अष्टाङ्गसंग्रह · अध्याय 6.42
अथातः सर्पविषप्रतिषेधं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयोमहर्षयः ॥
मात्राशतं विषं स्थित्वा दंशे दष्टस्य देहिनः ।
देहं प्रक्रमते धातून् रुधिरादीन् प्रदूषयत् ॥
एतस्मिन्नन्तरे कर्म दंशस्योत्कर्तनादिकम् ।
कुर्याच्छीघ्रं यथा देहे विषवल्ली न रोहति ॥
दष्टमात्रो दशेदाशु तमेव पवनाशिनम् ।
लोष्टं महीं वा दशनैश्छित्वा वानु ससम्भ्रमम् ॥
निष्ठीवेन समालिम्पेद्दंशं कर्णमलेन वा ।
दंशस्योपरि बध्नीयादरिष्टां चतुरङ्गुले ।
क्षौमादिभिर्वेणिकया सिद्धैर्मन्त्रैश्च मन्त्रवित् ॥
बन्धो देशानुसारेण नातिगाढश्लथो हितः ।
दंशपूतित्वशोफादीन् कुरुते ह्यतिपीडितः ।
अशक्तः शिथिलो रोध्दुं विषं देशान्तरं व्रजत् ॥
अम्बुवत् सेतुबन्धेन बन्धेन स्तभ्यते विषम् ।
न वहन्ति सिराश्चास्य विषं बन्धाभिपीडिताः ॥
निष्पीड्य चोद्धरेद्दंशं मर्मसन्ध्यगतं तथा ।
न जायते विषावेगो बीजनाशादिवाङ्कुरः ।
मर्मगे प्राप्नुयान्मृत्युं सन्धिस्थे विकलाङ्गताम् ॥
दंशं मण्डलिनां मुक्त्वा पित्तलत्वादथापरम् ।
प्रतप्तैर्हेमलोहाद्यैर्दहेदाशूल्मुकेन वा ।
करोति भस्मसात् सद्यो वह्निः कि नाम न क्षणात् ॥
आचूषेत् पूर्णवक्त्रो वा मृद्भस्मागदगोमयैः ।
प्रच्छायान्तररिष्टायां मांसलं तु विशेषतः ॥
अङ्गं सहैव दंशेन लेपयेदगदैर्मुहुः ।
चन्दनोशीरयुक्तेन सलिलेन च सेचयेत् ॥
विषे प्रविसृते विध्येत् सिरां सा परमा क्रिया ॥
रक्ते निर्द्द्रियमाणे हि कृत्स्नं निर्द्द्रियते विषम् ।
दुष्टे हि व्याप्नुयादङ्गं ध्रुवं मृत्युर्भवत्यतः ॥
सिराव्यधोदितैरस्रमप्रवृत्तं प्रवर्तयेत् ।
स्तम्भयेदतिवृत्तं च तैरेव प्राणरक्षया ॥
दुर्गन्धं सविषं रक्तमग्नौ चटचटायते ।
यथादोषं विशुद्धं च पूर्ववल्लक्षयेदसृक् ॥
सिरास्वदृश्यमानासु योज्याः शृङ्गजलौकसः ॥
शोणितं स्रुतशेषं च प्रविलीनं विषोष्मणा ।
लेपसेकैः सुबहुशः स्तम्भयेद् भृशशीतलैः ॥
अस्कन्ने विषवेगाद्धि मूर्च्छायमदहृद्द्रवाः ।
भवन्ति तान् जयेच्छीतैर्वीजेच्चारोमहर्षतः ॥
विषं कर्षति तीक्ष्णत्वाद्धृदयं तस्य गुप्तये ।
पिबेद् घृतं घृतक्षौद्रमगदं वा घृताप्लुतम् ॥
मज्जानं गोमयरसं भस्माम्भः कृष्णमृज्जलम् ।
ऐकध्यं पञ्चगव्यं वा दधि गैरिकवारि वा ॥
खादेद्वा कोविदारार्कशिरीषकटभीच्छदान् ।
छागमेषवराहासृक्शिशुस्थविरयोषितः ॥
पिबेयुर्गर्भिणी शीतमधुरान् पयसा गदान् ।
तथा मूर्च्छादयो न स्युर्विषं चाश्वेतिनानिलम् ॥
हृदयावरणेनास्य श्लेष्मा हृद्युपचीयते ।
प्रवृत्तगौरवोत्क्लेशहृल्लासं वामयेत्ततः ॥
द्रवैः काञ्जिककौलत्थतैलमद्यादिवर्जितैः ।
वमनैर्विषहृद्भिश्च नैवं व्याप्नोति तद्वपुः ॥
भुजङ्गदोषप्रकृतिस्थानवेगविशेषतः ।
सुसूक्ष्मं सम्यगालोच्य विशिष्टां चाचरेत्क्रियाम् ॥
सिन्दुवारकमूलानि रसेन स्वेन पेषयेत् ।
मधुयुक्तोयमगदः पानं दर्वीकृतां विषे ॥
सिन्दुवारकमूलानि श्वेता च गिरिकर्णिका ।
पानं दर्वीकरैर्दष्टे नस्यं मधु सपाकलम् ॥
कृष्णसर्पेण दष्टस्य लिम्पेद्दंशं हृते ऽसृजि ।
चारटीनाकुलीभ्यां वा तीक्ष्णमूलविषेण वा ॥
पानं च क्षौद्रमञ्जिष्ठागृहधूमयुतं घृतम् ॥
तण्डुलीयककाश्मर्यकिणिहीगिरिकर्णिकाः ।
मातुलुङ्गी सिता शेलुः पाननस्याञ्जने हितः ।
अगदः फणिनां घोरे विषे राजीमतामपि ॥
समाः सुगन्धामृद्वीकाश्वेताख्यागजकर्णिकाः ।
अर्द्धांशं सौरसं पत्रं कपित्थं बिल्वदाडिमम् ।
सक्षौद्रो मण्डलिविषे विशेषादगदो हितः ॥
पञ्चवल्कवरायष्टी नागपुष्पैलवालुकम् ।
जीवकर्षभकौ शीतं सिता पद्मकमुत्पलम् ॥
सक्षौद्रो हिमवान् नाम हन्ति मण्डलिनां विषम् ।
लेपाच्छ्वयथुवीसर्पविस्फोटज्वरदाहहा ॥
काश्मर्यं वटशृङ्गाणि जीवकर्षभकौ सिताम् ।
मञ्जिष्ठां मधुकं चेति दष्टो मण्डलिना पिबेत् ॥
वंशत्वग्बीजकटुका पाटलीबीजनागरम् ।
शिरीषबीजातिविषे मूलं गावेधुकं वचाम् ।
पिष्टो गोवारिणाष्टाङ्गो हन्ति गोनसजं विषम् ॥
कटुकातिविषाकुष्ठगृहधूमहरेणुकाः ।
सक्षौद्रव्योषतगरा घ्नन्ति राजमितां विषम् ॥
निखनेत्काण्डचित्राया दंशं यामद्वयं भुवि ।
उद्धृत्य प्रच्छितं सर्पिर्द्धान्यमृद्भ्यां प्रलेपयेत् ॥
पिबेत् पुराणं च घृतं वराचूर्णावचूर्णितम् ।
जीर्णे विरिक्तो भुञ्जीत यवान्नं सूपसंस्कृतम् ॥
करवीरार्ककुसुममूललाङ्गलिका कणाः ।
कल्कयेदारनालेन पाठामरिचसंयुताः ।
एष व्यन्तरदष्टानामगदः सार्वकार्मिकः ॥
शिरीषपुष्पस्वरसे सप्ताहं मरिचं सितम् ।
भावितं सर्पदष्टानां पाननस्याञ्जने हितम् ॥
द्विपलं वक्रकुष्ठाभ्यां घृतक्षौद्रं चतुष्पलम् ।
अपि तक्षकदष्टानां पानमेतत् सुखप्रदम् ॥
गृहधूमं हरिद्रे द्वे समूलं तण्डुलीयकम् ।
अपि वासुकिना दष्टः पिबेन्मधुघृताप्लुतम् ॥
रक्तं मांसं च गोधायाः शुष्कं चूर्णीकृतं हितम् ।
विषे रसगते पानं कपित्थरससंयुतम् ॥
शेलुमूलत्वगग्राणि बादरोदुम्बराणि च ।
कटभ्याश्च पिबेद्रक्तगते मांसगते पुनः ॥
सक्षौद्रं खादिरारिष्टकौटजं मूलमम्भसा ।
सर्वेष्वपि बलायुग्मं मधुकं मदनं नतम् ॥
शिरोगते विषे मूलं नस्यकर्मणि योजयेत् ।
बन्धुजीवस्य भाङ्र्ग्याश्च सुरसस्यासितस्य च ॥
अथवा पिप्पलीहिङ्गुवृश्चिकालीमनश्शिलाः ।
शिरीषबीजापामार्गलवणं चेतनाकरम् ।
कल्कश्रूर्णोथवा कृष्णाक्षवकातिविषोषणात् ॥
पिप्पली मरिचक्षारवचासैन्धवशिग्रुकाः ।
पिष्टा रोहितपित्तेन घ्नन्त्यक्षिगतमञ्जनात् ॥
चन्दनं मधुकं मांसी पिप्पलीमरिचोत्पलम् ।
सैन्धवं चाञ्जनं श्रेष्ठं गवां पित्तेन कल्कितम् ॥
नक्तमालफलं व्योषं बिल्बमूलं निशाद्वयम् ।
पुष्पं च सौरासं पिष्टमञ्जनं बस्तवारिणा ।
भोजवैतरणोद्दिष्टं विषसुप्तप्रबोधनम् ॥
वारिगुञ्जाफलोशीरं नेत्रयोर्विषदुष्टयोः ।
अञ्जनं वारिणा पिष्टं गारुडं गरुडोपमम् ॥
समुद्रफेनं मरिचं कणासौवीरकाञ्जम् ।
चूर्णाञ्जनं ससिन्धूत्थं विषोपहतचक्षुषाम् ॥
कपित्थमांसं ससिताक्षौद्रं कण्ठगते विषे ।
लिह्यादामाशयगते ताभ्यां चूर्णपलं नतात् ॥
विषे पक्वाशयगते मञ्जिष्ठारजनीद्वयम् ।
पिप्पलीं च समं पिष्ट्वा गव्यपित्तेन पाययेत् ॥
पिप्पलीनागरक्षारं नवनीतेन मूर्च्छितम् ।
प्रवृद्धे कण्ठगे दद्याच्छ्लेष्मणि प्रतिसारणम् ॥
जयेत् सङ्क्रामणैराशु विषं शिरसि संश्रितम् ।
दद्यादधस्ताद्दष्टस्य मूर्ध्नि काकपदे कृते ॥
काकदक्षशिखिच्छागगव्यमाहिषकौक्कुटम् ।
बिल्वप्रमाणं मांसास्नमूर्ध्वदष्टस्य पादयोः ।
विषं सङ्क्रमते तत्र निहन्याच्छीघ्रमन्यथा ॥
तीक्ष्णनस्याञ्जनान्ते च भूरिमात्रं पिबेत् घृतम् ।
विषं हि नेत्रं रूक्षस्य तीक्ष्णैर्हन्ति समीरितम् ॥
वामयेत ततश्चैनं विषशेषोपशान्तये ।
श्लेष्मलं श्लेष्मलैर्दष्टं नाभेरूर्ध्वं विशेषतः ॥
धामार्गवः शक्रयवाः सर्षपा मदनं मधु ।
सैन्धवं वमनं कोष्णं विषे श्लेष्माश्रयश्रिते ॥
सुरसं सर्पवेतालीमीश्वरां गौरसर्षपम् ।
पटोलनिम्बपत्रं च पिबेत् सक्षौद्रसैन्धवम् ॥
शुकाह्वाजालिनीदन्तीमदनेक्ष्वाकुकौटजम् ।
काला लाङ्गलिका तिक्ता वमनं तण्डुलांबुना ॥
पैत्तिकं पैत्तिकैर्दष्टमधो नाभेर्विशेषतः ।
विषे पित्ताशयगते पाययेत विरेचनम् ॥
सनीलीफलदां दन्तीं पयसा मस्तुनाथवा ।
श्लक्ष्णचूर्णीकृतं कुम्भं क्वाथेन त्रैफलेन वा ।
क्षीरेण वा त्रिवृच्छ्यामासुरसानीलिनीरजः ॥
पिण्डीतकफलं व्योषं त्रिवृद्वेल्लं हरीतकी ।
विरेचनं कफप्राये लवणं मूत्रसम्प्लुतम् ॥
घृताप्लुतं सलवणं मारुते नीलिनीफलम् ॥
शयानः शयने छिद्रे विरेच्यो विषपीडितः ।
मुहुरुत्तिष्ठतो ह्यस्य विषं दूषयतेनिलम् ।
पिबेद्वान्तो विरिक्तो वा यवागूं विषनाशिनीम् ॥
विषे वाताशयगते सर्पिषः पानमिष्यते ।
आद्यपश्चिमयोर्यच्च प्रोक्तं विषनिषेधयोः ॥
अथ दर्वीकृतां वेगे पूर्वे विस्राव्य शोणितम् ।
अगदं मधुसर्पिर्भ्यां संयुक्तं त्वरितं पिबेत् ॥
द्वितीये वमनं कृत्वा तद्वदेवागदं पिबेत् ।
विषापहे प्रयुञ्जीत तृतीयेञ्जननावने ॥
पिबेच्चतुर्थे पूर्वोक्तां यवागूं वमने कृते ।
षष्ठपञ्चमयोः शीतैर्दिग्धसिक्तमभीक्ष्णशः ॥
पाययेद्वमनं तीक्ष्णं यगागूं यथोदिताम् ।
अगदं सप्तमे तीक्ष्णं युञ्ज्यादञ्जननस्ययोः ॥
कृत्वावगाढं शस्त्रेण मूर्ध्नि काकपदं ततः ।
मांसं सरुधिरं तस्य चर्म वा तत्र निक्षिपेत् ॥
तृतीये वामितः पेयां वेगे मण्डलिनां पिबेत् ।
अतीक्ष्णमगदं षष्ठे गणं वा पद्मकादिकम् ॥
आद्येवगाढं प्रच्छाय वेगे दष्टस्य राजिलैः ।
अलाबुना हरेद्रक्तं पूर्ववच्चाअगदं पिबेत् ॥
षष्ठे वेगेञ्जनं तीक्ष्णमवपीडं च योजयेत् ।
अनुक्तेषु च वेगेषु क्रियां दर्वीकरोदिताम् ॥
गर्भिणीबालवृद्धेषु मृदु विध्येत् सिराञ्च न ॥
त्वङ्मनोह्वा निशे वक्रं रसः शार्दूलजो नखः ।
तमालः केसरं शीतं पीतं तण्डुलवारिणा ।
हन्ति सर्वविषाण्येतद्वज्रं वज्रमिवासुरान् ॥
प्रपौण्डरीकं कटुका देवदारुसुवर्चिका ।
कालानुसारी स्थौणेयशैलेयघनपद्मकम् ॥
कुटन्नेटलापुन्नागनतकुष्ठीप्रयङ्गुकम् ।
लोध्रगुग्गुलुतालीसपिप्पलीस्वर्णगैरिकम् ॥
सिन्दुवारः सितः शुण्ठी ध्यामकं लवणोत्तमम् ।
श्लक्ष्णचूर्णीकृतं शृङ्गे निदध्यान्माक्षिकद्रुतम् ॥
तार्क्ष्यस्तार्क्ष्योपमः पाननावनाभ्यञ्जनाञ्जनैः ।
अगदस्तक्षकस्यापि विषवेगं निवर्तयेत् ॥
लोध्रं शिरीषषुष्पाणि समङ्गा हिङ्गु रेणुकाः ।
कणोषणैलानेपाली वचा यष्टी मधूत्पलम् ॥
सिन्दुवारकमन्दारमूलं बीजं करञ्जजम् ।
ज्योतिष्मती नतं कुष्ठं श्वेता च गिरिकर्णिका ॥
चूर्णितः कन्यया क्षौद्रगोपित्ताभ्यां च वर्तितः ।
अगदो हन्ति सर्पाखुकणभं च सृगालजम् ॥
बिडालकाण्डचित्रोत्थं विषं भूतग्रहं ज्वरम् ।
अपस्मारग्रहोन्मादगुल्माजीर्णं विषूचिकाम् ॥
बिल्वस्य मूलं सुरसस्य पुष्पं फलं करञ्जस्य नतं सुराह्वम् ।
फलत्रयं व्योषनिशाद्वयं च बस्तस्य मूत्रेण सुसूक्ष्मपिष्टम् ॥
भुजङ्गलूतोन्दुरुवृश्चिकाद्यैर्विषूचिकाजीर्णगाज्वरैश्च ।
आर्त्तान् नरान् भूतविधर्षितांश्च स्वस्थीकरोत्यञ्जनपाननस्यैः ॥
त्रिवृद्विशल्या मधुकं निशे लवणपञ्चकम् ।
मंजिष्ठा त्र्यूषणं तद्वत् कल्कयेत् स महागदः ॥
मांसीहरेणुत्रिफला मुरुङ्गी मधुयष्टिका ।
मंजिष्टा पद्मकाशोककुष्ठतालीसचन्दनम् ॥
सुगन्धिकैला किणिही त्वक्पटोली मृगादिनी ।
भार्ङ्गी विडङ्गं पालिन्दी पाठा क्रोष्टुकमेखला ॥
पुष्पमारुष्करं पत्रं सौरसं क्रमुकं पुरम् ।
पित्तं नकुलमार्जारगोधाशल्यकसूकरात् ॥
पृषताच्चित्रपत्राच्च गोशृङ्गे पूर्ववत् स्थितः ।
यत्र गेहे न तत्राहिकीटादिभ्यो भयोद्भवः ॥
एतेन भेरीपटहाः पताकाश्च प्रलेपिताः ।
आर्षभेण विषं घ्नन्ति स्पर्शश्रवणदर्शनैः ॥
प्रलेपाद्यैश्च निश्शेषं दंशादप्युद्धरेद्विषम् ।
भूयो वेगाय जायेत शेषं दूषीविषाय वा ॥
विषापायेनिलं क्रुद्धं स्नेहादिभिरुपाचरेत् ।
तैलमद्यकुलत्थाम्लवर्ज्यैः पवननाशनैः ॥
पित्तं पित्तज्वरहरैः कषायस्नेहबस्तिभिः ॥
समाक्षिकेण वर्गेण कफमारग्वधादिना ॥
सिता वैगन्धिको द्राक्षा पयस्या मधुकं मधु ।
पानं समन्त्रपूताम्बुप्रोक्षणं सान्त्वहर्षणम् ।
सर्पाङ्गाभिहते युञ्ज्यात्तथा शङ्काविषार्दिते ॥
पूतनोप्रतकूष्माण्डपिशाचाद्या नरद्विषः ।
हन्युरौषधवीर्याणि रक्षाकर्मण्यवारिताः ।
तस्माद्रक्षां प्रयुञ्जीत रक्षोगणनिवारिणीम् ॥
गोमयेन सुसम्मृष्टे धूपागरुसुधूपिते ।
गन्धमाल्योपहाराद्यैर्गृहे पूजितदैवते ॥
सूत्रकारान् समभ्यर्च्य शङ्करास्तिककाश्यपान् ।
सन्तर्प्य हव्यकव्याभ्यां समिद्धाननलद्विजान् ॥
प्राङ्मुखायोपविष्टाय विषार्ताय चिकित्सकः ।
उत्तराभिमुखो युञ्ज्याद्विद्यां मन्त्राणि भेषजम् ॥
समप्रमाणैर्हरितैर्दर्भैः प्रागभिमन्त्रितैः ।
अच्छिन्नाग्रैः समूलैश्च कुर्यात्तस्यापमार्जनम् ॥
ब्राह्माद्यै रगदैरेनं नित्यमेवानुलेपयेत् ।
सञ्जीवनादीन् पानादौ दंशलेपे च योजयेत् ॥
पूर्णकुम्भं सकुसुमं सर्षपान् छागलं पयः ।
शस्त्रं दूर्वां मधु घृतं कुर्याद्दष्टस्य मूर्द्धतः ।
एवं शाम्यति सप्ताहाद्विषमात्मवतः सतः ॥
कर्केतनं मरकतं वज्रं वारणमौक्तिकम् ।
वैडूर्यं गर्दभमणिं पिचुकां विषमुष्टिकाम् ॥
हिमवद्गिरिसम्भूतां सोमराजीं पुनर्नवाम् ।
तथा द्रोणं महाद्रोणं मानसीं सर्पजं मणिम् ।
विषाणि विषशान्त्यर्थं वीर्यवन्ति च धारयेत् ॥
छत्री झर्झरपाणिश्च चरेद्रात्रौ विशेषतः ।
तच्छायाशब्दवित्रस्ताः प्रणश्यन्तिभुजङ्गमाः ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0