अष्टाङ्गसंग्रह · अध्याय 6.28
अथातः शिरोरोगप्रतिषेधं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
वातजे शिरोभितापे वातव्याधिविहितं कुर्यात् ।
निवातस्थं च नक्तमभ्यक्तशिरसं सर्पिः पयोनुपानं तैलं वा पाययेत् ।
माषान् वा ससर्पिष्कानुष्णपयोनुपानान् भक्षयेत् ।
तद्वद्वा मुद्गान् ॥
आनूपपिशितवेशवारेण यवतिलमुद्गमाषकुलत्थकुष्ठदारुहरिद्रातसीसैन्धवर्वा महास्नेहवतीमुत्कारिकां दत्वा शिरो वेष्टयेत् ।
ततः प्रत्यूषे दशमूलसिद्धेन पयसा कवोष्णेन परिषेकं कुर्यात् ।
तत्सिद्धैश्च पायसैः पिण्डस्वेदं लेपं वा ॥
कूर्ममहिषवराहकुक्कुटशल्लकीनां वसा ससैन्धवा नस्यं शिरःकर्णपूरणं च ।
तथैव च पञ्चमूलबलासारिवाद्वयक्वाथे मधुकजीवकर्षभकपुनर्नवगर्भं सपयः सर्पिस्तैलं चैकतो विपक्वम् ॥
कार्पासमज्जत्वङ्मुस्तासुमनःकोरकाण्युष्णाम्बुपिष्टानि नावनं सर्वशिरोरुजाघ्नम् ।
तद्वत् त्वक्पत्रशर्कराशिग्रुकरञ्जबीजानि ।
तथा चन्दनोत्पलतगरकुष्ठैः सघृतैर्लेपः ।
देवदारुकुष्ठचोरकयष्टीमधुककमलनीलोत्पलैलाप्रपौण्डरीकैश्च ॥
कुङ्कुमशर्करासंस्कृतमाज्यं रक्तपित्तानुबन्धे मर्शः ।
न चात्र रक्तमवसेचयेद्वातोद्रेकभयात् ।
स्नैहिकं धूमं पिबेत् ।
शिरोबस्तिं च शीलयेत् ।
बस्तिकर्म चाचरेत् ॥
एवमसिद्धौ वातजे श्लेष्मजे च यथोक्तो दाहः ॥
अर्धावभेदकेप्ययमेव विधिः ।
निर्गुण्डीपत्ररसश्च सघृतमण्डसैन्धवो नस्यम् ।
शिरीषमूलफलानि वा ।
सारिवोत्पलकुष्ठवचामधुकपिप्पलीभिः सतैलाम्लो लेपः ।
अशाम्यति दोषानुबन्धमवेक्ष्य प्रतिकुर्वीत ॥
सूर्यावर्तेत्वयमेव विधिः विशेषतस्तु सिरामोक्षः ॥
पित्तजे रक्तजे च शिरोभितापे स्निग्धस्य सिरां विध्येत् ।
कायं च विरेचयेत् ।
सुशीतैः शतधौतघृतान्वितैः शिरो वक्त्रं सिञ्चेत् प्रदिह्याच्च ॥
चन्दनसारिवामधुकदूर्वोत्पलप्रपौण्डरीकमञ्जिष्ठाविदारीभिः सक्षीरं सर्पिर्विपाचितं नावनं शिरोबस्तिश्च ।
जीवनीयविपक्वात् पयसो नवनीतमुद्धृत्य जीवनीयक्वाथकल्काभ्यां पाचितं पानभोजननस्याभ्यङ्गबस्तिषु प्रणीतं पित्तरक्तजान् सर्वान्विकारान् साधयति ।
जीवनीयगर्भं षोडशगुणे पयसि सिद्धमाज्यं वा ॥
