भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 6.4

6.4.1

अथातो बालग्रहप्रतिषेधं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

6.4.2

ग्रहेषु साध्येषु शिशुं विविक्ते शरणे स्थितम् ।
त्रिरह्ना मृष्टसंसिक्ते सदा सन्निहितानले ॥

6.4.3

विकीर्णभूतिकुसुमबीजपत्रान्नसर्षपे ।
रक्षोघ्नतैलज्वलितप्रदीपहतपाप्मनि ॥

6.4.4

व्यवायमद्यपिशितनिवृत्तपरिचारके ।
पुराणसर्पिषाभ्यक्तं परिषिक्तं सुखाम्बुना ॥

6.4.5

साधितेन बलानिम्बवैजयन्तीनृपद्रुमैः ।
पारिभद्रककट्वङ्गजम्बूवरणकत्तृणैः ॥

6.4.6

कपोतवङ्कापामार्गपाटलीमधुशिग्रुभिः ।
काकजङ्घामहाश्वेताकपित्थक्षीरिपादपैः ॥

6.4.7

सकदम्बकरञ्जैश्च धूपं स्नातस्य चाचरेत् ।
द्वीपिव्याघ्राहिसिंहर्क्षचर्मभिर्घृतमिश्रितैः ॥

6.4.8

पूतीदशाङ्गसिद्धार्थवचाभल्लातदीप्यकैः ।
सकुष्ठैः सघृतैर्धूपः सर्वग्रहविमोक्षणः ॥

6.4.9

सर्षपा निम्बपत्राणि मूलमश्वखुराद्वचा ।
भूर्जपत्रं घृतं धूपः सर्वग्रहनिबर्हणः ॥

6.4.10

अनन्ताम्रास्थितगरं मरिचं मधुरो गणः ।
शृगालविन्ना मुस्ता च कल्कितैस्तैर्घृतं पचेत् ।
दशमूलरसक्षीरयुक्तं तद् ग्रहजित् परम् ॥

6.4.11

रास्नाद्व्यंशुमतीवढ्रपञ्चमूलबलाघनात् ।
क्वाथे सर्पिः पचेत् पिष्टैः सारिवाव्योषचित्रकैः ॥

6.4.12

पाठाविडङ्गमधुकपयस्याहिङ्गुदारुभिः ।
सग्रन्थिकैः सेन्द्रयवैः शिशोस्तत् सततं हितम् ।
सर्वरोगग्रहहरं दीपनं बलवर्णदम् ॥

6.4.13

सारिवासुरभिब्राह्मशिङ्खिनीकुष्ठसर्षपैः ।
वचाश्वगन्धासुरसायुक्तैः सर्पिर्विपाचयेत् ॥

6.4.14

तन्नाशयेद् ग्रहान् सर्वान् पानेनाभ्यञ्जनेन च ।
योजयेद् भूतविद्यायां यान्युक्तानि घृतानि च ॥

6.4.15

हस्तमात्रं शुचौ देशे गोमयेनोपलेपयेत् ।
तत्राक्षतानां चोक्षाणां स्थाप्यं पात्रं सदक्षिणम् ॥

6.4.16

निर्धूमश्चानलस्तोयं गुग्गुलुः सर्पिराहुतिः ।
शुक्लं पुष्पं बलिर्धूपो दूर्वा श्वेताश्च सर्षपाः ॥

6.4.17

प्राङ्मुखो ऽथ शुचिर्वैद्यस्त्रिवर्णामथवा सिताम् ।
उपविष्टः प्रतिसरां गृहीत्वा वेष्टयेत्तया ॥

6.4.18

भूर्जे रोचनया विद्यां लिखितामपराजिताम् ।
विधिना साधितां भूतैः सर्वैरप्यपराजिताम् ॥

6.4.19

लक्ष्मणादिपरीवारां नित्यानुस्मृतिसेविताम् ।
लक्ष्मणा सहदेवाख्या नागदन्ती कटम्भरा ॥

6.4.20

मर्कटी कर्कटी लम्बा बृहती कण्टकारिका ।
खरनासा मृगोर्वारुर्महाश्वेता शतावरी ॥

6.4.21

उदङ्मुखस्य बालस्य बध्नीयात्तां ततो गले ।
तदभावे दृढं क्षौमसूत्रं मन्त्रमिदं जपन् ॥

6.4.22

बध्नाम्यहं प्रतिसरां नमस्कृत्वा स्वयम्भुवे ।
बालानां रक्षणार्थाय शिवां पूर्वर्षिनिर्मिताम् ॥

6.4.23

इन्द्रो ऽनुमन्यतां तुभ्यं ये च तस्यानुचारिणः ।
वज्राशनिधरा भूता मेघवृन्दानुसारिणः ॥

6.4.24

ऐरावतस्कन्धगतं ये ऽनुयान्ति पुरन्दरम् ।
यमो वैवस्वतो राजा ये च तस्यानुचारिणः ॥

6.4.25

मेषसूकरसिंहोष्ट्रखरवाजिसमाननाः ।
काला कालायसैःपाशैःस्तब्धाक्षा भ्रुकुटीमुखाः ॥

6.4.26

शक्तिमुद्गरहस्ताश्च खड्गपाशधराश्च ये ।
पाशभृद्वरुणो राजा तोयभूः सागरालयः ॥

6.4.27

शारदाभ्रघनाकारा ये च तस्यानुचारिणः ।
महोर्मिमन्तं वेगेन क्षोभयन्ति सरित्पतिम् ॥

6.4.28

धनाधिपो वैश्रवणः सर्वयक्षाधिपो विभुः ।
नानाकाराश्च ये भूतास्तस्यैवानुचराः सदा ॥

6.4.29

आदित्या वसवो रुद्रा मरुतश्चाश्विनावपि ।
एते सर्वे ऽनुमन्यन्तामिमां प्रतिसरक्रियाम् ॥

6.4.30

दीर्घमायुररोगं च तव दास्यन्ति स्वस्ति ते ।
स्वस्ति ते भगवान् ब्राह्मा स्वस्ति नारदपर्वतौ ॥

6.4.31

स्वस्ति वेदाश्च यज्ञाश्च अग्नीषोमौ च स्वस्ति ते ।
स्वस्ति ते श्रीर्धृतिःकीर्तिर्लक्ष्मीर्मेधा क्षमा द्युतिः ॥

6.4.32

स्वस्ति तुष्टिश्च पुष्टिश्च वपुर्द्रीर्बुद्धिरेव च ।
स्वस्ति रुद्रो विशाखश्च स्कन्दः शक्तिधरश्च ते ॥

6.4.33

स्वस्ति धाता विधाता च सुपर्णश्च महाबलः ।
स्वस्ति देवाश्च यक्षाश्च मा च ते पापमागमत् ॥

6.4.34

दुर्व्यादृतानि दुस्वप्नं मनसा चिन्तितानि च ।
दुष्टादीनां भयकृतो वाचः प्रतिहता मया ॥

6.4.35

रक्षा प्रतिसरा तुभ्यं बद्धेयं पापघातिनी ।
निर्वृतस्त्वं निरुद्वेगो जीव वर्षशतं सुखी ॥

6.4.36

अपूपपूपसंयावस्वस्तिकालोपिकादयः ।
पायसो मिश्रकः सिद्धो गुडपूरो हरिद्रकः ॥

6.4.37

कृसरो यावकः क्षौद्रं पललं लवणं हविः ।
दधिकुल्माषनिष्पावो रक्तो भूतौदनः पयः ॥

6.4.38

पक्वाममांसरुधिरमत्स्यसक्तु सुरासवाः ।
गन्धं माल्यं फलं हेम धूपः सपुरकुन्दुरुः ॥

6.4.39

सुरसार्जकनिर्गुण्डीकुसुमं च सपल्लवम् ।
बलिः सुशस्तैर्देयः स्याद् भवनस्य चतुर्दिशम् ॥

6.4.40

चतुष्कचैत्यत्रिपथदेवायतनगोपुरे ।
रेखावृक्षोदपाने च सन्ध्ययोर्दीपवान् निशि ॥

6.4.41

अथापतितगोवर्चः प्रलिप्ते दर्भसंस्तृते ।
वृत्ते वा चतुरस्रे वा मण्डले कुसुमोज्वले ॥

6.4.42

नानाग्रहपरीवारं भिषग्भूतपतिं लिखेत् ।
तं प्रति प्राङ्मुखो विद्यां पठन्नुपहरेत् बलिम् ॥

6.4.43

नमोविमारकस्य ।
नमः कुमारङ्गाय ।
नमः सप्तानां मातृऋणाम् ।
नमः स्कन्दाय ।
एष परिग्रहमन्त्रः ।
मातृऋणामावाहनं च ।
हिलिहिलिनिमापटलिनि स्वाहा ।
अनेन सप्तकृत्वः परिजपितेन पानीयचलुकेनात्माभ्युक्षयितव्यः ।
एवमात्मरक्षा कृता भवति ॥

6.4.44

ग्रहाणां सन्निधानाय बलेश्च प्रतिपत्तये ।
सत्यसाधनसंयुक्तमिमं मन्त्रं पठेदनु ॥

6.4.45

प्रजापतौ च यत् सत्यं यत् सत्यममरेश्वरे ।
धर्मराजे च यत् सत्यं यच्च सत्यं तपस्विषु ॥

6.4.46

धनाधिते च यत् सत्यं यच्च सत्यं जलाधिते ।
यत् सत्यमग्निहोत्रेषु सत्यं यच्छ्रोत्रियेषु च ॥

6.4.47

पतिव्रतासु यत्सत्यमीश्वरे च महात्मनि ।
एतैस्तु सत्यसमयैर्गुह्यकाः सत्यवादिनः ॥

6.4.48

दर्शयध्वं स्वरूपाणि सत्यं रक्षत सर्वतः ।
आमन्त्रिता मया सौम्याः सौम्यरूपाः प्रतीच्छता ॥

6.4.49

बलिं चोपहृतं सर्वं सर्वे कौमारका ग्रहाः ।
दर्शयध्वं स्वरूपाणि बलिश्च प्रतिगृह्यताम् ॥

6.4.50

ततश्चानु पठेदेनां कुलविद्यां समाहितः ।
औला नीला खला काला नकुला ग्रहकारिका ॥

6.4.51

सेना सुसेना माता च महासेना यशस्विनी ।
कृतमालाक्षतशिरा एतास्तु ग्रहमातरः ॥

6.4.52

कुमारवचनाच्छीघ्रं प्रमुञ्चन्तु शिशुन्त्विमम् ।
कालकल्पा ज्वलच्छक्तिः किङ्किणीजालभूषिता ॥

6.4.53

कुमारवचनाद्दूती सम्प्राप्ता मुच्यतां शिशुः ।
पताका कुक्कुटः छत्रं घण्टाबर्हधरः शिखी ॥

6.4.54

शरस्तम्भश्च ते मुद्रा मुच्यतां मातरः शिशुः ।
गन्धं धूपं च माल्यं च कुमारस्ते प्रयच्छति ॥

6.4.55

न स्थातव्यं तदाघ्राय स्वां गतिं गच्छ मा चिरम् ।
धात्र्यः सर्वाः कुमारस्य सङ्गता गन्धमादने ॥

6.4.56

रक्तध्वजपताकस्य रक्तांशुकनिवासिनः ।
कुमारस्यालयं तत्र यात बालं विमुञ्चत ॥

6.4.57

षम्मुखो द्वादशाक्षो वै तस्मिन् काले वृतो वरम् ।
वीरः कुमाराधिपतिस्तव पुत्रो ऽभिषिच्यताम् ॥

6.4.58

ब्राह्मणो ब्राह्मणानान्तु सर्ववेदविदां वरः ।
यक्षराक्षसनागानां गन्धर्वासुरयोरपि ॥

6.4.59

पिशाचभूतसङ्घानां व्याधीनां च स ईश्वरः ।
आज्ञापयति वः स्कन्दो गम्यतां गन्धमादनम् ॥

6.4.60

ग्रहो यः कोपयेदाज्ञां कुमारस्य यशस्विनः ।
स्थानात् च्युतः स वै क्षिप्रं बाह्यः परिषदो भवेत् ॥

6.4.61

बलेरनन्तरं कुर्याद्धोममभ्यर्च्य पावकम् ।
पुष्पैर्भक्ष्यैश्च विविधैश्चरुणा लोहितैस्तथा ॥

6.4.62

गन्धैर्गुग्गुलुधूपैश्च समिधः खदिरादथ ।
शतमष्टोत्तरं हव्यमथवा चन्दनद्रुमात् ॥

6.4.63

अग्निदण्डं प्रवक्ष्यामि सर्वग्रहविमोक्षणम् ।
ब्रह्मण्यन्त्वनलं देवं हव्यकव्यप्रतीच्छकम् ॥

6.4.64

देवानां प्राङ्मुखं स्वस्तिस्वाहापहरतिद्रुतम् ।
सहस्रविद्यो दहनः पावकः सर्वभक्षणः ॥

6.4.65

त्वं हि यज्ञश्च यूपश्च त्वं हि धर्मवतां गतिः ।
हिरण्यरेता देवस्त्वं त्वं हि वेदविदां गतिः ॥

6.4.66

दुर्वृत्तानां विनाशाय त्वं समुत्पादितः सुरैः ।
दहसङ्ग्रहदेवत्वमिदं दुष्टस्य निग्रहम् ॥

6.4.67

अग्नये स्वाहा ।
महाग्नये स्वाहा ।
त्वं हि शान्तिकरो वह्निस्त्वं मारुतहरोदनः ।
हरिप्रधानगतिरासीदिमं निगृह्य गुह्यकमुत्सादय तेजसा त्वं मम वश्यं च तं कुरु दुष्टग्रहनिवारणं सर्वोपद्रवेषु च ॥

6.4.68

त्वया कृतेन होमेन शीघ्रं शान्तिः प्रजायते ।
आयाहि वह्ने देवानां त्वं हि वक्त्रं पुरातनम् ।
तेन सत्येन देवेश इमं साधय मे ग्रहम् ॥

6.4.69

नमो ऽस्तुते हव्यवाहन दण्डं प्रदर्शय दह दह दर्श दर्श तेज तेज मोटय मोटय अपस्मारमुद्घाटय कुमार पिशाचरेवतीरोदनत्रासन वित्रासन कम्पन उत्कम्पन विजृम्भण देवयक्षगन्धर्वभूतनागराक्षससन्तजन दण्डनाविधूसारयभगवन्नग्निदण्ड अग्निवीर्य नमस्तेजसास्वेनत्यक्तमुत्सादय स्वाहा ।
भूर्भुवस्स्वः स्वाहा ।
दीप्ततेजसे स्वाहा ।
हव्यवाहनाय स्वाहा ।
यमाय स्वाहा ।
नश्यन्त्यनेन होमेन समस्ता बालकग्रहाः ॥

6.4.70

तत्राग्नावरुणे ताम्रे तप्तहेमसमार्चिषि ।
तारावैदूर्यसदृशे शशिविद्युत्समप्रभे ॥

6.4.71

घृतमण्डाभवर्णे वा गन्धेन च घृतोपमे ।
केतकोत्पलदध्याभे द्रुवमारोग्यमादिशेत् ।
अनारोग्यं तु नीले ऽग्नौ कपिले भस्मनिष्प्रभे ॥

6.4.72

कृष्णे कपोते दुर्गन्धे मत्स्यपूयास्रगन्धिके ।
वचालशुनगन्धाभे विस्रे कर्दमगन्धिके ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc