भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 6.35

6.35.1

अथातो ग्रन्थ्यादिप्रतिषेधं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

6.35.2

सर्वेष्वेव पूर्वं ग्रन्थिषु बृहतीद्वयपिप्पलीचित्रकसाधितेन पुराणसपिंषा स्निग्धं वामयेत् ।
विरेचयेच्च ।
कृतसंसर्जनस्यचोत्तमाङ्गगतेषु ग्रन्थिषु लाक्षाद्विरजनीविडङ्गशुण्ठीपूतीदारुभिः शिरो विरेचयेत् धूमकवलगण्डूषांश्च स सेवेत ॥

6.35.3

अङ्कोलमधुकमातुलुङ्गहिंस्रापूतीदारुबिल्वमूलसरलकुष्ठवचावरुणत्वक्कालातिविषाजगन्धाभिर्लेपः ।
श्यामासुरदारु समङ्गाकोशातकीपुनर्नवसर्षपैर्वा ॥

6.35.4

सशोफरुक्स्तम्भे चोपनाहो यवसक्तुमधुककुष्ठशतपुष्पोदवदारुभिर्घृतयुक्तैः ।
गोजाविखरोष्ट्राश्वहस्तिमूषीकमांसैर्वा वेशवारीकृतैर्वसातैलवद्भिः ॥

6.35.5

पलाशवृन्ताग्निमन्थत्वक्कल्केन मांसपिण्डैर्वा ।
बहुशः स्विन्नमङ्गुष्ठेन वेणुपर्वणा वा शनैश्शनैः पुनः पुनर्विमर्दयेत् ।
यथायथं च शोफवत् क्रियां प्रयुञ्जीत ॥

6.35.6

अथ वातजे ग्रन्थौ दशमूलसिद्धं महास्नेहं पिबेत् ।
अमृतानिम्बबीजभार्ङ्गीस्योनाकबाणतालपत्रीकृष्णगन्धागरुभिः क्षीरपिष्टैः सुखोष्णैर्लेपः ।
विविधाश्च वातव्याधिविहिताः स्नेहस्वेदोपनाहाः ।
तथानुपशमे सिराव्यधः ॥

6.35.7

पक्वं तु विदार्य निरस्तपूयं कृत्वार्कादिवर्गाम्भसा प्रक्षाल्य तिलकल्केन सचित्रकसैन्धवेनालेपयेत् ।
तैलं च रोपणं रास्नासरलोशीरविडङ्गमधुकक्षीरसंस्कृतं कुर्यात् ॥

6.35.8

पित्तजे रक्तजे च जलौकसो न्यग्रोधादिः प्रदेहपरिषेकयोः पद्मकादिः पाने च द्राक्षेक्षुरसयुक्ता हरीतकी विरेकः ।
पक्वे पाटिते च पित्तव्रणोक्तो विधिः ॥

6.35.9

कफजमन्तश्शुद्धस्य भृशं स्वेदयेद्विम्लापयेच्च काकादनीविकङ्कतकाकनन्दिकारग्वधेङ्गुदमूलमदनफलभार्ङ्गीकरञ्जैर्लेपयेत् ।
नागरविडङ्गैलावालुकचव्यपलाशवृन्तचित्रकैर्वा ।
भल्लातसैन्धवाजगन्धासर्षषैर्वा ॥

6.35.10

एवमप्यपच्यमानममर्मस्थं विदार्य स्थितरक्तं निश्शेषमग्निना दहेत् ।
सशेषो हि पुनरापूर्यते ।
ततो निर्वापितं क्षारक्षौद्रगुडोत्तरैरालेपैस्संशुद्धं रोपयेत् ॥

6.35.11

मांसव्रणग्रन्थींश्चैवमेव यापयेत् ।
मेदोजेप्ययमेव विधिः अपि च मेदोग्रन्थिं तिलकल्कदिग्धं द्विगुणपटान्तरितं तप्तेन फालेन दर्व्या वा जतुलिप्तया बहुशः प्रमृज्यात् ।
शस्त्रं चावचार्य पूर्ववन्मेदो दहेत् ।
सुपक्वं वा विपाट्य मूत्रप्रक्षालितं क्षौद्रसैन्धवसुवर्चिकाकाञ्चनक्षीरीहरितालमिश्रैः क्षीरबकप्रगाढैस्तिलैरालेपयेत् ॥

6.35.12

गुञ्जाद्विकरञ्जतापसवृक्षवंशावलेखमूत्रसिद्धं तैलमभ्यङ्गः ।
सम्यक्शुद्धं चैनं रोपयेत् ॥

6.35.13

सिराग्रन्थौ त्वभिनवे तैलं साहचरं पिबेत् उपनाहञ्च वातहरैर्बस्तिकर्म च कुर्यात् ।
सिराव्यधञ्च ॥

6.35.14

वातार्बुदमैरण्डप्रियालनारिकेलमज्जोर्वारुकार्कोरुबीजोत्कारिकयोपनाहयेत् ।
आनूपामिषवेशवारैर्वा ।
नाडीस्वेदञ्च कुर्यात् बहुशश्चात्रशृङ्गेण रुधिरमवसेचयेत् ।
वातहरवर्गक्काथपयोम्लसिद्धं त्रिवृतं पिबेत् ॥

6.35.15

पित्तोत्थे मृदून् स्वेदोपनाहान् कायविरेचनञ्च प्रयोजयेत् ।
शाककाकोदुम्बरिकापत्रघृष्टे च प्रियङ्गुपतङ्गसर्जरसार्जुनलोध्रमधुमधुकैर्लेपः ।
श्यामाग्रिकर्णिकाञ्जनक्लीतनकनखद्राक्षासप्तलान्यतमरससाधितं सर्पिः पीतं पित्तार्बुदश्लीपदोदरघ्नम् ॥

6.35.16

श्लेष्मजे तूर्ध्वमधश्च हृतदोषस्य स्रुतरक्तस्य च वमनविरेचनद्रव्यैः प्रलेपः ।
काकादनीशुकबर्हाग्निजिह्वामूलदक्षकपोतगृध्रपुरीषकाशमूलैर्वा पलाशक्षीरपिष्टैः ।
पिण्याककुलत्थनिष्पावैर्मांसप्रगाढैर्दधिपिष्टैर्लेपयेत् ।
लेपास्वादलोभेन च निलीयमाना मक्षिकाः स मुपेक्षेत ।
तद्विमुक्तैः कृमिभिरितरैर्वा भक्ष्यमाणञ्च ।
ततः कृमिभक्षितावशेषं शाकादिपत्रैर्विलिख्याग्निनाप्रतिसारयत् ।
अल्पमूलं वा त्रपुतास्रायःसीसपट्टकवेष्टितम् ।
पुनः पुनश्च क्षारान् कालापेक्षया योजयेत् ।
जात्यास्फोतकरवीरपल्लवांश्च व्रणशोधनाय कल्कादौ ।
तैलञ्चात्र पाठाविडङ्गभार्ङ्गी त्रिफलाकषायसिद्धमभ्यञ्जनम् ॥

6.35.17

मेदोर्बुदं स्विन्नभिन्नं सुशोधितमेदस्कमुपशान्तरक्तस्रावं सद्यःस्सीव्येत् ।
ततो गृहधूमलोध्रमनश्शिलाहरिद्रापतङ्गचूर्णैर्मधुमाद्भिः प्रतिसारयेत् ।
करञ्जतैलञ्चाभ्यञ्जनार्थे नियुञ्जीत ।
सर्वार्बुदानि च यदृच्छया पर्यागतानि सुपरिशोधितानि रोपयेत् ।
अपि च ॥

6.35.18

सशेषदोषाणि तु योर्बुदानि करोति तस्याशु पुनर्भवन्ति ।
तस्मादशेषोद्धरणं प्रशस्तं क्षारेण शस्त्रेण तथाग्निना वा ॥

6.35.19

श्लीपदे तु वातात्मके स्नेहस्वेदोपनाहान् प्रयुज्य गुल्फस्योपरिष्टाद्व्यङ्गुले सिरां विध्येत् ।
एरण्डतैलञ्च गोमूत्रेण मासं पिबेत् ।
जीर्णे नागरक्वथितेन पयसा पुराणधान्यान्यश्नीयात् ।
त्रिवृतञ्च पाययेत् ।
बस्तिश्च प्रयुञ्जीत ।
एवमप्यशाम्यत्याग्निना दहेत् ॥

6.35.20

पैत्तिके मृदुरुपनाहो गुल्फस्याधः सिरामोक्षः पित्तार्बुदोक्ताः स्नेहविरेकाः पित्तघ्नाश्च लेपाः ॥
श्लैष्मिके त्वङ्गुष्ठे सिरां मुञ्चेत् ।
सक्षौद्रांश्च कफघ्नान् कषायानभीक्ष्णं पाययेत् ।
यथाबलं वा हरीतकी वर्धमानाः ॥

6.35.21

श्लैष्मिके त्वङ्गुष्ठे सिरां मुञ्चेत् ।
सक्षौद्रांश्च कफघ्नान् कषायानभीक्ष्णं पाययेत् ।
यथाबलं वा हरीतकी वर्धमानाः ॥

6.35.22

आदारीकाकजंघाकाकादनीशुकनासाकदम्बपुष्पबृहतीद्वयमन्तर्धूमं दग्ध्वा गोमूत्रेण बहुशः परिस्रावयेत् ततस्तत् क्षारोदकं क्षारकल्पेन विपचेत् ।
दद्याच्चात्र परतीवापं फल्गुशुकाख्या मदनफलरसं एष क्षारो मधुराहारेणाभ्यस्तः श्लीपदापचीग्रहणीदोषारोचकान् सर्वविषाणि च नियच्छति ॥

6.35.23

तैलं वा पिबेद्विडङ्गार्कमरिचचित्रकशुण्ठीदेवदार्वेलावालुकलवणपञ्चकैस्सिद्धम् ।
आलेपयेच्च नागरामृताविडङ्गकटुकाभद्रदारुभिर्मूत्रपिष्टैरूरुस्तम्भोक्तैश्च भेषजैर्यवान्नं च शीलयेत् ॥

6.35.24

मण्डमालायां कुम्भनिकुम्भद्रवन्तीजीमूतककोशातकीफलविपक्वं घृतमुभयानुलोमनं पिबेत् ।
शार्ङ्गेष्टामूलं वा तक्रपिष्टम् ।
वमनार्थं सुखोदकेन वा जातीबर्हिष्ठनिर्गुण्डीजीमूतकोत्तुण्डकीमूलत्वक्चूर्णम् ।
सिरा चास्य विध्येत् ॥

6.35.25

सशेषदोषं तु कौष्ठिकं नवकं पाययेत् ।
रसाञ्जनं गोमूत्रतण्डुलोदकान्यतरेण ।
तदेव च नावयेत् ।
मधूकसारं वा शिग्रुफलानि वा निम्बकरञ्जकरवीरसिद्धं वा तैलं वैरेचनिकञ्च धूमं पिबेत् ॥

6.35.26

अपक्वांश्च गण्डान्नाकुलीसैन्धवनागरैर्लेपयेत् ।
गुञ्जाकरवीरार्कश्यामासिद्धार्थकैरजामूत्रयुक्तैर्दशकृत्वा विपक्वं तैलं लवणपञ्चकपिप्पलीमरिचचूर्णो पेतमभ्यङ्गात्सर्वावस्थानपच्यर्शोर्बुदनाडीदुष्टव्रणवल्मीकानपोहति ॥

6.35.27

सौवर्चलसैन्धवौद्भिददन्तीभल्लातकचित्रककल्केन सिद्धं तैलमभ्यङ्गो ऽपच्याम् ।
तण्डूलीयकस्वरसेन वा सनिर्गुण्डीरसं वा तैलं साधितमभ्यङ्गपाननावनैर्गण्डमालानाडीव्रणकुष्ठानिलार्तिहरम् ॥

6.35.28

काकादनीनलिकाग्निजिह्वावन्ध्याकर्कोटकीविशालापाठोत्तुण्डकीजीमूतकोशातकीबीजैरर्द्धपलांशौर्विषकर्षयुक्तैर्निर्गुण्डीस्वरसोपेतं करञ्जतैलप्रस्थं विपचेत्तत्पूर्ववदेवप्रयुक्तं परमपचीघ्नम् ॥

6.35.29

अमर्मजांश्च गण्डानपक्वानेवोद्भृत्याग्निना क्षारेण वा प्रसाधयेत् ।
सर्षपवृक्षादनी क्वाथैर्व्रणक्षालनम् ।
तिलकुन्तलक्षअरपिष्टस्तिलकल्कः सुखोष्णो लेपः ।
काककृकलासगोधाहिनिर्मोककूर्माणामन्यतमस्यान्तर्धूमदग्धस्य मषीङ्गुदतैलप्लुताभ्यङ्गः ।
मांसीसर्जरसकार्पासीफलसैन्धवैः स्तन्यपिष्टैस्तैलं विपक्वमभ्यङ्गो व्रणकाठिन्यघ्नः सर्पाजगरवसे तैलं च समं त्रयमेतदपचीघ्नम् ।
श्लीपदोक्तानि च तैलानि प्रयोजयेत् ॥

6.35.30

एवमनुपशमे वामपार्श्वजायां दक्षिणजङ्घापृष्ठमध्यादिन्द्रबस्तेरधः ऊर्ध्वं वा शस्त्रेणाक्षिमात्रं व्रणं कृत्वा मत्स्याण्डजालनिभं मेदोपनीयाग्निना दहेत् ।
अनेनेतरपार्श्वजाव्याख्याता ।
एवमुभयपार्श्वजायामुब्भयतः ।
यवमुद्गप्रायं च गण्डमालासु भोजनम् ॥

6.35.31

नाडीमनिलजामुपनाह्य पूयगतिमस्या निश्शेषमोषित्वावदारयेच्छस्त्रेण ।
ततस्तिलापामार्गफलकल्केन ससैन्धवेन पूरयित्वा बध्नीयात् ॥

6.35.32

पित्तजां सघृतक्षीरया पद्मकादिकृतयो ऽल्कारिकयो ऽपनाहिताम् ।
विदारितां च तिलनागदन्तीमञ्जिष्ठाकल्केन पूरयेत् श्यामात्रिभण्डीत्रिफलातिल्वकहरिद्राद्वयकल्कक्षीरसंस्कृतं सर्पिरभ्यङ्गः ।
परं नाडीनिबर्हणम् ॥

6.35.33

श्लेष्मजां सक्तुकुलत्थकिण्वसर्षपैरुपनाह्य विदार्य च निम्बतिलसैन्धवसौराष्ट्रीनिकुम्भैर्लेपयेत् ।
दन्तीचित्रकस्वर्जिकासैन्धवतालीसनलदपूतीकापामार्गफलैस्तैलं समूत्रं पाचितमभ्यङ्गः ॥

6.35.34

शल्यहेतुकीं पाटयित्वा सर्वशः शल्यं विशोध्य मधुघृततिलकल्कप्रतिच्छन्नां बध्नीयात् ।
बिल्वकपित्थकुम्भीखर्जूरवनस्पतिशलाटुक्वाथे प्रियङ्गुमुस्तोरुपूगशकुनसुगन्धिकालोध्रमोचरसधातकीपुष्पगर्भं तैलं प्रसाधितं साधयत्याशु शल्यजां गतिम् ॥

6.35.35

अशस्त्रकृत्यां नाड्यां भेदिन्यैषिण्यान्ते समुद्भिद्य क्षाराक्तं सूत्रं प्रवेशयेत् ।
तदसन्निधानेत्वितरयैषिण्या च तेनानवदीर्णायां तदनुस्यूतमन्यदन्यत् क्षारसूत्रं सञ्चारयेदा गतिभेदादयमनपायो ऽभ्युपायः ।
सूक्ष्मानेकगतिषु भगन्दरेषु मूलेषु च छिद्रितेषु ग्रन्थ्यर्बुदेष्विति ।
भवति चात्र ॥

6.35.36

व्रणेषु दुष्टसूक्ष्मास्यगम्भीरादिषु साधनम् ।
या वर्त्यो यानि तैलानि तन्नाडीष्वपि कल्पयेत् ॥

6.35.37

विभीतकाम्रास्थिवटप्रवाल हरेणुकाशाल्मलिबीजयुक्ता ।
वराहविष्ठा च मषी सुदग्धा तैलप्लुता सर्वगतीर्निहन्ति ॥

6.35.38

धत्तूरकं मदनकोद्रवजञ्च बीजं कोशातकी शुकनसा मृगभोजनी च ।
अङ्कोलजञ्च कुसुमं परिकल्प्य चूर्णं लाक्षोदकापहृतदोषगतौ प्रयोज्यम् ॥

6.35.39

मिश्रितं तेन तैलञ्च परमं गतिरोपणम् ।
सौवहेषु च कन्देषु कृतं वज्राह्वयेषु च ॥

6.35.40

भल्लातकार्कमरिचैर्लवणोत्तमेन सिद्धं विडङ्गरजनीद्वयचित्रकैश्च ।
तैलं समार्कवरसैर्विनिहन्ति कृच्छ्रां नाडीं कफानिलकृतामपचीव्रणांश्च ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc