अष्टाङ्गसंग्रह · अध्याय 6.3
अथातो बालग्रहविज्ञानीयं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
पुरा गुहस्य रक्षार्थं निर्मिताः शूलपाणिना ।
मनुष्यविग्रहाः पञ्च सप्त स्त्रीविग्रहा ग्रहाः ॥
स्कन्दो विशाखो मेषास्यः श्वग्रहः पितृसंज्ञितः ।
शकुनिः पूतना शीतपूतनादृष्टिपूतना ।
मुखमण्डितिका तद्वद्रेवती शुष्करेवती ॥
ते कामरूपिणः स्कन्दमुपचेरुः समाहिताः ।
स्कन्दस्य बालधारत्वात्तेषां स्कन्दो ऽग्रणीरभूत् ॥
स्कन्दे ऽथ यौवनं प्राप्ते सेनापत्यं च तान् ग्रहान् ।
रौद्रान् रुद्रो ऽनुजग्राह प्रह्वान् वृत्त्यभिलाषिणः ॥
न तिथिष्वप्यतिथयो देवताः पितरो ऽपि वा ।
येषु वेश्मसु पूज्यन्ते निवृत्ताचारवर्त्मसु ॥
उत्सन्नबलिहोमेषु भिन्नकांस्योपभोजिषु ।
हरध्वं तेषु बालानामारोग्यं धारि शर्म च ॥
शूलिनेति नियुक्तास्ते बलिपूजाभिकाङ्क्षिणः ।
क्रुद्धान् भीतान् विमनसः शून्यस्थानैकचारिणः ॥
परोपभुक्तकुसुमवस्त्राभरणधारिणः ।
बालान्कश्मलधात्रीकान्सन्ध्यासु रुदतो ऽशुचीन् ॥
ऋक्षोलूकबिडालादिरूपैरन्यैस्तथाद्भुतैः ।
सन्त्रासयन्तःशयितान्कदाचिज्जाग्रतो ऽपि वा ।
प्रायः पर्वसु गृह्णन्ति ग्रहाश्छिद्रप्रहारिणः ॥
आविशन्तश्च लक्ष्यन्ते केवलं शास्त्रचक्षुषा ।
शुद्धेन देहं बालानां गन्धर्वा इव योषिताम् ॥
तेषां ग्रहिष्यतां रूपं प्रततं रोदनं ज्वरः ॥
सामान्यं रूपमुत्रासजृम्भाभ्रूक्षेपदीनताः ।
फेनस्रावोर्ध्वद्ष्ट्योष्ठदन्तदंशप्रजागराः ॥
रोदनं कूजनं स्तन्यविद्वेषः स्वरवैकृतम् ।
नखैरकस्मात् परितः स्वधात्र्यङ्गविलेखनम् ॥
तत्रैकनयनस्रावी शिरो विक्षिपते मुहुः ।
हतैकपक्षः स्तब्धाङ्गः सस्वेदो नतकन्धरः ॥
दन्तखादी स्तनद्वेषी त्रस्यन्रोदिति विस्वरम् ।
वक्रवक्त्रो वमन्लालां भृशमूर्ध्वं निरीक्षते ॥
वसास्रगन्धिरुद्विग्रो बद्धमुष्टिशकृच्छिशुः ।
चलितैकाक्षिगण्डभ्रूः संरक्तोभयलोचनः ।
स्कन्दार्तस्तेन वैकल्यं मरणं वा भवेद्ध्रुवम् ॥
संज्ञानाशो मुहुः केशलुञ्चनं कन्धरानतिः ।
विनम्य जृम्भमाणस्य शकृन्मूत्रप्रवर्तनम् ॥
फेनोद्वमनमूर्ध्वेक्षा हस्तभ्रूपादनर्तनम् ।
स्तनस्वजिह्वासन्दंशसंरम्भज्वरजागराः ।
पूयशोणितगन्धश्च स्कन्दापस्मारलक्षणम् ॥
आध्मानं पाणिपादस्य स्पन्दन फेननिर्वमिः ।
तृण्मुष्टिबन्धातीसारस्वरदैन्यविवर्णताः ॥
कूजनं स्तननं छर्दिः कासहिध्माप्रजागराः ।
औष्ठदंशांससङ्कोचस्तम्भबस्ताभगन्धताः ॥
ऊर्ध्वं निरीक्ष्य हसनं मध्ये विनमनं ज्वरः ।
मूर्छैकनेत्रशोफश्च नैगमेषग्रहाकृतिः ॥
कम्पो हृषितरोमत्वं स्वेदश्चक्षुर्निमीलनम् ।
बहिरायामनं जिह्वादंशो ऽन्तःकण्ठकूजनम् ।
धावनं विट्सगन्धत्वं क्रोशनं च श्ववच्छुनि ॥
रोमहर्षो मुहुस्त्रासः सहसा रोदनं ज्वरः ।
कासातिसारवमथुजृम्भातृट्च्छवगन्धिताः ॥
अङ्गेष्वाक्षेपविक्षेपशोषस्तम्भविवर्णताः ।
मुष्टिबन्धः स्रुतिश्चाक्ष्णोर्बालस्य स्युः पितृग्रहे ॥
स्रस्ताग्गत्वमतीसारो जिह्वातालुगले व्रणाः ।
स्फोटाःसदाहरुक्पाकाःसन्धिषु स्युः पुनःपुनः ॥
निश्यह्नि प्रविलीयन्ते पाको वक्त्रे गुदे ऽपिवा ।
भयं शकुनिगन्धत्वं ज्वरश्च शकुनिग्रहे ॥
पूतनायां वमिः कम्पस्तन्द्रा रात्रौ प्रजागरः ।
हिध्माध्मानं शकृद्भेदः पिपासा मूत्रनिग्रहः ।
स्रस्तहृष्टाङ्गरोमत्वं काकवत् पूतिगन्धिता ॥
शीतपूतनया कम्पो रोदनं तिर्यगीक्षणम् ।
तृष्णान्त्रकूजो ऽतीसारो वसावद्विस्रगन्धिता ।
पार्श्वस्यैकस्य शीतत्वमुष्णत्वमपरस्य च ॥
अन्धपूतनया च्छर्दिर्ज्वरः कासो ऽल्पनिद्रता ।
वर्चसो भेदवैवर्ण्यदौर्गन्ध्यान्यङ्गशोषणम् ॥
दृष्टिसादो ऽक्षिरुक्कण्डूः पोथकीजन्म शूनता ।
हिध्मोद्वेगः स्तनद्वेषवैवर्ण्यस्वरतीक्ष्णताः ।
वेपथुर्मत्स्यगन्धित्वमथवा साम्लगन्धिता ॥
मुखमण्डितया पाणिपादास्यरमणीयता ।
सिराभिरसिताभाभिराचितोदरता ज्वरः ।
अरोचको ऽङ्गग्लपनं गोमूत्रसमगन्धिता ॥
रेवत्यां श्यावनीलत्वं कर्णनासाक्षिमर्दनम् ।
कासहिध्माक्षिविक्षेपवक्त्रवक्रत्वरक्तताः ॥
बस्तगन्धो ज्वरः शोषः पुरीषं हरितं द्रवम् ।
जायते शुष्करेवत्यां क्रमात् सर्वाङ्गसङ्क्षयः ॥
केशशातो ऽन्नविद्वेषः स्वरदैन्यं विवर्णता ।
नानावर्णपुरीषत्वमुदरे ग्रन्थयः सिराः ।
रोदनं गृद्ध्रगन्धित्वं दीर्घकालानुवर्तनम् ॥
उदरे ग्रन्थयो वृत्ता यस्य नानाविधं शकृत् ।
जिह्वाया निम्नतामध्ये श्यावं तालु च तं त्यजेत् ॥
भुञ्जानो ऽन्नं बहुविधं यो बालः परिहीयते ।
तृष्णागृहीतः क्षामाक्षो हन्ति तं शुष्करेवती ॥
हिंसारत्यर्चनाकाङ्क्षा ग्रहग्रहणकारणम् ॥
तत्र हिंसात्मके बालो महान् वा स्रुतनासिकः ।
क्षतजिह्वः क्वणन् बाढमसुखी सास्रलोचनः ॥
दुर्वर्णो हीनवचनः पूतिगन्धिश्च जायते ।
क्षामो मूत्रपुरीषं स्वं मृद्नाति न जुगुप्सते ॥
हस्तौ चोद्यम्य संरब्धो हन्त्यात्मानं तथापरम् ।
तद्वच्च शस्त्रकाष्ठाद्यैरग्निं वा दीप्तमाविशेत् ॥
अप्सु मज्जेत् पतेत् कूपे कुर्यादन्यच्च तद्विधम् ।
तृट्दाहमोहान् पूयस्य छर्दनं च प्रवर्तयेत् ।
रकं च सर्वमार्गेभ्यो ऽरिष्टोत्पत्तिं च तं त्यजेत् ॥
रहःस्त्रीरतिसंल्लापगन्धस्रग्भूषणप्रियः ।
हृष्टः शान्तश्च दुःसाधो रतिकामेन पीडितः ॥
दीनः परिमृशन् वक्त्रं शुष्कौष्ठगलतालुकः ।
शङ्कितं वीक्षते रौति ध्यायत्यायाति भीतताम् ॥
अन्नमन्नाभिलाषे ऽपि दत्तं नाति बुभुक्षते ।
गृहीतं बलिकामेन तं विद्यात् सुखसाधनम् ॥
हन्तुकामं जयेद्धोमैः सिद्धमन्त्रप्रवर्तितैः ।
इतरौ तु यथाकामं रतिबल्यादिदानतः ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0