन्म च ॥

6.43.22

पीतः शतपदीदंशः स्वेदरुग्रागशोफवान् ।
अतसीपुष्पवर्णो वा पिटकावान् भ्रमग्रदः ॥

6.43.23

गृहगोधिकया स्घेदतोदश्वयथुदाहवान् ।
क्लेदी च दंशो दष्टस्य हृस्पीडा ग्रन्थिसम्भवः ॥

6.43.24

कण्डूमान् मशकैरीषच्छ्वयथुर्मन्दवेदनः ।
असाध्यकीटसदृशमसाध्यमशकक्षतम् ॥

6.43.25

प्रायेण मक्षिका नेत्रे दशन्ति श्वयथूल्वणः ।
तद्दंशो दाहकण्डूमांस्तासां तु स्थालिकां त्यजेत् ।
तदृष्टे पिटका श्यावा स्राविणी भूर्युपद्रवा ॥

6.43.26

रुग्वान् पिपीलिकादंशो वह्निनेव च दह्यते ॥

6.43.27

जलबिन्दुनिभैः स्फोटैर्दाहकण्डूरुजान्वितैः ।
यत् गात्रमाचितं सोष्म तद्विद्यादवमूत्रितम् ॥

6.43.28

वृश्चिकस्य विषं तीक्ष्णमादौ दहति वह्निवत् ।
ऊर्ध्वमारोहति क्षिप्रं दंशे पश्चात्तु तिष्ठति ।
दंशः सद्योतिरुक् श्यावस्तुद्यते स्फुटतीव च ॥

6.43.29

ते गवादिशकृत्कोथद्दिग्धदष्टादिकोथतः ।
सर्पकोथाच्च सम्भूता मन्दमध्यमहाविषाः ॥

6.43.30

मन्दाः पीताः सिताः श्यावा रुक्षाः कर्बुरमेचकाः ।
रोमशा बहुपर्वाणो लोहिताः पाण्डुरोदराः ॥

6.43.31

धूम्रोदरास्त्रिपर्वाणो मध्यास्तु कपिलारुणाः ॥

6.43.32

पिशङ्गाः शबलाश्चित्राः शोणिताभा महाविषाः ॥

6.43.33

अग्न्याभा द्व्येकपर्याणो रक्तासितसितोदराः ॥

6.43.34

तैर्दष्टः शूनरसनः स्तब्धगात्रो रुजार्दितः ।
खर्वमन् शोणितं कृष्णमिन्द्रियार्थनसंविदन् ॥

6.43.35

स्विद्यन् मूर्च्छन् विशुष्कास्यो विह्णलो वेदनातुरः ।
विशीर्यमाणमांसश्च प्रायशो विजहात्यसून् ॥

6.43.36

उच्चिटिङ्गस्तु वक्त्रेण दशत्यभ्यधिकव्यथः ॥

6.43.37

साध्यतो वृश्चिकात् स्तम्भं शेफसो हृष्टरोमताम् ।
करोति सेकमङ्गानां दंशः शीताम्बुनेव च ॥

6.43.38

उष्ट्रवर्णतया प्रोक्तः स एव ह्युष्ट्रधूमकः ।
रात्रिको रात्रिचाराच्च पृथक् तु कणभादिषु ।
विकारसाधनाभेदात् भेदाः सन्तोपि नोदिताः ॥

6.43.39

वातपित्तोत्तराः कीटा श्लैष्मिकाः कणभोन्दुराः ।
प्रायो वातोल्बणविषा वश्चिकाः सोष्ट्रधूमकाः ॥

6.43.40

यत्र यस्यैव दोषस्य लिङ्गाधिक्यं प्रतर्कयेत् ।
तत्र तस्यौषधैः कुर्याद्विपरीतगुणैः क्रियाम् ॥

6.43.41

हृत्पीडोर्ध्वानिलः स्तम्भाः सिरायामोस्थि पर्वरुक् ।
घूर्णनोद्वेष्टनं गात्रश्यावता वातिके विषे ॥

6.43.42

संज्ञानाशोष्णनिश्वासौ हृदाहः कटुकास्यता ।
मांसावदरणं शोफो रक्तपित्तं च पैत्तिके ॥

6.43.43

छर्द्यरोचकहृल्लासप्रसेकोत्क्लेशपीनसैः ।
सशैत्यमुखमाधुर्यैर्विद्याच्छ्रलेष्माधिकंविषम् ॥

6.43.44

पिण्याकेन व्रणालेपस्तैलाभ्यङ्गश्च वातिके ।
स्वेदो नाडीपुलाकाद्यैर्बृंहणश्च विधिर्हितः ॥

6.43.45

पैत्तिकं स्तम्भयेत् सेकैः प्रदेहैश्चातिशीतलैः ॥

6.43.46

लेखनच्छेदनस्वेदवमनैः श्लैष्मिकं जयेत् ॥

6.43.47

कीटानां त्रिप्रकाराणां त्रैविध्येन क्रिया हिता ॥

6.43.48

स्स्वेदालेपनसेकांस्तु कोष्णान् प्रायोवचारयेत् ।
अन्यत्र मूर्च्छिताद्दंशपाकतः कोथतोपि वा ॥

6.43.49

नृकेशाः सर्षपाः पीता गुडो जीर्णश्च धूपनम् ।
विषदंशस्य सर्वस्य काश्यपः परमब्रवीत् ॥

6.43.50

विषघ्नं च विधिं सर्वं कुर्यात् संशोधनानि च ॥

6.43.51

साधयेत् सर्पवद्दष्टान् विषोग्रैः कीटवृश्चिकैः ॥

6.43.52

तण्डुलीयकतुल्यांशां त्रिवृतां सर्पिषा पिबेन् ।
याति कीटविषैः कम्पं न कैलास इवानिलैः ॥

6.43.53

क्षीरिवृक्षत्वगालेपः शुद्धे कीटविषापहः ।
मुक्तालेपो वरः शोफतोददाहज्वरप्रणुत् ॥

6.43.54

वचा हिङ्गुविडङ्गानि सैन्धवं गजपिप्पली ।
पाठाप्रतिविषाव्योषं काश्ययेन विनिर्मितम् ।
दशाङ्गमगदं पीत्वा सर्वकीटविषं जयेत् ॥

6.43.55

ऐकध्यं कीटविषजिन्महास्नेहं पयो मधु ।
शिखिकुक्कुटजैः पिच्छैः सतैललवणोत्तमैः ।
धूपो हन्ति कृतः शीघ्रं कीटवृश्चिकजं विषम् ॥

6.43.56

विषे कणभजे कुर्यादुन्दुरोक्तमुपक्रमम् ।
शिरीषबीजं मण्डूके लेपः स्नुक्क्षीरकल्कितम् ।
मधु त्रिकटुकं श्वेतपिण्डामूलं च मत्स्यजे ॥

6.43.57

वचां वंशत्वचं पाठां नतं सुरसमञ्जरीम् ।
द्वे बले नाकुलीं कुष्ठं शिरीषं रजनीद्वयम् ॥

6.43.58

गुहामतिगुहां श्वेतामजगन्धां शिलाजतु ।
कत्तृणं कटभीक्षारं गृहधूमं भनश्शिलाम् ॥

6.43.59

रोहीतकं च पित्तेन कल्कयेत् स वरो ऽगदः ।
विश्वम्भरादिष्वालेपनावनाञ्जनपानतः ॥

6.43.60

स्वर्जिकाजशकृत्क्षारः सुरसः साक्षिपीडकः ।
मदिरामण्डसंयुक्तो हितः शतपदीविषे ॥

6.43.61

कपित्थमक्षिपीडोर्कबीजं त्रिकटुकान्वितम् ।
करञ्जो द्वे हरिद्रे च गृहगोधीविषापहः ॥

6.43.62

काकाण्डयुक्तः सर्वेषां विषाणां तण्डुलीयकः ।
प्रशस्तो बर्हिणोण्डेन तद्वद्वायसपीलुकः ॥

6.43.63

तगरं नागरं नागकेसरं मरिचानि च ।
प्रयुक्तं पानलेपाभ्यां मक्षिकाविषनाशनम् ॥

6.43.64

सितासिते च लवणे मरिचं च सनागरम् ।
फणिज्जकरसोपेतं वरटीनां विषापहम् ॥

6.43.65

सद्यो वृश्चिकजं दंशं चक्रतैलेन सेचयेत् ।
विदारिगन्धासिद्धेन कवोष्णेनेतरेण वा ॥

6.43.66

लवणोत्तमयुक्तेन सर्पिषा वा पुनः पुनः ।
सिञ्चेत्कोष्णारनालेन सक्षीरलवणेन वा ।
उपनाहो घृते भृष्टः कल्कोजाज्याः ससैन्धवः ॥

6.43.67

आदंशं स्वेदितं चूर्णैः प्रच्छाय प्रतिसारयेत् ।
रजनीसैन्धवव्योषशिरीषफलपुष्पजैः ॥

6.43.68

मातुलुङ्गाम्लगोमूत्रपिष्टं च सुरसाग्रजम् ।
लेपः सुखोष्णश्च हितः पिण्याको गोमयोपि वा ॥

6.43.69

पाने सर्पिर्मधुयुतं क्षीरं वा भूरिशर्करम् ।
गुडोदकं वा सुहिमं चातुर्जातकवासितम् ॥

6.43.70

पलाशबीजं शूलघ्नो लेपोर्कक्षीरभावितम् ।
पारावतशकुत्पथ्या तगरं विश्वभेषजम् ।
बीज पूररसोन्मिश्रं वरो ऽयं वृश्चिकागदः ॥

6.43.71

मनोह्ना सैन्धवं हिङ्गु मालतीपल्लवानि च ।
गोशकृद्रसपिष्टेयं गुटिका वृश्चिकार्दिते ॥

6.43.72

लशुनो मरिचं हिङ्गु सुरसं विश्वभेषजम् ।
अर्कक्षीरेण गुटिका वृश्चिकार्दितशङ्करी ॥

6.43.73

सशैवलोष्ट्रदंष्ट्रा च हन्ति वृश्चिकजं विषम् ॥

6.43.74

हिङ्गुना हरितालेन मातुलुङ्गरसेन च ।
लेपाञ्जनाभ्यां गुटिका परमं वृश्चिकापहा ॥

6.43.75

करञ्जार्जुनशेलूनां कटभ्याः कुटजस्य च ।
शिरीषस्य च पुष्पाणि मस्तुना दंशलेपनम् ॥

6.43.76

पिप्पलीं मरिचं यष्टिं श्वेतां सुरसमञ्जरीम् ।
सहदेवामपामार्गं तण्डुलीयं च कल्कयेत् ।
कुतलक्षारतोयेन लेपो ऽलिविषनाशनः ॥

6.43.77

यो मुह्यति प्रश्वसिति प्रलपत्युग्रवेदनः ।
तस्य पथ्यानिशाकृष्णामञ्जिष्ठातिविषोषणम् ।
सालाबुवृन्तं वार्ताकरसपिष्टं प्रलेपनम् ॥

6.43.78

आदंशे यस्य कण्डूःस्यात् कोथः कोठं च दारुणम् ।
तस्य लेपस्त्रिकटुकं यवक्षारोक्षिपीडकः ॥

6.43.79

पारावतशकृत्कान्तास्वर्ज्जिकाग्निहरेणवः ।
रसेन मातुलुङ्गस्य क्षीरेणार्कस्यवा द्रुताः ॥

6.43.80

हृदयं पीड्यते यस्य मूर्च्छा चिमिचिमायनम् ।
दन्तौष्ठदंशो रोम्णां च हर्षस्तस्य निवर्तते ।
वेगो विषस्य पञ्चाहान्नैव वा क्रियया विना ॥

6.43.81

तत्र कुर्वीत दंशस्य लेपनं मस्तुकल्कितैः ।
श्वेतपाटल्यतिविषाहरिद्राहरिणीनतैः ।
बिल्वमूलयवक्षारसूक्ष्ममागधिकायुतैः ॥

6.43.82

उत्कृत्यत इवादंशः शूनः क्लिन्नो हतच्छविः ।
जम्बूफलनिभं रक्तं कूजन् वमति वेष्टते ॥

6.43.83

इन्द्रियार्थं न जानाति प्रस्विद्यति च यो मुहुः ।
स्वर्जिकाकुष्ठतगरनाकुलीपीलुपिप्पलीः ।
बृहतीं चाच्छसुरया तस्य पिष्ट्वा विलेपनम् ॥

6.43.84

सर्वत्र चोग्रालिविषे पाययेन्मधुसर्पिषी ।
विध्येत् सिरां विदध्याच्च वमनाञ्जननावनम् ।
उष्णस्निग्धाम्लमधुरं भोजनं चानिलापहम् ॥

6.43.85

नागरं गृहकपोतपुरीषं बीजपूरकरसो हरितालम् ।
सैन्धवं च विनिहन्त्यगदो ऽयं लेपतो ऽलिकुलजं विषमाशु ॥

6.43.86

अन्ते वृश्चिकदष्टानां समुदीर्णे भृशं विषे ।
विषेणालेपयेद्दंशं स्थावरेण यथोचितम् ॥

6.43.87

क्रियेयमुच्चिटिङ्गेपि प्रतिलोमं च पांसुभिः ।
उद्वर्तनं सुखाम्लोष्णैस्तथा प्रच्छादनं घनैः ॥

6.43.88

कुटजस्य फलं कुष्ठं मालती फलिनी नतम् ।
तिक्तेक्ष्वाकुश्च पिष्टानि पानप्नध्द्मनादिभिः ॥

6.43.89

वृश्चिकोन्दुरुलूतानां सर्पाणां च विषापहम् ।
समानममृतेनेदं गरशेषं च नाशयेत् ॥

6.43.90

अर्कस्य दुग्धेन शिरीषबीजं त्रिर्भावितं पिप्पलिचूर्णमिश्रम् ।
एषो ऽगदो हन्ति विषाणि कीटभुजङ्गलूतोन्दुरुवृश्चिकानाम् ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc