अष्टाङ्गसंग्रह · अध्याय 6.31
अथातः सद्योव्रणप्रतिषेधं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
आगन्तोर्व्रणस्य प्रागुपदिष्टः सम्भवः ।
तत्र तत्र यथायथं प्रतीकारश्च ।
विविधाभिघातजनितैस्तु सुबह्वाकृतिभिरपि सद्योव्रणैरधिष्ठितमङ्गं समासात् त्रिविधं भवति छिन्नं विद्धं पिच्चितं च ।
त्रिविधमपि चैतत्त्वगादिक्षणनात् क्षतमित्युच्यते ॥
तत्र छिन्नं पञ्चधा भिद्यते ।
तद्यथा त्वक्छेदे घृष्टम् ।
किञ्चिन्मांसस्याप्यवकृत्तम् ।
तस्यैवावगाढस्य विशेषेण विशालमायतं च विच्छिन्नम् ।
किञ्चिच्छेषेष्वस्थिस्नाय्वादिषु विलम्बितम् ।
अशेषाङ्गछेदे पातितम् ॥
विद्धं त्वष्टविधम् ।
तत्र मांसमनुप्राप्ते शल्ये ऽनुविद्धम् ।
द्वितीये पार्श्वे त्वचमुन्नाम्योत्तुण्डितम् ।
किञ्चिन्निस्सृते ऽतिविद्धम् ।
सर्वथा निस्सृते निर्विद्धम् ।
एतदेव चतुर्विधं कोष्ठे पृथुमुखैर्वा प्रहरणैः कुन्तादिभिर्विद्धमनुभिन्नं भिन्नोत्तुण्डितमतिभिन्नं निर्भिन्नमिति च संज्ञां लभते ॥
यत् पुनः प्रहारेण पीडनेन वा गात्रमस्थियुक्तमसृङ्मज्जप्लुतं पृथुतामापद्यते तत् पिच्चितम् ।
तत् द्विविधम् ।
सव्रणमव्रणं च ।
तत्र सव्रणमुक्तम् ।
अव्रणं पुनर्भङ्गेषूपदेक्ष्यते ।
भवति चात्र ॥
सद्यः सद्योव्रणं सिञ्चेद्यष्टीमधुकसर्पिषा ।
तीव्रव्यथं कवोष्णेन बलातैलेन वा पुनः ॥
क्षतोष्माणो निग्रहार्थं तत्कालविसृतस्य च ।
कषायशीतमधुरस्निग्धा लेपादयो हिताः ॥
सद्योव्रणेष्वायतेषु सन्धानार्थं विशेषतः ।
मधुसर्पिःप्रयुञ्जीत पित्तघ्नीश्च हिमाः क्रियाः ॥
ससंरम्भेषु कर्तव्यमूर्ध्वं चाधश्च शोधनम् ।
उपवासो हितं भक्तं प्रततं रक्तमोक्षणम् ॥
घृष्टपिच्चितयोरेष सुतरामिष्यते विधिः ।
तयोर्ह्यल्पं स्रवत्यस्रं पाकस्तेनाशु जायते ॥
अत्यर्थमस्रं स्रवति प्रायशो ऽन्यत्र विक्षते ।
ततो रक्तक्षयाद्ग्वायौ कुपिते ऽतिरुजाकरे ॥
स्नेहपानपरीषेकस्वेदलेपोपनाहनम् ।
स्नेहबस्तिं च कुर्वीत वातघ्नौषधसाधितम् ॥
इति साप्ताहिकः प्रोक्तः सद्योव्रणहितो विधिः ।
सप्ताहात् गतवेगे तु पूर्वोक्तं विधिमाच्रेत् ॥
क्षालनाभ्यङ्गलेपेषु तस्मिन् दुष्टे प्रयोजयेत् ।
आरग्द्वधादिकं वर्गं सुरसादिं च शोधनम् ॥
कल्कस्त्रिवृत्तिलैरण्डपत्रैर्योज्यः ससैन्धवैः ।
वातिके पैत्तिके कुम्भयष्ट्याह्वरजनीतिलैः ।
श्लैष्मिके तिलतेजोह्वानिकुम्भस्वर्जिकाग्निकैः ॥
एष दुष्टव्रणविधिः कुष्ठमेहव्रणेष्वपि ॥
प्रायः सामान्यकर्मेदं वक्ष्यते तु पृथक् पृथक् ॥
घृष्टे रुजं निगृह्याशु वर्णे चूर्णानि निक्षिपेत् ।
कल्कादीन्यवकृत्ते तु विच्छिन्नप्रविलम्बिनोः ।
सीवनं विधिनोक्तेन बन्धनं चानुपीडनम् ॥
असाध्यं स्फुटितं नेत्रमुदीर्णं लम्बते तु यत् ।
सन्निवेश्य यथास्थानमव्याविद्धसिरं भिषक् ॥
पीडयेत् पाणिना पद्मपत्रव्यवहितेन तत् ।
ततो ऽस्य सेचने नस्ये तर्पणे च हितं हविः ॥
विपक्वमाजं यष्ट्याह्वजीवकर्षभकोत्पलैः ।
सपयस्कैः परं तद्धि सर्वनेत्राभिघातजित् ॥
गलपीडावसन्नेक्ष्णि वमनो ऽत्कासनक्षवाः ।
प्राणायामो ऽथवा कार्यः क्रिया च क्षतनेत्रवत् ॥
कर्णे स्थानातुच्युते स्यूते स्रोतस्तैलेन पूरयेत् ॥
कृकाटिकायां छिन्नायां निर्गच्छत्यपि मारुते ।
समं निवेश्य बध्नीयात् स्यूत्व शीघ्रं निरन्तरम् ॥
आजेन सर्पिषा चात्र परिषेकः प्रशस्यते ।
उत्तानोन्नानि भुञ्जीत शयीत च सुयन्त्रितः ॥
घातं शाखासु तिर्यक्स्थं गात्रे सम्यङ्निवेशिते ।
स्यूत्वा वेल्लितबन्धेन बध्नीयात् घनवाससा ।
चर्मणा गोष्फणाबन्धः कार्यश्चासङ्गते व्रणे ॥
पादौ विलम्बिमुष्कस्य प्रोक्ष्य नेत्रे च वारिणा ।
प्रवेश्य वृषणौ सीव्येत् सीवन्या तुन्नसंज्ञया ॥
कार्यश्च गोष्फणाबन्धः कट्यामावेश्य पट्टकम् ।
स्नेहसेकं न कुर्वीत तेन क्लिद्यति हि व्रणः ॥
कालानुसार्यगुर्वेलाजातीचन्दनपर्पटैः ।
शिलादार्व्यमृतातुत्थैः सिद्धं तैलं च रोपणम् ॥
छिन्नां निश्शेषतः शाखां दग्ध्वा तेइलेन युक्तितः ।
बध्नीयात् कोशबन्धेन ततो व्रणवदाचरेत् ॥
कार्यः शल्याहृते विद्धे क्रमो भङ्गात्तु पिच्चिते ॥
शिरसो ऽपहृते शल्ये बालवर्तिं प्रवेशयेत् ।
मस्तुलुङ्गस्रुतेः क्रुद्धो हन्यादेनं चलो ऽन्यथा ।
व्रणे रोहति चैकेइकं शनैरपनयेत् कचम् ॥
मस्तुलुङ्गस्त्रुतौ खादेन्मस्तिष्कानन्यजीवजान् ।
शल्ये हृतेङ्गादन्यस्मात् स्नेहवर्तिं निधापयेत् ॥
दूरावगाढाः सूक्ष्मास्या ये व्रणाः स्रुतशोणिताः ।
सेचयेच्चक्रतैलेन सूक्ष्मनेत्रार्पितेन तान् ॥
भिन्ने कोष्ठे ऽसृजा पूर्णे मूर्च्छा हृत्पार्श्ववेदनाः ।
ज्वरो दाहस्तृडाध्मानं भक्तस्यानभिनन्दनम् ॥
सङ्गो विण्मूत्रमरुतां श्वासः स्वेदोक्षिरक्तता ।
लोहगन्धित्वमास्ये ऽस्य स्यात् गात्रे च विगन्धिता ॥
आमाशयस्थे रुधिरे रुधिरं छर्दयत्यपि ।
आध्मानेनातिमात्रेण शूलेन च विशस्यते ॥
पक्वाशयस्थे रुधिरे सशूलं गौरवं भवेत् ।
नाभेरधस्ताच्छीतत्वं खेभ्यो रक्तस्य चागमः ॥
अभिन्नोप्याशयः सूक्ष्मैः स्रोतोभिरभिपूर्यते ।
असृजा स्यन्दमानेन पार्श्वैर्मूत्रेण बस्तिवत् ॥
तत्रान्तर्लोहितं शीतपादोच्छ्वासकराननम् ।
रक्ताक्षं पण्डुवदनमानद्धं च विवर्जयेत् ॥
आमाशयस्थे वमनं हितं पक्वाशयाश्रिते ।
विरेचनं निरूहश्च निःस्नेहोष्णैर्विशोधनैः ॥
यवकोलकुलत्थानां रसैः स्नेहविवर्जितैः ।
भुञ्जीतान्नंयवागूं वा पिबेत् सैन्धवसंयुताम् ॥
अतिनिस्सृतरक्तस्तु भिन्नकोष्ठः पिबेदसृक् ॥
क्लिष्टच्छिन्नान्त्रभेदेन कोष्ठभेदो द्विधा स्मृतः ।
मूर्च्छादयो ऽल्पाः प्रथमे द्वितीयेत्वतिबाधकाः ।
क्लिष्टान्त्रः संशये देही छिन्नान्त्रो नैव जीवति ॥
यथास्वं मार्गमापन्ना यस्य विण्मूत्रमारुताः ।
व्युपद्रवः सभिन्ने ऽपि कोष्ठे जीवत्यसंशयम् ॥
अभिन्नमान्त्रं निष्क्रान्तं प्रवेश्यं नत्वतोन्यथा ।
उलुङ्गिलशिरोग्रस्तं तदप्येके वदन्ति तु ॥
प्रक्षाल्य पयसा दिग्धं तृण शोणित पांसुभिः ।
प्रवेशयेत् क्लृप्तनखो घृतेनाक्तं शनैः शनैः ।
क्षीरेणार्द्रीकृतं शुष्कं भूरिसर्पिः परिप्लुतम् ॥
अङ्गुल्या प्रमृशेत् कण्ठं जलेनोद्वेजयेच्च तम् ।
तथान्त्राणि विशन्त्यन्तस्तत्कालं पीडयेत च ॥
व्रणसौक्ष्म्यात् बहुत्वाद्वा कोष्ठमान्त्रमनाविशत् ।
तत्प्रमाणेन जठरं पाटयित्वा प्रवेशयेत् ।
यथास्थानस्थिते सम्यगान्त्रे सीव्येदनु व्रणम् ।
स्थानादपेतमादत्ते जीवितं गुपितं च तत् ॥
वेष्टयित्वानुपट्टेन घृतेन परिषेचयेत् ।
पाययेत ततः कोष्णं चित्रातैलयुतं पयः ।
मृदुक्रियार्थं शकृतो वायोश्चाधः प्रवृत्तये ॥
त्वगश्वकर्णककुभबदरीसल्लकीधवात् ।
तत्कल्कसाधितं तैलं प्रधानं व्रणरोपणम् ॥
अनुवर्तेत वर्षं च यथोक्तां व्रणयन्त्रणाम् ॥
उदरान्मेदसो वर्तिं निर्गतां भस्मना मृदा ।
अवकीर्य कषायैर्वा श्लक्ष्णैर्मूले ततः समम् ॥
दृढं च बध्वा सूत्रेण वर्द्धयेत् कुशलो भिषक् ।
तीक्ष्णेनाग्निप्रतप्तेन शस्त्रेण सकृदेव तु ॥
स्यादत्यथा रुगाटोपो मृत्युर्वा छिद्यमानया ॥
सक्षौद्रे च व्रणे बद्धे सुजीर्णेन्ने घृतं पिबेत् ।
क्षीरं वा शर्कराचित्रालाक्षागोक्षुरकैः शृतम् ।
रुग्दाहजित् सयष्ट्याह्वैः परं पूर्वोदितो विधिः ॥
मेदोग्रन्थ्युदितं चात्र तैलमभ्यञ्जने हितम् ॥
तालीसं पद्मकं मांसी हरेण्वगरुचन्दनम् ।
हरिद्रे पद्मबीजानि सोशीरं मधुकं च तैः ।
पक्वं सद्योव्रणेषूक्तं तैलं रोपणमुत्तमम् ॥
मूढप्रहाराभिहते पतिते विषमोच्चकैः ।
कार्यं वातास्रजित्तृप्तिमर्दनाभ्यङ्गसेचनम् ॥
विश्लिष्टदेहं मथितं क्षीणं मर्महतं हतम् ।
वासयेत्तैलपूर्णायां द्रोण्यां मांसरसाशिनम् ॥
प्रहर्तृयत्नायुधघातगात्रैः सद्योव्रणाः काममनन्तरूपाः ।
तथापि न त्रित्वमतिक्रमन्ते चयादिभेदैरिव मारुताद्याः ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0