क्षीरेक्षुजाङ्गलरसखर्जूरद्राक्षाकशेरुकमृणालसिद्धः सर्पिर्मण्डो ऽनुवासनम् ।
अञ्जनादिवर्गशृतं क्षीरमास्थापनम् ॥
शङ्खकं प्रत्याख्यायैवमेवोपचरेत् ।
विसर्पवच्च ।
विशेषतस्तु कृष्णतिलशतावरीनीलोत्पलमूर्वापुनर्नवैर्लेपः ॥
कफजे शिरोभितापे लङ्घयेत् ।
पुराणसर्पिस्निग्धं वा वामयेत् ।
स्वेदः पिण्डेन रूक्षेण ।
शिग्रुनिम्बैरण्डक्वाथेन वा नाडीस्वेदः ॥
देवकाष्ठकुष्ठशार्ङ्गेष्टासरलरोहिषैः सलवणैः सुखोष्णैरालेपः ।
यवचूर्णमधुकचन्दनहरिद्राकुष्ठप्रियङ्गुशतपुष्पासुरदारुभिस्तैलाजक्षीरयुक्तैः ससैन्धवैरुपनाहः ॥
विडङ्गतैलं नस्यं सार्षपं वा तदेव वा व्योषसिद्धम् मधूकसारकल्को वा मधुयुतस्त्वग्वा मेषशृङ्ग्या इङ्गुदस्य वा ।
एभिरेव च धूमवर्तिः ॥
शिरोविरेचनद्रव्यैर्वा सूत्रस्थानौक्तैः प्रधमनम् ।
तैरेव च पक्वं तैलं मर्शः प्रतिमर्शो वा ॥
शिरोविरेचनान्ते कर्णनादोक्तं स्नेहनस्यम् ।
तीक्ष्णाः कवलाः मनश्शिलानलदतुत्थकासीसचूर्णः ससर्पिष्को धूमः ।
नलदचूर्णस्य च मुहुर्मुहुराघ्राणनम् ॥
सन्निपाते व्यामिश्रो विधिः ॥
कृमिजे दुरालभासुरदारुरोहिषपूतीकत्रिफलाकट्फलवचात्रिकटुकैरजामूत्र्युक्तं सर्पिः पक्वं पानम् ।
उपस्निग्धस्विन्नस्य देवदारुपूतीककटभीसर्षपविडङ्गतिलकण्टकविपक्वेन तैलेन शिरः कर्णौ चाभ्यज्य स्वेदयेत् ॥
ततः कृमिमूर्च्छनार्थमसृङ्नस्तोवसेचयेत् ।
ततो रुधिरगन्धमदेन प्राविसृताः सप्तच्छदस्य त्वग्रसेन पुष्परसेन वानन्तरनिषिक्तेन कृमयः पतन्ति ॥
सरलदेवदारुकट्फलसर्षपापामार्गक्षवककटुकालाबुसुरसबीजपिप्पलीतण्डुलचूर्णंस्तत्पक्वं वा तैलं सद्यः कृमीन् निरस्यति ।
विडङ्गतण्डुला वाजिमूत्रपिष्टाः शिरीषबीजानि वा छागमूत्रपिष्टानि ।
पुष्करमध्यबीजानि वा ॥
गोमांसेन छागमांसेन वा वसापिष्टेन यवागूं कृत्वा शिरो विलेपयेत् ।
ततो निम्बार्कवंशसुरसकुटजकरञ्जकरवीरपत्रक्वाथेन सेचयेत् ।
अजामूत्रेण वा कवोष्णेन ।
पूतिमत्स्ययुताश्च धूमाः ॥
एवं कृमिष्वपगतेषु तेजोवतीपूतीकबिम्बीसुरसनक्तमालविडङ्गहरीतकीसर्षपार्ककरवीरमूलमालतीदेवदारुक्षवकमुस्तफणिज्जकपिप्पलीशतपुष्पामधूकशणनिम्बसारकल्कैरजामूत्रयुतैः सार्षपं तैलमैङ्गुदं पैलुकं वा विपक्वं युक्त्या नावनम् ॥
न तु जातुरुधिरमवसेचयेत् ।
जन्तुभिः पीतशोणिते हि शिरसि पुनरस्रावसेकादकाण्डे मृत्युः स्यात् ।
कृमिचिकित्सितं चेक्षेत् ॥
शिरः कम्पमक्षीणस्यान्यव्याध्यनुपद्रुतस्य दाहवर्ज्यं मारुतविधानेनोपक्रमेत ॥
उपशीर्षके जन्मोत्तरकालजाते नवोत्थिते वातव्याधिविहितान् स्नेहान् पाननावनाभ्यञ्जनेषु योजयेत् ।
अभ्यक्तं च स्वेदयित्वोपनाहयेद्यथा विदाहो न भवति ।
विदाहे विद्रधिवत् कर्म ॥
पिटकार्बुदविद्रधिषु यथास्वमाचरेत् ।
व्रणीभूतासु पिटकासु निम्बनिशामधुकधात्रीफलैर्विपक्वं तैलं शोधनरोपणम् ॥
मूर्वाचन्दनसारिवाधातकीकान्तालोध्रमधुकसमङ्गापद्मकेसरशतपर्वकंमूलैर्विद्रधिषु ।
एभिरेव च सिद्धं सर्पिर्नस्यम् ।
रूढं तु विद्रधौ यदि त्वक् सुप्तेव भवति ततो वामयेत् ।
उपस्निग्धं च विरेचयेत् ॥
अरूंषिकासु जलौकोपहृतशोणितं शिरः क्षुरामृष्टं वा निम्बोदकेन परिषिच्याश्वशकृद्रसेन लवणप्रगाढेन लेपयेत् ।
किञ्चित् कालं स्थितं चोष्णोदकाम्लकाञ्जिकान्यतरधौतं विडङ्गव्योषलाक्षागारधूममनोह्वालवचारसाञ्जनहरिद्राद्वयैरालिम्पेत् ।
तिलमष्या वा स्नुहीक्षीरयुक्तया ।
मधुकोत्पलतिलैरण्डमार्कवपत्रैर्वा ।
शिग्रुमूलकसर्षपबीजैर्वा गोमूत्रपिष्टैः ।
वालकामलकनागरमूलकसर्षपबीजैर्वा क्षीरपिष्टैः ।
शिरीषत्वग्यष्टीमधुकाभ्यां वा ।
पुराणपिण्याककुक्कुटपुरीषाभ्यां वा ॥
कपालभृष्टकुष्ठचूर्णं तैलयुक्तं कण्डूक्लेददाहस्वेदवेदनाघ्नम् ।
तथा चाचोक्तं चित्रकादितैलमभ्यञ्जनम् ।
दन्तीपाठाकोशातकीचित्रकातिविषामहालाङ्गलकीसिद्धं तैलं व्रणाभ्यङ्गः ॥
मनश्शिलैलाहरितालपिप्पलीकुष्ठकासीसहरिद्राकरञ्जमुस्तातगरविडङ्गंचित्रकसिद्धार्थककरवीरमूलचूर्णगर्भं तैलमादित्यपाकं व्रणरोपणम् ।
एवमनुपशमे वमनधूमकायशिरोविरेकान् कुर्यात् ॥
दारणके ललाटे सिरां विध्येत् ।
अभ्यङ्गस्नाननावनानि च शीलयेत् प्रियालबीजमधुककुष्ठमाषसर्षपैः सक्षौद्रैर्लेपः ।
कोद्रवतृणक्षाराम्भः प्रक्षालनम् ॥
इन्द्रलुप्ते यथासन्नं सिरां विध्वा तुत्थकासीसमनश्शिलामरिचैर्लेपयेत् ।
भद्रदारुकुटन्नटाभ्यां वा चित्रककरवीरनक्तमालमालतीसिद्धेन वा तैलेनाभ्यज्यात् ॥
अवगाढपदं वा सूचीकूर्चकेन प्रच्छाय भूयोभूयः प्रदिह्यात् कपोतपङ्कामूलेन लाङ्गीलकामूलेन वा महिषीक्षीरपिष्टेन ॥
घृष्टलिप्तमेरण्डपत्रावच्छादितं रात्रिमुषितं माहिषनवनीतेन लिम्पेत् ।
मार्कवपत्रसहचरपुष्पपक्वं वा ।
वार्ताकफलैस्तैलं पक्वं क्षौद्राञ्जनयुक्तमालेपः ।
सक्षौद्रो वा क्षुद्रवार्ताकरसः ।
जलशूलो वा पलाशक्षारसान्द्रः ॥
गोशकृता वा घृष्टमिन्द्रलुप्तमरुष्कररसेनावलिप्यान्तर्धूमदग्धकूर्ममष्यावचूर्णयेत् ।
कूर्मकपालभस्मना वा सुरसारसाक्तेन प्रदिह्यात् ।
हस्तिदन्तमष्या वा तैलान्वितया ।
पूतीकरञ्जप्रत्राणि वा ससैन्धवानि लेपः ।
पिप्पल्यञ्जनरसाञ्जनबाकुचिकाफललोहरजांसि वा गोमूत्रपिष्टानि ।
खलतिविहितानि चाचरेत् ।
सलिलसेकमारोमोद्गमात् परिहरेत् ॥
खलताविन्द्रलुप्तोक्तः क्रमो यथादोषं च संशुद्धिः ॥
त्रिफलार्जुनसैर्यकत्वक्पुष्पकृष्णपिण्डीतकफलमूलनीलोत्पललोहचूर्णकासीसजम्वूमार्कवमञ्जिष्ठामेषशृङ्गीखदिररजः सकर्दममर्दितोक्ताणुतैलयुक्तमसन सारसमुद्गके न्यस्तं कर्दमे मासं निखातं स्थितमुद्धृतं सूचीकूर्चप्रच्छितायाः खलतेर्लेपः परं रोमसञ्जननः ॥
रक्ताग्निमन्थपुष्पकिंशुकनलदमूलमधुकहस्तिदन्तभस्मान्यविक्षीरपिष्टानि लेपः ॥
जम्बूद्वयत्वक्पत्रमधुकभृङ्गरजास्त्रिफलाश्लेष्मातकमञ्जिष्ठाफणिज्जकबलाद्राक्षाजशृङ्गीचपलातिविषाकट्फलकल्केन क्षीरिवृक्षक्काथेन च तिलतैलमक्षतैलं चैकध्यं साधयेत् तन्नस्ये ऽभ्यङ्गे च नियुञ्ज्यात् ।
एवमेव मधुरवर्गकल्केन ॥
खलतिपलितयोश्च प्रयोगान् परस्परं विदध्यात् ।
अकालपलितेषु वातादीनवेक्ष्य स्नेहस्वेदसंशो धनास्रविस्रावणानि कुर्यात् ।
ततोस्यार्दितप्रोक्तमणुतैलं नस्यमभ्यञ्जनं च ॥
मधुकामलकमाक्षिकैः केशमूलानि लिम्पेत् ।
तिलामलकक्षौद्रतैलैर्वा ।
तुत्थकाम्रजम्ब्वस्थिकासीसकिट्टशर्कराभिर्वा ।
सैर्यकपुष्पनीलिनीत्रिफलाभृङ्गरजोभिर्वा कृष्णाजमूत्रपिष्टैः ॥
असनपुष्पपत्रमये पात्रे बहिरामलकीकल्कप्रदिग्धे निहितमक्षतैलं षण्मासं व्रीहिपल्ले स्थितमभ्यङ्गान्नावनाच्च पलितं जयति ।
अयमेव कल्पः सैरीयकेपि ॥
कपिकच्छूफलमूलगर्भमक्षतैलं सिद्धमयःपात्रे पूर्ववत् स्थितं समानं पूर्वेण ॥
रामतरणीमूलपलद्वयं यष्टीमधुकपलं सारिवार्धपलमेकत्रजर्जरीकृतमक्षतैलपलैर्दशभिराप्लुतं लोहभाजने दशाहं दिवसकरकरप्रतप्तं नावनात् पलितघ्नं सर्वेन्द्रियदार्ढ्यावहं च ॥
कृष्णातिलतिलपर्णीत्रिफलामधुककासीसपद्मककर्दममांसीमार्कवमसनपत्रस्वरसपिष्टं त्रिरात्रमयः पात्रे स्थापयेत् ।
ततः पूर्वोक्तरसद्रुतेन पद्मिनीकर्दमप्रलिप्तप्तधौतान् केशान् कपालं च लेपयेत् ।
ततः पद्मिनीकर्दमैः प्रच्छाद्य कौशेयेन वेष्टयेत् ।
तृतीये चाह्नि प्रक्षाल्यैवमेव कुर्यात् ।
एवमलिकुलनीलाः केशाः शिरो विभूषयन्ति ।
भवति चात्र ॥
खलतौ पलिते वल्यां हरिल्लोम्नि च शोधितम् ।
नस्यवक्त्रशिरोभ्यङ्गप्रदेहैः समुपाचरेत् ॥
सिद्धं तैले बृहत्याद्यैर्जीवनीयैश्च नावनम् ॥
क्षीरात्साहचरात् भृङ्गरजसः सौरसाद्रसात् ।
प्रस्थस्तैलस्य कुडवो यष्टीमधुपलान्वितः ॥
सिद्धश्शैलासने भाण्डे शृङ्गे मेषस्य वा स्थितः ।
नस्यं स्यात् #
क्षीरपिष्टौ वा दुग्धिकाकरवीरकौ ।
उत्पाट्य पलितं देयावाशये पलितापहौ ॥
आदित्यवल्या मूलानि कृष्णसैरेयकस्य च ।
फलं कृष्णशणात्पत्रं सुरसाद्यष्टिमार्कवम् ॥
सुराह्वं काकमाची च पृथग्दशपलांशिकम् ।
प्रपौण्डरीकमञ्जिष्ठालोध्रकृष्णागरूत्पलम् ॥
आम्रास्थिकर्दमःकृष्णो मृणाली रक्तचन्दनम् ।
नीलीभल्लातकास्थीनि काससिं मदयन्तिका ॥
सोमराज्यसनं शस्त्रं कृष्णं पिण्डीतचित्रकौ ।
पुष्पाण्यर्जुनकाश्मर्या आमजम्बूफलाज्जनम् ॥
प्रत्येकं पञ्चपलिकं पिष्टं सत्रिफलाकणम् ।
अक्षतैलाढकं तेन पचेद्धात्रीरसार्मणे ॥
कुर्यादादित्यपाकं वा यावच्छुष्को भवेद्रसः ।
लोहपात्रे ततः पूतं महानीलं प्रयोजितम् ॥
तत्पाने नावने ऽभ्यङ्गे शुद्धस्य नियतात्मनः ।
सर्वजत्रूर्ध्वरोगघ्नं पलितघ्नं विशेषतः ।
एभिरेव च भैषज्यैः शिरो वक्त्रं च लेपयेत् ॥
क्षीरं प्रियालं यष्ट्याह्वं जीवनीयो गणस्तिलाः ।
कृष्णाः प्रलेपो वक्त्रस्य हरिल्लोमवलीहितः ॥
तिलाः सामलकाः पद्मकिञ्जिल्को मधुकं मधु ।
बृंहयेद्रञ्जयेच्चैतत् केशान् मूर्ध्नः प्रलेपनात् ॥
पचेत् सैन्धवशुक्ताम्लैरयश्चूर्णं सतण्डुलम् ।
तेनालिप्तं शिरः शुद्धमस्निग्धमुषितं निशाम् ।
तत्प्रातस्त्रिफलौधातं स्यात्कृष्णस्निग्धमूर्द्धजम् ॥
अयश्चूर्णो ऽम्लपिष्टश्च रागः सत्रिफलो वरः ॥
कन्यायास्तिलनिम्बवीजमधुकश्रेष्ठावचामार्कवात् ।
चूर्णछागलगव्यमाहिषपलस्नेहेन सम्प्लावितम् ।
पात्रे स्थापितमायसे क्षितितले मासं निधायोद्धृतं ।
पालित्यं खलतिं च दर्पणनिभां हन्त्येतदभ्यञ्जनात् ॥
बीजैःश्लेष्मातकस्य व्यपगमिततुषैःकाञ्जिकश्लक्ष्णपिष्टैर्यल्लिप्ताल्लोहदण्डाद्दिनकरकिरणैस्तापितात् प्रच्यवेत ।
तत्तैलं केशकार्ष्ण्यं जनयति परमं नावनाभ्यञ्जनाभ्यां मूर्द्धघ्राणाक्षिदन्तश्रवणगलरुजं हन्ति निश्शेषतश्च ॥
बलामधूकमधुकविदारीचन्दनोत्पलैः ।
जीवकर्षभकद्राक्षाशर्कराभिश्च साधितः ॥
प्रस्थस्तैलस्य सक्षीरो जाङ्गलार्धतुलारसे ।
नस्यं सर्वोर्ध्वजत्रूत्थवातपित्तामयापहम् ॥
मयूरं पक्षपित्तान्त्रपादविट्तुण्डवर्जितम् ।
दशमूलबलारास्नामधुकैस्त्रिफलैर्युतम् ॥
जले पक्त्वा घृतप्रस्थं तस्मिन् क्षीरसमं पचेत् ।
कल्कितैर्मधुरद्रव्यैः सर्वजत्रूर्ध्वरोगनित् ।
तदभ्यासीकृतं पानबस्त्यभ्यञ्जननावनैः ॥
एतेनैवकषायेण घृतप्रस्थं विपाचयेत् ।
चतुर्गुणेनपयसा कल्कैरेभिश्च कार्षिकैः ॥
जीवन्तीत्रिफलामेदामृद्वीकर्द्धिपरूपकैः ।
समङ्गाचविकाभार्ङ्गीकाश्मरीकर्कटाह्वयैः ॥
आत्मगुप्तामहामेदातालखर्जूरमस्तकैः ।
मृणालबिसखर्जूरयष्टीमधुकजीवकैः ॥
शतावरीविदारीक्षुबृहतीसारिबायुगैः ।
मूर्वाश्वदंष्ट्रर्षभकशृङ्गाटककशेरुकैः ॥
रास्नास्थिरातामलकीसूक्ष्मैलाशठिपौष्करैः ।
पुनर्नवातवक्षीरीकाकोलीधन्वयासकैः ॥
मधुकाक्षोडवाताममुञ्जाताभिषुकैरपि ।
महामाधूरमित्येतन्मायूरादधिकं गुणैः ॥
धात्विन्द्रियस्वरभ्रंशश्वासकासार्दितापहम् ।
योन्यसृक्शुक्रदोषेषु शस्तं वन्ध्यासुतप्रदम् ॥
आखुभिः कुक्कुटैर्हंसैः शशैश्चेति प्रकल्पयेत् ॥
जत्रूर्ध्वजानां व्याधीनामेकत्रिंशच्छतद्वयम् ।
परस्परमसङ्कीर्णं विस्तरेण प्रकाशितम् ॥
ऊर्ध्वमूलमधःशाखमृषयः पुरुषं विदुः ।
मूलप्रहारिणस्तस्माद्रोगान् शीघ्रतरं जयेत् ॥
सर्वेन्द्रियाणि येनास्मिन् प्राणा येन च संश्रिताः ।
तेन तस्योत्तमाग्गस्य रक्षायामादृतो भवेत् ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0