भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 6.2

6.2.1

अथातो बालामयप्रतिषेधं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

6.2.2

त्रिविधो हि बालः प्रागुक्तस्तत्र क्षीरपस्य क्षीरमदुष्टं प्रयुञ्जीत ।
अन्नादस्य हितमन्नम् ।
उभयवृत्तेरुभयम् ॥

6.2.3

क्षीरं हि यथोक्तैर्दोषकोपनैराहारविहारैर्धात्र्या व्यापन्नं विविधामयोदयाय बालस्य प्रकल्पते ॥

6.2.4

तत्र श्यावारुणवर्णं तिक्तकषायानुरसं विशदं रूक्षमलक्ष्यगन्धं फेनिलमतृप्तिकरमाध्मानमूत्रवर्चोविबन्धकृत् कर्शनमप्सु विसर्पति विच्छिन्नं च प्लवते वातदुष्टम् ॥

6.2.5

कृष्णनीलताम्रावभासं तिक्ताम्लकटुकानुरसं कुणपरुधिरगन्धि भृशोष्णमप्सु पीतराजिमद्विदाहकरं च पित्तदुष्टम् ॥

6.2.6

अत्यर्थशुक्लमधुरं लवणानुरसं घृततैलवसामज्जगन्धि पिच्छिलं बहलं तन्तुमत् गुरु सलिले ऽवसीदति निद्राबहुलं च श्लेष्मदुष्टम् ॥

6.2.7

तदुपयुज्यमानं यथास्वलिङ्गान् व्याधीनभिनिर्वर्तयति ॥

6.2.8

स यं प्रदेशमभीक्ष्णं स्पृशति स्पर्शं च न क्षमते तत्र रुजमुपलक्षयेत् ॥

6.2.9

निमीलिताक्षतया मूर्ध्नि रुजम् ।
जिह्वौष्ठदंशश्वासमुष्टिवन्धोर्ध्वेक्षणैर्हृदये ।
विण्मूत्रच्छर्द्याध्मानान्त्रकूजनस्तनदंशवेष्टनपृष्ठविनमनजठरोन्नमनैर्जठरे ।
मूत्रसङ्गतृण्मूर्च्छोत्रासदिग्वीक्षणखल्लीहस्तपादस्तम्भकुब्जीभवनकेशलुञ्चनैर्बस्तौ गुह्ये च सर्वत्र च स्वभा वातिरिक्तरोदनेन मुखविकूणनेन च ॥

6.2.10

अथ यथामयं यथादोषं च धात्र्याः शमनशोधनानि प्रयुञ्जीत ॥

6.2.11

तत्र वातदूषिते स्तन्ये देवदारुसरलकटुरोहिणीवचाकुष्ठपाठाभार्ङ्गीमागधिकावृश्चिकालीचित्रकाजमोदशुण्ठीमरीचानां क्वाथं दशमूलक्वाथं वा त्रिरात्रं पाययित्वा वातव्याधिविहितानां सर्पिषामन्यतमं निगदमदिरानुपानं दद्याद्वातहरद्रव्यसिद्धं वा ।
ततः स्निग्धां मृदु विरेच्य बस्तिकर्मणोपचरेत् ।
वातघ्नैश्चाभ्यङ्गस्वेदोपदेहोन्मर्दनैः ।
सरलरास्नाजमोदादेवदारुचूर्णं सर्पिषा बालमवलेहयेत् ।
एवंविधैरेव च विपक्वं सशर्करं सर्पिः ॥

6.2.12

अपि च ।
तिक्तानुरसं स्तन्यं मुद्गमाषपलाशाभ्यां काकोलीयुगलेन च शोधयेत् ।
प्रियङ्गुधातकीपुष्पपद्मकदेवदारुक्षौद्रैर्वा ।
कषायानुरसं हिङ्गुसैन्धववता घृतेन ।
फेनिलं विच्छिन्नं प्लवमानं च बिल्वाग्निमन्थशृतेन पयसा हविषा च ।
सूप्यपर्णी काकोलीबृहत्यवल्गुजफलैर्वा ॥

6.2.13

पित्ते ऽमृतापटोलपत्रसारिवाशतावरीनिम्बचन्दनक्वाथं धात्री बालश्च पिबेत् ।
त्रिफलाभूनिम्बकटुकामुस्तक्वाथं वा ।
जीवकर्षभकद्विकाकोलीमधुककट्फलकर्कटशृङ्गीक्वाथं वा ।
सक्षौद्रं पटोलादिं पद्मकादिं वा ।
सारिवादिं न्यग्रोधादिं वा ।
एभिरेव च द्रव्यैः सर्पीषि पित्तघ्नानि च विरेचनानि शीतांश्चाभ्यङ्गप्रदेहसेकान् कुर्यात् ॥

6.2.14

अपि च ।
ताम्रावभासं पयो हृदयमुद्वेष्टयति ।
तत्प्रियङ्गुमुस्ताशाबरलोद्ध्रैः शोधयेत् ।
अम्लानुरसमम्लपित्तकरम् ।
तत् द्राक्षामधुकपयस्याश्रीपर्णीभिः ।
कटुकानुरसं छर्द्यतीसारकासश्वासकरम् ।
तत् काकोलीविदारीभ्यां मधुपर्ण्या च ।
भृशोष्णमनामदाहज्वरकरं विरेचनं च तच्चन्दनोत्पलकमलैः ॥

6.2.15

कफे तु सैन्धवपिप्पलीयुक्तं सर्पिर्बालं पाययेत् ।
सैन्धवमधुकसंसृष्टं वा मदनपुष्पकल्केन च सक्षौद्रेण स्तनं बालस्य चोष्ठमालिम्पेत् ।
तेन सुखं वमति ।
धात्रीं तु तीक्ष्णैर्वामयेत् ।
ततः कृतसंसर्जनां पञ्चमूलघनवचातिविषाक्वाथं पाययेत् ।
तगरसुरदारुसुरेन्द्रयवपृथ्वीकावृश्चिकालीक्वाथं वा ।
आरग्वधादिं मुस्तादिं वा ।
रूक्षोष्णांश्च नस्यधूमगण्डूषप्रदेहपरिषेकान् शीलयेत् ।
अविरुद्धं चान्नपानं योजयेत् ॥

6.2.16

अपि च ।
लवणानुरसं विसर्पकोठकण्डूकरम् ।
तत् पिचुमन्दपटोलीक्षीरीवृक्षैः शोधयेत् ।
तन्तुमद्दौर्बल्यश्वासकासकरम् ।
तत् पिप्पलीनागरचूर्णेन समधुघृतेन ।
गुरु सदनात्मकं प्रतिश्यायसिङ्घाणकक्षीरालसककरम् ।
तत् पाठाव्योषकल्केन पञ्चकोलचूर्णेन वा क्षौद्रघृताप्लुतेन ।
दोषोपक्रमणीयं चेक्षेत ॥

6.2.17

यदा पुनर्धात्री सन्निपातप्रकोपनान्यासेवेत तदस्यास्त्रयो मला युगपद्वक्षो ऽभिप्रपन्नाः क्षीरवहा रसायनीः समनुसृत्य सङ्गीर्णलिङ्गं स्तन्यमावहन्ति ।
तच्चेदविज्ञानात् सततमप्रत्यवेक्षणात् प्रमादाद्वा मातुः कुमारः पिबति ततः स तेन सलिलोपममच्छं विच्छिन्नमामं दुर्गन्धि नानावर्णवेदनं फेनिलमतिसार्यते ।
पीतश्वेतमूत्रताविष्टम्भतृष्णाज्वरच्छर्दिविजृम्भिकाशुष्कोद्गारारुचिभ्रमाङ्गभङ्गविक्षेपकूजनघ्राणाक्षिमुखपाकदृष्ट्युपप्लवस्वरसादादयश्चास्य प्रादुर्भवन्ति ।
तं क्षीरालसकमत्ययं चाचक्षते ॥

6.2.18

तत्र धात्रीं बालं च पूर्वमेवाशु वामयेत् ।
विहितसंसर्गयोश्च मुस्तापाठातिविषाकुष्ठकटुकानां क्वाथं पानाय दद्यात् ।
रास्नाजमोदाप्रियङ्गुभद्रदारूणां वा ।
पाठातेजोवतीपुनर्नववृश्चिकालीनां वा ।
भूनिम्बामृताकुटजफलसारिवाणां वा ।
वचाहरिद्रादिगणयोर्वा ।
पाठादिमहाकषायस्य वा ।
जम्ब्वाम्रतिन्दुककपित्थपत्राणां वा ।
बिल्वभङ्गस्य वा ।
अनुबन्धे च यथाव्याधि प्रतिकुर्वीत ॥

6.2.19

दन्तोद्भेदश्च सर्वरोगायतनम् ।
विशेषेण तु तन्मूला ज्वरशिरोभितापतृष्णाभ्रमाभिष्यन्दकुकूणकपोथकीवमथुकासश्वासातीसारविसर्पाः ॥

6.2.20

स दीर्घायुषो ऽष्टमान्मासात् परतो वा प्रवर्तते ।
इतरेषां तु चतुर्थात् ।
तेह्यतिबाल्ये दन्तोत्पादवेदनयातिपीडिता न सम्यक् सम्पूर्णधातुबला भवन्ति ॥

6.2.21

तत्रास्थिमज्जानौ दन्तोत्पत्तिहेतू ।
तदा च तयोरसम्पूर्णवीर्यत्वात् पुनः कालान्तरेण दन्तानां पतनमापूर्यमाणधातुत्वाच्च पुनरुत्थानमत एव च वृद्धानां न पुनर्दन्तोत्पत्तिः ॥

6.2.22

बलान्निपतितानां तु सहसा तदधिष्ठानगतधातुबीजभ्रंशात् सन्ततिव्युच्छेदाच्छोणितातिप्रवृत्याभिघाताच्च निस्सारितत्वात् ।
सिराणां पुनरनुत्पादः एतेन रोगच्युता अपि प्रायशो व्याख्याताः ॥

6.2.23

तौ तु धातू कालक्रमेण पच्यमानौ यदा दन्ताशयमनुप्रपद्येते तदास्य किञ्चिदुत्सेधेनोर्ध्वाधोदन्तमांससङ्घट्टनादङ्गहर्षो जायते ।
तद्गतेन च श्लेष्मणा कण्डूस्तया चूचुकं दश्यते ।
यद्यदालभते तत्तदास्यमानयति ।
मारुतश्चास्य दन्तमूलेषु मूर्छति ।
ततः स कफानुविद्धो ऽस्थिमज्जस्थितः सर्वतो विसरन् सह पित्तेन धातून् मलांश्च दूषयन् विविधान्यथोदितानुपद्रवानभिनिर्वर्तयति ॥

6.2.24

यदा पुनर्दन्तमांसाश्रयी केवलो विकृतः प्रबलो ऽनिलः सपित्तो वास्थिमज्जानौ शोषयति तदा द्विजानामसम्भव एवेति ।
भवन्ति चात्र ॥

6.2.25

पृष्ठभङ्गे बिडालानां बर्हिणां च शिखोद्गमे ।
दन्तोद्भेदे च बालानां न हि किञ्चिन्न दूयते ॥

6.2.26

यथादोषं यथारोगं यथोद्रेकं यथाबलम् ।
विभज्य देशकालादींस्तत्र योज्यं भिषग्जितम् ॥

6.2.27

त एव दोषा दूष्याश्च ज्वराद्या व्याधयश्च यत् ।
अतस्तदेव भैषज्यं मात्रा त्वस्य कनीयसी ।
सौकुमार्याल्पकायत्वात् सर्वान्नानुपसेवनात् ॥

6.2.28

स्निग्धा एव सदा बाला घृतक्षीरनिषेवणात् ।
सद्यस्तान् वमनं तस्मात् पाययेन्मतिमान्मृदु ॥

6.2.29

बस्तिं साध्ये विरेकेण मर्शेन प्रतिमर्शनम् ।
युञ्ज्याद्विरेचनादींस्तु धात्र्या एव यथोचितान् ॥

6.2.30

मूर्वाव्योषवराकोलजम्बूत्वग्दारुसर्षपाः ।
सपाठा मधुना लीढाः स्तन्यदोषहराः परम् ॥

6.2.31

इक्षुमूलकशेर्वाख्ययष्ट्याह्वैस्तनु शुध्यति ।
सान्द्रं तु क्षौद्रकाश्मर्यगुडूचीतण्डुलाम्बुभिः ॥

6.2.32

शृतैर्वा सुरसश्वेतसर्षपाबृहतीद्वयैः ।
ग्रथितं पद्मकोशीरफलिनीश्वेतचन्दनैः ॥

6.2.33

दन्तपालीं समधुना चूर्णेन प्रतिसारयेत् ।
पिप्पल्या धातकीपुष्पधात्रीफलकृतेन वा ॥

6.2.34

वाध्रीणसकपोतोत्थरजस्तद्वच्च योजितम् ।
लावतित्तिरिवल्लूररजः पुष्परसद्रुतम् ॥

6.2.35

द्रुतं करोति बालानां दन्तकेसरवन्मुखम् ।
वचाद्विबृहतीपाठाकटुकातिविषाघनैः ।
मधुरैश्च घृतं सिद्धं सिद्धं दशनजन्मनि ॥

6.2.36

भद्रदारु घनं यष्टी समङ्गा ससितोपला ।
वातज्वरपरीताङ्गः पिबेदन्तरपानकम् ॥

6.2.37

सुराह्वघनयष्ट्याह्वपयस्यांशुमतीद्वयम् ।
नागरं मरिचं भार्ङ्गी वृश्चिकाली शतावरी ॥

6.2.38

घृतं तत्क्वाथदुग्धाभ्यां सिद्धं हन्त्यनिलज्वरम् ।
बालस्य पानाभ्यङ्गाभ्यामेभिश्चोन्मर्दनं हितम् ॥

6.2.39

हरिद्राकुष्ठषङ्ग्रन्थाशतपुष्पाहरेणुभिः ।
भार्ङ्ग्येलासुषवीरास्नावर्षाभूनतसर्षपैः ॥

6.2.40

अक्षांशैः साम्बुसौवीरैर्मस्तुपिष्टैर्मरुज्ज्वरे ।
तैलप्रस्थं सुरामण्डतुल्यमभ्यञ्जनं पचेत् ॥

6.2.41

लाजनीलोत्पलकणामधुकाञ्जनशर्करम् ।
पित्तज्वरमतीसारं मधुलीढं निवर्तयेत् ॥

6.2.42

लाजद्विपिप्पलीक्वाथः शर्करामधुसंयुतः ।
पीतो ज्वरमतीसारं तृष्णां छर्दिं च नाशयेत् ॥

6.2.43

आमातिसारे रक्ते च कल्कितां गजपिप्पलीम् ।
पाययेच्छर्करोपेतां चूर्णं वा देवदारुजम् ॥

6.2.44

शिरोभितापे सघृतैः शिरः शीतैः प्रलेपयेत् ।
पत्रैः कपित्थचाङ्गेरीबदरीकाकमाचिजैः ॥

6.2.45

शिरोरुक्च्छर्द्यतीसारनाशनं मूर्धलेपनम् ।
गवादनीं दाडिमं च तृड्वान् कोष्णाम्भसा पिबेत् ॥

6.2.46

कुर्यात् कुकूणपोथक्योर्यथोक्तं स्वं स्वमौषधम् ।
मनश्शिलाशङ्खनाभिः पिप्पल्यो मधुयष्टिका ॥

6.2.47

क्षौद्रेण घृष्टा गुलिका शिशोः सर्वाक्षिरोगजित् ।
पिप्पलीतण्डुलैर्मुद्गैः सुमनःकोरकैर्यवैः ।
नीलोत्पलस्य पत्रैश्च श्रेष्ठा वर्तिः शतोन्मितैः ॥

6.2.48

प्रियङ्ग्वञ्जनमुस्तानां चूर्णस्तण्डुलवारिणा ।
तृष्णातीसारवमथून् हन्ति पीतः समाक्षिकः ॥

6.2.49

पटोलनिम्बकुटजसप्तपर्णं सदीप्यकम् ।
देवदारुविडङ्गानि सरलो माक्षिकं घृतम् ॥

6.2.50

लीढं ज्वरमतीसारं कासं पाण्ड्वामयं वमिम् ।
हन्याच्च मातृकादोषान् रोगानन्यांश्च तद्विधान् ॥

6.2.51

मधुकव्योषषड्ग्रन्थाग्रन्थिकास्पृष्टरोदिकाः ।
क्षीरिणां च प्रवालानि पाठा च विपचेत् घृतम् ।
तत् पीतं समधु श्लेष्मज्वरघ्नं दीपनं परम् ॥

6.2.52

रास्नैलानततर्कारीमधुशिग्रुसुराह्वयैः ।
सबिल्वकुष्ठवरणरेणुकामिसिभिः कृतः ॥

6.2.53

श्लेष्मज्वरहरो लेपस्तैलमभ्यञ्जनं च तैः ।
मण्डलानि तु साज्येन गजमूत्रेण लेपयेत् ॥

6.2.54

रजनी दारु सरलश्रेयसी बृहतीद्वयम् ।
पृश्निपर्णी शताह्वा च लीढं माक्षिकसर्पिषा ।
ग्रहणीदीपनं श्रेष्ठं मारुतस्यानुलोमनम् ॥

6.2.55

अतीसारज्वरश्वासकामलापाण्डुकासजित् ।
बालस्य सर्वरोगेषु पूजितं बलवर्णदम् ॥

6.2.56

बिल्वपेशीगजकणाधातकीलोध्रवालकम् ।
हन्ति लीढमतीसारं शिशोः क्षौद्रद्रुतं द्रुतम् ॥

6.2.57

त्रिफलाधातकीपुष्पपद्मबिल्वशलाटुभिः ।
सक्ट्वङ्गैर्घृतं सिद्धमुदरामयनाशनम् ॥

6.2.58

पथ्यासौवर्चलक्षारवेल्लव्योषाग्निहिङ्गुभिः ।
तिक्तया च घृतं सिद्धं समक्षीरं व्यपोहति ।
शूलानाहगुदभ्रंशश्वासकासविलम्बिकाः ॥

6.2.59

समङ्गाधातकीलोध्रकुटन्नटबलाद्वयैः ।
महासहाक्षुद्रसहामुद्गबिल्वशलाटुभिः ॥

6.2.60

सकार्पासीफलैस्तोये साधितैः साधितं घृतम् ।
क्षारमस्तुयुतं हन्ति शीघ्रं दन्तोद्भवोद्भवान् ।
विविधानामयानेतद्वृद्धकाश्यपनिर्मितम् ॥

6.2.61

दन्तोद्भेदोत्थरोगेषु न बालमतियन्त्रयेत् ।
स्वयमाप्युपशाम्यन्ति जातदन्तस्य यत् गदाः ॥

6.2.62

यावन्मासस्य यो जातस्तावद्वर्षस्य स द्विजः ।
पतति प्रायशो ऽष्टानां तेषां पूर्वेषु सम्भवः ॥

6.2.63

अत्यहःस्वप्नशीताम्बुश्लैष्मिकस्तन्यसेविनः ।
शिशोः कफेन रुद्धेषु स्रोतस्सु रसवाहिषु ॥

6.2.64

अरोचकः प्रतिश्यायो ज्वरः कासश्च जायते ।
कुमारः शुष्यति ततः स्निग्धशुक्लमुखेक्षणः ॥

6.2.65

सैन्धवव्योषशाअर्ङ्गेष्टअपाठागिरिकदम्बकान् ।
शुष्यतो मधुसर्पिर्भ्यामरुच्यादिषु योजयेत् ॥

6.2.66

अशोकरोहिणीयुक्तं पञ्चकोलं च चूर्णितम् ।
बदरीधातकीधात्रीचूर्णं वा सर्पिषा द्रुतम् ॥

6.2.67

अश्वलिण्डरसक्षौद्रयुक्तां वा मधुयष्टिकाम् ।
द्विवार्ताकीफलरसं केवलं वाश्वविड्रसम् ॥

6.2.68

मधुना वा घनव्योषपाठा मूर्वा शतावरी ।
सपयस्या पृथक्पर्णी घृतं वा माक्षिकान्वितम् ।
स्थिरामरतरुव्योषद्विपुनर्नवसाधितम् ॥

6.2.69

स्थिरावचाद्विबृहतीकाकोलीपिप्पलीनतैः ।
निचुलोत्पलवर्षाभूभार्ङ्गीमुस्तैश्च कार्षिकैः ॥

6.2.70

सिद्धं प्रस्थार्धमाज्यस्य स्रोतसां शोधनं परम् ।
सिंह्यश्वगन्धासुरसकणागर्भं च तद्गुणम् ॥

6.2.71

यष्ट्याह्वपिप्पलीलोध्रपद्मकोत्पलचन्दनैः ।
तालीससारिवाभ्यां च साधितं शोषजित् घृतम् ॥

6.2.72

रास्नामधूलिकाभार्ङ्गीपिप्पलीदेवदारुभिः ।
अश्वगन्धाद्विकाकोली शृङ्ग्यर्षभकजीवैकः ॥

6.2.73

सूप्यपर्णीविडङ्गैश्च कल्कितैः साधितं घृतम् ।
शशोत्तमाङ्गनिर्यूहे शुष्यतः पुष्टिकृत् परम् ॥

6.2.74

वचावयस्थातगरकायस्थाचोरकैः शृतम् ।
बस्तमूत्रसुराभ्यां च तैलमभ्यञ्जने हितम् ॥

6.2.75

द्वे बले तुम्बुरुच्छल्ली वचा गिरिकदम्बकः ।
सुरापिष्टः प्रदेहः स्यादधःकाये विशुष्यताम् ॥

6.2.76

सिंहस्कन्दीसिंहवल्लीकरमर्दीत्रिकण्टकैः ।
भङ्गैः क्वाथः कुमाराणां शुष्यतां परिषेचनम् ॥

6.2.77

साशोकरोहिणीं कृष्णां मध्वाज्येन लिहन्जयेत् ।
शिशुः शोषं शरीरस्य ससितच्छागदुग्धभुक् ॥

6.2.78

शुष्ककासे कुमारस्य धात्र्याः स्तन्यविशोधनः ।
माषयूषः प्रयोक्तव्यः सकृष्णो घृतभर्जितः ॥

6.2.79

मधुनातिविषाशृङ्गीपिप्पलीर्लेहयेच्छिशुम् ।
एकांवातिविषां कासज्वरच्छर्दिरुपद्रुतम् ॥

6.2.80

कासतृट्च्छर्द्यतीसारैरर्दितं लाजतर्पणम् ।
लाजतालीसपत्रं वा बीजानि कमलस्य वा ॥

6.2.81

लोध्रप्रियङ्गुकल्कं वा पाययेत्तण्डुलाम्भसा ।
शर्करामधुसंयुक्तं लाजकुस्तुम्बरीरजः ॥

6.2.82

बृहतीफलमूलत्वक्पिप्पलीग्रन्थिकैः कृतः ।
तवक्षीरीयुतैः क्वाथो मधुना हन्ति शीलितः ॥

6.2.83

छर्दिमूर्छाज्वरश्वासकासातीसारपीनसान् ।
पञ्चकोलद्विवार्ताकीमूलभार्ङ्गीतुगाह्वयाः ॥

6.2.84

क्षौद्राज्यलीढाः श्वसनकासपीनसरुक्च्छिदः ।
श्यामातिमुक्तातर्कारीकुसुमक्वाथसाधितम् ।
यष्टीगर्भं घृतं तृष्णाहिध्माश्वासास्रपित्तनुत् ॥

6.2.85

पीतं पीतं वमति यः स्तन्यं तं मधुसर्पिषा ।
द्विवार्ताकीफलरसं पञ्चकोलं च लेहयेत् ॥

6.2.86

पिप्पलीपञ्चलवणं कृमिजित् पारिभद्रकम् ।
तद्वल्लिह्यात्तथा व्योषं मषीं वा रोमचर्मणाम् ।
लाभतःशल्यकश्वाविड्गोधर्ष्यशिखिजन्मनाम् ॥

6.2.87

खदिरार्जुनतालीसकुष्ठचन्दनजे रसे ।
सक्षीरं साधितं सर्पिर्वमथुं विनियच्छति ॥

6.2.88

क्षीरीप्रवालमधुकदर्भमूलबिसोत्पलैः ।
तृष्णादाहज्वरहरः कषायः ससितामधुः ॥

6.2.89

शर्करादाडिमकणानागकेसरजीवकम् ।
लिहन् कुमारः क्षौद्रेण तृट्च्छर्दिभ्यां विमुच्याते ॥

6.2.90

लाजैः सचन्दनोशीरयष्टीमधुकपद्मकैः ।
लिप्तो धौतः स्तनः पीतो भ्रमतृड्दाहमोहहा ॥

6.2.91

अस्नेहलवणं पीत्वा संस्कृतं लावजं रसम् ।
सशर्करं विजयते बालो लङ्घनजान् गदान् ॥

6.2.92

विसर्पस्तु शिशोः प्राणनाशनो बस्तिशीर्षजः ।
पद्मवर्णो महापद्मनामा दोषत्रयोद्भवः ॥

6.2.93

शाखाभ्यां हृदयं याति हृदयाद्वा गुदं व्रजेत् ।
सदन्तो जायते यस्तु दन्ताः प्राग्यस्य चोत्तराः ॥

6.2.94

कुर्वीत तस्मिन्नुत्पाते शान्तिं तं च द्विजतये ।
दद्यात् सदक्षिणं बालं नैगमेषं च पूजयेत् ॥

6.2.95

वत्सस्य मधुलाजानामापूर्यप्राङ्मुखो मुखम् ।
चुम्बेत्कुमारस्त्रीन् वारान् प्रायश्चित्तमिदं परम् ॥

6.2.96

नावमारोहयेत् बालं स्नातं स्कन्धं गजस्य वा ।
भोजयेत् ब्राह्मणांश्चात्र पायसं मधुसर्पिषा ॥

6.2.97

मातुः कुमारो गर्भिण्याः स्तन्यं प्रायो ऽपिबन्नपि ।
कासाग्निसादवमथुतन्द्राकार्श्यारुचिभ्रमैः ॥

6.2.98

युज्यते कोष्ठवृध्या च तमाहुः पारिगर्भिकम् ।
रोगं परिभवाख्यं च युञ्ज्यात्तत्राग्निदीपनम् ॥

6.2.99

पिप्पलीपिप्पलीमूलकटुकादेवदारुभिः ।
क्षारद्वयबिडाजाजीबिल्वमध्याग्निदीप्यकैः ॥

6.2.100

दधिसौवीरकसुरामण्डैश्च विपचेत् घृतम् ।
हन्ति प्रयुक्तं तत् काले रोगान् पारिभवाश्रयान् ॥

6.2.101

अन्नेनोपहितं स्तन्यं पिबतो विहितात् परम् ।
इमानेव गदान् कुर्यात् कुर्यात्तेष्वेतदेव च ॥

6.2.102

पीतं पीतं च यः स्तन्यं सवातमतिसर्यते ।
तस्याप्येतत् परं पथ्यं दीपनं बलवर्णकृत् ॥

6.2.103

अत्युद्रिक्तक्षुधं बालं परिभूतं तु लेहयेत् ।
विदारीयवगोधूमकणाचूर्णं घृताप्लुतम् ॥

6.2.104

पाययेदनु च क्षीरं शृतं समधुशर्करम् ।
अक्षमज्जाद्विकाकोलीयष्टीमधुकमोरटैः ॥

6.2.105

श्रपयेत् क्षीरमाज्यं वा बीजैरिक्षुरकस्य च ।
तत् प्रयोज्यं गुरु स्निग्धं यच्चात्यग्नौ पुरेरितम् ॥

6.2.106

श्ववायसबिडालानामुच्छिष्टेन जलेन च ।
स्नापयेत्तं नचेदेवं क्षुत्तस्य प्रशमं वरजेत् ॥

6.2.107

क्षीरिपादपमूलस्थं विधिना स्नापितं ततः ।
वस्त्ररत्नाद्यलङ्कारैः कुमारं भूषयेत् सितैः ॥

6.2.108

वृक्षं चानु ततः कुर्यात् भूषणव्यत्ययं तयोः ।
एतदायुःप्रदं धन्यं स्नपनं सर्वरोगजित् ॥

6.2.109

जटीभूतकचाक्ष्यादिपक्ष्माणमतिलोलुपम् ।
गोमूत्रगन्धिं स्नपयेतीर्थे गव्यशकृद्रसैः ॥

6.2.110

वचापुष्पशिलाकुष्ठवयस्थाहिङ्गुकट्फलैः ।
सबस्तमूत्रमदिरैस्तैलमभ्यञ्जनं पचेत् ॥

6.2.111

बलाविदारीत्रिकटुककुष्ठोशीरकुचन्दनैः ।
सिद्धं पीतं हविर्हन्ति तं विकारमशेषतः ॥

6.2.112

शिरः पृष्ठं ततो मुष्कौ ततः पादौ च यो रुजेत् ।
हस्ताभ्यामुत्थितो वायुः सपर्वानुप्लवः स्मृतः ॥

6.2.113

गौरीवचासदापुष्पीहयगन्धाकटुत्रयैः ।
सक्ट्फलद्विवार्ताकीवयस्थाहिङ्गुरोहिषैः ॥

6.2.114

बस्तमूत्रसुरायुक्तैः साधितं तस्य योजयेत् ।
तैलमभ्यञ्जने शेषं वातव्याधिवदाचरेत् ॥

6.2.115

तालुमांसे कफः क्रुद्धः कुरुते तालुकण्टकम् ।
तेन तालुप्रदेशस्य निम्नता मूर्ध्नि जायते ॥

6.2.116

ताल्पातः स्तनद्वेषः कृच्छ्रात् पानं शकृद्द्रवम् ।
तृडास्यकण्ड्वक्षिरुजा ग्रीवादुर्धरता वमिः ॥

6.2.117

तत्रोत्क्षिप्य यवक्षारक्षौद्राभ्यां प्रतिसारयेत् ।
तालु तद्वत् कृअणाशुण्ठीगोशकृद्रससैन्धवैः ॥

6.2.118

शृङ्गिवेरनिशाकुष्ठं कल्कितं वटपल्लवैः ।
बध्वा गोशकृता लिप्तं कुकूले स्वेदयेत्ततः ॥

6.2.119

रसेन लिम्पेत्ताल्वास्यं नेत्रे च परिषेचयेत् ।
हरीतकीवचाकुष्ठकल्कं माक्षिकसंयुतम् ।
पीत्वा कुमारः स्तन्येन मुच्यते तालुकण्टकात् ॥

6.2.120

मस्तुलुङ्गक्षयाद्यस्य वायुस्ताल्वस्थि नामयेत् ।
तस्य तृड्दैन्ययुक्तस्य सर्पिर्मधुरकैः शृतम् ।
पानाभ्यञ्जनयोर्योज्यमुद्वेगश्चहिमाम्बुना ॥

6.2.121

मलोपलेपात् स्वेदाद्वा गुदे रक्तकफोद्भवः ।
ताम्रो व्रणो ऽन्तः कण्डूमान् जायते भूर्युपद्रवः ॥

6.2.122

केचित्तं मातृकादोषं वदन्त्यन्ये तु पौतनम् ।
पृष्ठारुर्गुदकुट्टं च केचिच्च तमनामकम् ॥

6.2.123

तत्र धात्र्याः पयः शोध्यं पित्तश्लेष्महरौषधैः ।
सितशीतं च शीताम्बुयुक्तमन्तरपानकम् ॥

6.2.124

सक्षौद्रतार्क्ष्यशैलेन व्रणं तेन च लेपयेत् ।
त्रिफलाबदरीप्लक्षत्वक्वाथपरिषेचितम् ॥

6.2.125

कासीसरोचनातुत्थमनोह्वालरसाञ्जनैः ।
लेपयेदम्लपिष्टैर्वा चूर्णितैर्वावचूर्णयेत् ॥

6.2.126

सुश्लक्ष्णैरस्थवा यष्टीशङ्खसौवीरकाञ्जनैः ।
सारिवाशङ्खनाभिभ्यामसनस्य त्वचाथ वा ॥

6.2.127

रागकण्डूत्कटे कुर्याद्रक्तस्रावं जलौकसा ।
सर्वं च पित्तव्रणजिच्छस्यते गुदकुट्टके ॥

6.2.128

अनामस्थौल्यपित्तास्रकण्डूगण्डगलामये ।
उदरात्युन्नतौ चेष्टं तार्क्ष्यमन्तरपानकम् ॥

6.2.129

गृह्णाति सूतिकागारे न स्तनं चेत् स्पृशेत्ततः ।
पथ्याधात्रीफलकणैर्जिह्वां सघृतमाक्षिकैः ॥

6.2.130

पिप्पलीत्रिफलाचूर्णं घृतक्षौद्रपरिप्लुतम् ।
रुदते त्रस्यते वापि लेहं दद्यात् सुखावहम् ॥

6.2.131

प्रदीप्ताङ्गाररजसा प्रशान्तेनावचूर्णयेत् ।
पञ्चमे ऽह्न्यपातन्नालं लेपयेद्वा गुडाम्भसा ॥

6.2.132

सान्द्रेण भूमौ घृष्टेन नालपाते ऽपि चोन्नताम् ।
नाभिं छागेन शकृता दग्धेनान्तर्विचूर्णयेत् ॥

6.2.133

अश्वगन्धाज्जनाजाविविड्यष्टीमधुकादिभिः ।
रोपयेच्चूर्णितैर्नाभिं स्नेहयुक्तैरनुन्नताम् ॥

6.2.134

यष्टीलोध्रनिशाश्यामाकल्कपक्वेन सेचयेत् ।
नाभिं पाके तु तैलेन तच्चूर्णेश्चावचूर्णयेत् ॥

6.2.135

वातेनाध्मापितां नाभिं सरुजां तुण्डिसंज्ञिताम् ।
मारुतघ्नैः प्रशम्येत् स्नेहस्वेदोपनाहनैः ॥

6.2.136

असम्यक्कल्पनान्नाभेः स्याद्विनामो विजृम्भिका ।
वातपित्तहरं कर्म तत्रान्तर्बहिराचरेत् ॥

6.2.137

गर्भाम्भसामवमनाच्श्लेष्मणः कण्ठगस्य वा ।
सम्पर्काद्धृदये दुष्टो मार्गानावृणुते रसः ॥

6.2.138

बद्धमुष्टिस्ततो मुह्यन्रोगैर्बालो ऽभिभूयते ।
हृद्रोगाक्षेपकश्वासकासच्छर्दिज्वरादिभिः ।
उल्बकं सहजं व्याधिमम्बुपूर्णं च तं वदेत् ॥

6.2.139

स्रोतोविशोधनं प्रातस्तस्मिन्नन्तरपानकम् ।
विदध्याच्छागलं मूत्रं स्नानाभ्यङ्गौ च वर्जयेत् ॥

6.2.140

बिल्वादिमूलबृहतीपञ्चकोलं पलांशकम् ।
धन्वमांसपलान्यष्टौ शशमूर्ध्नः पलाष्टकम् ॥

6.2.141

साधयेत् षोडशगुणे सलिले ऽष्टांशशेषितम् ।
तेन क्वाथेन कर्षांशैर्घृतप्रस्थं विपाचयेत् ॥

6.2.142

छगलीमूत्रमदिरादधिक्षीरसमांशकम् ।
विडङ्गसैन्धवाजाजीचविकादेवदारुभिः ॥

6.2.143

सहिंस्राहिङ्गुलशुनैः सव्योषैः श्लक्ष्णकल्कितैः ।
तत् पानाद्धन्ति सहजगुल्महिध्मानिलामयान् ।
पाण्डुरोगं च वातोत्थं स्वस्थवृत्ते च पुष्टिदम् ॥

6.2.144

परिदग्धच्छविं बालं दिह्याद्दूर्वातिलोत्पलैः ।
शमीपत्रशिरीषत्वक्सारिवामधुकाभयैः ॥

6.2.145

मूर्वाधात्रीनिशाचूर्णं मूत्रेण मधुमत् पिबेत् ।
पाण्डुरोगी शृतं सर्पिर्वराभृङ्गरसेन वा ॥

6.2.146

पाठावेल्लद्विरजनीमुस्ताभार्ङ्गीपुनर्नवैः ।
सबिल्वत्र्यूषणैः सर्पिर्वृश्चिकालीयुतैः शृतम् ।
लिहानो मात्रया रोगैर्मुच्यते मृत्तिकोद्भवैः ॥

6.2.147

व्याधेर्यद्यस्य भैषज्यं स्तस्तेन प्रलेपितः ।
स्थितो मुहूर्तं धौतो ऽनु पीतस्तं तं जयेत् गदम् ॥

6.2.148

ग्रहैरपि हि जायन्ते प्रच्छन्नैर्व्याधयः शिशोः ।
कर्म शस्तमतस्तेषु दैवयुक्त्याश्रयं सदा ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc