भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 6.32

6.32.1

अथातो भङ्गप्रतिषेधं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

6.32.2

पतनपीडनप्रहाराक्षेपणव्यालदंशनप्रभृतिभिरभिघातविशेषैरनेकविधमस्थिभङ्गमुपदिशन्ति ॥

6.32.3

तत्तुभङ्गजातं द्व्यधिष्ठानं सन्धावसन्धौ च ।
तत्र सन्धिमुक्तं षड्विधमुत्पिष्टं विश्लिष्टमवक्षिप्तमतिक्षिप्तं तिर्यक्क्षिप्तं विवर्तितमिति ॥

6.32.4

तस्य सामान्यलक्षणं प्रसारणाकुञ्चन विवर्तनाक्षेपणाशक्तिरुग्ररुजता स्पर्शासहिष्णुत्वं च ॥

6.32.5

अथोत्पिष्टे स्वस्थान एव सन्धावुभयतः शोफो वेदना विशेषतश्च रात्रौ भवति ।
विश्लिष्टेल्पशोफो वेदनासातत्यं सन्धिविक्रिया च ।
अवक्षिप्ते सन्धिविश्लेषस्तीव्रा च रुक् ।
अतिक्षिप्ते द्वयोरपि सन्ध्यस्थ्नोरतिक्रान्तता वेदना च ।
तिर्यक् क्षिप्तेत्वेकस्यास्थ्नः पार्श्वतो गमनमत्यर्थं वेदना च ।
विवर्तिते सन्धिपार्श्वगमनाद्विषमाङ्गता वेदना च ॥

6.32.6

असन्धिभग्नं पुनर्द्वादशविधम् ।
तद्यथा ।
कर्कटकं वक्रं स्थुटितं वेल्लितमस्थिच्छल्लिकाश्वकर्णं पिच्चितं दारितं चूर्णितमतिपातितं शेषितं मज्जानुगतमिति ॥

6.32.7

श्वयथुबाहुल्यं स्पन्दनं विवर्तनं स्पर्शासहिष्णुता च पीड्यमाने शब्दः स्रस्ताङ्गता वेदनातिप्रवृत्तिः सर्वासु चावस्थासु शर्म न लभत इति साधारणमसन्धिभग्नरूपम् ॥

6.32.8

वैशेषिकं तु संव्यूढमुभयतोस्थिमध्यभग्नं ग्रन्थिरिवोन्नतं कर्कटकानुकारि कर्कटकम् ॥

6.32.9

आभुग्नमविमुक्तमस्थि वक्रम् ।
शूकपूर्णमिवाध्मातं विपुलैकदारि स्फुटितम् ॥

6.32.10

द्विधाभूतं वेल्लते प्रकम्पमानं वेल्लितकम् ॥

6.32.11

पार्श्वतो ऽस्थि हीनमुद्गतमस्थिच्छल्लिका ॥

6.32.12

अश्वकर्णवदुद्गतमश्वकर्णम् ॥

6.32.13

पृथुतां गतमनल्पशोफं पिच्चितम् ॥

6.32.14

अणुबहुविदारि वेदनावच्च दारितम् ॥

6.32.15

स्पृश्यमानं शब्दवच्चूर्णितम् ॥

6.32.16

अस्थ्यवयवोस्थिमध्यमनुप्रविशन्नतिपातितम् ॥

6.32.17

अन्यतरपार्श्वावशिष्टं शेषितम् ॥

6.32.18

क्षतं भग्नमुन्नम्यमानं मज्ञि मज्जति मज्जानुगतम् ॥

6.32.19

एषामन्त्यानि पञ्च कृच्छ्रसाध्यानि कृशातिबालवृद्धासहानामत्याशिनां वातात्मकानां कुष्ठिनामुपद्रववतां च ॥

6.32.20

असाध्यं तु भिन्नं कटीकपालं सन्धिमुक्तं वा जघनमुत्पिष्टं कूर्परो विवर्तितस्तथा ललाटं चूर्णितमसंश्लिष्टकपालं च शिरः शंखपृष्ठस्तनान्तरभङ्गं चेति ।
भवन्ति चात्र ॥

6.32.21

अथावनतमुन्नाम्यमुन्नतं चावपीडयेत् ।
आञ्छेदधिक्षिप्तमधोगतं चोपरि वर्तयेत् ।
आञ्छनोत्पडिनोन्नामचर्मसङ्क्षेपबन्धनैः ॥

6.32.22

सन्धीन् शरीरगान् सर्वांश्चलानप्यचलानपि ।
इत्येतैः स्थापनोपायैः सम्यक्संस्थाप्य निश्चलम् ।
पट्टैः प्रभूतसर्पिर्भिर्वेष्टयित्वा सुखैस्ततः ॥

6.32.23

कदम्बोदुम्बराश्वथसर्जार्जुनपलाशजैः ।
वंशोद्भवैर्वा पृथुभिस्तनुभिः सुनिवेशितैः ॥

6.32.24

सुश्लक्ष्णैः सप्रतिष्टम्भैर्वल्कलैः शकलैरपि ।
कुशाह्वयैः समं बन्धं पट्टस्योपरि योजयेत् ॥

6.32.25

शिथिलेन हि हि बन्धेन सन्धिस्थैर्यं न जायते ।
गाढेनातिरुजादाहपाकश्वयथुसम्भवः ॥

6.32.26

त्र्यहात्त्र्यहादृतौ घर्मे सप्ताहन्मोक्षयेद्धिमे ।
साधारणे तु पञ्चाहात् भङ्गदोषवशेन वा ॥

6.32.27

न्यग्रोधादिकषायेण ततः शीतेन सेचयेत् ।
तं पञ्चमूलपक्वेन पयसा तु सवेदनम् ॥

6.32.28

सुखोष्णं चावचार्यं स्याच्चक्रतैलं विजानता ।
विभज्य देशं कालं च वातघ्नौषधसंयुतम् ॥

6.32.29

प्रततं लेपसेकांश्च विदध्यात् भृशशीतलान् ।
गृष्टिक्षीरं ससर्पिष्कं मधुरौषधसाधितम् ।
प्रातः प्रातः पिबेत् भग्नः शीतलं लाक्षयायुतम् ॥

6.32.30

सव्रणस्य तु भग्नस्य व्रणो मधुघृतोत्तरैः ।
कषायैः प्रतिसार्यो ऽथ शेषो भङ्गोदितः क्रमः ॥

6.32.31

लम्बानि व्रणमांसानि प्रलिप्य मधुसर्पिषा ।
सन्दधीत व्रणान् वैद्यो बन्धनैश्चोपपादयेत् ॥

6.32.32

तान्समान्सुस्थितान्ज्ञात्वा फलिनीलोध्रकट्फलैः ।
समङ्गाधातकीयुक्तैश्चूर्णितैरवचूर्णयेत् ॥

6.32.33

पञ्चवल्कलचूर्णैर्वा मधुशुक्तसमन्वितैः ।
धातकीलोध्रचूर्णैर्वा रोहन्त्याशु तथा व्रणाः ॥

6.32.34

विश्लिष्टोत्पिष्टयोः सन्धिमेवमेवाविघट्टयन् ।
उपाचरेद्यथास्वं च विसर्पादीनुपद्रवान् ॥

6.32.35

इति भङ्ग उपक्रान्तः स्थिरधातोरृतौ हिमे ।
मांसलस्याल्पदोषस्य सुसाधो दारुणो ऽन्यथा ॥

6.32.36

पूर्वमध्यान्तवयसामेकद्वित्रिगुणैः क्रमात् ।
मासैः स्थैर्यं भवेत् सन्धेर्यथोक्तं भजतां विधिम् ॥

6.32.37

सामान्यं साधनमिदं विशेषो वक्ष्यतेत्वतः ॥

6.32.38

नखसन्धिं समुत्पिष्टं रक्तानुगतमारया ।
अवमथ्य स्रुते रक्ते शालिपिष्टेन लेपयेत् ॥

6.32.39

भग्नान् सन्धिविमुक्तांश्च कृत्वा पूर्ववदङ्गुलीन् ।
तनुनावेष्ट्य पट्टेन घृतसेकं प्रदापयेत् ॥

6.32.40

चक्रयोगेन मतिमानाञ्छेदूर्वास्थि निर्गतम् ॥

6.32.41

आञ्च्छेदूर्ध्वमधस्ताच्च कटीभग्नं चिकित्सकः ॥

6.32.42

मुसलेनोत्क्षिपेत् कक्षमंससन्धौ विसङ्गते ।
स्थानस्थितं च बध्नीयात् स्वस्तिकेन समाहितः ॥

6.32.43

कौर्परं तु भिषक्सधिमंगुष्ठेनानुमार्जयेत् ।
अनुमृज्य ततः सन्धिं पीडयेत् कूर्पराच्च्युतम् ।
प्रसार्याकुञ्चयेच्चैनं स्नेहसकं च कारयेत् ॥

6.32.44

मणिबन्धे च जानौ च गुल्फे चैषः क्रियाक्रमः ॥

6.32.45

उभे तले समे कृत्वा तलभग्नस्य दोहिनः ।
बध्नीयादामतैलेन परिषेकं च कारयेत् ॥

6.32.46

प्राग्गोमयमयं पिण्डं धारयेन्मृन्मयं ततः ।
हस्ते जातबले कार्यं क्रमात् पाषाणधारणम् ॥

6.32.47

सन्नमुन्नामयेत् स्विन्नमक्षकं मुसलेन तु ।
तथोन्नतं पीडयेत बध्नीयान्निबिडं ततः ॥

6.32.48

ऊरुवच्च विधातव्यं बाहुभङ्गे प्रसाधनम् ॥

6.32.49

ग्रीवायां तु विवृत्तायां प्रविष्टायामधोपि वा ।
अवटावथ हन्वोश्च प्रगृह्योन्नमयेच्छिरः ।
समं कुशाभिर्बध्नीयादुत्तानं शाययेच्च तम् ॥

6.32.50

हन्वस्थिनी समानीय हनुसन्धौ विसङ्गते ।
स्वेदयित्वा स्थितेसम्यक् पञ्चाङ्गीबन्धमाचरेत् ।
घृतं वातघ्नमधुरैः सिद्धं नस्यं च पूजितम् ॥

6.32.51

दन्तानभग्नांश्चलितान् सरक्तानवपीडयेत् ।
वयस्थस्याम्बुभिः शीतैः परिषिच्य प्रलेपयेत् ॥

6.32.52

बहिर्निर्वापणैरन्तः सन्धानीयैरुपाचरेत् ।
लाद्वयशृते क्षीरे पद्मकादिशृतं घृतम् ॥

6.32.53

नस्यगण्डूषयोर्योज्यं चलद्विजहितानि च ।
कल्कितैस्तद्धितैश्चास्य दन्तमांसानि लेपयेत् ।
त्रीन्मासान्मृदु भुञ्जीत रसान्नं कठिनांस्त्यजेत् ॥

6.32.54

नासां विवृत्तां सन्नं वा ऋजूकृत्य शलाकया ।
प्रत्येकं नस्ततो नाडीं द्विमुखीं सम्प्रवेशयेत् ।
ततः पट्टेन संवेष्त्य घृतसेकं प्रदापयेत् ॥

6.32.55

भग्नं कर्णं घृताभ्यक्तं न्यस्य बन्धेन योजयेत् ।
सद्यःक्षतविधानं च ततः पश्चात् समाचरेत् ॥

6.32.56

कटीजङ्घोरुभग्नानां कवाटशयनं हितम् ।
यन्त्रणार्थं ततः कीलाः पञ्च कार्या निबन्धनाः ।
जङ्गो रुपार्श्वयोर्द्वौ द्वौ तल एकश्च कीलकः ॥

6.32.57

श्रोण्यां वा पृष्ट्वंशे वा वक्षस्यक्षकयोस्तथा ।
विमोक्षे भग्नसन्धीनां विधिमेनं समाचरेत् ॥

6.32.58

सन्धींश्चिरविमुक्तांस्तु स्निग्धस्विन्नान् मृदूकृतान् ।
ऊक्तैर्विधानैर्बुध्या च यथास्वं स्थानमानयेत् ॥

6.32.59

असन्धिभग्ने रूढे तु विषमोल्बणसाधिते ।
आपोथ्य भग्नं यमयेत्तत्तो भग्नवदाचरेत् ॥

6.32.60

भङ्गो नैति यथा पाकं प्रयतेत तथा भिषक् ।
पक्वमांससिरास्नायुः सन्धिः श्लेषं न गच्छति ॥

6.32.61

वातव्याधिविनिर्दिष्टान् स्नेहान् भग्नस्य योजयेत् ।
चतुष्प्रयोगान् बल्यांश्च बस्तिकर्म च शीलयेत् ॥

6.32.62

शालिक्षीररसाज्याद्यैः पौष्टिकैरविदाहिभिः ।
मात्रयोपचरेत् भग्नं सन्धिसंश्लेषकारिभिः ॥

6.32.63

ग्लानिर्न शस्यते तस्य सन्धिविश्लेषकृद्धि सा ॥

6.32.64

लवणं कटुकं क्षारमम्लं मैथुनमातपम् ।
व्यायामं च न सेवेत भग्नो रूक्षं च भेषजम् ॥

6.32.65

सम्यग्यमितमप्यस्थि दुर्न्यासाद्दुर्निबन्धनात् ।
सङ्क्षोभादपि यत् गच्छेद्विक्रियां तद्विवर्जयेत् ।
आदितो यच्च दुर्जातमस्थि सन्धिरथापि वा ॥

6.32.66

तरुणास्थीनि भुज्यन्ते भज्यन्ते नलकानि तु ।
कपालानि विभिद्यन्ते स्फुटन्त्यन्यानि भूयसा ॥

6.32.67

अनुल्बणमनाविद्धं स्वस्थाने पर्यवस्थितम् ।
अवेदनं च चेष्टायां भग्नं विद्यात् सुसाधितम् ॥

6.32.68

कृष्णास्तिलान्विरजसो दृढवस्त्रबद्धान् सप्तक्षपा बहति वारिणि वासयेत् ।
संशोषयेदनुदिनं प्रतिसार्य चैनान् क्षीरे तथैव मधुकक्वथिते च तोये ॥

6.32.69

पुनरपि पीतपयस्कांस्तान् पूर्ववदेव शोषितान् बाढम् ।
विगततुषानरजस्कान् संचूर्ण्य विचूर्णितैर्युञ्ज्यात् ॥

6.32.70

नलदवालकलोहितयष्टिका नखमिसिप्लवकुष्ठबलात्रयैः ।
अगरुकुङ्कुमचन्दनसारिवा सरलसर्जरसामरदारुभिः ॥

6.32.71

पद्मकादिगणोपेतैस्तिलपिष्टं ततश्च तत् ।
समस्तगन्धभैषज्यसिद्धदुग्धेन पीडयेत् ॥

6.32.72

शैलेयरास्नाशुमतीकशेरुकालानुसारीनतपत्रलोध्रैः ।
सक्षीरशुक्लैः सपयः सदूर्वैस्तैलं पचेत्तन्नलदादिबिश्च ॥

6.32.73

गन्धतैलमिदमुत्तममस्थिस्थैर्यकृज्जयति चाशु विकारान् ।
वातपित्तजनितानतिवीर्यं व्यापिनो ऽपिविविधैरुपयोगैः ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc