भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 6.41

6.41.1

अथातः सर्पविषविज्ञानीयं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

6.41.2

दिव्यभौमविभागेन द्विविधाः पन्नगाः स्मृताः ।
वासुकिस्तक्षकोनन्तः सगरः सागरालयः ॥

6.41.3

तथा नन्दोपनन्दाद्याः समिद्धाग्निसमप्रभाः ।
दिव्या गर्जन्ति वर्षन्ति द्योतन्ते द्योतयन्ति ते ॥

6.41.4

धारयन्ति जगत्कृत्स्नं कुर्युःक्रुद्धाश्च भस्मसात् ।
दृङ्निश्वासैर्नमस्तेभ्यो नतेष्वस्ति चिकित्सितम् ॥

6.41.5

दर्वीकरा मण्डलिनो राजीमन्तश्च पन्नगाः ।
त्रिधा समासतो भौमा भिद्यन्ते तेत्वनेकधा ।
व्यासतो योनिभेदेन नोच्यन्ते ऽनुपयोगतः ॥

6.41.6

विशेषाद्रूक्षकटुकमम्लोष्णं स्वादु शीतलम् ।
विषं दर्वीकरादीनां क्रमाद्वातादिकोपनम् ॥

6.41.7

तारुण्यमध्यवृद्धत्वे वृष्टिशीतातपेषु च ।
विषोल्बणा भवन्त्येते व्यन्तरा ऋतुसन्धिषु ॥

6.41.8

रथाङ्गलाङ्गलच्छत्रस्वस्तिकाङ्कुशधारिणः ।
फणिनः शीघ्रगतयः सर्पा दर्वीकराः स्मृताः ॥

6.41.9

ज्ञेया मण्डलिनो ऽभोगा मण्डलैर्विविधैश्चिताः ।
प्रांशवो मन्दगमनाः राजीमन्तस्तु राजिभिः ।
स्निग्धा विचित्रवर्णाभिस्तिर्यगूर्ध्वं च चित्रिताः ॥

6.41.10

गोधासुतस्तु गौधेरो विषे दर्वीकरैः समः ॥

6.41.11

चतुष्पात् व्यन्तरान् विद्योदतेषामेव सङ्करात् ।
व्यामिश्रलक्षणास्ते हि सन्निपातप्रकोपणाः ॥

6.41.12

दिव्यकोजगरः सर्पः पताको वृक्षशायिकः ।
शकली पुष्पकः क्षीरी लासिनी सारसाहिकः ॥

6.41.13

वर्षाहिको ज्योतिरथः शुकवक्त्रो बलाहकः ।
गजभक्षःप्लवोद्वाही निर्विषाः षोडशाहयः ॥

6.41.14

प्रायेणर्तुमती मासं ज्येष्ठं तिष्ठति पन्नगी ।
आषाढे सर्पसंयोगादण्डानां मासि कार्तिके ॥

6.41.15

द्वेशते विंशती द्वे च सा सूते तत्र जायते ।
कर्केतनसवर्णे ऽण्डे समुद्भिन्ने भुजङ्गमः ॥

6.41.16

दीर्घलोहितराजीभिश्चित्रे योषिन्नपुंसकम् ।
शिरीषपुष्पसदृशे दंष्ट्राः सर्पस्य सप्तमे ।
चतस्रः सम्भवन्त्यह्नि विषं तासु चतुर्दशे ॥

6.41.17

वामाधरासिता पीता तदूर्ध्वा दक्षिणात्वधः ।
रक्ता श्यावोत्तरैकद्वित्रिचतुर्विषबिन्दुकाः ॥

6.41.18

ताः क्रमान्मुद्गमात्रोत्रबिन्दुः एष हि भोगिनाम् ।
विषे विकल्पो नान्येषां विद्यांद्दष्ट्रास्तथापराः ।
चत्वारिंशद् भुजङ्गस्य विर्विषाश्चतुरुत्तराः ॥

6.41.19

आयुर्वर्षशतं विंशं पञ्चवर्षशतायुषः ।
गोनसा घर्मतप्तानां गवां नासासमुद्भवाः ॥

6.41.20

तत्रोर्ध्वदृङ्महाकायनेत्रजिह्वाशिरःस्वरः ।
व्यक्तभोगः पुनान्धीरः स्त्री स्यात्तस्माद्विपर्यये ॥

6.41.21

आयता चपला क्लीबः सुकुमारो जडाकृतिः ।
मन्दवेगस्वनक्रोधः सिताभस्तिर्यशीर्षकः ॥

6.41.22

दिनत्रियामासन्ध्यासु प्रबलास्ते यथाक्रमम् ।
तदैव चापराध्यन्ति सर्वदैव तु पन्नगी ॥

6.41.23

ब्राह्मणाः क्रोधना नीलकपिलाः श्वेतलोहिताः ।
रक्तास्याः पिङ्गनयना मेध्यदेशविचारिणः ॥

6.41.24

भोगे यज्ञोपवीतादिद्विजचिह्नोपचिह्निताः ।
बिल्वपुष्पहिमोशीरपद्मगुग्गुलुगन्धयः ॥

6.41.25

क्षत्रिया मानिनो धीरा रक्ताक्षा भृशकोपनाः ।
पक्वजाम्बवखर्जूरद्राक्षाभिन्नाञ्जनप्रभाः ॥

6.41.26

भोगेर्द्ध चन्द्रश्रीवत्सशङ्खचक्रहलाङ्किताः ।
जातीचम्पकपुन्नागपत्रजोङ्गकगन्धयः ॥

6.41.27

वैश्याः पारावताभासा वज्रगोमेदकप्रभाः ।
बिन्दुमण्डलचित्राङ्गा धूम्रपाटललोहिताः ।
बस्तकुष्ठविकक्षीरसर्पिषां गन्धतः समाः ॥

6.41.28

शूद्राः सवर्णा गोधूममहिषद्विपकर्दमैः ।
बिन्दुरेखाचिता रूक्षाः सुराशोणितगन्धयः ॥

6.41.29

पूर्वमध्यापराह्णेषु चरन्ति ब्राह्मणादयः ।
अस्तंगते रवौ शूद्राः दशन्ति ब्राह्मणाः पुरः ।
संस्थिता दक्षिणे पार्श्वे क्षत्रिया वामतो विशः ॥

6.41.30

शूद्रास्तु पृष्ठतो विप्रास्त्रीनप्यनिलपूर्वकान् ।
कोपयन्ति क्रमाद्दोषांस्त्रींस्त्रयः क्षत्रियादयः ॥

6.41.31

दंशगन्धोङ्गगन्धेन ज्ञेयस्तेषां यथायथम् ॥

6.41.32

वायुमूषिकमण्डूकसर्वभक्षाः क्रमेण ते ॥

6.41.33

आहारार्थं भयात् पादस्पर्शादतिविषात् क्रुधः ।
पापवृत्ततया वैराद्देवर्षियमचोदनात् ।
दशन्ति सर्पास्तेषूक्तं विषाधिक्यं यथोत्तरम् ॥

6.41.34

आविष्टात् कारणं ज्ञात्वा प्रतिकुर्याद्यथायथम् ॥

6.41.35

व्यन्तरः पापशीलत्वान्मार्गमावृत्य तिष्ठति ॥

6.41.36

यत्र लालापरिक्लेदमात्रं गात्रे प्रदृश्यते ।
न तु दंष्ट्राकृतं दंशं तत्तुण्डाहतमादिशेत् ॥

6.41.37

एकं दंष्ट्रापदं द्वे वा व्यालीढाख्यमशोणितम् ।
दंष्ट्रापदे सरक्ते द्वे व्यालुप्तं त्रीणि तानि तु ॥

6.41.38

मांसच्छेदादविच्छिन्नरक्तवाहीनि दष्टकम् ।
दंष्ट्रापदानि चत्वारि तद्वद्दष्टनिपीडितम् ॥

6.41.39

निर्विषं द्वयमत्राद्यमसाध्यं पश्चिमं वदेत् ॥

6.41.40

विषं नाहेयमप्राप्य रक्तं दूषयते वपुः ।
रक्तमण्वपि तु प्राप्तं वर्धते तैलबिन्दुवत् ॥

6.41.41

भीरोः सर्पाङ्गसंस्पर्शाद् भयेन कुपितोनिलः ।
कदाचित् कुरुते शोफं सर्पाङ्गाभिहतं तु तत् ॥

6.41.42

दुर्गान्धकारे विद्धस्य केनचिद्दष्टशङ्कया ।
विषोद्वेगो ज्वरश्छर्द्दिर्मूर्च्छा दाहोपि वा भवेत् ।
ग्लानिर्मोहोतिसारो वा तच्छङ्काविषमुच्यते ॥

6.41.43

दंआस्तु सविषः सर्वः सशोफो वेदनान्वितः ।
तुद्यते ग्रथितः किञ्चित् कण्डूमान् दह्यते भृशम् ।
निर्विषो विपरीतोस्मात् # ॥

6.41.44

तत्र दंशः फणावताम् ।
कूर्मपृष्ठोन्नतो रूक्षः सूक्ष्मदंष्ट्रापदान्वितः ॥

6.41.45

विकाराः श्यावता वक्त्रनखमूत्राक्षिविट्त्वचाम् ।
शीतज्वरः सन्धिरुजा निद्रानाशो विजृम्भिका ॥

6.41.46

मन्यास्तभ्भःसिराध्मानं पृष्ठकट्यस्थिवाग्ग्रहाः ।
शिरोगुरुत्वमरुचिः कासश्वासौ हनुग्रहः ॥

6.41.47

शूलमुद्वेष्टनं कोष्ठे शोषरोधौ मलाश्रयौ ।
सन्दिग्धवाक्त्वं नैश्चेष्ट्यं मृतस्येव विसंज्ञता ॥

6.41.48

फेनलालोद्गमौ हिध्मा कण्ठे घुरुघुरायणम् ।
शुष्कोद्गारो मुहुस्ते ते वातजाश्चापरे गदाः ॥

6.41.49

दंशो मण्डलिनां सोष्मा सशोषः पीतलोहितः ।
पृथुर्विसर्पदाहोषाक्लेदकोथैर्विशीर्यते ॥

6.41.50

विकारा वक्त्रदन्तादिपीतता तृट्श्रमो भ्रमः ।
दाहो मूर्च्छा ज्वरस्तिक्तवक्त्रत्वं पीतदर्शनम् ॥

6.41.51

रक्तागमनमूर्ध्वाधःशीतेच्छा धूमको मदः ।
आशुसर्वाङ्गविसृतिर्गदास्ते ते च पित्तजाः ॥

6.41.52

दंशो राजीमतां स्निग्धःस्थिरपिच्छिलशोफकृत् ।
सान्द्रास्रःशिशिरः पाण्डुस्तद्विकाराःशिरोव्यथा ॥

6.41.53

अरुचिश्छर्दिरालस्यं हृल्लासो मधुरास्यता ।
कण्ठे घुरुघुरः पाको कण्डूरक्ष्णोर्हिमो ज्वरः ॥

6.41.54

कृच्छ्रादुच्छ्रवसनं निद्रा कासः श्वेतनखादिता ।
स्तम्भो गुरुत्वं चाङ्गानां नासिकाक्षिमुखस्रुतिः ।
रोमहर्षस्तमश्वासो रोगाश्चान्ये कफोद्भवाः ॥

6.41.55

व्यन्तरे मिश्रलिङ्गत्वं दष्टः पुंसोर्ध्वमीक्षते ।
प्रक्षिपेद्दक्षिणं पादं पूर्वकायसमुद्यतः ॥

6.41.56

धीरोल्पवेगः शर्वर्यां विपरीतस्तु योषिता ।
हीनस्वरोतिसारार्तः कम्पते त्रस्यते ज्वरी ॥

6.41.57

नपुंसकेन तिर्यग्दृगधीरः प्रियमैथुनः ।
बहुवादी च वृद्धेन चिरान्मन्दाश्च वेदनाः ॥

6.41.58

बालेन शीघ्रं तीक्ष्णाश्च कुमारेणाक्ष्णि दक्षिणे ।
रोगी कुमार्या वामे तु गर्भिण्या कृष्णजिह्वदृक् ॥

6.41.59

जृम्भा क्रोधोपजिह्वार्तः स शूनोष्ठः सिताननः ।
गुरूदरः शिरोरोगी सूतादष्टस्तु मेहति ।
शोणितं कृच्छ्रशूलार्तः सूचीभिरिव भिद्यते ॥

6.41.60

वेगानां रक्तमांसाद्याः सप्तोक्ताः पूर्वमाश्रयाः ॥

6.41.61

दर्वीकृताथ दष्टस्य दुष्टं श्यावीभवत्यसृक् ।
श्यावता तेन वक्त्रादौ सर्पन्तीव च कीटकाः ॥

6.41.62

द्वितीये ग्रन्थयो वेगे तृतीये मूर्द्धगौरवम् ।
दृग्रोधो दंशविक्लेदश्चतुर्थे ष्ठीवनं वमिः ॥

6.41.63

सन्धिविश्लेषणं तन्द्रा पञ्चमे पर्वभेदनम् ।
दाहो हिध्मा च षष्ठे तु हृत्पीडा गात्रगौरवम् ॥

6.41.64

मूर्च्छाविपाको ऽतीसारः प्राप्य शुक्रन्तु सप्तमे ।
स्कन्धपृष्ठकटीभङ्गः सर्वचेष्टानिवर्तनम् ॥

6.41.65

अथ मण्डलिदष्टस्य दुष्टं पीतीभवत्यसृक् ।
तेन पीताङ्गता दाहो द्वितीये श्वयथूद्भवः ॥

6.41.66

तृतीये दंशविक्लेदः स्वेदस्तृष्णा च जायेते ।
चतुर्थे ज्वर्यते दाहः पञ्चमे सर्वगात्रगः ॥

6.41.67

दज्टस्य राजिलैर्दुष्टं पाण्डुतां याति शोणितम् ।
पाण्डुता तेन गात्राणां द्वितीये गुरुताति च ॥

6.41.68

तृतीये दंशविक्लेदनासिकाक्षिमुखस्रवाः ।
चतुर्थे गरिमा मूर्ध्नो मन्यास्तम्भश्च पञ्चमे ।
वाक्यसङ्गो ज्वरः शीतः शेषयोः पूर्ववद्वदेत् ॥

6.41.69

कुर्यात् पञ्चसु वेगेषु चिकित्सां न ततः परम् ॥

6.41.70

जलप्लुता रतिक्षीणा भीता नकुलनिर्जिताः ।
शीतवातातपव्याधिक्षुत्तृष्णाश्रमपीडिताः ॥

6.41.71

तूर्णं देशान्तरायातां विमुक्तविषकञ्चुकाः ।
कुशौषधीकण्टकवद्ये चरन्ति च काननम् ।
देशं च विद्याध्युषितं सर्पास्तेल्पविषा मताः ॥

6.41.72

श्मशानचैत्यवल्मीकयज्ञाश्रयसुरालये ।
चतुष्पथे जलस्थाने जीर्णोद्यानेषु कोटरे ॥

6.41.73

क्षीरिद्रुमे निम्बतरौ निर्झरे गिरिगह्वरे ।
चक्रवज्रगदाकुन्तत्रिशूलाङ्कजटाधराः ॥

6.41.74

रक्तास्यनयना ये च ते स्युराशीविषोपमाः ।
न तेषां कालनियमो न च वेगेष्वनुक्रमः ॥

6.41.75

मन्त्रतन्त्रबलान्नापि प्रसह्य विनिवर्तनम् ।
उपहारनमस्कारजपशान्तिपरायणः ।
कश्चिज्जीवति तैर्दष्टो विरूपो विकलो ऽपि वा ॥

6.41.76

श्मशानचितिचैत्यादौ पञ्चमीपक्षसन्धिषु ।
अष्टमीनवमीसन्ध्यामध्यरात्रिदिनेषु च ॥

6.41.77

याम्याग्नेयमघाश्लेषाविशाखापूर्वनैरृते ।
नैरृताख्ये मुहूर्ते च दष्टं मर्मसु च त्यजेत् ॥

6.41.78

दष्टमात्रे सितास्याक्षः शीर्यमाणशिरोरुहः ।
स्तब्धजिह्वो मुहुर्मूर्च्छन् शीतोच्छ्वासो न जीवति ॥

6.41.79

हिध्मा श्वासो वमिः कासो दष्टमात्रस्य देहिनः ।
जायते युगपद्यस्य स हृच्छूली न जीवति ॥

6.41.80

वेपथुर्वेदनास्तीव्रा ग्रीवाभङ्गोक्षिरक्तता ।
मूर्च्छा गलग्रहश्छर्दिः प्रेतराजस्यकिङ्कराः ॥

6.41.81

जाम्बवप्रतिमो दंशः कूर्मपृष्ठवदुन्नतः ।
रक्तं खेभ्यः समस्तेभ्यो वर्तते न तु दंशतः ॥

6.41.82

रोम्णां न शीतलैर्हर्षः श्वयथुर्लोहितासितः ।
हृष्टमेहनता वक्रवक्त्रत्वं यस्य तं त्यजेत् ॥

6.41.83

फेनं वमति निस्संज्ञः श्यावपादकराननः ।
नासावसादो भङ्गोङ्गे विड्भेदः श्लथसन्धिता ॥

6.41.84

विषपीतस्य दष्टस्य दिग्धेनाभिहतस्य च ।
भवन्त्येतानि रूपाणि सम्प्राप्ते जीवितक्षये ॥

6.41.85

न नस्यैश्चेतना तीक्ष्णैर्न क्षतात् क्षतजागमः ।
दण्डाहतस्य नो राजिः प्रयातस्य यमान्तिकम् ॥

6.41.86

अतोन्यथा तु त्वरया प्रदीप्तागारवद् भिषक् ।
रक्षन् कण्ठगतान् प्राणान् विषमाशु शमं नयेत् ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc