भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 6.37

6.37.1

अथातः क्षुद्ररोगप्रतिषेधं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

6.37.2

अजगल्लिकामपक्वां जलौकोभिर्ग्राहयेत् ।
यवक्षारशुक्तिसौराष्ट्रीकल्कैश्च लेपयेत् ॥

6.37.3

यवप्रख्यादीन् पाषाणगर्दभान्तान् स्वेदयित्वा सुरदारुकुष्ठमनश्शिलालैर्लेपयेत् ॥

6.37.4

पक्वांस्तु सहाजगल्लिकया व्रणवदुपाचरेत् ।

6.37.5

मुखदूषिकां लोध्रतुवरिकाभ्यां वा प्रदिह्यात् ।
वटपत्रनारिकेलशुक्तिभ्यां वा सैन्धववचाक्षिभेषजसिद्धार्थकैर्वा ।
एवमशान्तौ छर्दयेत् ।
ललाटे च सिरां विध्येत् ॥

6.37.6

पद्मकण्टकेषु निम्बाम्बुवान्तं निम्बोदकसिद्धं सर्पिः सक्षौद्रं पाययेत् ।
निम्बारग्वधकषायेण चोद्वर्तनम् ॥

6.37.7

विवृतादीन् जालगर्दभान्तनिरिवेल्लिकां च पित्तविसर्पवच्चिकित्सेत् ॥

6.37.8

विशेषतो राजिकामपाकशर्करामूर्वाकण्टकशर्कराभिः क्षीरपिष्टअभिर्लेपयेत् ।
अभीक्ष्णं च मृजाशीलनम् ।
जालगर्दभे धात्रीफलान्युपयुञ्जीत ॥

6.37.9

अग्निरोहिणीमपि प्रत्याख्याय पित्तविसर्पदुपाचरेत् पक्वां तु मधुरवर्गसिद्धेन सर्पिषां रोपयेत् ॥

6.37.10

विदारिकां जलवासिनीभिर्ग्राहयित्वा बिल्वमूलनगवृत्तिकवर्षाभ्वजकर्णपलाशकल्केन प्रलिम्पेत् ।
अनुपशाम्यन्तीं त्वभ्यज्य स्वेदयित्वा विम्लापयेत् ।
पक्वां शस्त्रेण विदार्य निम्बतिलपटोलकल्केन प्रच्छाद्य बध्नीयात् ।
क्षीरिवृक्षकदरखदिरकषायो व्रणप्रक्षालनम् ।
शुद्धां मधुरकषायसंस्कृतेन तैलेन रोपयेत् ॥

6.37.11

शर्करार्बुदं मेदोर्बुदवदुपाचरेत् ॥

6.37.12

बल्मीकं हस्तस्य पादस्य चोपरिष्टान्मर्मणि वा जातं प्रवृद्धमतिबहुच्छिद्रावृतं सशोफं च वर्जयेत् ॥

6.37.13

अतोन्यथा तु प्राक् कृतशुद्धेः शोणितमपहरेत् ।
सक्तुपलललवणगुडूच्यारेवतश्यामादन्तीकुलत्थिकामूर्लेलैपयेत् ॥

6.37.14

पक्वे तु सर्वां गतिं दुष्टमांसानि च शस्त्रेण सम्यक्शोधयित्वाग्निना क्षारेण वा दहेत् ॥

6.37.15

सुशुद्धे तु व्रणे भल्लातकमनश्शिलालैलाकालानुसार्यगरुचन्दनैर्निम्बतैलं रोपणार्थं श्रपयेत् ॥

6.37.16

कदरं शस्त्रेणोत्कृत्य स्नेहेन दहेत् ॥

6.37.17

रुद्धगुदे निरुद्धमणिवच्चिकित्सा ॥

6.37.18

चिप्पं शोणितावसेकसंशोधनैरुपाचरेत् ।
व्यपगतोष्माणञ्चैनमुष्णाम्बुना परिषिच्य यथायोगं शस्त्रेण परिकर्त्यापनयेत् ॥

6.37.19

ततो रसाञ्जनरोचनानेपालीतेजोह्वाकल्कैरम्लपिष्टैः शोधयित्वा कालेयकागरुहरिद्रारसाञ्जनसिद्धेनतैलेन रोपयेत् ।
मधुरकषायसिद्धेन वा ।
अल्पावशिष्टं च सर्जरसचूर्णेन पूरयेत् ॥

6.37.20

कुनखमपि प्रदुष्टमेवमेवोपक्रमेत् ॥

6.37.21

अलसेत्वम्लकाञ्जिकावसिक्तौ चरणौ निम्बतिलपटोलीकासीसरोचनाकल्केनाकल्केनालेपयेत् ।
निदिग्धिकारससिद्धेन सर्षपतैलेनाभ्यज्य रोचनाकासीसमनश्शिलाचूर्णैः प्रतिसारयेत् ॥

6.37.22

तिलकालकान् मषांश्च सूर्यकान्तेनाग्निना वा दहेत् क्षारेण वा ।
चर्मकलिं जतुमणिं च तद्वच्छस्त्रेणोत्कृत्य ॥

6.37.23

लाञ्च्छनव्यङ्गनीलिकासु यथासन्नां सिरां विध्येत् ।
क्षीरीवृक्षवल्ककल्कैश्च क्षीरपिष्टैर्लेपयेत् ।
बलातिबलामधुकहरिद्राभिर्वा ।
मधुकागरुपयस्याकालीयकैर्वा ।
तरुणकपित्थतिन्दुकरजनीभिर्वा ।
अम्लिकामूलेन वा ।
सूकरदंष्ट्रया वा मधुघृतयुक्तया ॥

6.37.24

विशेषेण व्यङ्गेष्वसृक्स्रावपूर्वमर्जुनपरिपोटैर्लेपः ।
क्षौद्रेण वा पिष्टा मञ्जिष्ठा ।
अजाक्षीरेणवार्द्रदाडिमत्वक् ।
तेनैव वा बालामलकं गोमूत्रेण सप्ताहं स्थितम् ।
दधिमण्डेन वा कालेयकलोध्रोत्पलकिञ्जल्कम् ।
नवनीतेन वा श्वेताश्वखुरजमषी ॥

6.37.25

तत्रापि वातजेषु देवदारुदुरालभाबृहतीमञ्जिष्ठामूर्वापामार्गत्रायन्तीत्रायमाणाशुकनसाबलाविदारीयवबदरकुलत्थबिल्वोत्पलशतावरीदर्भमूलक्वाथे शृङ्गीविडङ्गगर्भं घृतं विपक्वमधोभक्तं पानमभ्यङ्गं नावनं च सायं योजयेत् ॥

6.37.26

प्रलेपं च न्यग्रोधदेवदारुहरीतकीपूतीकरञ्जमदनफलचूर्णैर्घृतयुक्तैः ।
बदरमज्जाकोद्रवलाजचूर्णेन वा सघृतेन ।
श्वेतचमरास्थितालपत्रीस्तन्यमधुघृतैर्वा ॥

6.37.27

पैत्तेषु बलामधुकमागधिकाक्षीरकाकोलीस्वगुप्ताफलकाकमाचीतुगाह्वाभिः सपयः सर्पिः सिद्धं पूर्ववत् प्रयोजयेत् ॥

6.37.28

मृद्वीकाश्वेतपाकीखर्जूरपरूषकसौवीरबदरद्विमेदापुनर्नवकशेरुकाप्रवालविद्रुममृणालैर्वा सक्षीरैः ॥

6.37.29

उपस्निग्धं चैनमिक्षुरसेनोभयतो विरेचयेत् ॥

6.37.30

कृतरुधिरावसेचनानेतांश्च व्यङ्गान् मधुकसारिवाबलाचन्दनलोध्रोत्पलैर्घृतयुक्तैरालेपयेत् ।
प्रपौण्डरीकमधुकपद्मकनीलोत्पलसारिवाकदलीमूलप्रवालसुवर्णगैरिकैर्वा ।
शीतमधुरमन्नपानं प्रवातमहःस्वप्नं सौमनस्यं च सेवेत ॥

6.37.31

कफजेषु दशमूलदेवदारुहरीतकीश्वदंष्ट्रामलकीक्वाथे मुस्तकुष्ठहरिद्रामरतरुकल्कैस्तद्वत् साधितं सर्पिस्तद्वदेवोपयुञ्जीत ॥

6.37.32

तुत्थरोचनालोध्रप्रियङ्गुकालेयकैः समधुघृतैर्लेपः ।
देवदारुसरलबलाशिग्रुमूलैर्वा ।
मनश्शिलातुत्थरसाञ्जनैर्वा ।
मृदुना वा क्षारेण दशमात्राः प्रलेपः ॥

6.37.33

रक्तजेषु क्षीरसर्पिःस्निग्धस्य सिरां विस्रावयेत् ।
वमनविरेचने च पित्तवत् कुर्यात् ।
आलेपश्चास्य चन्दनमधुककल्केन घृतवता ।
सर्जरसनीलोत्पलशङ्खवेतसकदलीमूलमूर्वामधुककल्केन वा ॥

6.37.34

प्रसुप्तौ वातकुष्ठोक्तक्रमो ऽन्ते चाग्निना दाहः ॥

6.37.35

उत्कोठे पित्तश्लेष्महरो विधिः सक्षारलवणं च तैलमभ्यङ्गः ।
कोठे कुष्ठचिकित्सितमीक्षेत ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc