भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 6.29

6.29.1

अथातो व्रणविभक्तिपरिज्ञानीयं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्त्रेयादयो महर्षयः ॥

6.29.2

यावदायुर्वृणीते विवृणोति वा शरीरमितिव्रणः ॥

6.29.3

स च द्विविधो निज आगन्तुश्च ।
तत्र निजो दोषसमुत्थः ।
आगन्तुः शस्त्रानुशस्त्रोपललगुडनखदशनविषाणविषारुष्करादिनिमित्तः ।
सो ऽपि पुनर्वातादिभिरधिष्ठितो निजतां लभते ॥

6.29.4

पुनश्च द्वेधा व्रणो दुष्टः शुद्धश्च ।
तत्रदोषदूषितो दुष्टः ॥

6.29.5

तस्य सामान्यलिङ्गमतिसंवृतविवृतत्वमतिमृदुकठिनतात्युत्सादावसादावतिशीतोष्णभावोतिरक्तकृष्णपाण्डुता पूतीमांससिरास्नायुप्रतिच्छन्नत्वं पुतीपूयास्रावः सोत्सङ्गिता दाहपाककण्डूश्वयथुवेदनासंरम्भपिटकोपद्रवोपद्रुतत्वं दीर्घकालानुबन्धश्च ॥

6.29.6

विशेषतस्तु पञ्चदशधा भिद्यते ॥

6.29.7

तत्र श्यावो ऽरुणः कृष्णो भस्मास्थिकपोतगलान्यतमवर्णो वा दधिमस्तुक्षाराम्बुमांसधावनपुलाकोदकनिभाल्पस्रावो रूक्षश्चटचटायमानशीलो ऽकस्माद्विविधशूलस्फुरणायामतोदभेदस्वापबहुलो निर्मांसश्च वातात् ॥

6.29.8

क्षिप्रजः पीतनीलहरितकृष्णकपिलपिङ्गलो गोमूत्रभस्मशङ्खकिंशुकोदकमार्द्वीकतैलाभोष्णभूरिक्लेदो दाहोषाज्वररागपाकावदरणधूमायनान्वितः क्षारोक्षितक्षतोपमवेदनः पिटकाजुष्टश्च पित्तात् ॥

6.29.9

स्निग्धः स्थूलौष्ठाः पाण्डुश्चण्डकण्डूर्नवनीतवसामज्जपिष्टतिलनारिकेलाम्बुसदृशश्वेतशीतबहलपिच्छिलक्लेदः स्वापस्तम्भस्तैमित्यगौरवोपदेहयुक्तः सिरास्नायुजालावततो मन्दवेदनः कठिनश्च कफात् ॥

6.29.10

प्रवालरक्तः कृष्णस्फोटपिटकाजालोपचितो वाजिस्थानगान्धिः ।
सरक्तपूयस्रावी पित्तलिङ्गश्च रक्तात् ॥

6.29.11

यथास्वलिङ्गसङ्करे द्वाभ्यां त्रिभिः सर्वैश्च दुष्टं विद्यात् ।
अपि च ।
घृतमण्डाभो मत्स्यधावनगन्धिर्मुदुर्विंसर्पी कृष्णपूयश्च पित्तरक्ताभ्याम् ॥

6.29.12

वातादिभिरेव च व्रणस्यानधिष्ठानं शुद्धिः ।
तत्र यथोक्तदुष्टलिङ्गाभावात् संरम्भरहितत्वं जिह्वावर्णता श्लक्ष्णत्वं नीरुजत्वं निरास्रावता श्यावपर्यन्तत्वं समौष्ठमध्यता किञ्चिदुन्नतमध्यता वा ॥

6.29.13

त्वङ्मांससिरास्नायुसन्ध्यस्थिकोष्ठमर्माण्यष्टौ व्रणाशयाः ।
आशयविशेषाच्चास्रावविशेषः ॥

6.29.14

तत्र घृष्टासु वा त्वक्षु स्फोटेषु वा भिन्नेषु सलिलप्रकाशो भवत्यास्रावः ।
किञ्चिद्विस्रः पीतावभासश्च ॥

6.29.15

मांसगतः सर्पिःप्रकाशो बहलः पिच्छिलश्च ॥

6.29.16

सिरागतस्तु सद्यश्छिन्नासु सिरासु रक्तातिप्रवृत्तिः ।
पक्वासु च तोयनाडीभिरिवाम्भसः पूयस्यागमनम् ।
स च तनुर्विच्छिन्नः पिच्छिलो ऽवलम्बी श्यावश्च ॥

6.29.17

स्नावगतः स्निघ्दो घनः सिङ्घाणकप्रतिमः सरक्तश्च ॥

6.29.18

सन्धिगतः समन्तात् प्रपीड्यमानो न प्रवर्तते तथाकुञ्चनप्रसारणोन्नमननमनप्रवाहणेषु स्रवति पिच्छिलो ऽवलम्बी स फेनरुधिरोन्मिश्रश्च ॥

6.29.19

अस्थि त्वभिहतं स्फुटितं भिन्नं दोषावदारितं वा दोषभक्षितत्वान्निस्सारं भवति ।
आस्रावश्चात्र मज्जमिश्रः सरुधिरः स्निग्धश्च ॥

6.29.20

कोष्ठश्रितस्तु व्रणो मूत्र्पुरीषरुधिरपूयोदकानि स्रवति ॥

6.29.21

मर्मगतस्तु नोच्यते त्वगादिष्वेवावरुद्धत्वात् ॥

6.29.22

तेषु यथापूर्वं सुखसाध्यत्वम् ।
तथायतश्चतुरस्रो वृत्तस्त्रिपुटकश्च व्रणः ।
शोषास्तु विकृताकृतयो दुरुपचाराः ।
ते च प्रायशो भवन्त्यागन्तवः ।
स्वयं विदीर्णाश्च दोषजा न तु वैद्यकृताः ॥

6.29.23

वयस्थानां दृढानां प्राणवतां सत्ववतामात्मवतां दीप्ताग्नीनां च व्रणाः सुचिकित्स्याः ॥

6.29.24

तत्र वयस्थानां प्रत्यग्रधातुत्वादाशुव्रणसंरोहो भवति ।
दृढानां स्थिरबहुमांसत्वाच्छस्त्रमवचार्यमाणं सिरास्नाय्वादीन् न प्राप्नोति ।
प्राणवतां वेदनाहारविहारयन्त्रणादिभिर्न ग्लानिः ।
सत्ववतां दारुणैरपि क्रियाविशेषैर्न व्यथा भवति ।
आत्मवतां सुनियमिताहारविहारादिभिरुपदेशैर्नान्यथा भवति दीप्ताग्नीनाम् प्रक्लिन्नदेहत्वात् ।
प्रकृतितश्चाप्रक्लेदिशरीराणां तद्वधयोश्च देशकालयोरास्रावदैर्गन्ध्याभावादाशु विशुद्धेन मांसेनानुपद्रवमापूरणम् ॥

6.29.25

एत एव गुणा वृद्धकृशाल्पप्राणभीरुमन्दाग्निप्रक्लेदिदेहदेशकालेषु विपरीताः शिष्योपनयनीयं चेक्षेत ॥

6.29.26

तथा स्फिक्पायुप्रजननललाटगण्डौष्ठपृष्ठकर्णफलकोशोदरजत्रुमुखाभ्यन्तरस्थाः सुखरोपणीयाः ।
विपरीतास्त्त्वक्षिदन्तनासापाङ्गश्रोत्रनाभिजठरसेवनीनितम्बपार्श्वकुक्षिवक्षःकक्षास्तनसन्धिभागगताः ।
सफेनपूयरक्तानिलवाहिनोन्तःशल्याश्चाधोभागाच्चोर्ध्वभागनिर्वमना रोमान्तोपनखमर्मजङ्घास्थिघ्राणाश्रिताश्च ।
भग्न्दरश्चान्तर्मुखः सेवनीकट्यस्थिसंश्रितः ।
अपि च ॥

6.29.27

कुष्ठिनां विषजुष्टानां शोषिणां मधुमेहिनाम् ।
व्रणाः कृच्छ्रेण सिध्यन्ति येषां च स्युर्व्रणे व्रणाः ॥

6.29.28

याप्यास्त्ववपाटिका निरुद्धमणिरुद्धगुदव्रणग्रन्थिप्रभृतयः सर्वास्थिक्षतं च ॥

6.29.29

असाध्याः पुनर्मांसपिण्डवदुद्गताः प्रसेकिनोन्तःपूया वेदनावन्तश्च पायुवदुद्वृत्तौष्ठाः कठिना गोशृङ्गवदुन्नतमांसप्ररोहा दुष्टशोणितास्राविणस्तनुपिच्छिलास्रावस्राविणो वा मध्योन्नताः समवसन्नसुषिरपर्यन्ताः शणतूलवत्स्नायुजालवन्तो दुर्दर्शना मेदोमज्जवसामस्तुलुङ्गस्राविणश्च दोषसमुत्थाः पीतासितामूत्रपुरीषवातवाहिनश्च कोष्ठस्थाः रक्तशयजाश्च क्षारोदकसमास्रावाः पक्वाशयजाश्च पुलाकोदकमिव स्रवन्तः क्षीणमांसानां च सर्वतोगतयस्त्वणुमुखमांसबुद्बुदवन्तः सशब्दवातवाहिनश्च शिरःकठस्था विसर्पज्वरपिपासारोचकाविपाककासश्वासातीसारच्छर्दियुक्ताः भिन्नो च शिरःकपाले यत्र मस्तुलुङ्गदर्शनं त्रिदोषलिङ्गप्रादुभावो वा स्यादिति ।
भवति चात्र ॥

6.29.30

स्नायुक्लेदात् सिराच्छेदात् गाम्भीर्यात् कृमिभक्षणात् ।
अस्थिभेदात् सशल्यत्वात् सविषत्वादतर्किंतात् ॥

6.29.31

मिथ्याबन्धादतिस्नेहाद्रौक्ष्याद्रोमादिघट्टनात् ।
क्षोभादशुद्धकोष्ठत्वात् सौहित्यादतिकर्शनात् ॥

6.29.32

मद्यपानाद्दिवास्वप्नाद्व्यायामाद्रात्रिजागरात् ।
व्रणो मिथ्योपचाराच्च नैव साध्योपि सिध्यति ॥

6.29.33

कपोतवर्णप्रतिमा यस्यान्ताः क्लेदवर्जिताः ।
स्थिराश्च पिटकावन्तो रोहतीति तमादिशेत् ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc