अष्टाङ्गसंग्रह · अध्याय 6.38
अथातो गुह्यरोगविज्ञानीयं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
स्त्रीव्यवायनिवृत्तस्य सहसा भजतोथवा ।
दोषाध्युषितसङ्कीर्णमलिनाणुरजःपथाम् ॥
अन्ययोनिमनिच्छन्तीमगम्यां नवसूतिकाम् ।
तृषितं स्पृशतस्तोयं रतान्तेष्वपि नैव वा ॥
विवर्धयिषया तीक्ष्णान् प्रलेपादीन् प्रयच्छतः ।
मुष्टिदन्तनखोत्पीडाविषवच्छूकपातनैः ॥
वेगनिग्रहदीर्घातिखरशष्पविघट्टनैः ।
दोषा दुष्टा गता गुह्यं त्रयोविंशतिमामयान् ॥
जनयन्त्युपदंशादीन् उपदंशो ऽत्र पञ्चधा ।
पृथग्दोषैः सरुधिरैः समस्तैश्च अत्र मारुतात् ।
मेढ्रशोफो रुजश्चित्राः स्तम्भस्त्वक्परिपोटनम् ॥
पक्वोदुम्बरसङ्काशं पित्तेन श्वयथुर्ज्वरः ॥
श्लेष्मणा कठिनः स्निग्धः कण्डूमाञ्छीतलो गुरुः ॥
शोणितेनासितस्फोटसम्भवोस्रस्रुतिर्ज्वरः ॥
तीव्रारुगाशुपचनं दरणं कृमिसम्भवः ॥
याप्यो रक्तोद्भवस्तेषां मृत्यवे सन्निपातजः ॥
जायन्ते कुपितैर्दोषैर्गुह्यासृक्पिशिताश्रयैः ।
अन्तर्बहिर्वा मेढ्रस्य कण्डूला मांसकीलकाः ॥
पिच्छिलास्रस्रवा योनौ तद्वच्च छत्रसन्निभाः ।
तेर्शांस्युपेक्षया घ्नन्ति मेढ्रपुंस्त्वभगातर्वम् ॥
गुह्यस्य बहिरन्तर्वा पिटकाः कफरक्तजाः ।
सर्षपामानसंस्थाना घनाः सर्षपिकाः स्मृताः ॥
पिटका बहवो दीर्घा दीर्यन्ते मध्यतश्च याः ।
सो ऽवमन्थः कफासृग्भ्यां वेदनारोमहर्षवान् ॥
कुम्भीका रक्तपित्तोत्था जाम्बवास्थिनिभाशुजा ॥
अलजीं मेहवद्विद्यात् उत्तमां रक्तपित्तजाम् ।
पिटकां माषमुद्गाभाम् पिटका पिटकाचिता ।
कर्णिका पुष्करस्येव ज्ञेया पुष्करिकेति सा ॥
पाणिभ्यां भृशसंव्यूढे संव्यूढपिटका भवेत् ॥
मृदितं मृदितं वस्तु संरब्धं वातकोपतः ॥
विषमा कठिना भुग्ना वायुनाष्ठीलिका स्मृता ॥
विमर्दनादिदुष्टेन वायुना चर्म मेढ्रजम् ।
निवर्तते सरुग्दाहं क्वचित् पाकं च गच्छति ॥
पिण्डितं कुथितं चर्म तत्प्रलम्बमधोमणेः ।
निवृत्तसंज्ञं सकफं कण्डूकाठिन्यवत्तु तत् ॥
दुरूढं स्फुटितं चर्म निर्दिष्टमवपाटिका ॥
वातेन दूषितं चर्म मणौ सक्तं रुणद्धि चेत् ।
स्रोतो मूत्रं ततोभ्येति मन्दधारमेवदनम् ।
मणेर्विकासरोधश्च स निरुद्धमणिर्गदः ॥
लिङ्गं शूकैरिवाकीर्णं ग्रथिताख्यं कफोद्भवम् ॥
शूकदूषितरक्तोत्था स्पर्शहानिस्तदाह्वया ॥
छिद्रैरणुमुखैर्यत्तु मेहनं सर्वतश्चितम् ।
वातशोणितकोपेन तं विद्याच्छतपोनकम् ॥
पित्तासृग्भ्यां त्वचः पाकस्त्वक्पाको ज्वरदाहवान् ॥
मांस्पाकः सर्वजः सर्ववेदनो मांसशातनः ॥
सरागैरसितैः स्फोटैर्वेदनाभिश्च पीडितम् ।
मेहनं वेदना चोग्रा तं विद्यादसृगर्बुदम् ॥
मांसार्बुदं प्रागुदितं विद्रधिश्च त्रिदोषजः ॥
कृष्णानि भूत्वा मांसानि विशीर्यन्ते समन्ततः ।
पक्वानि सन्निपातेन तान् विद्यात्तिलकालकान् ॥
मांसोत्थमर्बुदं पाकं विद्रधिं तिलकालकान् ।
चतुरो वर्जयेदोषां शेषान् शीघ्रमुपाचरेत् ॥
विंशतिर्व्यापदो योनेर्जायन्ते दुष्टभोजनात् ।
विषमस्थाङ्गशयनभृशमैथुनसेवनैः ।
दुष्टार्तवादपद्रव्यैर्बीजदोषेण दैवतः ॥
योनौ क्रुद्धो ऽनिलः कुर्याद्रुक्तोदायामसुप्तताः ।
पिपीलिकासृप्तिमिव स्तम्भं कर्कशतां स्वनम् ॥
फेनिलारुणकृष्णाल्पतनुरूक्षार्तवस्रुतिम् ।
भ्रंशं वङ्क्षणपार्श्वादौ व्यथां गुल्मं क्रमेण च ।
तांस्तांश्च स्वान् गदान् व्यापद्वातिकी नाम सा स्मृता ॥
सैवातिचरणा शोफसंयुक्तातिव्यवायतः ॥
मैथुनादतिबालायाः पृष्ठजङ्घोरुवङ्क्षणम् ।
रुजन् सन्दूषयेद्योनिं वायुः प्राक्चरणेति सः ॥
वेगोदावर्तनाद्योनिं प्रपीडयति मारुतः ।
सा फेनिलं रजः कृच्छ्रादुदावृत्तं विमुञ्चति ॥
इयं व्यापदुदावृत्ता जातघ्नी तु यदानिलः ।
जातं जातं सुतं हन्ति रौक्ष्याद्दुष्टार्तवोद्भवम् ॥
अत्याशिताया विषमं स्थितायाः सुरते मरुत् ।
अन्नेनोत्पीडितो योनेः स्थितः स्रोतसि वक्रयेत् ।
सास्थिमांसं मुखं तीव्ररुजमन्तर्मुखीति सा ॥
वातलाहारसेविन्यां जनन्यां कुपितोनिलः ।
स्त्रिया योनिमणुद्वारां कुर्यात् सूचिमुखीति सा ॥
वेगरोधादृतौ वायुर्दुष्टो विण्मूत्रसङ्ग्रहम् ।
करोति योनिशोषं च शुष्काख्या सातिवेदना ॥
षडहात् सप्तरात्राद्वा शुक्रं गर्भाशयान्मरुत् ।
वमेत् सरुङ्नीरुजो वा यस्यां सा वामिनी मता ॥
योनौ वातोपतप्तायां स्त्रीगर्भे बीजदोषतः ।
नृद्वेषिण्यस्तनी च स्यात् षण्डसंज्ञानुपत्रमा ॥
दुष्टो विष्टभ्य योन्यास्यं गर्भकोष्ठं च मारुतः ।
कुरुते विवृतां स्रस्तां वातिकीमिव दुःखिताम् ।
उत्सन्नमांसां तामाहुर्महायोनिं महारुजम् ॥
यथास्वैर्दूषणैर्दुष्टं पित्तं योनिसमाश्रितम् ।
करोति दाहपाकोषापूतिगन्धज्वरान्विताम् ।
भृशोष्णभूरिकुणपनीलपीतासितार्तवाम् ॥
सा व्यापत् पैत्तिकी रक्तयोन्याख्यासृगतिस्रुतेः ॥
कफोभिष्यन्दिभिः क्रुद्धः कुर्याद्योनिमवेदनाम् ।
शतिलां कण्डुलां पाण्डु पिच्छिलां तद्विधस्रुतिम् ।
सा व्यापच्छ्लैष्मिकी #
वातपित्ताभ्यां क्षीयते रजः ।
सदाहकार्श्यवैवर्ण्यं यस्यां सा लोहितक्षया ॥
पित्तलाया नृसंवासे क्षवथूद्गारधारणात् ।
पित्तयुक्तेन मरुता योनिर्भवति दूषिता ॥
शूना स्पर्शासहा सर्पिर्नीलपीतास्रवाहिनी ।
बस्तिकुक्षिगुरुत्वातिसारारोचककारिणी ।
श्रेणिवङ्क्षणरुक्तोदज्वरकृत्सा परिप्लुता ॥
वातश्लेष्मामयव्याप्ता श्वेतपिच्छिलवाहिनी ॥
उपप्लुता स्मृता योनिः विप्लताख्या त्वधावनात् ।
सञ्जातजन्तुः कण्डूला कण्ड्वा चातिरतिप्रिया ॥
अकालवाहनाद्वायुः श्लेष्मरक्तविमूर्च्छितः ।
कर्णिकां जनयेद्योनौ रजोमार्गनिरोधिनीम् ॥
सा कर्णिनी त्रिभिर्दोषैर्योनिगर्भाशयाश्रितैः ।
यथास्वोपद्रवकरैर्व्यापत् सा सान्निपातिकी ॥
इति योनिगदा नारी यैः शुक्रं न प्रतीच्छति ।
ततो गर्भं न नृह्णणाति रोगांश्चाप्नोति दारुणान् ।
असृग्दरार्शोगुल्मादीनाबाधांश्चानिलादिभिः ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0