अष्टाङ्गसंग्रह · अध्याय 6.40
अथातो विषप्रतिषेधं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
पुरा खल्वमृतार्थं सुरासुरैः सलिलनिधेर्विमथ्यमानात् क्रोध इव रूपवान् सत्वं समुद्वभूव कृष्णमनलनयनमूर्ध्वप्रदीप्तकेशं दंष्ट्राकरालं भैरवारावरूपम् ।
तद्दर्शनादेव यतो देवदानवाश्च विषण्णास्तस्मात्तद्विषसंज्ञामवाप ॥
तत् सहसैव सर्वभूतानि निर्दग्धुकाममुपयोगविशेषैर्विषममृततां विनयमानो ब्रह्मानुनीयौषधिषु न्यस्तवान् ॥
ततस्तत् स्थावरासु मूर्तिष्वधिवसनात् स्थावरमित्युच्यते ॥
जङ्गमं पुनः पृथिव्या भारावतारार्थमुरगादिरूपेण विष्णुर्निर्ममे ॥
तयोः स्थावरं मूलपत्रपुष्पफलत्वक्सारनिर्यासक्षीरधातुकन्दभेदाद्दशाधिष्ठानम् ॥
तत्र मूलविषाणि क्लीतनकाश्वमारकगुञ्जासुगन्धकगर्गककर्करकरघाटकादीनि ।
पत्रविषं कालपत्रिका लम्बा वरदकरम्भार्कादीनाम् ।
पुष्पविषं वल्लीरेणुककरम्भ महाकरम्भादीनाम् ।
फलं कुमुद्वतीरेणुकाकरम्भमहाकरम्भमदनकतुवरकादीनाम् ।
त्वक्सारनिर्यासाः करककरघाटककरम्भमहाकरम्भनाराचकादीनाम् ।
क्षीरं कुमुद्वती दन्ती स्नुह्यर्कजालिनी व्यालादीनाम् ।
धातवो हरितालफेनाश्मभस्मरक्तप्रभृतयः ।
कन्दजानि तु हालाहलकालकूटवत्सनाभशृङ्गीसाषर्पजालककर्दमकवैराटकमुस्तकमुष्ककसाक्तुकक्रौञ्चकवालकमहाविषपुण्डरीकगालवमूलकमर्कटकर्कटककरवीरकेन्द्रायुधसङ्कोचकलाङ्गलकतैलपेय कुशपुष्पके तु पुष्पकरोहिषाञ्जनाभकादीनि ॥
तत्र मूलविषैरुपयुक्तैरुद्वेष्टनप्रलापमोहाः प्रजायन्ते ।
पत्रविषैर्जृम्भोद्वेष्टनश्वासाः ।
पुष्पविषैश्छर्द्याध्मानमोहाः ।
फलविषैर्दाहमुष्कशोफौ ।
त्वक्सारनिर्यासविषैः प्रसेकास्यदौर्गन्ध्यपारुष्यशिरोवेदनाः ।
क्षीरविषैर्जिह्वागौरवं शकृत्भेदश्च ।
धातुविषैस्तालुदाहमूर्च्छाहृदयपीडाः ।
सर्वमेव च स्थावरं ज्वरहिध्मादन्तहर्षहनुस्तम्भगलग्रहफेनवमनारुचिश्वासमूर्च्छाः करोति विशेषेण कन्दजम् ।
तद्ध्यतितीक्ष्णत्वादाशुकारितरम् ।
इतरत्तु प्रायः कालान्तरप्राणहरम् ॥
सर्वमपि चैतन्मौलमित्युच्यते मूलाश्रयत्वात् पत्रादीनाम् ॥
जङ्गमस्य त्वाश्रयाः षोदश ।
दृष्टिनिश्वासस्पर्शदंष्ट्रामुखनखास्थिमूत्रपुरीषशुक्रार्तवलालाशूकपित्तशोणितशवानि ।
तानि पुनः सर्पकीटकणभाद्याश्रितानि ।
तत्कृतान्यथास्वमामयान् साधनं चोत्तरत्र वक्ष्यति ॥
सर्वं च प्रायशो जङ्गमं निद्रातन्द्राक्लमदाहरोमहर्षशोफपाकातिसारान् करोति ॥
द्विविधमपिचैतद्विषं तीक्ष्णोष्णरूक्षविशदसूक्ष्मव्यवाय्याशुकारिविकाशिलघ्वव्यक्तरसत्वैर्दशभिर्गुणैर्युक्तमपाकि च ॥
तत्र तैक्ष्ण्यौष्ण्यात् पित्तं रक्तं च प्रकोपयति ।
रौक्ष्याद्वायुम् ।
वैशद्यादसक्तवेगं प्रसरति ।
सौक्ष्म्याद्व्यवायित्वाच्च दोषधातुमलादीन् समस्तान् शरीरावयवाननुप्रविशति ।
आशुकारित्वादाशु व्यापादयति ।
विकाशित्वान्मर्मच्छेदेन मतिं व्यामोहयति ।
लाघवाद्दुर्निर्हरमव्यक्तरसत्वाच्छ्लेष्मप्रकोपणमन्नरसांश्च सर्वाननुवर्तते ।
अत एव च प्रयत्नेनान्नानि विषतो रक्षेदित्युक्तम् ।
अपाकित्वाज्जरां नो याति ।
तेनाभ्यवहृतमवश्यं मारयति ।
मन्त्रौषधबलेन चोपशमितमपि प्रत्ययमासाद्य पुनः प्रकृप्यतीति ।
भवति चात्र ॥
स्थावरं जङ्गमं चेति विषं प्रोक्तमकृत्रिमम् ॥
कृत्रिमं गरसंज्ञं तु क्रियते विविधौषधैः ।
हन्ति योगवशेनाशु चिराच्चिरतराच्च तत् ।
शोफपाण्डूदरोन्माददुर्नामादीन्करोति वा ॥
अपि चैतद्विषं सर्वं तीक्ष्णाद्यैरन्वितं गुणैः ।
वातपित्तोत्तरं नृऋणां सद्यो हरति जीवितम् ॥
विषं हि देहं सम्प्राप्य प्राग्दूषयति शोणितम् ।
कफपित्तानिलांश्चानु समदोषं सहाशयान् ।
ततो हृदयमास्थाय देहोच्छेदाय कल्पते ॥
शरीरं दूषिते रक्ते सर्वं चिमिचिमायते ।
कोठः समण्डलः स्वेदो रोमहर्षश्च जायते ॥
क्षुद्रकीटा इवाङ्गेषु विसर्पन्तीति मन्यते ।
विनामयति गात्राणि जृम्भते शिशिरप्रियः ॥
व्यापिनस्तस्य दुष्टस्य द्रुतस्य विषतेजसा ।
वातादयो वशं यान्ति बलिनोप्यबला इव ॥
विषं यद्दोषभूयिष्ठं तं दोषं प्राक् प्रपद्यते ।
आशये यस्य यस्यैव ततस्तदवतिष्ठते ।
तज्जान् विकारान् कुरुते यान् सर्वेषूपदेक्ष्यति ॥
वाताशयस्थं कुरुते तथा श्लेष्मामयानपि ।
पित्तश्लेष्माशयगतं तद्वत् पित्तकफोद्भवान् ॥
तत्रापि चोत्तमाङ्गस्थे सकोठं शूयते शिरः ।
विशेषादक्षिकूटौष्ठनासास्यं हृष्टदन्तता ।
ताल्शोषो रुजा मूर्ध्नि वक्त्रे चिमिचिमायनम् ॥
अर्थेषु चक्षुरादीनामप्रवृत्तिर्हनुग्रहः ।
इत्यन्यापि च विषं स्थितमङ्गे ऽभिलक्षयेत् ॥
व्याप्यैवं सकलं देहमुपरुध्य च वाहिनीः ।
विषं विषमिव क्षिप्रं प्राणानस्य निरस्यति ॥
पीतं मृतस्य हृदये जग्धदिग्धाभिविद्धयोः ।
दंशे तिष्ठति भूयिष्ठं सर्वतः पिण्डितं विषम् ।
नाद्यादतो विशेषेण तेषां मांसं तदाश्रयम् ॥
यथास्वं भक्षिते पीडा यथास्वं च क्रियाक्रमः ॥
सप्त वेगान् विषस्याहुरष्टावितिपुनर्वसुः ॥
(चृ.ष्ष् 5.4.39
च्ष् 6.23.7)
दुष्यति प्रथमे वेगे रसश्छर्द्दिप्रसेककृत् ।
द्वितीयेस्रं चिमिचिमाजृम्भावेपथुकारि तत् ॥
तृतीये पिशितं कण्डूकोठमण्डलशोफदम् ।
दोषाश्चाश्चतुर्थे तेषु स्युर्यथायथमुपद्रवाः ॥
पञ्चमे दर्शनभ्रान्तिः षष्ठे हिध्मासमुद्भवः ।
सप्तमे स्कन्धभङ्गोस्य जायते मृत्युरष्टमे ॥
दुष्यति प्रथमे रक्तं द्वितीये श्वयथूद्भवः ।
तृतीयेङ्गे चिमिचिमा चतुर्थे ज्वरमूर्च्छना ॥
पञ्चमे पाण्डुजिह्वास्य शोषः षष्ठे हृदि व्यथा ।
सप्तमे मरणं वेग इति गग्नजितो मतम् ॥
मूर्च्छा हृदि परं पीडा शिरोरुगपतन्त्रकः ।
हिध्मा च दारुणो मर्मच्छेदो जीवितसंशयः ।
सप्तेति वेगा मूर्च्छाद्या विदेहपतिना स्मृताः ॥
रक्तमांसवसास्नायु तथास्थ्याद्यास्त्रयः क्रमात् ।
आश्रयाः सप्त सप्तानामित्यालम्बायनो ऽब्रवीत् ॥
वेगान् धन्वन्तरिस्तद्वत् सर्पदष्टस्य मन्यते ।
स्नाववर्जं तु तत्स्थाने दोषानिच्छति कोष्ठगान् ॥
धात्वन्तरेषु याः सप्त कलाः पूर्वं प्रकीर्त्तिताः ।
अतीत्य तासामेकैकां वेगं प्रकुरुते विषम् ॥
तत्कालकल्पं कालेन कलामभ्येति यावता ।
ऊह्यमानं समीरेण तावद्वेगान्तरं स्मृतम् ॥
मुनिना येन यत्तूक्तं तत्सर्वमिह दर्शितम् ॥
जीर्णं विषघ्नौषधिभिर्हतं वा दवाग्निवातातपशोषितं वा ।
स्वभावतो वा न गुणैः सुयुक्तं दूषीविषाख्यां विषमभ्युपैति ॥
वीर्याल्पभावादविभाव्यमेतत् ।
कफावृतं वर्षगणानुबन्धि ॥
तेनादिर्तो भिन्नपुरीषवर्णो दुष्टास्ररोगी तृडरोचकार्तः ।
मूर्च्छन् वमन् गद्गदवाग्विमुह्यन् भवेच्च दूष्योदरलिङ्गजुष्टः ॥
आमाशयस्थे कफवातरोगी पित्ताशस्थे ऽनिलपित्तरोगी ।
भवेन्नरो ध्वस्थीशरोरुहाङ्गो विलूनपक्षः स यथा विहङ्गः ।
स्थितं रसादिष्वथवा विचित्रान् ।
करोति धातुप्रभवान्विकारान् ॥
प्राग्वाताजीर्णशीताभ्रदिवास्वप्नाहिताशनैः ।
दुष्टं दूषयते धातूनतो दूषीविषं स्मृतम् ॥
स्थावरस्योपयुक्तस्य पूर्वे वेगे ऽथ जायते ।
जिह्वायाः श्यावता स्तम्भो मूर्च्छा त्रासः क्लमो वमिः ॥
द्वितीये वेपथुः स्वेदो कण्ठे च वेदनाः ।
विषं चामाशयं प्राप्तं कुरुते हृदि वेदनाम् ॥
तालुशोषस्तृतीये तु शूलं चामाशये भृशम् ।
दुर्बले हरिते शूने जायेते चास्य लोचने ॥
पक्वाशयगते तोदहिध्माकासान्त्रकूजनम् ।
चतुर्थे जायते वेगे शिरसश्चातिगौरवम् ॥
कफप्रसेको वैवर्ण्यं पर्वभेदश्च पञ्चमे ।
सर्वदोषप्रकोपश्च पक्वाधाने च वेदना ॥
षष्ठे संज्ञाप्रणाशश्च सुभृशं चातिसार्यते ।
स्कन्धपृष्ठकटीभङ्गो भवेन्मृत्युश्च सप्तमे ॥
प्रथमे विषवेगेथ वान्तं शीताम्बुसेचितम् ।
सर्पिर्मधुभ्यां संयुक्तमगदं पाययेद्द्रुतम् ॥
द्वितीये पूर्ववद्वान्तं विरिक्तं चानु पाययेत् ।
तृतीये ऽगदपानं च हितं नस्यं तथाञ्जनम् ॥
चतुर्थे स्नेहसंयुक्तमगदं प्रतिभोजयेत् ।
पञ्चमे मधुकक्वाथमाक्षिकाभ्यां युतं हितम् ॥
षष्ठे ऽतिसारवत् सिद्धिरवपीडस्तु सप्तमे ।
मूर्ध्नि काकपदं कृत्वा सासृग्वा पिशितं क्षिपेत् ॥
कोशातक्यग्निकः पाठा सूर्यवल्यमृताभयाः ।
शेलुः शिरीषः किणिही हरिद्रे क्षुद्रसाह्वया ।
पुनर्नवे त्रिकटुकं बृहत्यौ सारिवे बले ॥
एषां यवागूं निर्यूहे शीतां सघृतमाक्षिकाम् ।
युञ्ज्याद्वेगान्तरे सर्वविषघ्नीं कृतकर्मणः ॥
तद्वन्मधूकमधुकपद्मकेसरचन्दनैः ॥
अगदान् वक्ष्यते चातः सिद्धान् पूर्वर्षिनिर्मितान् ।
सर्वेषु सर्वावस्थेषु ये विषेषु परं हिताः ॥
चन्दनं कुङ्कुमं कुष्ठं काङ्क्षी लाक्षा प्रियङ्गवः ।
मुस्तस्थौणेयशैलेयरोचनामदनप्लवम् ॥
श्रोवेष्टकीवडैङ्गलाविशालालमनश्शिलाः ।
सुरसप्रसवस्पृक्कारजनीद्वयवालकम् ॥
हिङ्गुसिद्धार्थकाः पद्मचारिणी पद्मकेसरम् ।
जात्याःपुष्पं प्रवालश्च पुष्पमर्कशिरीषयोः ॥
द्विरोध्रबृहती कौन्ती मधुकं गन्धनाकुली ।
मुद्गपर्णीकणाश्यामा ध्यामकं नलदं नतम् ॥
सिन्दुवारकशम्याकदेवदारुमयूरकम् ।
पुष्ये समाहृतैः पिष्टैर्योज्यस्तैरगदोत्तमः ॥
सञ्जीवनःप्रागमृताद्विहितो ऽयं स्वयम्भुवा ।
पाननस्याञ्जनाघ्राणधूमालेपनधारणैः ॥
जीवनो विषसुप्तानां राजद्वारे जयावहः ।
धन्यो धान्यधनायुःश्रीक्षेमपुष्टिसुखप्रदः ॥
गृहे स्थितो विषालक्ष्मीमन्त्रज्वरगरग्रहान् ।
कृत्याकार्मणकाखोर्दव्यालजन्तुसरीसृपान् ॥
स्वप्नोपघातदुःस्वप्नतोयाग्निरिपुतस्करान् ।
निहन्त्यकालमरणमरकाशनिविग्रहान् ॥
चन्दनं वालकं मुस्तं ध्यामकं कटुका नतम् ।
दाडिमं कुङ्कुमं शुण्ठी कपित्थं वत्सकात्फलम् ॥
करञ्जबीजं मरिचमुत्पलं कमलं दलम् ।
नलमूलमपामार्गं करवीरकमञ्जनम् ॥
लाक्षामालत्यहिच्छत्रनागपुष्पाम्लवेतसम् ।
विशालारोचनाश्यामा शङ्खपुष्पीप्रियङ्गुका ॥
अजाजी सारिवाकुष्ठमजमोजः कुरण्डकः ।
वयस्था सिन्दुवारैला कायस्था चारटी वचा ॥
कर्कटी पूतना केशी श्वेता च गिरिकर्णिका ।
गोलोमी सिंहलोमी च वर्षाभूर्गजपिप्पली ।
अगदो यापनाख्योयं पूर्वेण सदृशो गुणैः ॥
श्रीवेष्टकं हरिद्रे द्वे कोविदारं मनःशिलाम् ।
पिप्पलीं पाटलीं पद्मां श्वेतां च गिरिकर्णिकाम् ।
मञ्जिष्ठां बृहतीं वक्रं यष्टी मरिचकेसरम् ॥
फलीनीं किणिहीं चेति गवां पित्तेन भावयेत् ।
सूर्योदयो हन्ति विषं तमः सूर्योदयो यथा ॥
निम्बपत्रं गृहाद्धूमं फाणितं बृहतीफलम् ।
गोपित्तयुक्तमगदः परमं मृतजीवनः ॥
गोपित्तकुष्ठसुरसं मधुकद्विनिशं तथा ।
विशालारजनीकुष्ठश्वपित्तव्योषतुम्बुरु ॥
वचाशिरीषपञ्चाङ्गी मृतसञ्जीवनो गदः ।
पञ्चाङ्गानि शिरीषस्य श्वपित्तं च वरो ऽगदः ॥
प्रियङ्गु तगरं लाक्षा मञ्जिष्ठा मधुकं मधु ।
हरिद्राचेत्ययं श्रेष्ठः कौटिल्यदयितो ऽगदः ॥
विसंज्ञानां विषैर्घोरैः प्रहाअरैर्नष्टचेतसाम् ।
उद्बन्धानां जलौघे च मृतानां चेतनावहः ॥
शिरीषफलकाकाण्डसुरसाग्रपुनर्नवैः ।
कक्ष्यावायसिसंयुक्तैरगदः पूर्ववत् गुणैः ॥
कटुकालाबुमूलानि गवां पित्तेन कल्कयेत् ।
ब्राह्मो धार्योयमगदः सर्वकर्मसु पूजितः ॥
अगारधूमस्रिवृता गोपित्तं त्र्यूषणं वचा ।
प्राजापत्योयमगदः सर्वरक्षोविषापहः ॥
श्वेतापुष्करतुल्यांशैर्जीवन्त्याः कुसुमैः कृतः ।
रुक्मपिष्टो मणिर्द्धार्यश्चाणक्येष्टो विषापहः ॥
मांसीत्वक्पत्रसुरसमनोह्वाशीतकुङ्कुमम् ।
निशाव्याघ्रन्नखं शुण्ठी दशाङ्गो ऽयं विषापहः ।
उत्पातगण्डपिटकादिग्धविद्धविषापहः ॥
उदुम्बरत्वग्जम्ब्वस्थिमधुकोत्पलगैरिकैः ।
चन्दनोशीरनलद नागकेसरपद्मकैः ।
विशेषाद्विषविस्फोटविसर्पज्वरदाहहा ॥
शिरीषोदुम्बरप्लक्षन्यग्रोधाश्वत्थवल्कलैः ।
सघृतो दाहतृष्णास्रविषवीसर्पपित्तहा ॥
गजपिप्पलिकासीसक्षारयष्टीमयूरकम् ।
रक्ता नतं वचा दन्ती शिवः शिवकृतो ऽगदः ॥
सुराला पावकी सोमा भोगवत्यमृता नतम् ।
आढकी किणिही सोमराजी चौशनसो ऽगदः ॥
श्लेष्मातकार्ककुसुमं तण्डुलीयो मयूरकः ।
सुरसा मञ्जरी काकमाची पाने ऽगदो वरः ॥
दध्याज्यक्षौद्रलवणं पीतं मूलविषापहम् ।
हरिद्रासैन्धवक्षौद्रघृतं संसृज्य पाययेत् ।
आर्तान् मूलविषैर्घोरैर्दिग्धविद्धान् विशेषतः ॥
हरिद्रान्तर्बहिःशस्ता विषदोषातुरे परम् ॥
निशाश्वमारसुरसकरञ्ञव्योषदारुभिः ।
अञ्जनं बस्तमूत्रेण पिष्टैर्नेत्रोपरोधजित् ॥
कर्णाक्षिनासिकाकण्ठजिह्वारोगेषु नावनम् ।
बीजपूरार्यबृहतीफलज्योतिष्मतीकृतम् ॥
श्वेता वचा हिङ्ग्वमृता सुगन्धा कुष्ठसैन्धवम् ।
शिरीषपुष्पद्विनिशाव्योषटुण्टुकसर्षपाः ॥
कपित्थमध्यं लशुनं करञ्जो वंशलेखनम् ।
पिष्ट्वा गोबस्तमूत्रेण तत्पित्तेनैव भावयेत् ॥
दिनानि सप्त व्यत्यासाद्विनिहन्ति ततोञ्जनात् ।
विषं शिरस्थं मूर्द्धार्तिज्वरजीर्णविषूचिकाः ॥
अपस्मारग्रहोन्मादपाण्डुमेहमदात्ययान् ।
शुष्कनेत्रामयशिरोरोगपैल्लगलार्बुदान् ॥
काचान्धकारपटलकण्डूदौर्बल्ययक्ष्मणः ।
लेपात् पीतक्षतालीढदष्टदिग्धविषं जयेत् ॥
श्वित्रं कृच्छ्राणि कुष्ठानि दुष्टनाडी महाव्रणान् ।
आनाहार्शो गुदे लेपाल्ललाटे दुष्टपीनसम् ॥
योनिलेपेन नारीणां मूढगर्भानुलोमनः ।
उन्मूलयत्येष विषं गन्धहस्तीव काननम् ॥
विडङ्गपाठा त्रिफलाजमोदा हिङ्ग्वग्निवक्रं लवणस्यवर्गः ।
व्योषान्वितं स्थावरजङ्गमानां जेता विषाणामगदो ऽजिताख्यः ॥
मनोह्वा रोचना चण्डा त्वगेलासितसर्षपैः ।
स्पृक्काहिंगुलकाश्मीरकान्ताभिःकल्कितो ऽगदः ।
विषघ्नो बालसूर्योयं श्रीरक्षाविजयर्द्धिदः ॥
अजगन्धा सगोमूत्रा गृहधूमः सुगुग्गुलुः ।
एष माहेश्वरो योगो न क्वचित् प्रतिहन्यते ॥
विषदिग्धेन विद्धस्तु प्रताम्यति मुहुर्मुहुः ।
विवर्णभावं भजते विषादं चाशु गच्छति ॥
कीटैरिवावृतं चास्य गात्रं चिमिचिमायते ।
श्रोणिपृष्ठशिरःस्कन्धसन्धयः स्युः सवेदनाः ॥
कृष्णदुष्टास्रविस्रावी तृण्मूर्च्छाज्वरदाहवान् ।
दृष्टिकालुष्यवमथुश्वासकासकरः क्षणात् ॥
शूयते पच्यते सद्यो गत्वा मांसं च कृष्णताम् ।
प्रक्लिन्नं शीर्यते ऽभीक्ष्णं सपिच्छिलपरिस्रवम् ॥
कुर्यादमर्मविद्धस्य हृदयावरणं द्रुतम् ।
शल्यमाकृष्य तप्तेन लोहेनानु दहेद्व्रणम् ॥
अथवा मुष्ककश्वेतासोमत्वक्ताम्रवल्लितः ।
शिरीषात् गृध्रनख्याश्च क्षारेण प्रतिसारयेत् ।
शुकनासाप्रतिविषाव्याघ्रीमूलैश्च लेपयेत् ॥
पीतदष्टचिकित्सां च कुर्यात्तस्य यथार्हतः ।
व्रणे तु पूतिपिशिते क्रिया पित्तविसर्पवत् ॥
सौभाग्यार्थं स्त्रियो भर्त्रे राज्ञे वारातिचोदिताः ।
गरमाहारसम्पृक्तं यच्छन्त्यासन्नवर्तिनः ॥
नानाप्राण्यङ्गशमलविरुद्धौषधिभस्मनाम् ।
विषाणां चाल्पवीर्याणां योगो गर इति स्मृतः ॥
तेन पाण्डुः कृशोल्पाग्निः कासश्वासज्वरार्दितः ।
वायुना प्रतिलोमेन स्वप्नचिन्तापरायणः ॥
महोदरयकृत्प्लीहो दीनवाग्दुर्बलो ऽलसः ।
शोफवान् सतताध्मातः शुष्कपादकरः क्षयी ॥
स्वप्ने गोमायुमार्जारनकुलव्यालवानरान् ।
प्रायः पश्यति शुष्कांश्च वनस्पतिजलाशयान् ॥
मन्यते कृष्णमात्मानं गौरो गौरं च कालकः ।
विकर्णनासानयनं पश्येत्तद्विहतेन्द्रियः ॥
एतैरन्यैश्च बहुभिः क्लिष्टो घोरैरुद्रवैः ।
गरार्तो नाशमाप्नोति कश्चित्सद्यो ऽचिकित्सितः ॥
गरार्तो वान्तवान् भुक्त्वा तत्पथ्यं पानभोजनम् ।
शुद्धहृच्छीलयेद्धेम सूत्रस्थानविधेः स्मरन् ॥
शर्कराक्षौद्रसंयुक्तश्चूर्णस्ताप्यसुवर्णयोः ।
लेहः प्रशमयत्युग्रं सर्वं योगकृतं विषम् ॥
मूर्वामृतानतकणापटोलीचव्यचित्रकान् ।
वचामुस्तविडङ्गानि तक्रकोष्णाम्बुमस्तुभिः ।
पिबेद्रसेन चाम्लेन गरोपहतपावकः ॥
पारावतामिषशठीपुष्कराह्वशृतं हिमम् ।
गरतृष्णारुजाकासश्वासहिध्माज्वरापहम् ॥
वायसी श्वासकासघ्नी भृष्टाज्यत्रिफलारसे ।
भार्ङ्गीनागरनिर्यूहः शिशिरश्च समाक्षिकः ॥
हरेणुचन्दनश्यामानलदं श्लक्ष्णपेषितम् ।
विलेपनं प्रयोक्तव्यं गरेणोपहतत्वचः ॥
मञ्जिष्ठा किणिहीनिम्बरजन्यश्वत्थचन्दनैः ।
प्रघर्षणं कृशानां तु गरेण क्षपितौजसाम् ॥
पथ्यं परममुद्दिष्टं शीलनं क्षीरसर्पिषोः ॥
वृषनिम्बपटोलीनां क्वाथेन् विपचेत् घृतम् ।
अभयागार्भिणं श्रेष्ठं तत् गरस्य निबर्हणम् ॥
हरिद्रां नाकुलीं जातीं पृथक्पिष्ट्वा विपाचयेत् ।
घृतत्रयं विषार्तानामेतदारोग्यदं परम् ॥
तण्डुलीयकमूलेन गृहधूमेन चैकतः ।
क्षीरेण च घृतं सिद्धं समस्तविषरोगजित् ॥
नागदन्ती त्रिवृद्दन्ती द्रवन्ती स्नुक्पयः पलैः ।
साधितं माहिषं सर्पिः सगोमूत्राढकं हितम् ।
सर्पकीटविषार्तानां गरार्तानां च शान्तये ॥
मधुकं तगरं कुष्ठभद्रदारुहरेणवः ।
मञ्जिष्ठैलैलवालूनि नागपुष्पोत्पलं प्लवम् ॥
विडङ्गं चन्दनं पत्रं प्रियङ्गुर्ध्यामकं बला ।
अंशुमत्यौ हरिद्रे द्वे बृहत्यौ सारिवाद्वयम् ॥
एषां कल्कैर्घृतं सिद्धमजेयं नाम विश्रुतम् ।
विषाणि हन्ति सर्वाणि शीघ्रमेव प्रयोजितम् ॥
श्वेते कपोते बीजानि प्रत्यक्पुषीशिरीषयोः ।
गोमूत्रपिष्टैस्तैः सर्पिः सिद्धं बिषहरं परम् ।
अमृतं नाम विख्यातमपि सञ्जीवयेन्मृतम् ॥
शिरीषत्वक् त्रिकटुकं विदारी चन्दनोत्पलम् ।
द्वे बले सारिवास्फोतबृहतीनिम्बपल्लवाः ॥
बन्धुजीवाढकीमूर्वावासासुरसवत्सकाः ।
पाठाङ्कोलाश्वगन्धार्कमूलयष्ट्याह्वपद्मकम् ॥
विशाला बृहती लाक्षा कोविदारशतावरीः ।
कटभीदन्त्यपामार्ग पृश्निपर्णी रसाञ्जनम् ॥
श्वेतौ बाणाश्वखुरकौ कुष्ठदारुप्रियङ्गुकाः ।
सारं मधूकात्रिफलां करञ्जस्यफलं वचाम् ॥
रजन्यौ लोध्रमक्षांशं पिष्ट्वा साध्यं घृताढकम् ।
तुल्याम्बुछागगोमूत्रत्र्याढके तद्विषापहम् ॥
अपस्मारक्षयोन्मादभूतग्रहगरोदरान् ।
पाण्डुरोगकृमिप्लीहगुल्मोरुस्तम्भकार्मलाः ॥
हनुस्तम्भग्रहादींश्च पानाभ्यञ्जननावनैः ।
हन्ति सञ्जीवयति च विषोद्बन्धमृतान् नरान् ॥
भक्षिते हरिताले तु हृदि दाहोरसाग्रहः ।
आनाहोम्लस्य वमनं पीतहारिद्रविट्स्रुतिः ।
तथा मण्डलिसर्पोक्ता विकारास्तच्च भेषजम् ॥
विभज्य योजयेत् ऊर्ध्वमधः संशोधितं च तम् ।
अङ्कोलजालिनीबीजशुकनासाप्रियङ्गुकाः ।
लोध्रध्यामकतालीसनतयष्ट्याह्वगुग्गुलुः ॥
हीबेरं भद्रकाष्ठं च लेहयेन्मधुसर्पिषा ।
दद्यान्नकुलगोपित्तयुक्तं नस्येञ्जने च तत् ॥
धुर्धूरकोपयोगेन सर्वं पश्यति पीतकम् ।
कम्पलालामदच्छर्दिस्मृतिभ्रंशभ्रमान्वितः ।
तं वामयेत मधुरैः पाययेद्वा सितापयः ॥
कोरदूषैर्मदनकैः प्रायो धुर्धूरवत् गदाः ।
उन्मादोक्षिविनाशश्च तत्रापि वमनं हितम् ।
कूष्माण्डकं च सगुडं बहुशस्तत्र भक्षयेत् ॥
नानाप्रकारैः संयोगैः कोद्रवा मदहेतवः ।
तान्विभज्य यथादोषं चिकित्सेदविरोधिभिः ॥
दूंषीविषार्तं सुस्विन्नमूर्ध्वं चाधश्च शोधितम् ।
दूषीविषारिमगदं लेहयेन्मधुनाप्लुतम् ॥
पिप्पल्योध्यामकं मांसी लोध्रमेला सुवर्चिका ।
कुटन्नटं नतं कुष्ठं यष्टी चन्दनगैरिकम् ।
दूषीविषारिर्नाम्नायं नचान्यत्रापि वार्यते ॥
हरीतकी सलवणा मागधी मरिचानि च ।
एतद्दूषीविषार्तानां काश्यपोक्तं विरेचनम् ॥
युञ्ज्याद्वा विषरोगेषु रेके व्योषादिकं भिषक् ॥
तरुणस्य पलाशस्य स्रुतं क्षारोदकं पचेत् ।
क्वाथे तत्र प्रतीवापं प्रक्षिपेच्छ्रलक्ष्णचूर्णितम् ॥
व्योषं शिरीषकुसुमं मधुकं सारिवे मिसिम् ।
कुष्ठं वेल्लनिशे लाक्षां शुक्लां सुरसमञ्जरीम् ॥
सिन्धूत्थं रक्तमृन्मांसीं रेणुकां हिङ्गुबाल्हिकम् ।
दर्वीप्रलेपि तज्जातं गोविषाणे निधापयेत् ॥
क्षयगुल्मोदरार्शांसि मेहं मन्दाग्नितां ज्वरम् ।
त्वग्दोषकासापस्मारग्रहोन्मादभगन्दरान् ॥
पाण्डुं कण्ठस्वरगदान् प्लीहानं श्वयथुं कृमीन् ।
कोलमात्रमतः खादन् जयेत् सर्वविषाणि च ॥
विषं तेजोमयं मन्त्रैः सत्यब्रह्मतपोमयैः ।
यथा निवार्यते शीघ्रं प्रयुक्तैर्न तथौषधैः ॥
न तु सर्वमनुष्याणां सन्ति भेषजसम्पदः ।
अज्ञातरोगसद्भावे योग्यता चातिदुर्लभा ॥
प्रकुप्यति विषं भूयः केवलैश्चौषधैर्जितम् ।
अवाप्तौ सिद्धमन्त्राणां यतेतातश्चिकित्सकः ॥
ते ऽपि च व्रतहीनस्य हीना वा स्वरवर्णतः ।
यस्मान्न सिद्धिमायान्ति तस्माद्योज्यो ऽगदक्रमः ॥
विषप्रकृतिकालान्नदोषदूष्यादिसङ्गमे ।
विषसङ्कटमुद्दिष्टं शतस्यैकोत्र जीवति ॥
क्षुत्तृष्णाघर्म्मदौर्बल्यक्रोधशोकभयश्रमैः ।
अजीर्णवर्चोद्रवता पित्तमारुतवृद्धिभिः ॥
तिलपुष्पफलाध्राणभूबाष्पघनगर्जितैः ।
हस्तिमूषिकवादित्रनिस्वनैर्विषसङ्कटैः ।
पुरोवातोत्पलामोदमदनैर्बर्धते विषम् ॥
वर्षासु चाम्बुयोनित्वात् सङ्क्लेदं गुडवद्गतम् ।
विसर्पति घनापाये तदगस्त्यो हिनास्ति च ।
प्रयाति मन्दवीर्यत्वं विषं तस्मात् घनात्यये ॥
इति प्रकृतिसात्म्यर्तुस्थानवेगबलाबलम् ।
आलोच्य निपुणं बुध्या कर्मानन्तरमाचरेत् ॥
श्लैष्मिकं वमनैरुष्णरूक्षतीक्ष्णैः प्रलेपनैः ।
कषायकटुतिक्तैश्च भोजनैः शमयेद्विषम् ॥
पैत्तिकं स्रंसनैः सेकप्रदेहैर्भृशशीतलैः ।
कषायतिक्तमधुरैर्घृतयुक्तैश्च भोजनैः ॥
वातात्मकंजयेत्स्वादुस्निग्धाम्ललवणान्वितैः ।
सघृतैर्भोजनालेपैस्तथैव पिशिताशनैः ॥
नाघृतं स्रंसनं शस्तं प्रलेपो भोज्यमौषधम् ।
सर्वेषु सर्वावस्थासु विषेषु न घृतोपमम् ।
विद्यते भेषजं किञ्चिद्विशेषात् प्रबलानिले ॥
रक्तगे स्रावयेद्रक्तं पित्तवच्च क्रियाक्रमः ।
दूषीविषे पुनस्तत्स्थे पञ्चकर्माणि चाचरेत् ॥
गण्डूषैः कवलैः प्राशैस्तीक्ष्णैः प्रधमनाञ्जनैः ।
शिरोगतं प्रशमयेद्विषसङ्क्रमणैस्तथा ॥
विषदुष्टकफस्रोतोरुद्धवायुर्मृतोपमः ।
यःस्यादसाध्यलिङ्गैश्च रहितस्तस्य योजयेत् ॥
मूर्ध्निं काकपदं कृत्वा कल्कं चर्मकसोद्भवम् ।
ध्मापनं चास्य कटभीजालिनी कटुकैर्हितम् ॥
आशये यस्य दोषस्य विषं तिष्ठति तं पुनः ।
आश्रयाश्रयिणोर्विद्वानविरोधेन साधयेत् ॥
क्षारागदः कफस्थानस्थिते स्वेदः सिराव्यधः ।
पित्ते क्षौद्रपयोम्लाज्यपानसेकावगाहनम् ।
स्वेदो वाताशये दध्ना पानं च नतकुष्ठयोः ॥
क्षीरेणागदगर्मेण मदनस्य फलेन च ।
आस्थापनं प्रयुञ्जीत वाताशयगते विषे ॥
पचेद्यष्टीमधुक्वाथे तैलं क्षीरचतुर्गुणम् ।
त्रिफला सर्पवेताली शतपुष्पेन्दुराजिभिः ॥
अनन्तया च तत्पाननावनाभ्यङ्गबस्तिषु ।
भोजने च प्रणिहितं हन्ति वाताशयाद्विषम् ॥
वलया सोमराज्या वा पचेत् पाटलयाथवा ।
घृतमण्डसमं तैलमानुवासनिकं परम् ॥
विषोपद्रवपथ्यं च वीक्ष्य युञ्ज्याद्यथामयम् ॥
अयत्नाच्छ्लेष्मगं साध्यं यत्नात्पित्ताशयाश्रितम् ।
सुदुस्साधमसाध्यं वा वाताशयगतं विषम् ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0