भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 6.33

6.33.1

अथातो भगन्दरप्रतिषेधं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

6.33.2

हस्त्यश्वपृष्ठगमनकठिनोत्कटकासनैः ।
अर्शोनिदानाभिहितैरपरैश्च निषेवितैः ॥

6.33.3

अनिष्टदिष्टपाकेन सद्यो वा साधुगर्हणैः ।
प्रायेण पिटकापूर्वो योङ्गुले द्व्यङ्गुलेपि ॥

6.33.4

पायोर्व्रणो ऽन्तर्बाह्यो वा दुष्टासृङ्मांसगो भवेत् ।
बस्तिमूत्राशयाभ्याशगतत्वात् स्यन्दनात्मकः ॥

6.33.5

भगबस्तिगुदान्तेषु दीर्यमाणेषु भूरिभिः ।
वातं मूत्रं शकृच्छुक्रं खैः सूक्ष्मैर्वहति क्रमात् ॥

6.33.6

दोषैः पृथग्युतैः सर्वैरागन्तुः सो ऽष्टमः स्मृतः ॥

6.33.7

अपक्वं पिटकामाहुः पाकप्राप्तं भगन्दरम् ॥

6.33.8

गूढमूलां ससंरम्भां रूदाढ्यां रूढकोपिनीम् ।
भगन्दरकरीं विद्यात् पिटकां नत्वतोन्यथा ॥

6.33.9

तत्र श्यावारुणा तोदभेदस्फुरणरुक्वरी ।
पिटका मारुतात् #

6.33.10

पित्तादुष्ट्रग्रीवावदुच्छ्रिता ।
रागिणी तनुरूष्माढ्या ज्वरधूमायनान्विता ॥

6.33.11

स्थिरा स्निग्धा महामूला पाण्डुःकण्डूमती कफात् ॥

6.33.12

श्यावाताम्रा सदाहोषा घोररुग्वातपित्तजा ॥

6.33.13

पाण्डुरा किञ्चिदाश्यावा कृच्छ्रपाका कफानिलात् ॥

6.33.14

पादाङ्गुष्ठसमा सर्वैर्दोषैर्नानाविधव्यथा ।
शूलारोचकतृङ्दाहज्वरच्छार्दिरुपद्रुता ॥

6.33.15

व्रणतां यान्ति ताः पक्वाः प्रमादात् तत्र वातजा ।
चीयते ऽणुमुखैश्छिद्रैः शतपोनकवत् क्रमात् ।
अच्छं स्रवद्भिरास्रावमजस्रं फेनसंयुतम् ॥

6.33.16

शतपोनकसंज्ञो ऽयं उष्ट्रग्रीवस्तु पित्तजः ॥

6.33.17

बहुपिच्छापरिस्रावी परिस्रावी कफोद्भवः ॥

6.33.18

वातपित्तात् परिक्षेपी परिक्षिप्य गुदं गतिः ।
जायते परितस्तत्र प्राकारं परिखेव च ॥

6.33.19

ऋजुर्वातकफादृज्व्या गुदो गत्यावदीर्यते ॥

6.33.20

कफपित्ते तु पूर्वोत्थं दुर्नामाश्रित्य कुप्यतः ।
अर्शोमूले ततः शोफः कण्डूदाहादिमान् भवेत् ॥

6.33.21

स शीघ्रं पक्वभिन्नोस्य क्लेदयन् मूलमर्शसः ।
स्रवत्यजस्रं गतिभिरयमर्शोभगन्दरः ॥

6.33.22

सर्वजः शम्बुकावर्तः शम्बुकावर्तसन्निभः ।
गतयो दारयन्त्यस्मिन् रुग्वेगैर्दारुणैर्गुदम् ॥

6.33.23

अस्थिलेशो ऽभ्यवहृतो मांसगृध्या यदा गुदम् ।
क्षिणोति तिर्यङ्निर्गच्छन्नुन्मार्गं च ततो गतिः ॥

6.33.24

स्यात्तदा पूयदीर्णायां मांसकोथेन तत्र च ।
जायन्ते कृमयस्ते ऽस्य खादन्तः परितो गुदम् ।
विदारयन्ति न चिरादुन्मार्गी क्षतजश्च सः ॥

6.33.25

तेषु रुग्दाहकण्ड्वादीन् विद्याद्व्रणविभक्तितः ॥

6.33.26

षट् कृच्छ्रसाधनास्तेषां निचयक्षतजौ त्यजेत् ।
प्रवाहिणीं बलीं प्राप्तं सेवनीं वा समाश्रितम् ॥

6.33.27

अथ भगन्दारिणमपक्वपिटकं पाकपरिहाराथमपतर्पणेन व्रणप्रतिषेधविहितेन शीघ्रमुपाचरेत् ॥

6.33.28

पक्वपिटकं पुनरुपस्निग्धमर्कादिक्वाथशुद्धं स्वभ्यक्तमवगाहस्विन्नं भुक्तवन्तं शयनस्थमर्शसमिव यन्त्रयित्वा पराचीनमर्वाचीनं बहिर्मुखमन्तर्मुखं वा भगन्दरं सम्यगीक्षेत ॥

6.33.29

ततो ऽन्तर्मुखे यन्त्रं प्राणिधाय प्रवाहणप्रविष्टं भगन्दरमभिसमीक्ष्य सम्यगेषित्वा शस्त्रेण पाटयेत् ।
बहिर्मुखेत्वेषाणीं प्रणिधाय साशयमुद्धरेच्छस्त्रेणानन्तरं चो ऽभयमप्यग्निना क्षारेण चोपत्रमेत उष्ठग्रीवं तु क्षारेणैव ॥

6.33.30

ततो निर्वापणशोधनरोपणैर्यथाकालं साधयोदिति सामान्यो विधिः ॥

6.33.31

अथ शतपोनके नाडीरेकान्तरिताः पाटयित्वा रोपयेत् ।
रूढासु चेतराश्चिकित्सेत् ।
अन्यथा तु विवृत्तं व्रणं गुदस्रोतोविदारणाद्वातविण्मूत्राण्यनुप्रपद्यन्ते ।
ततश्चोन्मार्गगो वायुराध्मानाटोपपायुशूलादीनुपजनयति ।
तत्र स्नेहाभ्यक्तगुदस्य स्निग्धान् पिण्डनाडीकुम्भीस्वेदान् प्रयुञ्जीतावगाहं वा ।
स्विन्नं च वच हिंगुकुष्ठव्योषलवणपञ्चकाजमोदान् सर्पिर्मद्याकाञ्जिककुलत्थयूषान्यतमेन पाययेत् ।
व्रणं चास्य मधुकतैलेनोष्णेन सिञ्चेत् ।
गुदं च बलातैलादिभिर्वातघ्नैः ।
अनेन विधिना वाय्वादयः स्वमार्गमापतन्ति ।
तत्कृताश्च विकारा निवर्तन्ते ॥

6.33.32

एवमेव च परिक्षेपिण्यामपि क्रमात् गतिं नाडीविहितेन क्षारसूत्रेण द्विशस्त्रिशोवावदारयेत् ।
सकृदेवह्यवदरणादसाध्यता याप्यता वा स्यात् ॥

6.33.33

अर्शोभगन्दरे पूर्वमर्शांसि च्छिन्द्यात् ततो गत्यनुसारेण भगन्दरम् ॥

6.33.34

उन्मार्गिणं तु प्रत्याख्यायोपाचरेत् ।
अनिस्सृतं च शल्यमाहरेत् ।
तथा कृमिघ्नं क्रममालेपाभ्यवहारयोः कुर्वीत ।
वेदनायां तु पूर्वोक्ताः स्वेदाः ।
वचादिपाचनं च ।
साल्वलप्रदिग्धं वा व्रणं कदलीमृगलोपाकाजिनकौशेयाविकैरुपनाहयेदिति ।
भवति चात्र ॥

6.33.35

भगन्दरे बहुच्छिद्रे छेदानालोच्य योजयेत् ।
गोतीर्थं सर्वतोमद्रमर्धलाङ्गललाङ्गलौ ॥

6.33.36

पार्श्वागतेनशस्त्रेण छेदो गोतीर्थको मतः ।
सर्वतः सर्वतोभद्रः पार्श्वच्छेदोर्धलाङ्गलः ॥

6.33.37

पार्श्वद्वये लाङ्गलकः समस्तांश्चाग्निना दहेत् ।
आस्रावमार्गान् निश्शेषं नैवं विकुरुते पुनः ॥

6.33.38

यतेत् कोष्ठशुध्यै च भिषक् तस्यान्तरान्तरा ॥

6.33.39

आर्द्रकस्य रसे सिद्धं कल्के वा पाययेत् घृतम् ।
भगन्दरे मारुतजे पक्वापक्वे विरेचयेत् ॥

6.33.40

ज्योतिष्मतीलाङ्गलिकाश्यामादन्तीत्रिवृत्तिलाः ।
कुष्ठं शतह्वा गोलोमी तिल्वको गिरिकर्णिका ।
हेमक्षीरी च वर्गोयं लेपाद्यैर्व्रणशोधनः ॥

6.33.41

तिलकुम्भवरादन्ती तुत्थसिन्धूत्थमाक्षिकम् ।
सकृष्णरोचनाकुष्ठं शोधनं मांसकृत् पुनः ॥

6.33.42

मञ्जिष्ठासैन्धवक्षौद्रनागदन्तीत्रिवृत्तिलाः ।
रसाञ्जनद्विरजनीतेजोह्वानिम्बपल्लवाः ॥

6.33.43

निकुम्भकुम्भरक्ताह्वकल्को नाडीव्रणापहः ॥

6.33.44

सुधाशेलुत्रिवृत्पाठामलयूहयमारकैः ।
ज्योतिष्मतीलाङ्गलिका स्वर्जिकार्कवचाग्निकैः ।
विष्यन्दनाख्यं विपचेत्तैलं शोधनरोपणम् ॥

6.33.45

त्रिवृद्दन्तीहरिद्रार्कमूललोहाश्वमारकैः ।
विडङ्गसारत्रिफलास्नुगर्कक्षीरमाक्षिकैः ।
तैलं समदनैः सिद्धं भगन्दरनिर्वहणम् ॥

6.33.46

सैन्धवार्कत्रिवृत्पाठासमङ्गपूतिकाग्निकैः ।
समातुलुङ्गच्छदनैस्तैलंशोधनरोपणम् ॥

6.33.47

मधुतैलयुता विडङ्गसारत्रिफलामागधिकोषणाश्च लीढा कृमिकुष्ठभगन्दरप्रमेहक्षतनाडीव्रणरोपणाभवन्ति ॥

6.33.48

अमृतात्रुटिवेल्लवत्सकं कलिपथ्यामलका निगुग्गुलुः ।
क्रमवृद्धमिदं मधुप्लुतं पिटकास्थौल्यभगन्दरान् जयेत् ॥

6.33.49

गुग्गुलुपञ्चपलं पलिकांशा मागधिका त्रिफला च पृथक् स्यात् ।
त्वक्त्रुटिकर्षयुतं मधुलीढं कुष्ठभगन्दरगुल्मगतिघ्नम् ॥

6.33.50

शृङ्गवेररजोयुक्तं तदेव च सुभावितम् ।
क्वाथेन दशमूलस्य विशेषाद्वातरोगजित् ॥

6.33.51

उत्तमा खदिरसारजं रजः शीलयन्नसनवारिभावितम् ।
हन्ति तुल्यमहिषाक्षमाक्षिकं कुष्ठमेहपिटकाभगन्दरान् ॥

6.33.52

भगन्दरेष्वेष विशेष उक्तः शेषाणि तु व्यञ्जनसाधनानि ।
व्रणाधिकारात् परिशीलनाच्च सम्यग्विदित्वौपयिकं विदध्यात् ॥

6.33.53

अश्वपृष्ठगमनं चलरोधं मद्यमैथुनमजीर्णमसात्म्यम् ।
साहसानि विविधानि च रुढे वत्सरं परिहरेदधिकं वा ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc