भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 6.39

6.39.1

अथातो गुह्यरोगप्रतिषेधं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

6.39.2

उपदंशेषूत्पन्नमात्रेषु पाकपरिहारार्थं मेढ्रमध्ये सिरां विध्येत् ।
उभयतश्चास्य विधिवद्दोषानपहरेद्विशेषतो विरेचनेन ।
तदयोग्यस्य त्वत्युच्छ्रितानास्थापनेन ॥

6.39.3

यथादोषं चालेपसेकादीनविरतं विदध्यात् ।
एवं सद्य एव रुक्तोदशोफरागसंरम्भा निवर्तन्ते ॥

6.39.4

पक्वेषु तु तु शस्त्रमवचारयेत् ।
सघृतक्षौद्रशर्करेण तिलकल्केनालेपयेत् ।
अपि च ॥

6.39.5

जम्ब्वाम्रसुमनोनीपश्वेतकाम्बोजिकाङ्कुरान् ।
सल्लकीबदरीबिल्वपलाशतिनिशोद्भवाः ॥

6.39.6

त्वचः क्षीरिद्रुमाणां च त्रिफलां च पचेज्जले ।
स क्वाथः क्षालनं तेन पक्वं तैलं च रोपणम् ।
गोजीविडङ्गमधुकसर्वगन्धैश्च पेषितैः ॥

6.39.7

तुत्थगौरिकलोध्रैलामनोह्वालरसाञ्जनैः ।
हरेणुपुष्पकासीससौराष्ट्रीलवणोत्तमैः ।
लेपः क्षौद्रद्रुतैः सूक्ष्मैरुपदंशव्रणापहः ॥

6.39.8

दार्वीत्वक्शङ्खतार्क्ष्योत्थलाक्षागोक्षीरविड्रसैः ।
सक्षौद्रतैलसर्पिर्भिर्लेपः श्रेष्ठो व्रणे ऽथवा ।
लाक्षाद्राक्षातसीक्षौद्रैः क्षौद्रशैलेयतार्क्ष्यजैः ॥

6.39.9

कपाले त्रिफलादग्धा सघृता रोपणी परम् ॥

6.39.10

सामान्यं साधनमिदं वातिकं तु प्रलेपयेत् ।
अपक्वं कुष्ठयष्ट्याह्वसुरदारुपुनर्नवैः ॥

6.39.11

स्निग्धोष्णैर्लोहसरलरास्नापुण्ड्राह्वसंयुतैः ।
अथवा निचुलैरण्डबीजगोधूमचिक्कसैः ॥

6.39.12

गैरिकाञ्जनमञ्जिष्ठामधुकोशीरपद्मकैः ।
सचन्दनोत्पलैः शीतैर्घृताढ्यैः पित्तसम्भवम् ॥

6.39.13

पद्मोत्पलमृणालैर्वा ससर्जार्जुनवेतसैः ।
सेचयेच्च घृतक्षीरशर्करेक्षुमधूदकैः ॥

6.39.14

धवसालाश्वकर्णाजकर्णत्वग्भिः कफोत्थितम् ।
सुरापिष्टाभिरुष्णाभिः सतैलाभिः प्रलेपयेत् ॥

6.39.15

रजन्यतिविषामुस्तसरलामरदारुभिः ।
सपत्रपाठापत्तूरैरथवा श्लेष्मसम्भवम् ॥

6.39.16

न च याति यथा पाकं प्रयतेत तथा भृशम् ।
पक्वैः स्नायुसिरामांसैः प्रायो नश्यति हि ध्वजः ॥

6.39.17

उपदंशद्वये शिष्टे प्रत्याख्यायाचरेत् क्रियाम् ॥

6.39.18

अर्शांसि यथायोगं शुद्धदेहस्य शस्त्रक्षाराग्निभिः साधयेत् ।
उपदंशोक्ता चात्र रसक्रिया लेपः ॥

6.39.19

सर्षपिकां विलिख्य कषायैरवचूर्णयेत् ।
तैरेव च तैलं व्रणरोपणं कुर्यात् ॥

6.39.20

अवमन्थे जलौकसो योजयेत् ।
पक्वभिन्नं धवतिन्दुकसल्लकीपतङ्गसर्जकृतेन तैलेन रोपयेत् ॥

6.39.21

तद्वत् कुम्भीकामुपचरेत् ।
लोध्रतिन्दुकत्रिफलाकृतस्तु लेपस्तैलं च रोपणम् ॥

6.39.22

अलजीं स्रुतरक्तां कषायैरवचूर्णयेत् ।
तेष्वेव च तैलं व्रणरोपणार्थं कुर्वीत ॥

6.39.23

उत्तमां पिटकां शस्त्रेण च्छित्वा कषायचूर्णप्रदेहैर्मधुमाद्भिरुपाचरेत् ॥

6.39.24

पुष्करिकासंव्यूढास्पर्शहानित्वक्पाकेषु पित्तविसर्पोक्तो विधिः ॥

6.39.25

मृदितं कोष्णेन बलातैलेन परिषेचयेत् ।
मधुरद्रव्यकल्कैश्च सुखोष्णैर्घृतस्निग्धैरुपनाहयेत् ॥

6.39.26

अष्ठीलिकां जलौकोभिर्ग्राहयेत् ।
तथानुपशमे श्लेष्मग्रन्थिमिव शस्त्रेणोद्धरेत् ॥

6.39.27

निवृत्तं सर्पिषाभ्यज्य स्वेदयेत् ।
स्विन्नमुपनाहयेत्त्रिरात्रं पञ्चरात्रं वा साल्वलेन ।
ततो भूयः स्वेदयित्वा घृतेनाभ्यज्य शनैः शनैश्चर्म समानयन् मणिमवपीडयेत् ।
पीडयित्वा च पुनरुपनाहयेत् ।
स्निग्धोष्णं चान्नपानम् ॥

6.39.28

अवपाटिकायामप्ययं विधिः ॥

6.39.29

निरुद्धमणौ सुवर्णादिकृतां दारुजां वा जतुसृतां नाडीमुभयतोद्वारां स्नेहाभ्यक्तां स्रोतसि प्रणिधाय सूकरशिंशुमारयोर्वसयामज्ज्ञा वा परिषेचयेत् ।
चक्रतैलेन वा ।
वातहरसिद्धेन वा त्रिवृतेन ।
तृतीये तृतीये चाहनि नाडीं पीनतरां विदध्यात् ।
एवमस्य स्रोतोद्वारं विवर्धयेत् स्निग्धं चाहारं भोजयेत् ।
एवमनुपशान्तौ शस्त्रेण सेवनीं परिहृत्य दारयित्वा सद्यःक्षतवदुपाचरेत् ॥

6.39.30

ग्रथितं नाडीस्वेदेन स्वेदयित्वा स्निग्धोष्णैरुपनाहयेत् ।
शतपोनकं लिखित्वा कषायचूर्णैः सक्षौद्रैर्लेपयेत् ।
विदार्यादिसिद्धेन च तैलेन रोपयेत् शर्करार्बुदे रक्तविद्रधिवत् साधनम् ॥

6.39.31

सर्वेषु च यथास्वमन्तःशुद्धिं कषायलेपघृततैलरसक्रियाचूर्णशोधनरोपणान् विदध्यात् ॥

6.39.32

योनिव्यापदि तु वातिक्यां लवणतैलाक्तां योनिं पिण्डनाडीकुम्भीप्रभृप्रभृतिभिः स्वेदयेत् ।
ततः सुखोष्णाम्बुपरिषिक्तसर्वगात्रां जाङ्गलरसैर्भोजयेत् ॥

6.39.33

बलाद्रोणद्वयनिर्यूहे पयस्यासालपर्णीमागधिकाशतावरीकाकनासाश्रावणीशर्कराजीवनीयगर्भं क्षीरचतुर्गुणं घृततैलाढकं साधयेत् तत्पानात् सर्वान् वातपित्तविकारानपोहति गर्भजननं च ॥

6.39.34

शतावरीत्रिफलागुडूचीकाश्मर्यमृद्वीकाकासमर्दकपरूषकहरिद्राद्वयसहचरशुकनासापुनर्नवैः कार्षिकैर्घृतप्रस्थः सिद्धः पीतो वातजान् योनिरोगानपोहति गर्भजननश्च ॥

6.39.35

सैन्धववचोपकुञ्चिकापिप्पलीवृषकयवक्षाराजमोदाजाजीसितोपलाचित्रकचूर्णो मदिरालुलितः सर्पिषा संयावीकृत्य भक्षितो योनिपार्श्वबास्तिवेदनार्शोगुल्महृद्रोगहरः ॥

6.39.36

शूले वृषकरास्नागोक्षुरकशृतं पयः पिबेत् ।
वृषकमातुलुङ्गमूलमदयन्तिकासैन्धवपिप्पलीकृष्णजीरककल्कं वा मद्येन ।
तेनैवचार्जकमूलं बिल्वयुक्तं वा पिप्पली युक्तं वा ।
सौवर्चलोपकुञ्चिकापिप्पलीर्वा मद्येनावन्तिसोमेन वा ॥

6.39.37

दन्तीत्रिफलगुडूचीक्वाथः सुखोष्णो योनेः परिषेकः ॥

6.39.38

कुष्ठतगरदेवदारुवार्ताकिनीसैन्धवैः साधितं तैलं पिचुना धारयेत् ॥

6.39.39

रास्नामालतीच्छिन्नरुहामधुकबलाव्याघ्रीदेवदारुचित्रकयूथिकामूलैः कर्षांशैस्तैलप्रस्थः समूत्रो द्विगुणपयसा विपक्वः पिचुना प्रणीतो ऽनिलार्तिहरः ॥

6.39.40

बस्तिकर्म चाभीष्णं स्वेदं च प्रयोजयेद्विशेषतो वातहरैः सुकुमारबलातैलशिरीषतैलैः शतपाकसहस्र पाकैश्चानुवासनमुत्तरबस्तिं च ।
एष क्रमो विशेषेण योनेर्वेदनाकार्कश्यस्तम्भस्रंसस्पर्शाहानिघ्नश्च ॥

6.39.41

अतिचरणादिषु सर्वास्वनिलजास्वयमेव क्रमः ॥

6.39.42

धारयेच्चातिचरणाय यवगोधूमकिण्वकुष्ठशतपुष्पाश्र्याह्वीप्रयड्गुबलाखुकर्णीकल्ककृतामुत्कारिकाम् ॥

6.39.43

प्राक्चरणाशुष्काविप्लुताकर्णिनीषुतैलमुत्तरबस्तिं दद्यात् ॥

6.39.44

धारयेच्च विप्लुतायां गोमत्स्यान्यतरपित्तेनैकविंशतिकृत्वो भावितान् क्षौमनक्तकान् किण्वं वा माक्षिकयुक्तमेवमस्याः स्रोतांसि विशुध्यन्ति कण्डूक्लेदशोफाश्च निवर्तन्ते ॥

6.39.45

कर्णिन्यां तु कुष्ठार्कपल्लवपिप्पलीसैन्धवैर्बस्तमूत्रपिष्टैर्वर्तिं कृत्वा धारयेत् ।
श्लेष्महरं च सर्वं कुर्यात् ॥

6.39.46

उदावृत्तायामानूपमांसरसाः क्षीरं स्वेदो दशमूलत्रिवृताक्वाथकल्कासिद्धश्च स्नेहः पानानुवासनोत्तरबस्तिषु ।
योनिस्रंसे च महायोनिप्रभृतिष्वेष एव विधिः ॥

6.39.47

जातघ्नीरक्तयोनिरक्तक्षयासु कुटजकाश्मर्यक्वाथसिद्धं सर्पिरुत्तरबस्तौ दद्यात् ।
अथवा मृगाजाविवराहरुधिराम्लदधिमधुघृतानीति ।
भवति चात्र ॥

6.39.48

स्नेहन स्वेदबस्त्यादि वातलास्वनिलापहम् ।
कारयेद्रक्तपित्तघ्नं शीतं पित्तकृतासु च ॥

6.39.49

श्लेष्मलासु च रूक्षोष्णं कर्म कुर्याद्यथायथम् ।
सन्निपाते विमिश्रं तु संसृष्टासु च कारयेत् ॥

6.39.50

स्निग्धस्विन्नां तथा योनिं दुःस्थितां स्थापयेत् समाम् ।
पाणिना नमयेत् जिह्मां संवृतां प्रथयेत् पुनः ॥

6.39.51

प्रवेशयेन्निस्सृतां च विवृतां परिवर्तयेत् ।
स्थानापवृत्ता योनिर्हि शल्यभूता स्त्रिया मता ॥

6.39.52

सर्वां व्यापन्नयोनिं च कर्मभिर्वमनादिभिः ।
मृदुभिः पञ्चभिर्नारीं स्निग्धस्विन्नामुपाचरेत् ॥

6.39.53

सर्वतः सुविशुद्धायाः शेषं कर्म विधीयते ।
बस्त्यभ्यङ्गपरीषेकप्रलेपपिचुधारणम् ॥

6.39.54

हिंस्राकल्कं समीरार्तौ कोष्णमभ्यज्य धारयेत् ।
पञ्चवल्कस्य पित्तार्तौ श्यामादीनां कफातुरा ॥

6.39.55

वामिन्याप्लुतयोश्चैव स्वेदयित्वा प्रयोजयेत् ।
तर्पणं स्नेहपिचुभिर्भोजनं चानिलापहम् ॥

6.39.56

सल्लकीजिङ्गिणीजम्बूधवत्वक्पञ्चवल्कलैः ।
कषायैः साधितात् स्नेहात् पर्युपप्लुतयोः पिचुम् ॥

6.39.57

कुलीरसूकरवसा सर्पिर्भिर्मधुरैः शृतैः ।
पूरयित्वा महायोनिं बध्नीयात् क्षौमनक्तकैः ॥

6.39.58

प्रस्रस्तां सर्पिषाभ्यज्य क्षीरस्विन्नां प्रवेशयेत् ।
बध्नीयाद्वेशवारस्य पिण्डेनामूत्रकालतः ॥

6.39.59

यच्च वातविकाराणां कर्मोक्तं तच्च कारयेत् ।
सर्वव्यापत्सु मतिमान्महायोन्यां विशेषतः ॥

6.39.60

नहि वातादृते योनिर्वनितानां प्रदुष्यति ।
अतो जित्वा तमन्यस्य कुर्याद्दोषस्य भेषजम् ॥

6.39.61

पित्तलानां तु योनीनां सेकाभ्यङ्गपिचुक्रियाः ।
शीताः पित्तजितः कार्याः स्नेहनार्थं घृतानि च ॥

6.39.62

शतावरीमूलतुलाचतुष्कात् क्षुण्णपीडितात् ।
रसेन क्षीरतुल्येन पाचयेत घृताढकम् ॥

6.39.63

जीवनीयैः शतावर्या मृद्वीकाभिः परूषकैः ।
पिष्टैः प्रियालैश्चाक्षांशैर्मधुकार्द्धपलान्वितैः ॥

6.39.64

सिद्धशीते तु मधुनः पिप्पल्याश्च पलाष्टकम् ।
शर्कराया दशपलं क्षिपेल्लिह्यात् पिचुं ततः ॥

6.39.65

योन्यसृक्शुक्रदोषघ्नं वृष्यं पुंसवनं परम् ।
क्षतं क्षयमसृक्पित्तं कासं श्वासं हलीमकम् ॥

6.39.66

कामिलां वातरुधिरं विसर्पं हृच्छिरोग्रहम् ।
अपस्मारार्दितायाममदोन्मादांश्च नाशयेत् ॥

6.39.67

एवमेव पयस्सर्पिर्जीवनीयोपसाधितम् ।
गर्भदं पित्तजानां च रोगाणां परमं हितम् ॥

6.39.68

रक्तयोन्यामसृग्वर्णैरनुबन्धमवेक्ष्य च ।
यथादोषोदयं युञ्ज्याद्रक्तस्थापनमौषधम् ॥

6.39.69

तिलचूर्णं दधि घृतं फाणितं सौकरी वसा ।
क्षौद्रयुक्तं जयेत् पीतं वातोत्तरमसृग्दरम् ॥

6.39.70

वराहस्य रसो मेध्यः सकौलत्थश्च तद्गुणः ।
पत्रकल्को घृते भृष्टो राजादनकपित्थयोः ।
शर्कराक्षौद्रयष्ट्याह्वनागरैश्च युतं दधि ॥

6.39.71

पयस्योत्पलशालूकबिसकालीयवारिजम् ।
सपयश्शर्कराक्षौद्रं रक्ते पित्तोत्तरे पिबेत् ॥

6.39.72

तण्डुलीयकमूलं वा सक्षौद्रं तण्डुलाम्भसा ।
सतार्क्ष्यशैलं लाक्षां वा छागेन पयसा पिबेत् ।
वासाघृतं महातिक्तं रक्तपित्तहितञ्च यत् ॥

6.39.73

मधुकं त्रिफलां लोध्रं मुस्तं सौराष्ट्रिकां मधु ।
मद्यैर्निमगुडूच्यौ च कफजे ऽसृग्दरे पिबेत् ॥

6.39.74

पाठां जम्ब्वाम्रयोरस्थि शिलोद्भेदं रसाञ्जनम् ।
अम्बष्ठां शाल्मलीपिच्छां समङ्गां वत्सकत्वचम् ॥

6.39.75

बाल्हीकबिल्वातिविषालोध्रतोयदगैरिकम् ।
शुण्ठीमधूकमाचीकरक्तचन्दनकट्फलम् ॥

6.39.76

कट्वङ्गवत्सकानन्ताधातकीमधुकार्जुनम् ।
पुष्ये गृहीत्वा सञ्चूर्ण्य सक्षौद्रं तण्डुलाम्बुना ॥

6.39.77

पिबेदर्शस्वतीसारे रक्तं यच्चोपवेश्यते ।
दोषा जन्तुकृता ये च बालानां तांश्च नाशयेत् ॥

6.39.78

योनिदोषं रजोदोषं श्यावश्वेतारुणासितम् ।
चूर्णं पुष्यानुगं नाम हितमात्रेयपूजितम् ॥

6.39.79

सर्वेषु गर्भस्रावोक्तं प्रदरेषु प्रशस्यते ॥

6.39.80

रक्तक्षयायां क्षीरं च जीवनीयशृतं पिबेत् ॥

6.39.81

योन्यां बलासदुष्टायां वर्तिः संशोधने हिता ।
वाराहे बहुशः पित्ते भावितैर्नक्तकैः कृता ॥

6.39.82

भावितं पयसार्कस्य माषचूर्णं ससैन्धवम् ।
वर्तिः कृता क्षणं धार्या सेक्तव्यानुसुखाम्बुना ॥

6.39.83

पिप्पलीमाषमरिचशताह्वाकुष्ठसैन्धवैः ।
प्रदेशिन्यङ्गुलीतुल्या वर्तिर्योनिविशोधनी ॥

6.39.84

उदुम्बरशलाटूनां द्रोणं द्रोणेम्भसः पचेत् ।
सपञ्चवल्कतिलकमालतीनिम्बपल्लवे ॥

6.39.85

निशास्थिते जले तस्मिंस्तैलप्रस्थं विपाचयेत् ।
पलाशशाल्मलीलाक्षाधवनिर्यासवल्कलैः ॥

6.39.86

पिष्टैर्युक्तं ततःस्नेहपिचुं योनौ निधापयेत् ।
सशक्ररैः कषायैश्च शीतैः कुर्वीत सेचनम् ॥

6.39.87

पिच्छिला विवृता योनिश्चिरदुष्टा तु दारुणा ।
सप्ताहाच्छुध्यति क्षिप्रमपत्यं च समश्नुते ॥

6.39.88

उदुम्बरस्य दुग्धेन षट्कृत्वो भावितात्तिलात् ।
तैलं क्वाथेन तस्यैव कार्यं धार्यं च पूर्ववत् ॥

6.39.89

धातक्यामलकीपत्रस्रोतोजमधुकोत्पलैः ।
जम्ब्वाम्रसारकासीसलोध्रकट्फलतिन्दुकैः ॥

6.39.90

सौराष्ट्रिकादाडिमत्वगुदुम्बरशलाटुभिः ।
अक्षमात्रैरजामूत्रे क्षीरे च द्विगुणे पचेत् ॥

6.39.91

तैलप्रस्थं तदभ्यङ्गपिचुबस्तिषु योजयेत् ।
शूनोत्तानोन्नता स्तब्धा पिच्छिला स्राविणी तथा ।
विप्लुतोपप्लुता योनिः सिध्येत् सस्फोटशूलिनी ॥

6.39.92

अर्कनिम्बाम्रकोशाम्रबिल्वबूकधवोद्बवैः ।
करीरजिङ्गिणीनम्बूकरञ्जार्जुनशिग्रुजैः ॥

6.39.93

पलाशसिध्रकोत्थैश्च कषायैर्धावनं परम् ।
शुक्तसीधुमधून्मिश्रैर्योनेः स्रावनिवारणम् ॥

6.39.94

कुर्यात् सतक्रगोमूत्रशुक्तैर्वा त्रिफलारसैः ॥

6.39.95

यवान्नमभयारिष्टं सीधु तैलं च शीलयेत् ।
पिप्पल्ययोरजःपथ्याप्रयोगांश्चसमाक्षिकान् ॥

6.39.96

रोहीतकजटाकल्कं पाण्डुरे ऽसृग्दरे पिबेत् ।
धात्रीमज्ज्ञोथवा कल्कं सितामाक्षिकसंयुतम् ॥

6.39.97

मधुनामलकीचूर्णं रसं वा प्राशयेत् सिते ।
सलोध्रवल्केन वटत्वक्कषायेण धावयेत् ॥

6.39.98

आस्रावे क्षौमपट्टान् वा भावितांस्तेन धारयेत् ।
प्लक्षत्वक्चूर्णपिण्डं वा धारयेन्मधुना कृतम् ॥

6.39.99

योन्या स्नेहाक्तया लोध्रप्रियङ्गुमधुकस्य वा ।
धार्या मधुकृता वर्तिः कषायाणां च भूरिशः ॥

6.39.100

स्रावच्छेदार्थमभ्यक्तां धूपयेद्वा धृताप्लुतैः ।
सरलागुग्गुलुयवैः सतैलैः कटुमत्स्यकैः ॥

6.39.101

कासीसं त्रिफला काङ्क्षी साम्रजम्ब्वस्थि घातकी ।
पैच्छिल्ये क्षौद्रसंयुक्तश्चूर्णो वैशद्यकारकः ॥

6.39.102

पलाशधातकीजम्बूसमङ्गामोचसर्जजः ।
दुर्गन्धे पिच्छिले क्लेदे स्तम्भनश्चूर्ण इष्यते ।
आरग्वधादिवर्गस्य कषायः परिषेचनम् ॥

6.39.103

स्तब्धानां कर्कशानां च कार्यं मादर्वकारकम् ।
धारणं वेशवारस्य कृसरा पायसस्य वा ॥

6.39.104

दुर्गन्धानां कषायः स्यात्तैलं वा कल्क एव वा ।
चूर्णो वा सर्वगन्धानां पूतिगन्धापकर्षणः ॥

6.39.105

श्लेष्मलानां कटुप्रायाः समूत्रा बस्तयो हिताः ।
पित्ते समधुकक्षीरा वाते तैलाम्लसंयुताः ।
सन्निपातसमुत्थायाः कर्म साधारणं हितम् ॥

6.39.106

एवं योनिषु शुद्धासु गर्भं विन्दन्ति योषितः ।
अदुष्टे प्राकृते बीजे बीजोपक्रमणे सति ॥

6.39.107

पञ्चकर्मविशुद्धस्य पुरुषस्यापि चेन्द्रियम् ।
परीक्ष्य वर्णैर्दोषाणां दुष्टं तद्घ्नैरुपाचरेत् ॥

6.39.108

मञ्जिष्ठाकुष्ठतगरत्रिफलाशर्करावचाः ।
द्वे निशे मधुकं मेदा दीप्यकः कटुरोहिणी ॥

6.39.109

पयस्या हिङ्गुकाकोली वाजिगन्धा शतावरी ।
पिष्ट्वाक्षांशं घृतप्रस्थं पचेत् क्षीरचतुर्गुणम् ॥

6.39.110

योनिशुक्रप्रदोषेषु तत्सर्वेषु प्रशस्यते ।
आयुष्यं पौष्टिकं मेध्यं धन्यं पुंसवनं परम् ॥

6.39.111

फलसर्पिरिति ख्यातं पुष्पे पीतं फलाय यत् ।
म्रियमाणप्रजानां च गर्भिणीनां च पूजितम् ।
एतत्परं च बालानां ग्रहघ्नं देहवर्द्धनम् ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc