भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 6.30

6.30.1

अथातो व्रणप्रतिषेधं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

6.30.2

व्रणस्य शोफावस्थायां शस्त्रकर्मविधौ श्वयथुचिकित्सिते च साधनमुद्दिष्टम् ।
तत्रापतर्पणमेवादौ प्रधानतमम् ।
अपि च ॥

6.30.3

दोषोच्छ्रायोपशान्त्यर्थमुपदिष्टं यथायथम् ।
अवेक्ष्य देहप्राणादीन् कर्तव्यमपतर्पणम् ॥

6.30.4

रागसंरम्भरहिताः परिम्लाना हृताश्रयाः ।
सद्यः शाम्यन्ति शुद्धानां व्रणाः शोफाश्च देहिनाम् ॥

6.30.5

लेपाभ्यङ्गपरीषेकान् यथोक्तांश्च प्रयोजयेत् ।
यथाम्बुभिः सिच्यमानः शान्तिमग्निर्नियच्छति ।
दोषाग्निरेवं सहसा प्रलेपाद्यैः प्रयोजितैः ॥

6.30.6

प्रतिलोममेव चानुलिपेन्नानुलोमम् ।
तथाह्यौषधं सम्यगवतिष्ठते ।
अनुप्रविशति च रोमकूपान् ।
न तु शुष्यदुपेक्षितव्यमन्यत्रपीडयितव्यात् ।
शुष्कं हि दाहोषारागश्यावत्वशूलानि वर्धयति ॥

6.30.7

यस्तु शीतस्तनुर्मुहुर्मुहुश्च प्रयुज्यते स प्रदेहो रक्तपित्तत्वचां प्रसादकृत् ।
प्रलेपस्तूष्णः शीतो वा बहलश्च तथा वातश्लेष्मप्रशमनस्तस्योपयोगः क्षताक्षतेषु ।
यस्तु क्षतेषूपयुज्यते स भूयः कल्क इति संज्ञां लभते ॥

6.30.8

दशविधश्च समासादालेपः ।
तद्यथा ।
स्नैहिको निर्वापणः प्रसादनः स्तम्भनो विलायनः पाचनः पीडनः शोधनो रोपणः सवर्णीकरणश्च ॥

6.30.9

तत्र वाते स्निग्धद्रव्यैः स्नेहाढ्यैः स्नेहेनैव वा स्नैहिकः ।
पित्ते पित्तप्राये च शोफे विषाग्निक्षारदग्धे च शीतैर्निर्वापणः ।
स एव चान्तर्दुष्टे रक्ते प्रसादनः ।
स एव च पुनरस्रातिप्रवृत्तौ स्तम्भनसंज्ञः ।
श्लेष्ममेदोभूयिष्ठे शीतैश्चाविदग्धे पिष्टलब्धे ग्रथिते वा रूक्षैर्विलायनः ।
तैरेव च विदग्धे पाचनः ।
सूक्ष्मास्ये व्रणे रूक्षैः पिच्छिलैश्च पीडनः ।
अशुद्धे यथास्वमुपदिष्टैः शोधनः ।
शुद्धे रोपणः ।
रूढे च सवर्णीकरणः ।
नामभिरेवचैषां स्वरूपमाख्यातम् ॥

6.30.10

न च प्रदेहं रात्रौ प्रयुञ्जीत ।
माभूच्छैत्यपिहितस्योष्मणो बहिरनिस्सरणाद्विकारपरिवृद्धिः ॥

6.30.11

पुष्कलावतस्तु पठति ॥

6.30.12

तमसा पिहितोह्यूष्मा रोमकूपैरनावृतैः ।
लेपांद्विनैव निर्याति रात्रौ नालेपयेदतः ॥

6.30.13

न च पर्युषितं लेपं दद्यात् भूयस्तमेव वा ।
व्यम्लः पर्युषितो हि स्यात् भ्रष्टवीर्यस्तथेतरः ॥

6.30.14

शोफे व्रणे च कठिने विवर्णे वेदनान्विते ।
सविषे च विशेषेण जलजाद्यैर्हरेदसृक् ।
वेदनायाःप्रशान्त्यर्थं पाकस्याप्राप्तयेपि च ॥

6.30.15

निर्वापणान् पुनश्चात्र न्यग्रोधाद्यैः सुशीतलान् ।
कुर्यात् प्रदेहसेकादीन् सघृतक्षीरशर्करान् ॥

6.30.16

न्यग्रोधोदुम्बराश्वत्थप्लक्षवेतसवल्कलैः ।
प्रदेहो भूरिसर्पिर्भिः शोफनिर्वापणः परम् ।
प्रदेहः ससितस्तद्वत् सक्तवो मधुकं घृतम् ॥

6.30.17

वातोल्बणानां स्तब्धानां कठिनानां महारुजाम् ।
स्रुतासृजां च शोफानां व्रणानामपि चेदृशाम् ॥

6.30.18

ग्राम्यानूपौदकामिषवेशवारकृसरापायसोत्कारिकाभिः स्वेदो योज्यः ॥

6.30.19

सदाहशूलांस्तु तिलानतसीश्च भृष्ट्वा पयसि निर्वाप्य तेनैव क्षीरेण पिष्ट्वा प्रलेपयेत् ॥

6.30.20

बलामधुकपृश्निपर्णीच्छिन्नरुहाभीरुजीवन्तीशर्करामदनक्षीरमहास्नेहसिद्धोत्कारिका कवोष्णा शूलदाहहरा ॥

6.30.21

तद्वन्मधुकयवचूर्णतैलसर्पिर्भिः कोष्ण आलेपः ।
तथा सतिलो मुद्गपायसमुपनाहः ॥

6.30.22

दशमूलसिद्धेन सुखोष्णेनाम्भसा पयसा वा घृततैलाभ्यां वा परिषेकः शोफे व्रणे वा दाहशूलघ्नः ॥

6.30.23

स्थिराणां मन्दवेदनानां शोफानां विम्लापनं कार्यम् ॥

6.30.24

अभ्यज्य स्वेदयित्वा च वेणुनाड्या ततः शनैः ।
विम्लापनार्थं मृद्गीयात्तलेनाङ्गुष्ठकेन वा ॥

6.30.25

तथास्फोतपत्रमसूरकल्केनालेपः ।
सुसिद्धपिष्टैः सघृतैर्मुद्गयवगोधूमैर्वा ॥

6.30.26

विलीयते स चेन्नैवं ततस्तमुपनाहयेत् ।
आवदग्धस्तथा शान्तिं विदग्धः पाकमश्नुते ॥

6.30.27

शिग्रुशणफलचित्रककिण्वनिष्पावसर्षपतिलातसीसक्तुकोलगृहधूमैरम्लपिष्टैः सुखोष्णैः स्निग्धैः सलवणैरुत्कारिकां कृत्वा तथा प्रलिप्यैरण्डपत्रेणावच्छाद्यबध्नीयात् ॥

6.30.28

पाकाभिमुखे च शोफे यथेष्टमातुरं भोजयेत् पाचनार्थं पाकवेदनाशस्त्रकर्मसहनार्थं च ॥

6.30.29

पक्वे तु यथोक्तेन विधिना शस्त्रमवचारयेत् ।
सुपक्वे पिण्डिते शोफे पीडनैरुपपीडिते ।
दारणं दारणाअर्हस्य दोषपाकोद्धते हितम् ॥

6.30.30

चित्रकचिरबिल्वदन्तीकरवीरमूलकपोतपङ्कगृध्रपुरीषैर्गुग्गुल्वतसीस्नुहीक्षीरपलाशक्षारसुवर्णक्षीरीदक्षशकृन्मुकूलकैर्वा क्षारौषधैर्वा क्षारेण वा ॥

6.30.31

पूयगर्भानणुद्वारान् सोत्सङ्गान् मर्मगानपि ।
निःस्रेहैः पीडनद्रव्यैः समन्तात्प्रतिपीडयेत् ॥

6.30.32

शुष्यन्तं समुपेक्षेत प्रलेपं पीडनं प्रति ।
न मुखे चैनमालिम्पेत्तथा दोषः प्रसिच्यते ॥

6.30.33

कलाययवगोधूममुद्गमाषहरेणवः ।
द्रव्याणां पिच्छिलानां च त्वङ्मूलानि प्रपीडने ॥

6.30.34

विवर्णान् पिच्छिलान् पूतिगन्धीन् क्लेदरुजावतः ।
व्रणानशुद्धान् विज्ञाय शोधनैरोभिराचरेत् ॥

6.30.35

शङ्खिन्यङ्कोलसुमनःकरवीरसुवर्चलाः ।
त्रिफला खदिरो दार्वी कोलपत्रं पलङ्कषा ।
प्रक्षालने कषायाणि वर्गश्चारग्वधादिकः ॥

6.30.36

पटोलीतिलयष्ट्याह्वत्रिवृद्दन्तीनिशाद्वयम् ।
निम्बपत्राणि चालेपः सपटुर्व्रणशोधनः ॥

6.30.37

अजगन्धाजशृङ्गी च गवाक्षी लाङ्गली निशा ।
पूतीकश्चित्रकः पाठा पटोलीवेल्लरेणुकाः ॥

6.30.38

कटुत्रयं यवक्षारो लवणानि सुराष्ट्रजा ।
निकुम्भकुम्भकासीसहरितालमनश्शिलाः ।
कल्काज्यतैलरसजाचूर्णवर्तिषु भेषजम् ॥

6.30.39

तत्र गम्भीरेषु पित्तात्मकेषु दाहपाकवत्सु व्रणेष्वतीक्ष्णोष्णैरेभिः कार्पासीफलमिश्रं कल्कं घृतं च साधयित्वा योजयेत् ॥

6.30.40

उत्सन्नमांसेष्वल्पस्रावेषु रूक्षेषु तिलापामार्गबृहतीद्वययुक्तैः पूर्वोक्तैः पूतीकादिभिः सर्षपं तैलं च ॥

6.30.41

प्रचलप्रदेशजेषु क्लेदबहुलेषूत्सन्नस्थिरमांसेषु तैलेन चासिध्यत्सु रसक्रियां कुर्यात् ।
यथोक्तानां संशोधनौषधानां कषाये पुनः परिस्राव्याधिशृते मनश्शिलातुवरीकासीसचूर्णप्रतीवापसिद्धां च मातुलुङ्गरसोपेतां सक्षौद्रां युञ्जीत ॥

6.30.42

मेदोयुक्तेषु गम्भीरेषु क्लेदिषु कल्कैश्चासिध्यस्सु ॥

6.30.43

वचायां सैन्धवे किण्वे कासीसे रजनीद्वये ।
शोधनाग्र्येषु चान्येषु चूर्णं कुर्वीत शोधनम् ॥

6.30.44

अन्तःशल्यानणुद्वारान् गम्भीरान् मांससंश्रितान् ।
सन्धिमर्मनिविष्टांश्च शोधयेद्वर्तिभिर्व्रणान् ॥

6.30.45

वाताभिभूतान् सास्रावान् धूपयेदुग्रवेदनान् ।
श्रीवेष्टकसर्जरससालदेववारुशिंशपाखदिरासनकैडर्यसारयवमधूच्छिष्टभूर्जपत्रपक्षौमसर्पिर्भिः ॥

6.30.46

निर्वापयेत् भृशं शीतैः पित्तरक्तविषोल्बणान् ॥

6.30.47

शुष्काल्पमांसे गम्भीरे व्रण उत्सादनं हितम् ॥

6.30.48

अश्वगन्धापामार्गतालपत्रीसुवर्चलाबलातिबलानन्ताधातकीकुसुमसमङ्गाभिः पद्मकादिवर्गेण न्यग्रोधादिना च कल्कस्तथा सर्पींष्यभ्यञ्जनार्थे ॥

6.30.49

अद्यान्मांसादमांसानि विधिनोपहितानि च ।
मांसं मांसादमांसेन वर्धते शुद्धचेतसः ॥

6.30.50

उत्सन्नमृदुमांसानां व्रणानामवसादनम् ॥

6.30.51

मन्थदन्तीशिरीषकरञ्जफलभूर्जग्रन्थिकुक्कुटाण्डत्वक्कपोतकलविङ्कपुरीषनेपालीहरितालचूर्णानि सक्षौद्राणि ॥

6.30.52

सरुजे कठिने स्तब्धे रूक्षे शुष्यति च व्रणे ॥

6.30.53

मार्दवजननार्थं व्रणाविरोधि वातघ्नसिद्धस्य सर्पिषः पानम् ।
तद्विधैरेव च सिद्धं तैलमभ्यङ्गः ।
पूर्वोक्ताश्च स्वेदाः ।
तथा सर्पिर्मज्जवसाभिर्धूपाः सुस्निग्धसक्तुसैन्धवकिण्वतिलपिष्टकृसरपायसानूपवेशवाराःकिञ्चिदुष्णा बहुशः प्रलेपाः ॥

6.30.54

पित्तविद्रधिवीसर्पशोफकुष्ठघृतानि च ।
सर्वव्रणेषु योज्यानि पानसेकप्रलेपने ॥

6.30.55

अतिमृदुमांसेषु व्रणेषु दारुणीकरणार्थं त्रिफलालोध्राम्रसर्जजम्बूप्रियङ्ग्वशोकवल्कलानि ।
सौराष्ट्रीकासीसरोचनावचूर्णनम् ।
सारैर्गन्धैश्च धूपः ॥

6.30.56

उत्सन्नमांसान् कठिनान् कण्डूयुक्तांश्चिरोत्थितान् ।
व्रणान् सुदुःखशोध्यांश्च शोधयेत् क्षारकर्मणा ॥

6.30.57

स्रवन्तो ऽश्मरिजा मूत्रं चान्ये रक्तवाहिनः ।
छिन्नाश्च सन्धयो येषां यथोक्तैर्ये च साधनैः ।
साध्यमाना न सिध्यन्ति शोध्याःस्युस्ते ऽग्निकर्मणा ॥

6.30.58

व्रणानामथ शुद्धानां रोपणानि प्रयोजयेत् ।
असनादिन्यग्रोधादिवर्गधवसल्लकीकुटजत्वचो मञ्जिष्ठासमङ्गामृताश्वगन्धारग्वधधातकीपुष्पाणि पद्मकादिश्च प्रक्षालनादिषु सप्तसु प्रयोज्या इति ।
भवन्ति चात्र ॥

6.30.59

उत्सन्नदुष्टपिशिते सङ्क्लिष्टध्यामशोणिते ।
व्रणे प्रच्छर्दनं शस्तं कफदुष्टे विशेषतः ॥

6.30.60

विरेचनं पित्तदुष्टे दीर्घकालानुबन्धिनि ।
रूक्षे सवेदने बस्तिरधःकाये विशेषतः ॥

6.30.61

जत्रूर्ध्वजे च श्वयथौ कण्ड्वाढ्ये तीक्ष्णनावनम् ।
तज्ज एवानिलाढ्ये तु श्वयथौ स्नेहनावनम् ॥

6.30.62

तथा सशोफरुक्स्रावे धूमो वातकफोल्बणे ।
रुजादिमति वक्त्रस्थे यथास्वं कवलो हितः ॥

6.30.63

द्वावाद्यौ पञ्चमूलाख्यौ गणो यश्चानिलापहः ।
ते व्रणे वातिके योज्याः कषायादिषु सप्प्तसु ॥

6.30.64

न्यग्रोधपद्मकाद्यौ तु पैत्ते वर्गश्च पित्तजित् ।
आरग्वधादिः श्लेष्मघ्रः कफे मिश्रास्तु मिश्रजे ॥

6.30.65

पिष्टोम्लैर्वातिके लेपस्तैलसर्पिर्वसायुतः ।
घनः कोष्णश्च पैत्ते तु पयःपिष्टो घृतान्वितः ॥

6.30.66

तनुवस्त्रान्तरः शश्वदुष्णो गोमूत्रपेषितः ।
रूक्षस्तैलेन वा स्निग्धो बहलः कफजे हितः ॥

6.30.67

अपेतपूतिमांसानां मांसस्थानामरोहताम् ।
कल्कं संरोहणं कुर्यात्तिलानां मधुकान्वितम् ।
स्निग्धोष्णतिक्तमधुरकषायत्वैः स सर्वजित् ॥

6.30.68

स क्षौद्रनिम्बपत्राभ्यां युक्तः संशोधनः परम् ।
पूर्वाभ्यां सर्पिषा चासौ युक्तः स्यादाशु रोपणः ।
तिलवद्यवकल्कं तु केचिदिच्छन्ति तद्विदः ॥

6.30.69

सास्रपित्तविषागन्तुगम्भीरान् सोष्मणो व्रणान् ।
क्षीररोपणभैषज्यशृतेनाज्येन रोपयेत् ।
रोपणौषधसिद्धेन तैलेन कफवातजान् ॥

6.30.70

अबध्यानां चलस्थानां शुद्धानां वा प्रदुष्यताम् ।
यथास्वं रोपणैः कुर्याद्रसजां सनिशाद्वयैः ॥

6.30.71

समानां स्थिरमांसानां त्वक्स्थानां चूर्ण इष्यते ।
नीरुजामवगाढानां शुद्धानां वर्तयो हिताः ॥

6.30.72

समङ्गामोचसरलसोमवल्काः सचन्दनाः ।
पद्मकादिश्च कल्कोयं परमं रोपणो ऽथवा ।
पुण्ड्राह्वतिलजीवन्तीगोजिह्वाधातकीबलाः ॥

6.30.73

प्रप्रौण्डरीकमधुककाकोलीद्वयचन्दनःइ ।
साधितं तैलमाज्यं वा तद्वत् कम्पिल्लकेन वा ।
दूर्वारसेन वा दार्व्यास्त्वचा वा व्रणरोपणम् ॥

6.30.74

पटोलनिम्बपत्राणि लोध्रमुस्ताप्रियङ्गवः ।
सूक्ष्मैलाधातकीसर्ज्जखदिरागरुचन्दनम् ॥

6.30.75

कम्पिल्लकं विडङ्गानि वत्सकं त्रिफला बला ।
कल्कैरेभिर्घृतं सिद्धं तैलं वा रोपणं परम् ॥

6.30.76

पद्मकं पद्मकिञ्जल्कं दार्वी मूर्वा तिलोत्पलम् ।
मेदा समङ्गा यष्ट्याह्वं प्रलेपो वर्णसाधनः ॥

6.30.77

ककुभोदुम्बराश्वत्थजम्बूकट्फललोध्रजैः ।
त्वचमाशु निगृह्णन्ति त्वक्चूर्णैश्चूर्णिता व्रणाः ॥

6.30.78

लाक्षामनोह्वामञ्जिष्ठाहरितालनिशाद्वयैः ।
प्रलेपः सघृतक्षौद्रस्त्वग्विशुद्धिकरः परम् ॥

6.30.79

ध्यामकाश्वत्थनिचुलमूलं लाक्षालगैरिकम् ।
सहेमश्चामृतासङ्गःकासीसं चेति वर्णकृत् ॥

6.30.80

कालेयकलताम्रास्थिहेमकालारसोत्तमैः ।
लेपः सगोमयरसः सवर्णकरणः परम् ॥

6.30.81

अयोरजःसकासीसं त्रिफलाकुसुमानि च ।
प्रलेपः कुरुते कार्ष्ण्यं सद्य एव नवत्वचि ॥

6.30.82

दग्धयानूपसत्वानां श्लक्ष्णचूर्णितया त्वचा ।
भल्लाततैलप्लुतया शुक्लमालेपयेद्व्रणम् ॥

6.30.83

सप्तरात्रिस्थतं क्षीरे छागले रोहिणीफलम् ।
तैनेव पिष्ट्वा सुश्लक्ष्णं कृष्णमालेपयेद्व्रणम् ॥

6.30.84

नवं कपालिकामूलं वैदुलं सस्थिराह्वयम् ।
कासीसं मधुकं लेपो व्रणे कृष्णे मधुद्रुतः ॥

6.30.85

कपित्थान्मांसमुध्दृत्य मूत्रस्याज्यस्य पूरणम् ।
क्षिपेच्चात्र मनोह्वालवंशनिर्लेखरोचनाः ॥

6.30.86

कासीसं प्रपुनाटञ्च मासं न्यस्तं ततो भुवि ।
अधो ऽर्जुनस्य तच्छुक्लव्रणालेपः सवर्णकृत् ॥

6.30.87

दग्धो वारणदन्तो ऽन्तर्धूमं तैलं रसाञ्जनम् ।
रोमसञ्जननो लेपस्तद्वत्तैलपरिप्लुता ।
चतुष्पान्नखरोमास्थित्वक्शृङ्गखुरजा मषी ॥

6.30.88

जीर्णशाल्योदनं स्निग्धमल्पमुष्णोदकोत्तरम् ।
भुञ्जानो जाङ्गलैर्मांसैः शीघ्रं व्रणमपोहति ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc