अष्टाङ्गसंग्रह · अध्याय 6.34
अथातो ग्रन्थ्यर्बुदश्लीपदापचीनाडीविज्ञानीयं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
कफप्रधानाः कुर्वन्ति मेदोमांसास्रगामलाः ।
वृत्तोन्नतं यं श्वयथुं स ग्रन्थिर्ग्रथनात् स्मृतः ॥
दोषासृङ्मांसमेदोस्थिसिराव्रणभवा नव ।
तत्रवातादायामतोदभेदान्वितो ऽसितः ॥
स्थानात् स्थानान्तरगतिरकस्माद्धानिवृद्धिमान् ।
मृदुर्बस्तिरिवानद्धो विभिन्नोच्छं स्रवत्यसृक् ॥
पित्तात् सदाहपीताभो रक्तो वा पच्यते द्रुतम् ।
भिन्नो ऽस्रमुष्णं स्रवति श्लेष्मणा नीरुजो घनः ।
शीतः सवर्णः कण्डूमान् पक्वः पूयं स्रवेत् घनम् ॥
दोषैर्दुष्टेसृजि ग्रन्थिर्भवेन्मूर्च्छत्सु जन्तुषु ।
सिरामांसं च संश्रित्य सस्वापः पैत्तलक्षणः ॥
मांसलैर्दूषितं मांसमाहारैर्ग्रन्थिमावहेत् ।
स्निग्धं महान्तं कठिनं सिरानद्धं कफाकृतिम् ॥
प्रवृद्धं सेदुरैर्मेदो नीतं मांसे ऽथ वा त्वचि ।
वायुना कुरुते ग्रन्थिं भृशं स्निग्धं मृदुं चलम् ॥
श्लेष्मतुल्याकृतिं देहक्षयवृद्धिक्षयोदयम् ।
स विभिन्नो घनं मेदस्ताम्रासितसितं स्रवेत् ॥
आस्थिभङ्गाभिघाताभ्यामुन्नतावनतं तु यत् ।
सोस्थिग्रन्थिः पदातेस्तु सहसाम्भोवगाहनात् ॥
व्यायामाद्वा प्रतान्तस्य सिराजालं सशोणितम् ।
वायुः सम्पीड्य सङ्कोच्य वक्रीकृत्य विशोष्य च ।
निस्फुरं नीरुजं ग्रन्थिं कुरुते स सिराह्वयः ॥
अरूढे रूढमात्रे वा व्रणे सर्वरसाशिनः ।
सार्द्रे वा बन्धरहिते गात्रे ऽश्माभिहते ऽथ वा ॥
वातो ऽस्रमस्रुतं दुष्टं संशोष्य ग्रथितं व्रणम् ।
कुर्यात् सदाहः कण्डूमान् व्रणग्रन्थिरयं स्मृतः ॥
साध्या दोषास्रमेदोजा न तु स्थूलखराश्चलाः ।
मर्मकण्ठोदरस्थाश्च महत्तुग्रन्थितोर्बुदम् ॥
तल्लक्षणं च मेदोन्तैः षोढा दोषादिभिस्तु तत् ।
प्रायो मेदःकफाढ्यत्वात् स्थिरत्वाच्च न पच्यते ॥
सिरास्थं शोणितं दोषः सङ्कोच्यानुप्रपीड्य च ।
पाचयेच्च तदानद्धं सास्रावं मांसपिण्डितम् ॥
मांसाङ्क्कुरैश्चितं याति वृद्धिं चाशु स्रवेत्ततः ।
अजस्रं दुष्टरुधिरं भूरि तच्छोणितर्बुदम् ॥
तेष्वसृङ्मांसजे वर्ज्ये चत्वार्यन्यानि साधयेत् ॥
प्रस्थिता वङ्क्षणोर्वादिमधःकायं कफोल्बणाः ।
दोषा मांसास्रगाः पादौ कालेनाश्रित्य कुर्वते ।
शनैः शनैर्घनं शोफं श्लीपदं तं प्रचक्षते ॥
परिपोटयुतं कृष्णमनिमित्तरुजं खरम् ।
रूक्षं च वातात् पित्तात्तु पीतं दाहज्वरान्वितम् ॥
कफात् गुरुस्निग्धमरुक्चितं मांसाङ्कुरैर्बृहत् ॥
तत्त्यजे द्वत्सरातीतं सुमहत्सपरिस्रुति ॥
पाणिनासौष्ठकर्णेषु वदन्त्यन्ये तु पादवत् ।
श्लीपदं जायते तच्च देशे ऽनूपे भृशं भ्रमात् ॥
मेदस्थाः कण्ठमन्याक्षकक्षवङ्क्षणगा मलाः ।
सवर्णान् कठिनान् स्निग्धान् वार्ताकामलकाकृतीन् ॥
अवगाढान् बहून् गण्डांश्चिरपाकांश्च कुर्वते ।
पच्यन्तेल्परुजस्तेन्ये स्रवन्त्यन्येतिकण्डुराः ।
नश्यन्त्यन्ये भवन्त्यन्ये दीर्घकालानुबन्धिनः ॥
गण्डमालापची चेयं दूर्वेव क्षयवृद्धिभाक् ।
तां त्यजेत् सज्वरच्छर्दिपार्श्वरुक्कासपीनसाम् ॥
अभेदात् पक्वशोफस्य व्रणे चापथ्यसेविनः ।
अनुप्रविश्य मांसादीन् दूरं पूयोभिधावति ॥
गतिः सा दूरगमनान्नाडी नाडीव संस्रुतेः ।
नाड्येकानृजुरन्येषां सैवानेकगतिर्गतिः ॥
सा दोषैःपृथगेकस्थैः शल्यहेतुश्च पञ्चमी ॥
वातात् सरुक्सूक्ष्ममुखी विवर्णा फेनिलोद्वमा ।
स्रवत्यभ्यधिकं रात्रौ पित्तात्तृङ्ज्वरदाहकृत् ।
पीतोष्णपूतिपूयस्रुग्दिवा चाति निषिञ्चति ॥
घनपिच्छिलसंस्रावा कण्डूला कठिना कफात् ।
निशि चाभ्यधिकक्लेदा सर्वैः सर्वाकृतिं त्यजेत् ॥
अन्तःस्थितं शल्यमनाहृतं तु करोति नाडीं वहते च सास्य ।
फेनानुविद्धं तनुमल्पमुष्णं सास्र च पूयं सरुजं च नित्यम् ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0